________________
છંદના સામાચારી
वैयावृत्यकारो मुनिः सहिष्णुर्न भवेत्तदा तु सोऽपि प्रतिवदेत् यथा “एकं तावद्भवतां वैयावृत्यमुपकारापेक्षां विनैव कुर्वे । अपरञ्च स्खलनायां भवतां कटुवचनानि सहे । तदेतद् न मह्यं रोचते । नाहं भवतां कर्मकरः । न यूयं मह्यं किञ्चिदपि ददथ । तदलमेतेन वैयावृत्येन " इत्यादि । एतच्च नोचितम् । यतः कटुवचनश्रवणेऽपि निर्जरैव भवति। अयञ्च साधुर्निजरार्थमेव छन्दनादिकं करोति । ततश्च यदि निर्जरार्थमुल्लासपूर्वकं छन्दनादिकं क्रियते, तर्हि निर्जरार्थमेव कटुवचनान्यपि सोढव्यान्येव । न तत्रारुचिः कर्तव्या । को नाम द्विगुणलाभे न तुष्येत् ? कः सज्जनो द्विगुणलाभे द्वेषं कुर्यात् ?
किञ्चैवं वैयावृत्यादीनां त्यागो यदि तेन क्रियते । तदा बालादीनामवसीदनमेव भवेत्। ततश्च गुरोरपि दुःखं भवेत् । गच्छश्चाव्यवस्थितो भवेत् । एतेषां दोषाणमपनयनार्थं वैयावृत्यकरोऽतीव सहिष्णुरेवापेक्ष्यते ।
एवं छन्दनास्वीकतॄणामपि परकटुवचने सहिष्णुताऽपेक्ष्यते । इत्थञ्च छन्दकछन्द्ययोर्मनसि गम्भीरताधीरताऽभावे यतश्छन्दनासामाचारी न सम्यक् परिपाल्यते । तस्मात्तयोद्वौ गुणावत्यन्तमुचितौ । अष्टमी छन्दनासामाचारी समाप्ता ।
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८३