________________
CEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
SEARRIERRIERRIERRIERTAINM
E NORM निभvel सामाधारी or ननु तथाप्यनादिवासनावासितान्तःकरणा वयं कथं विषयसुखाभिलाषं परित्यज्य मोक्षे मोक्षोपाये चल र दृढाभिलाषवन्तो भवाम इति कथयास्माकं कञ्चिदुपायं । येन मोक्षे मोक्षोपाये च दृढाभिलाषवन्तो भवाम इति । शिष्यप्रश्नं श्रुत्वा परोपकारैकरसिकमना आचार्य उपदिशति । माणुस्सं संसारे मरुम्मि कप्पदुमो व्व अइदुल्लहं । एयं लभ्रूण सया अप्पमत्तेणेव होयव्वं ॥५३॥ ___ यथा हि यत्र मरुभूमौ तृणमपि न लभ्यते, तत्र कल्पद्रुमस्य तु कथैव का ? एवमेव चतुरशीतिलक्षयोनिकेऽस्मिन्संसारे त्रसत्वमपि दुर्लभम्, प्रत्येकशरीरित्वमात्रमपि च दुर्लभं । तदा मनुष्यभवस्य तु का वार्ता ?
किन्तु यथा प्रथमारकादिप्रभावात् मरुभूमावपि कल्पद्रुमो महापुण्यवता युगलिकादिना प्राप्यते । तथैव महापुण्यवता जिनवचनश्रवणादियुक्तो मनुष्यभवः प्राप्यते । इत्थञ्च यतो मानुष्यमतिदुर्लभम् । तस्मादेव तल्लब्ध्वा सदा मोक्षोपायेषु प्रमादत्यागवतैव भवितव्यम् । येन पुनरपि संसारभ्रमणं तज्जन्यदुःखानि च न भवेत् । न नाम जिनवचनश्रवणादिविशिष्टं मानुष्यं विना संसारभ्रमणभङ्जकः कश्चिदन्य उपायः ।
इदञ्च तत्वं यस्य मनसि वज्रेणालिखितमिव सञ्जायते, स आलस्यमतिभ्रमादिदोषान्परित्यज्यानवरतं मोक्षे । र तदुपायेषु च तीव्राभिलाषवान् भवतीति बोध्यम् ॥५३॥
ननु युक्तमेव भवत्प्रतिपादितं तत्त्वं । किन्तु तस्य साधोरनवरतमेव मोक्षोपायेषु तीव्राभिलाषो वर्तत इति तु न सम्यगाभाति । स्वाध्यायकरणानन्तरं भवतु वैयावृत्यकरणेऽभिलाषः । यतस्तेन वैयावृत्यं न कृतम् । किन्तु र यदा निमन्त्रणां कृत्वा गोचरीं गत्वाऽशनादिकमानीय छन्दनां कृत्वा, साधुभ्यो यथोचितं दत्वा स कृतकृत्यो भवति । तदा तु तस्य वैयावृत्यस्याभिलाषो नैव भवेत् । यतस्तेन वैयावृत्यं कृतमेव । न तु कृतस्य। करणेऽभिलाषो कस्यापि भवति । न हि रसवतीं कृत्वा विश्राम्यन्त्या गृहिण्यास्तदैव रसवतीकरणाभिलाषो वर्तते। तस्मादनवरतं मोक्षोपायेष्वभिलाषो नैव घटते । यदि तावत्स्वाध्यायाभिलाषानन्तरं वैयावृत्याभिलाषस्तदनन्तरं । प्रतिलेखनाभिलाषस्तदनन्तरं प्रतिक्रमणाभिलाष इत्यादिरूपो मोक्षोपायेषु परावर्तमानोऽभिलाषो भवतोच्येत, तदा तु कथमपि तमनुमन्यामहे, न तु स्वोचिते प्रत्येकस्मिन् मोक्षोपायेऽनवरतमभिलाषं मन्यामह इति चेत् न, सिद्धे मुणीण कज्जे तम्मि वि इच्छोचिया असिद्धम्मि । उक्टेि तेणेव य समत्थियं किरणमुत्थुत्ति ॥५४॥
यत्तावदुक्तं भवता – रसवती कृत्वा विश्राम्यन्ती गृहिणी न रसवतीकरणाभिलाषवती भवति-इति, तदर्धसत्यम् । यतो या रसवती तया कृता, तत्करणस्याभिलाषस्तु तस्या नैव भवति । किन्त्वग्रेतनदिने करिष्यमाणाया रसवत्या अभिलाषस्तु तस्य संभवत्येव → श्वो मम जामाता दुहितृयुक्तो समागमिष्यति, स च । ममातिप्रियः, तदर्थञ्चामुकां रसवतीं करिष्यामि – इत्यादिरूपोऽभिलाषस्तस्या भवत्येव । ____ अथ वा येन सहस्रधनं लब्धं, तस्य लब्धे सहस्रेऽभिलाषो मा भवतु । किन्तु यत्सहस्रं तेन न लब्धं, किन्तु भविष्यत्काले लप्स्यमानं वर्तते, तस्मिन्तस्याभिलाषो वर्तत एव । तथा सहस्रधनाधिपतिर्लक्षधनमीहत एव । लक्षाधिपतिः कोटिधनमीच्छत्येव । कोट्याधिपतिर्नृपत्वमभिलषत्येव । नृपस्तु चक्रवर्तित्वं, चक्रवर्ती च देवत्वं,
EEEEEEEEEEEEEEEEEEEEEEEEEGCCCCECECECECECECOG
SSSSSSSS
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी. १८७ PremRRECTORRECENTERESTERectacuasaccuERVEReects