________________
નિમંત્રણા સામાચારી
अधुना नवमी निमन्त्रणासामाचरी प्रारभ्यते । गुस्मुच्छाइ मुणीणं अग्गहियसंपत्थणा णिमंतणया । सज्झायाइरयस्स वि कज्जुज्जुत्तस्स सा होई ॥५१॥
अशनादिकमानेतुं निर्गच्छन् शिष्यः प्रथमं गुरुं पृच्छति - भवतां प्रायोग्यं किमहमानयामि ? - इति । गुरुस्तु अशनाद्यावश्यकतायां सत्यां तं कथयति । तदभावे तु निषेधं करोति यथा " न ममाशनादिना प्रयोजनम्" इति । तदनन्तरं शिष्यः पृच्छति – यदि भवाननुजानासि, तदाऽहं बालादीन् प्रति भक्ताद्यानयनार्थं निमन्त्रणां करोमि इति । यदि गुरुरनुजानाति । तदा स शिष्यो बालादीन्कथयति – मुनिवर ! गच्छाम्यहं भक्तादिकमानेतुम्, तत्कुरुष्व ममोपरि कृपां, वद किं भवतां प्रायोग्यं ? किं वा भक्तादिकमद्येच्छसि ? यदि मया लप्स्यते, तदाऽहमवश्यमानयिष्यामि - इत्यादि । इत्थञ्च गुरोरनुज्ञां गृहीत्वा साधून्प्रति पूर्वमनानीतस्याशनादेरानयनार्थं यत्प्रतिपादितं वचनमुच्यते । सैव निमन्त्रणासामाचारी भवति ।
-
छन्दनायाः सकाशान्निमन्त्रणायामेतावानेव विशेषः यदुत छन्दनायां पूर्वमानीतस्यैवाशनादेर्निवेदनं बालादीन्प्रति क्रियते । निमन्त्रणायान्तु पूर्वमनानीतस्याशनादेरानयनार्थं बालादीन्प्रति निवेदनं क्रियते । नान्यः कश्चिद् भेदः । अतो यदेव छन्दनायां निगदितम्, तत्सर्वं निमन्त्रणायामपि प्रायः समानमेवाववन्तव्यम् । यस्तु कश्चिद् विशेषोऽस्ति, स अनन्तरमेव कथयामि ।
थाह न केवलं “ये स्वाध्यायादिकं न कुर्वन्ति, किन्तु वैयावृत्यमेव कुर्वन्ति" तेषामेव निमन्त्रणासामाचारीपरिपालनं युक्तम् । किन्तु ये स्वाध्यायध्यानाध्ययनादियोगेषु रता भवन्ति, "अयं स्वाध्यायी साधुः" इति गच्छे येषां ख्यातिः सञ्जाता, तेऽप्यवश्यं परेषां भक्ताद्यानयनरूपे वैयावृत्येऽभिलाषवन्त एव भवन्ति। अतस्तेऽपि परान्प्रत्यवश्यं निमन्त्रणां कुर्वन्त्येव । यथा भो साधो ! गच्छाम्यहं भक्तादिकमानेतुम् । किं भवदर्थमानयामि ? कथयस्व । भवतां वैयावृत्यं मम तु भवोदधितरणकल्पमेव- इत्यादि ॥५१॥
अत्र शिष्यः प्रश्नयति → ननु ये तावद्वैयावृत्य एव बद्धलक्षा भवन्ति । ते तु परान्प्रति निमन्त्रणां कुर्वन्तु । ये तु प्रातः कालादारभ्यैव सूत्रपाठवाचनादानाध्यापनादिष्वनवरतमप्रमादभावेन प्रवृत्ता भवन्ति । ते तु भक्ताद्यानयनकाले परिश्रान्ता एव भवन्ति । ततश्च तेषां मनसि कथं परेषां वैयावृत्यस्याभिलाषः समुत्पद्यते ? प्रत्युत ते तु मन्स्येवमेव चिन्तयन्ति यथा यदि कश्चित्साधुर्मम भक्तादिकमानयेत्, तदा सुष्ठु भवेत्, यतोऽतीव बुभुक्षितोऽस्म्यहम्-इत्यादि । ततश्च वैयावृत्यकरैरेव स्वाध्यायिनं प्रति निमन्त्रणां कृत्वा तदर्थं भक्तादिकमानेतुमुचितमिति प्रतिभाति मम ← इति ।
आचार्यस्तु जिनवचनरहस्यं समुद्घाटयति ।
-
इच्छाऽविच्छेदेणं कज्जुज्जोगो अ हंदि पइसमयं । परिणयजिणवयणाणं एसो स महाणुभावाणं ॥५२॥
अस्यां कारिकायामर्थानुसारेण प्रथममुत्तरार्धं व्याख्याय पश्चात् पूर्वार्धं व्याख्यास्यते । तथा हि – यो महात्माऽऽसन्नमोक्षगामी भवति, यस्य भवोदधिश्चलुकप्रमाण एव भवति । तस्य तथाविधो विशिष्टतमो मोहनीयकर्मणः क्षयोपशमो भवति, येन तस्यात्मनः शक्तिरन्येभ्यः सकाशाद्विशिष्टतमा एव भवति । तादृशस्यैव महात्मनस्तथाविधक्षयोपशमजन्यशक्तिप्रभावात्सम्यग् जिनवचनानां परिभावनं समुज्जृम्भते । परे तु
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८४