Book Title: Samachari Prakaran Part 02
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
EEEEEEEEEEEEEEEEE
ENTERTAITREEEEEEEEEETTEERem GपसंपE साभायारी
संप्रति दशमी चरमा उपसम्पत्सामाचारी प्रारभ्यते । तयहीणकज्जगहणे वयणं उवसंपया उवगमस्स । सा पुण तिविहा नाणे दंसणे चरित्ते य ॥५७॥
यद्ज्ञानादि कार्यं यमाचार्यदिकं विना न सम्पद्यते, तज्ज्ञानादिकं कार्यं तदाचार्याधीनं कथ्यते । यथा दार्शनिकपदार्थपरिपूरितं सूत्रकृताङ्गशास्त्रममुकस्यैवाचार्यस्याधीनं यदि भवति, न चान्ये केऽप्याचार्या तदध्यापन
कर्तुं समर्था भवन्ति, तदा सूत्रकृताङ्गाध्ययनं तदाचार्याधीनं कथ्यते । तत्कार्यस्य ग्रहणार्थं तदाचार्यनिश्रां र स्वीकुर्वाण: साधुनिश्रास्वीकारकाले यद्वचनमभिदधाति यथा “भो आचार्याः । अहं युष्मत्समीपे युष्मदधीनं से सूत्रकृताङ्गाध्ययनं कर्तुमीहे, तदर्थञ्च भवच्छरणं स्वीकरोमि । अनुगृहाण मां । मह्यं निश्रां दत्वाऽध्यापयत र यूयम्" इत्यादि । तद्वचनमुपसंपत्सामाचारी कथ्यते ।
यदि हि कश्चित्साधुर्ज्ञानादिकार्यं विनैव स्वगच्छेऽवसीदन्परगच्छे वा कस्यचिदुपरि रागभावं बिभ्रत्परस्य निश्रां स्वीकुर्यात् तदा तद्वचनमुसंपत्सामाचारी न भवति । तथा ज्ञानादिकार्यार्थमपि निश्रास्वीकारवचनमनुक्त्वैव परस्याचार्यादेनिश्रां स्वीकृर्यात्तदापि सोपसंपत्सामाचारी न भवति ।
सा चोपसंपत्सामाचारी त्रिविधा भवति – आचारांगादिशास्त्रस्याध्ययनार्थं प्रथमोपसंपत्सामाचारी भवति ।। सम्यग्दर्शनस्य निर्मलतां कुर्वाणानां सम्मतितर्कादिग्रन्थानामध्ययनार्थं द्वितीयोपसंपत्सामाचारी भवति ।।
वैयावृत्यकरण-तपःकरणार्थञ्च तृतीयोसंपत्सामाचारी भवति । है अयमत्राशयः - साधवः प्रथमं तावत्स्वगच्छ एव गीतार्थादिसाधूनां पार्वे सर्वमध्ययनं कुर्वन्ति,
वैयावृत्यादिकञ्च कुर्वन्ति । किन्तु यदा स्वगच्छे विशिष्टग्रन्थानामभ्यासं कारयितुं समर्थाः साधवो न भवन्ति । र यदा वा विशिष्टग्रन्थाभ्यासं कारयितुं समर्था अपि गीतार्थसाधवस्तथाविधानुभवरहिता भवन्ति । अन्यस्मिन्गच्छे
च तत्तद्ग्रन्थानां गूढरहस्यं जानाना अनुभविनः साधवो विद्यन्ते । तदा तादृशविशिष्टग्रन्थानामध्ययनार्थमेते साधवो गुरोरनुज्ञां गृहीत्वा परगच्छे गच्छन्ति । तत्र चार्यादीनां निश्रां गृहीत्वा तिष्ठन्ति, अध्ययनञ्च कुर्वन्ति ।। १ इत्थञ्चोपसंपत्सामाचारीपालनं संभवति । अत्रापि बहु वक्तव्यं, तदपि ग्रन्थविस्तरभयानोच्यते ॥५७॥
अधुना ज्ञानोपसंपदो दर्शनोपसंपदश्च भेदान् दर्शयति । वत्तणसंधणगहणे नाणे सुत्तत्थतदुभयं पप्प । एमेव दंसणंमि वि वत्तणमिहयं थिरीकरणं ॥५८॥ घडणं च संधणा किर तस्स पएसंतरम्मि णटुस्स । गहणं अपुव्वधरणं इहयं चउरो इमे भंगा ॥५९॥ । अत्र दृष्टान्तद्वारैव पदार्थः प्रतिपाद्यते, येन स्पष्टोऽवबोधः स्यात् । एकः साधुरुत्तराध्ययनादीनागमासे न्कंठस्थान् अकरोत् । किन्तु स्वगच्छेऽन्यस्य स्वतुल्याभ्यासं कुर्वाणस्याभावात्तेषामागमानां रात्रौ दिने वा
पुनरावर्तनं दुःशक्यं सञ्जातम् । यदि च तस्य दीर्घकालं यावत्पुनरावर्तनं न क्रियेत, तदा तेषां विस्मरणं भवेत्। र पूर्वं कृतः सर्वोऽपि प्रयत्नो निष्फल एव स्यात् । तस्मात्स साधुर्यत्र गच्छे तेषामागमानां पुनरावर्तनं कारयन्साधुर्वर्तते, तत्र गच्छति, निश्राञ्च स्वीकृत्य पुनरावर्तनं करोति । अधीतसूत्रादेः स्थिरीकरणं वर्तनमुच्यते।
एवं पूर्वमधीतानामागमानामद्य कस्यचित्साधोविस्मरणं सञ्जातम् । स तु पुनः प्रयत्नं करोति । किन्तु यत्र।
333333335555
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८२

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278