________________
ARRORRIN0000RRRRRRRRRRRRRROM Eना सामाचारी , ते प्रतिषेधं कुर्वन्ति । तदाऽस्माकं भावोऽपि निपतति । इत्थञ्च बालादिभिरग्रहणे फलाभाव एव-इति ।
आचार्यः समादधाति । र जइ वि हुण दाणगहणप्पभवं सुकडाणुमोअणं तत्थ । तह वि तयं विहिपालणसमुब्भवं होइ णियमेणं ॥४७॥ र यत्तावद् भवतोक्तं, तत्सत्यमेव । यदा गुर्वादयः साध्वानीतमशनादिकं गृह्णन्ति, तदा साधूनां मनसि सुकृतानुमोदनं समुत्पद्यते यथा "मयाऽद्य सुष्ठ भक्तिः कृता, असारस्य शरीरस्यात्र संसारेऽयमेव सम्यगुपयोगः, यदनेन शरीरेणैतादृशां त्रिलोक्यां दुर्लभदर्शनानां महामुनीनां वैयावृत्यकरणं प्राप्यते । धन्योऽस्मि कृतकृत्योऽस्मि । विच्छिन्नसंसारोऽस्मि पुण्यात्माऽस्मि, यदद्य मया गुर्वादीनामशनादिदानेन भक्तिः कृता" इति ।
यदा च गुरवो न तदानीतमशनादिकं गृह्णीयात्, तदा तु प्रतिपादितं स्वसुकृतानुमोदनं नैव तन्मनसि भवेदिति । तज्जन्यलाभोऽपि तस्य नैव स्यात् ।।
किन्तु तदापि सम्यग्जिनाज्ञापालनरूपस्य स्वसुकृतस्यानुमोदनन्तु तन्मनसि समुत्पद्यत एव । स तु चिन्तयति - "यद्यपि न मदानीतमशनादिकं गुर्वादिभिर्गृहीतम्, तथापि मया जिनाज्ञापालनन्तु सम्यगेव कृतम्। प्रभूतकालं यावदहं शुभभावेन भावितोऽभवम् । खल्वनादौ संसारे सूक्ष्माऽपि जिनाज्ञा शुभभावपूर्वकं पालयितुं । है दुर्लभैव । सा तु मया पालिता" इत्यादि । ततश्च तादृशशुभभावजन्यं फलं तस्य भवत्येवेति न तदाऽपि छन्दनासामाचारी निष्फला ।
ननु छन्दनां कुर्वतस्तावद् भवतु गुणः, यस्तु छन्दनां स्वीकरोति, स तु कर्मबन्धमेव कुर्यात् । यतस्तेन । स्ववीर्यं न स्फोरितमिति चेन्न, स हि बालो वृद्धो ग्लानो वा स्वशक्तावसत्यामेव परस्य छन्दनां स्वीकरोति । से तदाऽपि स "अहोऽयं लब्धिधारी महात्मा कृतपुण्योऽस्ति, योऽदीनमना निर्जरार्थमस्माकं वैयावृत्यं करोति । अहं
तु तं प्रति कमप्युपकारं न करोमि । किन्तु यन्मयाऽस्याशनादिकं गृहीतं, तदपि सुष्ठ कृतम् । यतोऽस्य मद्ग्रहण मात्रात्शुभभाववृद्धिः सञ्जाता । न चाहमपि वीर्याचारं निगूहामि । किन्त्वशक्त्यादिकारणत एवास्य निमन्त्रणां स्वीकरोमि । तथाप्यस्याशनादिकं यन्मया गृहीतं, तेन ममापि स्वाध्यायसंयमादियोगानां वृद्धिर्भविष्यति । अहमपि च यदा प्रगुणो भविष्यामि, तदाऽवश्यं बालादीनां वैयावृत्यं करिष्यामि" इत्यादिरूपं स्वसुकृतानुमोदनं परसुकृतानुमोदनञ्च करोतीति तस्यापि महान्गुणः संजायते ।
___ यदा स छन्दनां न स्वीकरोति, तदापि स वैयावृत्यकरस्य वैयावृत्यरूपं सुकृतमनुमोदते एवेति तदापि तस्य । * गुणो भवति ॥४७॥
अथ छन्दनाकारी यादृशभावेन छन्दनायाः फलं प्राप्नोति, यादृशभावेन च छन्दनाया सकाशादनिष्टं प्राप्नोति। तादृशभावौ प्रदर्शयति । नाणादुवग्गहस्सासंसाए छंदगो कुणउ किच्चं । ण य पत्थितो तत्तो पच्चुवयारंच कित्तिं च ॥४॥ ___ "साधून्प्रति छन्दनाकरणद्वारा यद्यहं वैयावृत्यं कुर्याम्, तदाऽवश्यं मम ज्ञानस्य सम्यग्दर्शनस्य चारित्रस्य । विशुद्धिर्भविष्यति । यत एते साधवो ज्ञानदर्शनचारित्राराधकाः, ततस्तेषां वैयावृत्यकरणात् तदर्थं छन्दनाकरणाच्च
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
SODESSESSSSSSSSSES
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८०