Book Title: Samachari Prakaran Part 02
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 200
________________ AMRITERARETTERTREETITIER BuसंपE सामायारी जिनप्रवचनस्य शिष्यस्य वा हानि कुर्वन्तीमाज्ञां ददाति । ततश्च तत्र तेषां शिष्याणां प्रथमो भङ्ग एव श्रेयान् । । ते यदि स्वमतिकल्पना किञ्चित्कदालम्बनमवलम्ब्य द्वितीयादिभङ्गेषु प्रवर्तेरन्, तदा ते गुर्वाज्ञाभडजका 8 महापापिनो भवन्ति । 20 यत्र च गुरवोऽगीतार्था असंविग्ना भवेयुः, तत्र तेषां ये विदितपरमार्थाः, गुरुपारतन्त्र्यस्य हृदयं जानानाः, क स्वच्छन्दतादोषं प्रति तिरस्कारवन्तो विशुद्धप्रज्ञा शिष्याः भवन्ति । ते एव द्वितीयादिभङ्गेषु प्रवर्तमानाः र प्रवचनाविच्छेदं कृत्वा महतीं निर्जरां प्राप्नुवन्ति । यद्यपि तेषां गुरवः प्रायोऽगीतार्था असंविग्नाश्च न भवन्ति । तथापि द्रव्यक्षेत्रकालभावविषमतामाश्रित्य सर्वत्र सर्वं संभवतीति न काचिदाशङ्काऽत्र करणीया । अत्रापि बहु । वक्तव्यं। किन्तु ग्रन्थविस्तरभयादेव न वच्मि ॥६१॥ ननु गुरोरनुज्ञां विनैव कार्यकारणे गुरुपारतन्त्र्यरूपचारित्रस्यैव भङ्गो भवेत् । ततश्च कथं गुर्वाज्ञाविरुद्धमाचरन्साधुर्विशुद्धिमान्भवेदित्याशङ्कां परिहर्तुमाह। कारणजायं पप्प य नाणिट्टाफला तया अणापुच्छा । एत्थय णेगमणयओ परोप्परं तारतम्मं वि ॥६२ प्राक्तनगाथायामुक्तमेव यदुत "प्रवचनविच्छेदो मा भूदित्याशयवान्नेव स साधुर्मुर्वाज्ञामुल्लङ्घयन्नपि दोषभाग्नैव भवति । प्रत्युत विशुद्धाध्यवसायेन निर्जरां प्राप्नोति । गुर्वाज्ञोल्लङ्घनं गुरोरनापृच्छा वा प्रवचनाविच्छेदादिपुष्टकारणं विना क्रियमाणमेवानिष्टफलं ददाति । तादृशकारणसद्भावे तु गुर्वाज्ञोल्लङ्घनं गुरोरनापृच्छा वा नैवानिष्टफलं जनयति" इति । व अत्र ह्यत्सर्गतोऽशुद्धेष्वप्यपवादतो विशुद्धेषु त्रिषु भङ्गेषु नैगमनयोऽपवादमार्गत्वरुपं समानतां विशुद्धेः प्रकर्षापकर्षलक्षणां तरतमताञ्च मन्यते । एतदर्थश्च नयप्रतिपादकेभ्यो ग्रन्थान्तरेभ्योऽवसेयः ॥६२॥ अत्र हि प्रसङ्गतो "गुरोः पार्वे केन विधिना सूत्रार्थग्रहणं क्रियत ?" इत्यर्थग्रहणस्य विधिं संक्षेपतो की दर्शयति । 1 इहयं अत्थग्गहणे विहि जिणवरेहिं पण्णतो । पुदिव उचिएठाणे पमज्जणा होइ कायव्वा ॥३॥ ___ अत्र हि सूत्रग्रहणस्य विधिर्न प्रतिपाद्यते । स तु ग्रन्थान्तरादवसेयः । केवलमत्रार्थग्रहणविधिरेव प्रदर्श्यते।। । तत्र प्रथमं यत्र स्थाने कोलाहलो न भवेत्, श्रावकादीनां गमनागमनाभ्यां विक्षेपो न भवेत्, अर्थदातुश्च पवनादिना प्रसन्नता भवेत्, तादृशेऽर्थोपदेशायोचिते स्थाने प्रमार्जना कर्तव्या। ननु प्रमार्जनाया किं फलं भवतीति चेत् ? शृणु । प्रमार्जना हि चारित्राचारोऽस्ति । अर्थग्रहणञ्च ज्ञानाचारः। ज्ञानाचारश्च चारित्राचारेण सह विरोधं विना पाल्यमान एव श्रेयान् । यदि हि चारित्राचारं विना ज्ञानाचार: पाल्यते, तदा तु स ज्ञानाचारोऽनाचार एव भवति । तस्माद्ज्ञानाचारोऽनाचारो मा भवतु श्रेयस्करश्च भवत्विति स्पृहावता भूमिप्रमार्जनेन चारित्राचारपालनमवश्यं कर्तव्यम् । यतश्च चारित्राचारं विना पाल्यमानो ज्ञानाचारोऽनाचारो भवति। तत एव वसतिसंप्रेक्षणं विना पूर्वधरविरचितानां ग्रन्थानामभ्यासरूपो ज्ञानाचारोऽनाचारो भवति । तृणसंघदृनादिदोषदुष्टे स्थाने शीघ्र स्थण्डिलं गत्वा दूरं निर्दोषस्थाने स्थण्डिलमगत्वा सेव्यमानो ज्ञानाचारोऽनाचारो भवति । दीर्घकालपर्यटनेन प्राप्यमाणां निर्दोषगोचरी त्यक्त्वाऽल्पकालेन प्राप्यमाणां सदोषां भिक्षां गृहीत्वा PoemRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRE महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८५ SarastraMERRRRRRRRRRRRRRRIERasERESOURUN000RRECEMB 3885603800cameric83c888888888888888830666038003880GGREERGEGREGOGGREGsa HECEEEEEEEEEEEEEEEEEEEEEEEEEEE FECCEC66

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278