SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE PARRORITERATERTAITRITERTAINEERIETARIANA /Eना सामायारी भविष्यत्वेव मम ज्ञानादीनां लाभः" इति ज्ञानादिमात्राशंसावान् छन्दनाकारी फलं समर्जयति । यदि च तस्य । १ मनसि कोऽप्यशुभो भावो भवेत् - यथा "मण्डलीव्यवस्थापकोऽयं साधुः, यद्यहमस्य वैयावृत्यं छन्दनाद्वारा कुर्याम्, तदा स मह्यं गोचरीमण्डल्यादिषु प्रायोग्यं द्रव्यं दास्यति । यद्वा यद्यहमद्येतेषां वैयावृत्यं कुर्याम्, तदा । तेऽपि कदाचिद् ग्लानीभूतस्य मम वैयावृत्यं करिष्यन्ति । यद्वैतेन वैयावृत्येन साधवः सर्वत्र मम प्रशंसा करिष्यन्ति" इत्यादि-तदा तस्य छन्दनाऽनिष्टसाधनं भवति । यतः प्रार्थनीयवस्तूनां शेखरकल्पं परमपदं दातुं या जिनाज्ञा समर्था, अयं तु तया तुच्छभक्तपानवस्त्रकीर्त्यादिकमपेक्षते । ततश्चायं जिनाज्ञाया हीनताकारी भवति । १ तस्मादेव तस्य छन्दनाऽनिष्टफलदायिनी भवति । तस्मान्न केवलं छन्दनायां, किन्त सर्वत्र वैयावत्य स्वाध्यायगुरुभक्तिप्रवचनादिषु परमपदस्य तत्कारणीभूतानां ज्ञानदर्शनचारित्राणां तत्कारणीभूतसद्गुरुप्राप्तिजिनप्रवचनश्रवणादीनामेव चाशंसा कर्तव्या । न त्वन्यस्य तुच्छभक्तपानादेराशंसा युक्तिमती ॥४८॥ ____ अथ यो बालादिश्छन्दनां स्वीकरोति, स कीदृशेन भावेन युक्तः सन्गुणमाप्नोति ? कीदृशेन वा भावेन । का युक्तः सन्प्रत्यवायं प्राप्नोतीति पूर्वं प्रदर्शितमपि स्पष्टयति । कारेउ अ इअरो वि एत्तो एयस्स होउ लाभोत्ति । नो पुण अलसत्तणओ पच्चुवयारं च दाइंतो ॥४९॥ यः स्वयं रोगादिकारणवशाद् भक्तादिकमानेतुं न समर्थो भवति, स परस्य छन्दनां स्वीकर्तुं योग्यो भवति। तत्रापि "परसाधोरशनादिकं गृहीत्वोपभुज्य च मम स्वाध्यायदियोगानां वृद्धिर्भवतु" इत्याशयवान्नेव स छन्दनास्वीकारे निर्जराभाग्भवति । यस्तु स्वयं रोगवान्नपि भक्ताद्यानयनस्याशक्तिमानपि "स्वाध्यायादियोगानां वृद्धिर्भवतु" इत्याद्याशयरहित एवमेव छन्दनां स्वीकरोति, तस्य तु न निर्जरादिलाभो भवति । प्रत्युत जिनाज्ञापालने निरपेक्षः स ऐहिकसुखमात्रमिच्छन्मोहनिमित्तकं कर्मबन्धं करोति । यदि स्वयं भक्ताद्यानयने । शक्तिमान् भवति, किन्तु केवलमालस्यवान् परस्य छन्दनां स्वीकरोति, तर्हि चारित्रयोगेषु स्ववीर्यं निगृहयन्विपुलं वीर्यान्तरायकर्म बध्नाति । किञ्च ज्ञानाचारादय इव वीर्याचारोऽपि चारित्रमूलं प्रतिपादितमस्ति । ततश्च यदि साधुर्वीर्याचारं न पालयति, तदा तु वीर्याचाररूपं मूलं विना चारित्रं कथं तस्य विशुद्धं भवेत् ? कथं वा चारित्रमवतिष्ठेत् ? तस्माद् शक्तौ सत्यामपि परस्य छन्दनां स्वीकुर्वाणस्य निर्जरा न भवति, अनर्थश्च भवतीति बोध्यम् । अत्रापवादोऽप्यस्ति । तथा हि – रत्नाधिकादयः स्वयं भक्ताद्यानयने यद्यपि शक्तिमन्तो सन्ति, किन्तु लब्धिधारिणां क्षुल्लकादीनां भक्तिकरणस्य यदि तीव्रा भावना विद्यते । तत्र रत्नाधिकादयो "भक्तिमतः साधोर्भावना मा छिद्यताम्" इति तद्धितमात्रार्थं तस्य छन्दनां स्वीकुर्वन्ति । तत्र ते विशुद्धपरिणामाः सन्तो दोषभाजो न भवन्ति । "परेषां भक्तिमतां साधूनां मद्भक्तिकरणेन विपुला निर्जरा भवतु" इति सम्यक्परिणामभाजामालस्यादिदोषविरहितानां छन्दनास्वीकारे न दोष इति निष्कर्षः । प्रायो गीतार्थरत्नाधिकादीनामेव प्रतिपादितरीत्या शक्तौ सत्यामपि परस्य छन्दनायाः स्वीकारेऽधिकारः, नई त्वपरेषामिति युक्तमुत्पश्यामः । तथा 'त्वं मदर्थमशनादिकमानय । अहं भवच्छन्दनां स्वीकरोमि । भविष्यत्काले च तव FGELEGEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE RESSESSESEREEEEEEEEEE DESSSSSSSSSSS महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८१ MOSTERIODSSSSSSSSSSSSSSSSSSORTERSORRESSESSETTERESTIONSORRORE
SR No.022207
Book TitleSamachari Prakaran Part 02
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages278
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy