________________
છંદના સામાચારી
'वस्त्रप्रक्षालनप्रतिलेखनादिकं करिष्यामि तव प्रशंसां सर्वत्र करिष्यामि । केवलं त्वं मद्भक्तिं कुरु" इत्यादि प्रत्युपकारवचनेन परं प्रलोभयन्नपि साधुश्छन्दनाग्रहणे दोषभाग्भवति ।
-
शिष्यः प्राह • ननु " मोक्षेच्छया ज्ञानादीच्छया च परस्य छन्दनां स्वीकुवार्णो न दोषभाग्भवति" इत्युक्तम्। किन्तु मोक्षेच्छाऽपि तत्त्वतो रागरूपैव । रागश्च परिहार्य एव । तत्कथं साऽऽपीच्छा युक्ता स्याद् ? - इति । गुरुः प्रतिपादयति यथा ह्युदरगतविष्टाया निष्काशनार्थं हरितकी गृह्यते । सा च हरितक्यपि तत्त्वतो निष्काशनीयैव । किन्तु तस्या निष्काशनार्थं नान्यत्किञ्चिद् भक्ष्यते । यतो हरितकी स्वयमेव निर्गच्छति । न च हरितकी प्रथमत एव परिहरणीया भवति । किन्तु प्रथमं तु विष्टानिष्काशनार्थमुपादेयैव भवति । एवं स्त्रीधनभोजनादिपदार्थानामप्रशस्ता रागाः अवश्यं निष्काशनीया एव । अन्यथा ते आत्मानं दुर्गतिषु पातयन्ति । तेषां निष्काशनार्थं च देवगुरुमोक्षादिषु रागोऽवश्यमुपादेयः । स चाप्रशस्तरागान्निष्काश्य स्वयमेव निर्गच्छति । तदपनयनार्थं न कोऽपि प्रयत्न आवश्यकः । तस्माद् प्रशस्तरागोऽवश्यमादरणीय इति बोध्यम् ॥४९॥
उपसंहरति ।
एवं एयगुणाणं कहिया गंभीरधीरया दोन्हं । छंदणसामाचारी एएहिं परिजिआ होई ॥५०॥
पूर्वोक्तगुणैर्युक्तानां छन्दनां कतॄणां छन्दनां स्वीकतॄणाञ्चात्मनि गंभीरता धीरता चेति द्वौ गुणौ जिनवरैः प्रतिपादितौ । गंभीरताधीरताभ्यामेव च छन्दकछन्द्यौ छन्दनासामाचारीं परिपालयितुं समर्थौ भवतः । ततश्चैताभ्यां गुणाभ्यां छन्दनासामाचारी जीयत इति भावः ।
अयं भावः । यस्य मनसि वर्तमानोऽभिप्रायो न केनापि ज्ञायते, स गम्भीर उच्यते । तथा कार्यकरणेऽवश्यं परैः परिभवः क्रियत एव । तं च परिभवं यः सम्यक्सहते, न च कार्यं विमुञ्चति, स एव धीर उच्यते ।
गंभीरो हि साधुर्यान्प्रति छन्दनां कुरुते, ते तावत्सर्वज्ञा जितरागद्वेषा न सन्ति । अतस्तेष्वपि प्रमादासक्तिस्वार्थभावादयो दोषा विद्यन्त एव । न हि सर्वे साधवोऽतिचाररहितमेव वीर्याचारं परिपालयन्ति । स च छन्दकः साधुस्तेषां साधूनां दोषान्जानन्ति । ततश्च यदि स गम्भीरो न भवेत्, तदा कदाचिद्वदेदपि यथा → न भवतां वीर्याचारोल्लङ्घनं युक्तम्, अहं भवतां संयमवृद्ध्यर्थमेवाहारादिकमानयामि, यदि च भवन्तः प्रमादिन एव स्युः, तदा मत्प्रयत्नो निरर्थको भवेत्, तस्मात्कुरुष्वाऽप्रमादपूर्वकं स्वाध्यायादिकम् ← इति । एतच्च न युक्तम्। तस्माद् यो साधुः सर्वं जानन्नपि स्वमनसि वर्तमानं भावं न प्रदर्शयति । किन्तु बहुमानपूर्वकं तेषां वैयावृत्यादिकं करोति । स एव छन्दनायोग्यो भवतीति युक्त एव गंभीरतागुणः ।
तथा ये साधवश्छन्दनां स्वीकुर्वन्ति, तेऽपि यद्यगम्भीरा स्युः । तदा कदाचिद् वैयावृत्यकरस्य स्खलानायां सत्यां कटुवचनानि प्रयुञ्ज्यात् यथा न तव वैयावृत्यकरणे समुल्लासः, एवमेवास्माकं वैयावृत्यं करोषि । को लाभस्तव भवेद् ← इत्यादि । तच्च श्रुत्वा वैयावृत्यकरस्य भक्तिभावो विनश्येत् । तस्माच्छन्दनास्वीकर्तारोऽपि गम्भीरा एवापेक्ष्यन्ते । तेषाञ्च वैयावृत्यकरस्य स्खलनादिषु न मुखरेखाऽपि परावर्तते, किन्तु सदैव ते वैयावृत्य करस्य प्रशंसका एव भवन्ति ।
अथ कदाचिद्बालादयो वैयावृत्यकरस्य स्खलानायां निष्ठुरवचनान्यपि ब्रूवन्ति । यदि च छन्दनाकारी महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी १८२