SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ EEEEEEEEEEEEEEEEEEEEEEEE. REEEEEEEEEEEEEEEEEE FEEEEE MEANINITIERRIERRIERRIERRIEROIN संपE सामायारी न हि रत्नवणिजोऽपि सततमेव रत्नव्यापारं कुर्वन्ति । किन्तु रात्रौ प्रहरद्वयं यावन्निद्रां कृत्वा, भोजनकाले भोजन कृत्वा स्वजनादिषु यथोचितं व्यवहारं कृत्वा योग्यकाल एव रत्नव्यापारं विदधति । एवं राजसभायां यथा । र सेवकस्य महता स्वरेण राज्ञो गुणानामनुमोदनं युक्तं भवति, तथा राज्ञो निद्राकाले किं तच्छोभनं भवेत् ? यथा । वा राजसभायां रत्नभृतायाः स्थाल्याः समर्पणं शोभते, तथा भोजनकाले भोजनार्थमुपविष्टस्य राज्ञ अग्रे रत्नभृतायाः स्थाल्याः स्थापनं किं युक्तं भवेत् ? तस्माद्गुरुणाऽपि व्याख्यानकाल एव व्याख्यानकरणं श्रेयः ।। प्रतिक्रमणकाले तु प्रतिक्रमणम् । प्रायश्चित्तप्रदानादिकाले तु प्रायश्चित्तप्रदानादिकरणम् । ततश्चार्थव्याख्यानकालेऽन्यकार्ये शक्तिं व्यापारयन् गुरुर्न यथोचितं लाभमाप्नोति, प्रत्युत दोषभाग्भवति । तस्मादर्थव्याख्यानकाले गुरुणा स्वशक्तिस्तत्रैव व्यापारणीयेति हृदयम् । किञ्च यथा दीर्घकालं यावत् रत्नव्यापारे एव प्रवृत्तिं कुर्वाणास्तत्रैव निष्णाता भवन्ति । ततश्च यदि ते वस्त्रादिव्यापारे प्रवर्तेरन्, तदा तु तत्र तेषां निपुणता नास्तीति कृत्वा ते तत्र भृशं प्रयतमाना अपि न सफलतां। प्राप्नोति । एवमेव येऽर्थव्याख्याने एव निष्णाताः सञ्जाताः । तत्रैव चिरकालं यावत्प्रवृतिं कुर्वाणाश्च वर्तन्ते ।। तेषामर्थव्याख्यानकालेऽन्यकार्येषु निपुणतैव नास्तीति कृत्वा ते तत्र सफलतां नैवाप्नुवन्ति । ____ रत्नवणिजोऽपि हि मुख्यवृत्या रत्नव्यापारमेव कुर्वन्ति । गौणवृत्या तु परानपि व्यापारान्विदधति ।। एवमेवार्थव्याख्याताऽपि मुख्यवृत्याऽर्थव्याख्यानमेव विदधाति । गौणवृत्या त्वन्यान्योगान्परिपालयतीति मुख्ययोगं त्यक्त्वा गौणयोगेषु प्रवृत्तिः न विशिष्टफलदायिका भवेदिति दृष्टव्यम् । सर्वथैवार्थव्याख्यानशक्तेरभावे तु गुरोरर्थव्याख्यानमकृत्वाऽन्यस्मिन्कार्ये स्वशक्त्यनुसारिणी प्रवृत्तिन चारित्रविशुद्धेः प्रतिबन्धिकेत्यपि बोध्यम्। ____ किंबहुना ? यो हि यदा यत्र कार्येऽधिकारी भवति, स तदा तदेव कार्यं कुर्वन् विवेकी गण्यते । तदितरस्तु। शोभनमपि कार्यं कुर्वाणो नैव विवेकीति विवेकः ॥६॥ प्रसङ्गतः कश्चित्पदार्थान्प्रतिपाद्य पुनरप्यर्थव्याख्यानविधि प्रदर्शयति । वंदति तओ सव्वे वक्खाणं किर सुणंति जावइया । तत्तो काउस्सग्गं करेंति सव्वे अविग्घट्ठा ॥६८॥ __ तत्र यावन्तः साधवोऽर्थव्याख्यानं शृण्वन्ति, ते सर्वे एव द्वादशावर्तवन्दनेन गुरुं वन्दन्ते । ततश्चोत्पन्नानां विघ्नानां क्षयार्थमनुत्पन्नानाञ्चोत्पत्स्यमानानां विघ्नानामनुत्पत्यर्थं कायोत्सर्गं कुर्वन्ति ॥६८॥ ननु विघ्नक्षयार्थं कायोत्सर्गस्वरूपं मङ्गलं क्रियते । किन्तु यस्य शास्त्रस्य विघ्नानां क्षयार्थं कायोत्सर्गरूपं मङ्गलं क्रियते । तदेव शास्त्रं स्वयं मंगलभूतं वर्तते । यतः शास्त्रमपि सर्वेषां विघ्नानां क्षयकरणार्थमेव क्रियते। विघ्नक्षयकारकञ्च शास्त्रं मङ्गलमेव । यदि च शास्त्रस्वरूपमङ्गलस्य विघ्नानां क्षयार्थमन्यन्मङ्गलमपेक्ष्यते, तर्हि तस्यापि मङ्गलस्य विघ्नानां क्षयार्थं तृतीयं मङ्गलं करणीयं स्यात् । तस्यापि तृतीयमङ्गलस्य विघ्नानां क्षयार्थं । चतुर्थमङ्गलं करणीयं स्यात् । इत्थञ्चानवस्था भवेत् । तस्मात् मङ्गलभूतस्य शास्त्रस्य विघ्नानां क्षर्यार्थमन्यमन्मङ्गलं नैव युक्तमिति चेत् न, जइवि हु मंगलभूयं सव्वं सत्थं तहावि सामण्णं । एयम्मि उविग्धखओ मंगलबुद्धीइइ एसो ॥६९॥ EEEEEE GessRGE CECECEEEE महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८८ Broomnamasama c ass80888888888000
SR No.022207
Book TitleSamachari Prakaran Part 02
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages278
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy