Book Title: Samachari Prakaran Part 02
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 192
________________ CEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE SEARRIERRIERRIERRIERTAINM E NORM निभvel सामाधारी or ननु तथाप्यनादिवासनावासितान्तःकरणा वयं कथं विषयसुखाभिलाषं परित्यज्य मोक्षे मोक्षोपाये चल र दृढाभिलाषवन्तो भवाम इति कथयास्माकं कञ्चिदुपायं । येन मोक्षे मोक्षोपाये च दृढाभिलाषवन्तो भवाम इति । शिष्यप्रश्नं श्रुत्वा परोपकारैकरसिकमना आचार्य उपदिशति । माणुस्सं संसारे मरुम्मि कप्पदुमो व्व अइदुल्लहं । एयं लभ्रूण सया अप्पमत्तेणेव होयव्वं ॥५३॥ ___ यथा हि यत्र मरुभूमौ तृणमपि न लभ्यते, तत्र कल्पद्रुमस्य तु कथैव का ? एवमेव चतुरशीतिलक्षयोनिकेऽस्मिन्संसारे त्रसत्वमपि दुर्लभम्, प्रत्येकशरीरित्वमात्रमपि च दुर्लभं । तदा मनुष्यभवस्य तु का वार्ता ? किन्तु यथा प्रथमारकादिप्रभावात् मरुभूमावपि कल्पद्रुमो महापुण्यवता युगलिकादिना प्राप्यते । तथैव महापुण्यवता जिनवचनश्रवणादियुक्तो मनुष्यभवः प्राप्यते । इत्थञ्च यतो मानुष्यमतिदुर्लभम् । तस्मादेव तल्लब्ध्वा सदा मोक्षोपायेषु प्रमादत्यागवतैव भवितव्यम् । येन पुनरपि संसारभ्रमणं तज्जन्यदुःखानि च न भवेत् । न नाम जिनवचनश्रवणादिविशिष्टं मानुष्यं विना संसारभ्रमणभङ्जकः कश्चिदन्य उपायः । इदञ्च तत्वं यस्य मनसि वज्रेणालिखितमिव सञ्जायते, स आलस्यमतिभ्रमादिदोषान्परित्यज्यानवरतं मोक्षे । र तदुपायेषु च तीव्राभिलाषवान् भवतीति बोध्यम् ॥५३॥ ननु युक्तमेव भवत्प्रतिपादितं तत्त्वं । किन्तु तस्य साधोरनवरतमेव मोक्षोपायेषु तीव्राभिलाषो वर्तत इति तु न सम्यगाभाति । स्वाध्यायकरणानन्तरं भवतु वैयावृत्यकरणेऽभिलाषः । यतस्तेन वैयावृत्यं न कृतम् । किन्तु र यदा निमन्त्रणां कृत्वा गोचरीं गत्वाऽशनादिकमानीय छन्दनां कृत्वा, साधुभ्यो यथोचितं दत्वा स कृतकृत्यो भवति । तदा तु तस्य वैयावृत्यस्याभिलाषो नैव भवेत् । यतस्तेन वैयावृत्यं कृतमेव । न तु कृतस्य। करणेऽभिलाषो कस्यापि भवति । न हि रसवतीं कृत्वा विश्राम्यन्त्या गृहिण्यास्तदैव रसवतीकरणाभिलाषो वर्तते। तस्मादनवरतं मोक्षोपायेष्वभिलाषो नैव घटते । यदि तावत्स्वाध्यायाभिलाषानन्तरं वैयावृत्याभिलाषस्तदनन्तरं । प्रतिलेखनाभिलाषस्तदनन्तरं प्रतिक्रमणाभिलाष इत्यादिरूपो मोक्षोपायेषु परावर्तमानोऽभिलाषो भवतोच्येत, तदा तु कथमपि तमनुमन्यामहे, न तु स्वोचिते प्रत्येकस्मिन् मोक्षोपायेऽनवरतमभिलाषं मन्यामह इति चेत् न, सिद्धे मुणीण कज्जे तम्मि वि इच्छोचिया असिद्धम्मि । उक्टेि तेणेव य समत्थियं किरणमुत्थुत्ति ॥५४॥ यत्तावदुक्तं भवता – रसवती कृत्वा विश्राम्यन्ती गृहिणी न रसवतीकरणाभिलाषवती भवति-इति, तदर्धसत्यम् । यतो या रसवती तया कृता, तत्करणस्याभिलाषस्तु तस्या नैव भवति । किन्त्वग्रेतनदिने करिष्यमाणाया रसवत्या अभिलाषस्तु तस्य संभवत्येव → श्वो मम जामाता दुहितृयुक्तो समागमिष्यति, स च । ममातिप्रियः, तदर्थञ्चामुकां रसवतीं करिष्यामि – इत्यादिरूपोऽभिलाषस्तस्या भवत्येव । ____ अथ वा येन सहस्रधनं लब्धं, तस्य लब्धे सहस्रेऽभिलाषो मा भवतु । किन्तु यत्सहस्रं तेन न लब्धं, किन्तु भविष्यत्काले लप्स्यमानं वर्तते, तस्मिन्तस्याभिलाषो वर्तत एव । तथा सहस्रधनाधिपतिर्लक्षधनमीहत एव । लक्षाधिपतिः कोटिधनमीच्छत्येव । कोट्याधिपतिर्नृपत्वमभिलषत्येव । नृपस्तु चक्रवर्तित्वं, चक्रवर्ती च देवत्वं, EEEEEEEEEEEEEEEEEEEEEEEEEGCCCCECECECECECECOG SSSSSSSS महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी. १८७ PremRRECTORRECENTERESTERectacuasaccuERVEReects

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278