________________
PERSSEEEEEEEEES
SecccccccesscamaraGGEREGGGEasatssa
CEELEVEGELEEEEEEEEEEEEEEEEEEEEEEBECCEESECEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEC
HINDEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEETTEAM छEना सामायारी
गुरुराह - ये तु ग्लानबालवृद्धादयः स्वयं स्वगोचरीमानेतुमसमर्थाः । तदर्थं लब्धिधारिणामधिकार नयनमनुज्ञातमेव । तथा कदाचिन्मिष्टान्नादिकं प्रायोग्यद्रव्यं लब्धिधारिणा लभ्येत । स च जानाति यथा "अमुकं द्रव्यमवश्यममुकप्रमाणममुकसाधवो ग्रहीष्यन्त्येव" इति । तदा स तद्रव्यमानयेत्, छन्दनाञ्च कुर्यात् । किञ्च प्राय एते लब्धिधारिणोऽल्पभोजनेऽधिकभोजने च समर्था भवन्ति । तस्मादधिकानयनान्तरं यदि कोऽपि न गृह्णीयात्, तदा त एव तद् भुनक्ति । न च मन्दा भवन्ति । यदि चानीतं द्रव्यं बहवः साधवो गृह्णीयात्, तदाऽल्पभोजनं कुर्वन्ति। न चापि मन्दा भवन्ति । एवमनेकप्रकारैश्छन्दना संभवतीति न लब्धिधारिणां
तपस्विनाञ्चाधिकानयने कश्चिद्दोषः । तस्मात्तेषामधिकानयनस्यानुज्ञा जिनवरैर्दत्ता। व अत्रेदमपि बोध्यम् । ते लब्धिधारिणोऽधिकाशनादिकमानीय बालादिभ्यो निमन्त्रणापूर्वकं ददति । किन्तु । ते बालादिषूपकारकारिणो न गण्यन्ते । प्रत्युत बालादय एव लब्धिधारिषूपकारकारिणो भवन्ति । यतः।
बालादिभिस्तेषां निमन्त्रणा स्वीकृता, ततश्च तेषां विपुलनिर्जराऽभवत् । यदि बालादयो न भवेयुः, तदा ते से लब्धिधारिणो कान्प्रति निमन्त्रणां कृत्वा विपुलनिर्जरां प्राप्नुयुः ? ततश्च मार्दवशालिनो लब्धिधारिणस्तपस्विनो।
वा निमन्त्रणायामभिमानं नैव बिभ्रति, प्रत्युत नम्रा एव भवन्ति । बालादीनाञ्च स्वस्मिन्नुपकारं मन्यन्ते ।। अभिमानवतामत एव कटुवचनवक्तृणान्तु निमन्त्रणा निष्फलैव विपरीता वा भवतीति रहस्यम् ॥४५॥
शिष्यः प्राह - लब्धिधारी साधुग्र्लानाद्यर्थमधिकमशनादिकमानयति । गुरोरनुज्ञां गृहीत्वा च बालादीन्प्रति छन्दनां करोति । किन्तु तदा बालादयो यदि कुतश्चित् कारणात्तदानीतमशनादिकं न गृह्णीयुस्तदा तु तेषां साह छन्दना निष्फलैव भवेत्, न तेषां तत्फलं संभवेद्-इति ।
आचार्यः समादधाति ।। आणासुद्धो भावो देइ बहुंणिज्जरंण गहणं वि ।असणागहणेऽवि तओ फलसिद्धी छंदगस्स भवे ॥४६॥ ___ बालग्लानवृद्धाद्यर्थमधिकमशनादिकं तत्प्रायोग्यमानीय गुरोरनुज्ञां गृहीत्वा लब्धिधारिणा बालादीन्प्रति निमन्त्रणा कर्तव्येति हि पारमेश्वर्याज्ञा । ताञ्च जानानः जिनाज्ञाबहुमानवान् साधुर्जिनाज्ञापालने दृढयत्नवान् अवश्यं । शुभभावपूर्वकं यथावज्जिनाज्ञां विदधाति । तस्य च शुभो भावो जिनाज्ञया शुद्धोऽस्ति । स एव च भावस्तस्य लब्धिधारिणः विपुलनिर्जराजनकः प्रकृष्टपुण्यानुबन्धिपुण्यबन्धजनकश्च सम्पद्यते । तत्र बालादयोऽशनादिकं गृह्णन्तु वा न वा, न तेषां ग्रहणमत्र छन्दनासामाचारीजन्ये लाभे कारणम् । अत एव ते यदि तृप्ताः सन्तो नाशनादिकं गृह्णीयुः, तदापि छन्दनां कुर्वाणस्य तु फलसिद्धिर्भवत्येव । ___आत्मपरिणाम एव तत्त्वतः फलजनको भवति । यदि च बालादयो गृह्णन्ति, किन्तु तदा छन्दनां कुर्वाणस्य तेषु तिरस्कारभावो भवेत्, तदा तु स लब्धिधारी विचित्राशुभकर्मबन्धक एव स्यात् । यदि च ते न गृह्णन्ति, किन्तु । लब्धिधारी जिनाज्ञाशुद्धं भावं बिभृयात्, तदा तु तस्य भावानुसारेण महान्लाभः स्यादेव । छन्दनासामाचारीपालनरूपो व्यवहारस्तु शुभपरिणामवर्धक इति कृत्वा सोऽपीष्यत एव । न हि तथाविधव्यवहारपालनं विनैवमेव शुभो भावो वर्धत इति बोध्यम् ॥४६॥
शिष्यः प्राह – ननु यदा गुर्वादयोऽस्मदानीतमशनादिकं गृह्णन्ति, तदाऽस्माकं भावोऽतीव वर्धते । यदा तु।
SISTRISTIANE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी. १७८ SssssssssesGEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEERIES