Book Title: Samachari Prakaran Part 02
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 190
________________ HIV S CEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE CCEECCEEDECEEEEEEEEEEEEEEEEEEEEEEEEELGOED H T TTTTTTTTTTTTTTTTTTTEEEEEEEEEEEEEEEEEEEEEEEEEE निixel सामायारी विशिष्टबुद्धिमन्तोऽपि दीर्घसंसारसद्भावाज्जिनवचनं जानाना अपि जिनवचनं प्ररूपयन्तोऽपि च जिनवचनस्य, सम्यक्परिभावनविरहिता एव भवन्ति । अयन्तु महात्मा कदाचित्तथाविधज्ञानावरणीयक्षयोपशमाभावाद्मन्दबुद्धिः अपि सन् न प्रभूतं जिनवचनं ज्ञातुं शक्नोति, न वा परान्प्ररूपयितुं शक्नोति । तथापि निकटमोक्षगामी स महात्मा र यत्किञ्चिद् जिनवचनं लब्ध्वाऽपि तस्य परिभावनं करोति । तद्रहस्यमवाप्नोति । स्वहृदये च स्थिरीकृत्य। पालयति । यथा माषतुषादयः । र येषाञ्च मनसि निरनन्तरं जिनवचनपरिभावनं समुज्जृम्भते, ते विवेकभाजो भवन्ति । "कदा कथं कि कर्तव्यम् ?" इत्यादि शुद्धप्रज्ञा तेषां मनसि जायते । ये च जिनवचनपरिभावनरहिताः केवलं श्रुतज्ञानमात्रं बिभ्रति । ते शास्त्रवाक्यानुसारेण सर्वं जानाना अपि व्यवहारकाले तु त्याज्यकार्याण्यपि कुर्वन्ति, B 22 उपादेयकार्याण्यपि परित्यजन्ति । यथा "कस्यापि निन्दा न कर्तव्या" इति शास्त्रवाक्यं जानाना अपि से स्वार्थेादिदोषयुक्तास्ते भृशमपरान्निन्दन्तीति तेषां विवेकज्ञानं न गण्यते। येषाञ्च महात्मनां मनसि विवेकज्ञानं समुज्जृम्भते, ते विषयसुखेषु मोक्षप्रतिकूलेषु दृढाभिलाषवन्तो नैव। भवन्ति । यतो विवेकज्ञानात्ते महात्मानो विषयसुखानि विषधरकल्पानि महादुःखदायकानि च मन्यन्ते । ततश्च को नाम दुःखदायकं विषधरमालिङ्गेत् ? तथा "मद्यविषयकषायनिद्राविकथारूप: प्रमाद एव भवभ्रमणमूल म्" इत्यादि जानानाः प्रमादं परिहरन्ति । इत्थञ्च विषयसुखाभिलाषस्याभावात्प्रमादपरिहाराच्च ते विशुद्धप्रज्ञाः क अनवरतं मोक्षाभिलाषं स्वमनसि समनुभवन्ति । __ मोक्षञ्च प्रतिसमयं स्पृह्यन्तस्ते महात्मानो मोक्षकारणीभूतेषु स्वाध्यायध्यानवैयावृत्यप्रतिलेखनादिष्वनवरतं की स्पृहावन्तो भवन्ति । को नाम बुभुक्षितस्तृप्तिमाकाडक्षमाणो मधुरभोजनं सततं नेच्छेत् ? सततं मोक्षोपायेष्वभिलाषवन्तश्च ते सततं मोक्षोपायेषु प्रवृत्तिभाजो भवन्ति । इत्थञ्च स्वाध्यायादियोगेषु र परिश्रान्ता अपि निकटमोक्षगामिनो महात्मानो वैयावृत्ये मोक्षोपाये तीव्राभिलाषं बिभ्राणा निमन्त्रणासामाचारी परिपालयन्त्येव। । बुभुक्षितो हि यावत्तस्य बुभुक्षा न निवर्तते, तावद्भोजनपदार्थेषु स्पृहां बिभ्रत् तान् पदार्थान्क्रमशो भुक्त। एव । तत्रापि नैकमेवाशनादिकं भुङ्क्ते । किन्तु विभिन्नान् भिन्नस्वादवतः पदार्थान् भवति । यतः स्वेष्टोऽपि पदार्थः एक एव खाद्यमानो नानन्दं समुत्पादयति । किन्त्वन्यस्वादिष्टखाद्यपदार्थैः सह खाद्यमानोऽभीष्टपदार्थो। का मनसि सुखं जनयति । सर्वानुभवसिद्धञ्चैतत् ।। एवमेव मुमुक्षुरपि यावत्मोक्षप्राप्तिर्न भवति, तावन्मोक्षोपायेषु स्वाध्यायध्यानवैयावृत्यादिषु तीव्रस्पृहावान् ।। भवति । तश्चिोपायान् क्रमशः सेवत एव । न हि स स्वाभीष्टं स्वाध्यायादिकमेकमेवोपायं सेवते । यतः सर्वेषामुपायानां फलानि भिन्नान्येव । सर्वेषां योगानामास्वादो भिन्न एव । स्वाध्यायाद् हि विवेकः समुल्लसति। वैयावृत्ये तु वात्सल्यभावः प्रकटीभवति । ध्याने त्वेकाग्रतागुणः प्रादुर्भवतीत्यादि । एवञ्च स्वाध्यायादिकमेकमेव 1 योगं सेवमानस्य तस्य सर्वदा तत्र रुचिर्नैव भवति । किन्तु यथा मिष्टान्नं भुक्त्वा मरिचयुक्तपदार्थेषु स्पृहा। समुत्पद्यते, ताश्च भुक्त्वा पुनर्मिष्टाने स्पृहा भवति । एवमेवानवरतं स्वाध्यायादिकं कृत्वा पश्चाद् वैयावृत्यकाले NSER २ महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८५ CRECESSARRISHTERESTLERTERESORTERRESTERIORRECTRESERESEDICESSORRESTER B

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278