Book Title: Samachari Prakaran Part 02
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 191
________________ USEREEEEEEERLER8888888RREEEEE3888888888888888888888888888888888888888888888888 A R RORIEm निमंxel सामायारी AR तस्य महात्मनः साधूनां वैयावृत्यकरणे तीव्रोऽभिलाषो जायते एव । नहि तदा तस्य स्वाध्यायरुचि-र 2 यावृत्यरुचेर्बाधिका भवति । न वा स्वाध्यायजन्यः श्रमोऽपि वैयावृत्यरुचेर्बाधको भवति । यतो मोक्षस्तावदद्यापि नैव प्राप्तः, ततश्च तत्रेच्छापि प्रस्खलनरहितैव विद्यते । ततश्च यथा बुभुक्षित: तृप्तिं यावद सर्वानभीष्टान्पदार्थान्क्रमशो भक्षयत्येव, न च तस्य तत्र श्रमजन्यः इच्छाविच्छेदो भवति । तथैव मोक्षप्राप्तिं यावद् मुमुक्षुरपि सर्वान्स्वाध्यायवैयावृत्यादीनुपायान्क्रमश: सेवत एव । न च तस्य तत्र श्रमजन्य इच्छाविच्छेदो भवतीति स्वाध्यायादिषु रतानामपि वैयावृत्यकरणं युक्तमेव । ततश्च तेऽपि निमन्त्रणासामाचारीकर्तारो भवन्तीति सिद्धम् । नन्वेवं ग्लानोऽपि साधु:कथं वैयावृत्यं न कुर्यात् ? यतस्तस्यापि मोक्षेच्छा मोक्षोपायेच्छा च तीत्रैव वर्तते। ततस्तस्य रोगोऽपि वैयावृत्यकरणाभिलाषस्य प्रतिबन्धको नैव भवेत् । सत्यपि रोगे स तमवगणयन् वैयावृत्यादिकं कुर्यादेव । किन्तु तत्तु न दृश्यत इति न भवुदक्तं युक्तमिति चेन्न, यथा हि स्त्रीषु तीव्राभिलाषवान्कश्चित्कामी कामभोगासेवनानन्तरं यद्यपि कामसुखेच्छारहित इव दृश्यते। किन्तु तन्मनस्तु तृप्तिं नैवाप्नोति । स तु पुनः पुनः कामभोगसुखमिच्छत्येव । केवलं तदा तथाविधनिमित्ताभावात्पुनः कामसुखं न सेवितुं समर्थो भवति । किन्तु कालान्तरे पुनः कामसुखनिमित्तानि प्राप्य । पुनः सेवत एव । यथा वा मिष्टान्नभोजनेऽतीवासक्तः कश्चित्कन्धरां यावन्मिष्टान्नं भुक्त्वा भोजनाद् विरमते, तत्र तस्य मनसि र मिष्टान्नभोजनेच्छा तु यद्यपि नैव निवर्तते । तथापि तत्रारुचिसद्भावादेकस्यापि कवलस्य खादने तदा शक्त्यभावादेव च मिष्टान्नभोजनान्निवर्तते । मनसि तु चिन्तयत्येव यथा - यदि ममारुचिर्न स्यात्, ममोदरं शून्यं । । स्यात्, तदा प्रभूतमिष्टान्नमहं खादेयम् । किन्तु संप्रति न शक्नोमि खादितुम्-इत्यादि । इत्थमेव च रोगघोरपरिश्रमादिकारणवशाद् यदा महामुनीनां शरीरं वैयावृत्यादिकरणे सर्वथाऽशक्तमेव भवति। तदैव ते महात्मानो वैयावृत्यं तस्मिन्काले परित्यजन्ति । किन्तु मोक्षे दृढाभिलाषवन्तस्ते वैयावृत्यकरणे तु के दृढस्पृहावन्त एव भवन्ति । चिन्तयन्ति च यथा → अहो कष्टं, यन्मम शरीरं वैयावृत्यादिकरणेऽशक्तं जातम् ।। निर्भाग्यशेखरोऽहं, यत्सर्वविरतिं प्राप्यापि, त्रिलोकपूज्यानां प्रातःस्मरणीयानां महामुनीनां दर्शनं प्राप्यापि, तवैयावृत्यकरणावसरं लब्ध्वाऽपि च न तेषां वैयावृत्यं कर्तुं शक्नुयाम् । प्रत्युताहं तैः क्रियमाणं वैयावृत्यं का स्वीकुर्वे । यद्यहं कथमपि प्रगुणो भविष्यामि, तदाऽहं सर्वेषां मुनीनां वैयावृत्यं करिष्यामि । यथा श्रेणिकपुत्रेण । र मेघकुमारेण कृता - इत्यादि । इत्थञ्च वैयावृत्यमकुर्वाणानामपि तेषां तीव्राभिलाषवशाद् वैयावृत्यकरणजन्य एव २ गुणो भवतीति न कश्चिद्दोषः । वैयावृत्यकरणेऽशक्तं शरीरं बिभ्राणा मा कुर्वन्तु निमन्त्रणादिकम्, वैयावृत्यकरणे शक्तं तु परिश्रान्तमपि शरीरं बिभ्राणा महात्मानः कुर्वन्त्येव परेषां वैयावृत्यम् । यदि च न कुर्वन्ति, तर्हि नूनं तेषां मोक्षोपायेच्छा मोक्षेच्छा विषयसुखाभिलाषप्रमादयोरभावो विवेको भगवद्वचनपरिभावनं मोहनीयकर्मक्षयोपशमजन्या शक्तिः 1 निकटमोक्षगामित्वञ्च नास्तीति निश्चीयत एव । न तत्र संदेहः कार्यः ॥५२॥ ECOCEEEEEEEEEEEEEEEEEEEEEEEEEEEEE 5 महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८६ RES U 091580000000000CTETTESOURCHOT985505598888880500RRIAGES

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278