________________
HIV
S
CEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
CCEECCEEDECEEEEEEEEEEEEEEEEEEEEEEEEELGOED
H T TTTTTTTTTTTTTTTTTTTEEEEEEEEEEEEEEEEEEEEEEEEEE निixel सामायारी विशिष्टबुद्धिमन्तोऽपि दीर्घसंसारसद्भावाज्जिनवचनं जानाना अपि जिनवचनं प्ररूपयन्तोऽपि च जिनवचनस्य, सम्यक्परिभावनविरहिता एव भवन्ति । अयन्तु महात्मा कदाचित्तथाविधज्ञानावरणीयक्षयोपशमाभावाद्मन्दबुद्धिः
अपि सन् न प्रभूतं जिनवचनं ज्ञातुं शक्नोति, न वा परान्प्ररूपयितुं शक्नोति । तथापि निकटमोक्षगामी स महात्मा र यत्किञ्चिद् जिनवचनं लब्ध्वाऽपि तस्य परिभावनं करोति । तद्रहस्यमवाप्नोति । स्वहृदये च स्थिरीकृत्य।
पालयति । यथा माषतुषादयः । र येषाञ्च मनसि निरनन्तरं जिनवचनपरिभावनं समुज्जृम्भते, ते विवेकभाजो भवन्ति । "कदा कथं कि
कर्तव्यम् ?" इत्यादि शुद्धप्रज्ञा तेषां मनसि जायते । ये च जिनवचनपरिभावनरहिताः केवलं श्रुतज्ञानमात्रं बिभ्रति । ते शास्त्रवाक्यानुसारेण सर्वं जानाना अपि व्यवहारकाले तु त्याज्यकार्याण्यपि कुर्वन्ति, B 22 उपादेयकार्याण्यपि परित्यजन्ति । यथा "कस्यापि निन्दा न कर्तव्या" इति शास्त्रवाक्यं जानाना अपि से स्वार्थेादिदोषयुक्तास्ते भृशमपरान्निन्दन्तीति तेषां विवेकज्ञानं न गण्यते।
येषाञ्च महात्मनां मनसि विवेकज्ञानं समुज्जृम्भते, ते विषयसुखेषु मोक्षप्रतिकूलेषु दृढाभिलाषवन्तो नैव। भवन्ति । यतो विवेकज्ञानात्ते महात्मानो विषयसुखानि विषधरकल्पानि महादुःखदायकानि च मन्यन्ते । ततश्च को नाम दुःखदायकं विषधरमालिङ्गेत् ? तथा "मद्यविषयकषायनिद्राविकथारूप: प्रमाद एव भवभ्रमणमूल
म्" इत्यादि जानानाः प्रमादं परिहरन्ति । इत्थञ्च विषयसुखाभिलाषस्याभावात्प्रमादपरिहाराच्च ते विशुद्धप्रज्ञाः क अनवरतं मोक्षाभिलाषं स्वमनसि समनुभवन्ति ।
__ मोक्षञ्च प्रतिसमयं स्पृह्यन्तस्ते महात्मानो मोक्षकारणीभूतेषु स्वाध्यायध्यानवैयावृत्यप्रतिलेखनादिष्वनवरतं की स्पृहावन्तो भवन्ति । को नाम बुभुक्षितस्तृप्तिमाकाडक्षमाणो मधुरभोजनं सततं नेच्छेत् ?
सततं मोक्षोपायेष्वभिलाषवन्तश्च ते सततं मोक्षोपायेषु प्रवृत्तिभाजो भवन्ति । इत्थञ्च स्वाध्यायादियोगेषु र परिश्रान्ता अपि निकटमोक्षगामिनो महात्मानो वैयावृत्ये मोक्षोपाये तीव्राभिलाषं बिभ्राणा निमन्त्रणासामाचारी
परिपालयन्त्येव। । बुभुक्षितो हि यावत्तस्य बुभुक्षा न निवर्तते, तावद्भोजनपदार्थेषु स्पृहां बिभ्रत् तान् पदार्थान्क्रमशो भुक्त। एव । तत्रापि नैकमेवाशनादिकं भुङ्क्ते । किन्तु विभिन्नान् भिन्नस्वादवतः पदार्थान् भवति । यतः स्वेष्टोऽपि पदार्थः एक एव खाद्यमानो नानन्दं समुत्पादयति । किन्त्वन्यस्वादिष्टखाद्यपदार्थैः सह खाद्यमानोऽभीष्टपदार्थो। का मनसि सुखं जनयति । सर्वानुभवसिद्धञ्चैतत् ।।
एवमेव मुमुक्षुरपि यावत्मोक्षप्राप्तिर्न भवति, तावन्मोक्षोपायेषु स्वाध्यायध्यानवैयावृत्यादिषु तीव्रस्पृहावान् ।। भवति । तश्चिोपायान् क्रमशः सेवत एव । न हि स स्वाभीष्टं स्वाध्यायादिकमेकमेवोपायं सेवते । यतः सर्वेषामुपायानां फलानि भिन्नान्येव । सर्वेषां योगानामास्वादो भिन्न एव । स्वाध्यायाद् हि विवेकः समुल्लसति।
वैयावृत्ये तु वात्सल्यभावः प्रकटीभवति । ध्याने त्वेकाग्रतागुणः प्रादुर्भवतीत्यादि । एवञ्च स्वाध्यायादिकमेकमेव 1 योगं सेवमानस्य तस्य सर्वदा तत्र रुचिर्नैव भवति । किन्तु यथा मिष्टान्नं भुक्त्वा मरिचयुक्तपदार्थेषु स्पृहा।
समुत्पद्यते, ताश्च भुक्त्वा पुनर्मिष्टाने स्पृहा भवति । एवमेवानवरतं स्वाध्यायादिकं कृत्वा पश्चाद् वैयावृत्यकाले
NSER
२ महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८५ CRECESSARRISHTERESTLERTERESORTERRESTERIORRECTRESERESEDICESSORRESTER B