________________
ઉપસંપદ સામાચારી
ननु यदि मङ्गलमपि मङ्गलबुद्ध्याऽगृह्यमाणं, अमङ्गलबुद्ध्या वा गृह्यमाणं मङ्गलकार्यकारि न भवति । तदाऽमङ्गलमपि मङ्गलबुद्ध्या गृह्यमाणममङ्गलकार्यकारि न भविष्यति । इत्थञ्च सज्जनाः सर्वेष्वमङ्गलेषु मङ्गलबुद्धिमेव करिष्यन्ति । येनामङ्गलजन्याः प्रत्यवायाः न स्युः । न चैतद्युक्तं प्रतिभातीति चेत् न,
यथा हि चिन्तामणिरत्नं कर्करमिव मन्यमानो जडः श्वादीनां हननार्थं प्रक्षिपेत्, ततश्च चिन्तामणिरत्नं जडं प्रति कर्करकार्यकार्येव भवति, न तु चिन्तामणिरत्नकार्यकारि । एवमेव मङ्गलमपि जडं प्रति मङ्गलकार्यकार नैव भवति ।
किन्तु कर्करमेव चिन्तामणिरत्नमिव यो जडो मन्यते, तं प्रति स कर्करश्चिन्तामणिरत्नकार्यकारि नैव भवति । एवमेवामङ्गलमेव मङ्गलमिव यो जडो मन्यते, तं प्रति तदमङ्गलं मङ्गलकार्यकारि नैव भवतीति न सज्जना अमङ्गलेषु मङ्गलबुद्धिं कुर्वन्ति । तस्मान्न कश्चिद्दोषः ।
ननु तथापि शास्त्रस्य प्रथमकारिकायामेवेष्टदेवतानमस्काररूपं मङ्गलं ग्रन्थकारः करोत्येव । तत्र च श्रोतॄणामपि स एव नमस्कारो मङ्गलरूपो भविष्यति । एवञ्च कायोत्सर्गकरणन्तु निरर्थकमेव । यतः इष्टदेवतानमस्काररूपादेव मङ्गलात्शास्त्रे मङ्गलत्वबुद्धिस्तया च शास्त्रमङ्गलद्वारा विघ्नक्षयो भविष्यत्येवेति चेत् न, ग्रन्थारम्भे ग्रन्थकारेण क्रियमाणं मङ्गलं ग्रन्थकारमाश्रित्य प्रधानमपि श्रोतॄणामाश्रित्य तु गौणमेवेति तन्मङ्गलं श्रोतॄणां मनसि तथाविधभावस्य जनकं न भवति । तस्मात्तथाविधभावोत्पादनार्थं कायोत्सर्गकरणरूपं विशिष्टं मङ्गलमावश्यकमिति बोध्यम् ॥६९॥
" कायोत्सगानन्तरं ते किं कुर्वन्ति ?" इत्याह ।
वंदिय ततो वि गुरुं णच्चासणे य णाइदूरे अ । ठाणे ठिया सुसीसा विहिणा वयणं पडिच्छंति ॥७०॥
कायोत्सर्गकरणानन्तरं पुनः सर्वे श्रोतारोऽर्थव्याख्यातारं वन्दन्ते । ततश्चार्थव्याख्यातुरतिनिकटेऽतिदूरे वा स्थाने नोपविशन्ति । किन्तु यथोचितस्थाने उपविशन्ति । अतिनिकटे उपवेशनेऽर्थव्याख्यातुराशातना भवेत् । अतिदूरे चोपवेशनेऽर्थव्याख्यातुर्वचनानि श्रवणकोटरे न प्रविशेयुः । तस्माद्यत्र स्थाने उपवेशनेऽर्थव्याख्या तुराशातना न भवेत्, सम्यक्श्रवणञ्च स्यात् । तत्रैव ते उपविशन्ति । ततश्चेवमुचिते स्थाने स्थिताः सुशिष्याः निद्रां विकथाञ्च परित्यज्याञ्जलियोजनं कृत्वा भक्तिबहुमानाभ्यां गुरुवचनं शृण्वन्ति । विस्मितमुखाश्च ते भवन्ति । अपूर्वपदार्थस्य श्रवणे हृदयेऽमन्दानन्दं प्राप्नुवन्तस्ते तथाविधमुखचेष्टादिद्वारा गुरोर्मनस्यपि हर्षं जनयन्ति । यथा चार्थव्याख्यातुर्गुरोः परितोषो वर्धेत, तथैव ते विनयादिकं कुर्वन्ति । एवञ्चानया रीत्या शृण्वन्तः सुशिष्याः शीघ्रमेवेष्टानां सूत्रार्थानां पारं प्राप्नुवन्ति ॥ ७० ॥
वक्खाणंमि समत्ते काइयजोगे कयंमि वंदंति । अणुभासगमन्त्रे पुण वयंति गुरुवंदणावसरे ॥७१॥
यदाऽर्थव्याख्यानं समाप्तं भवति । तदा प्रथमं ते साधवो वन्दनमकृत्वैव प्रश्रवणार्थं गच्छन्ति । यतो मुहूर्तकालात्ते तत्र स्थिताः, ततश्च केषाञ्चित्प्रश्रवणाशङ्का भवेदेव । एवञ्च प्रश्रवणयोगं कृत्वा ते सर्वे गुरुणा कृतस्य अर्थव्याख्यानस्य पुनरावर्तनं कारयन्तमनुभाषकनामानं साधुं द्वादशावर्तवन्दनेन वन्दन्ते ।
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २०१