________________
USEREEEEEEERLER8888888RREEEEE3888888888888888888888888888888888888888888888888
A
R RORIEm निमंxel सामायारी AR तस्य महात्मनः साधूनां वैयावृत्यकरणे तीव्रोऽभिलाषो जायते एव । नहि तदा तस्य स्वाध्यायरुचि-र 2 यावृत्यरुचेर्बाधिका भवति । न वा स्वाध्यायजन्यः श्रमोऽपि वैयावृत्यरुचेर्बाधको भवति । यतो मोक्षस्तावदद्यापि नैव प्राप्तः, ततश्च तत्रेच्छापि प्रस्खलनरहितैव विद्यते । ततश्च यथा बुभुक्षित: तृप्तिं यावद सर्वानभीष्टान्पदार्थान्क्रमशो भक्षयत्येव, न च तस्य तत्र श्रमजन्यः इच्छाविच्छेदो भवति । तथैव मोक्षप्राप्तिं यावद् मुमुक्षुरपि सर्वान्स्वाध्यायवैयावृत्यादीनुपायान्क्रमश: सेवत एव । न च तस्य तत्र श्रमजन्य इच्छाविच्छेदो भवतीति स्वाध्यायादिषु रतानामपि वैयावृत्यकरणं युक्तमेव । ततश्च तेऽपि निमन्त्रणासामाचारीकर्तारो भवन्तीति सिद्धम् ।
नन्वेवं ग्लानोऽपि साधु:कथं वैयावृत्यं न कुर्यात् ? यतस्तस्यापि मोक्षेच्छा मोक्षोपायेच्छा च तीत्रैव वर्तते। ततस्तस्य रोगोऽपि वैयावृत्यकरणाभिलाषस्य प्रतिबन्धको नैव भवेत् । सत्यपि रोगे स तमवगणयन् वैयावृत्यादिकं कुर्यादेव । किन्तु तत्तु न दृश्यत इति न भवुदक्तं युक्तमिति चेन्न,
यथा हि स्त्रीषु तीव्राभिलाषवान्कश्चित्कामी कामभोगासेवनानन्तरं यद्यपि कामसुखेच्छारहित इव दृश्यते। किन्तु तन्मनस्तु तृप्तिं नैवाप्नोति । स तु पुनः पुनः कामभोगसुखमिच्छत्येव । केवलं तदा तथाविधनिमित्ताभावात्पुनः कामसुखं न सेवितुं समर्थो भवति । किन्तु कालान्तरे पुनः कामसुखनिमित्तानि प्राप्य । पुनः सेवत एव ।
यथा वा मिष्टान्नभोजनेऽतीवासक्तः कश्चित्कन्धरां यावन्मिष्टान्नं भुक्त्वा भोजनाद् विरमते, तत्र तस्य मनसि र मिष्टान्नभोजनेच्छा तु यद्यपि नैव निवर्तते । तथापि तत्रारुचिसद्भावादेकस्यापि कवलस्य खादने तदा
शक्त्यभावादेव च मिष्टान्नभोजनान्निवर्तते । मनसि तु चिन्तयत्येव यथा - यदि ममारुचिर्न स्यात्, ममोदरं शून्यं । । स्यात्, तदा प्रभूतमिष्टान्नमहं खादेयम् । किन्तु संप्रति न शक्नोमि खादितुम्-इत्यादि ।
इत्थमेव च रोगघोरपरिश्रमादिकारणवशाद् यदा महामुनीनां शरीरं वैयावृत्यादिकरणे सर्वथाऽशक्तमेव भवति। तदैव ते महात्मानो वैयावृत्यं तस्मिन्काले परित्यजन्ति । किन्तु मोक्षे दृढाभिलाषवन्तस्ते वैयावृत्यकरणे तु के दृढस्पृहावन्त एव भवन्ति । चिन्तयन्ति च यथा → अहो कष्टं, यन्मम शरीरं वैयावृत्यादिकरणेऽशक्तं जातम् ।। निर्भाग्यशेखरोऽहं, यत्सर्वविरतिं प्राप्यापि, त्रिलोकपूज्यानां प्रातःस्मरणीयानां महामुनीनां दर्शनं प्राप्यापि, तवैयावृत्यकरणावसरं लब्ध्वाऽपि च न तेषां वैयावृत्यं कर्तुं शक्नुयाम् । प्रत्युताहं तैः क्रियमाणं वैयावृत्यं का स्वीकुर्वे । यद्यहं कथमपि प्रगुणो भविष्यामि, तदाऽहं सर्वेषां मुनीनां वैयावृत्यं करिष्यामि । यथा श्रेणिकपुत्रेण । र मेघकुमारेण कृता - इत्यादि । इत्थञ्च वैयावृत्यमकुर्वाणानामपि तेषां तीव्राभिलाषवशाद् वैयावृत्यकरणजन्य एव २ गुणो भवतीति न कश्चिद्दोषः ।
वैयावृत्यकरणेऽशक्तं शरीरं बिभ्राणा मा कुर्वन्तु निमन्त्रणादिकम्, वैयावृत्यकरणे शक्तं तु परिश्रान्तमपि शरीरं बिभ्राणा महात्मानः कुर्वन्त्येव परेषां वैयावृत्यम् । यदि च न कुर्वन्ति, तर्हि नूनं तेषां मोक्षोपायेच्छा मोक्षेच्छा विषयसुखाभिलाषप्रमादयोरभावो विवेको भगवद्वचनपरिभावनं मोहनीयकर्मक्षयोपशमजन्या शक्तिः 1 निकटमोक्षगामित्वञ्च नास्तीति निश्चीयत एव । न तत्र संदेहः कार्यः ॥५२॥
ECOCEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
5 महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८६ RES U 091580000000000CTETTESOURCHOT985505598888880500RRIAGES