Page #1
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुः २६
सङ्कलनम् : कीर्तित्रयी ॥
प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ॥
वि.सं. २०६७, ई.सं. २०११
मूल्यम् : रू. १००/
जालपुटसङ्केतः
प्राप्तिस्थानम् : श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर
१२, भगतबाग, शेठ आणंदजी कल्याणजीनी पेढी समीप, पालडी, अमदावाद - 380007 दूरभाष : 079-26622465, 09408637714
सम्पर्कसूत्रम् : "विजयशीलचन्द्रसूरिः"
C/o. Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower, Paldi, Ahmedabad-380007 दूरभाष : 079-26574981 M. 9979852135
email :
[email protected]
मुद्रणम् : 'क्रिष्ना ग्राफिक्स'
नारणपुरा जूना गाम, अमदावाद-३८००१३ दूरभाष : 079 - 27494393
Page #2
--------------------------------------------------------------------------
________________
| वाचकानां प्रतिभावः
मान्याः, सादरं प्रणामाः ।
पञ्चविंशे 'नन्दनवनकल्पतरौ' _ 'आनन्दस्य क्षणे' विद्वज्जनेषु ममाऽपि नामोल्लेखो नितरां प्रसादयति माम् । सज्जनाः स्वल्पमपि सत्कर्म संस्मरन्ति । डा. अभिराजराजेन्द्रमिश्रस्य 'अनुभूतिशतकम्' अतीव मार्मिकं विद्यते । अत्र पञ्चाशत्तमं पद्यम् अभिव्यनक्ति यत् सृष्टिकालादेव धर्मस्य प्रादुर्भावो भवति । धर्मः सनातनो भवति। ३२तमे पद्ये 'लम्बरा' इति पदस्य अर्थो मया न ज्ञायते। 'मृदङ्गदासप्रहसने' डा. मिश्रमहोदयेन कपटाचरणस्य परिणामः प्रस्तूयते ।।
'मम हृदयस्पर्शिनी घटना' इति स्तम्भे मनिवर्यैः प्रणीताः प्रस्तताश्च सर्वा घटना नितरां हृदयं संस्पशन्ति । 'ऋणमुक्तिः' इति घटना विशेषेण प्रभावयति माम् । अद्याऽपि लोके निःस्पृहा विद्यादानरता विद्वद्वर्या विराजतेतराम् । 'जगतः सौन्दर्ये' आधुनिकसमाजस्य वास्तविकी कुरूपता प्रस्तूयते, यत्रैको युवा नेत्रशक्तिमधिगम्याऽपि जीविकामनधिगम्य पुनर्नेत्रशक्तिविहीनोऽभूत् । 'स्वर्णिमगुजरातस्य विश्वार्थमैक्यसन्देशः' न केवलं गुजरातस्य वर्तते, अपि तु समग्रभारतस्याऽस्ति । समेषां धर्माणां सम्प्रदायानां सिद्धान्तानां च समाश्रयः तु मन्ये भारतदेश एवाऽऽसृष्टेः ।।
__कामये 'नन्दनवनकल्पतरो:' आगामिनी शाखा कलिकालसर्वज्ञस्य जीवितं गुणान् सिद्धान्तान् वैदुष्यञ्च सर्वतोभावेन प्राकाश्यं नयतु । मया स्वकीये 'श्रीरामचरितमानस का काव्यवैभव' इति हिन्दी ग्रन्थे श्रीरामचरितमानसे प्रयुक्तस्य 'वरुणपाश' इति शब्दस्य तात्पर्यबोधाय कलिकालसर्वज्ञस्य 'व्युत्पत्तिरत्नाकरकलिताअभिधानचिन्तामणिनाममाला' इति ग्रन्थस्य सदुपयोगः कृतः । विदुषां कृतेऽस्य कोशस्य महान् सदुपयोगो वर्तते । अत्र तस्य महापुरुषस्य ज्यौतिषशास्त्रस्य पाण्डित्यमपि शोभतेतराम् । नक्षत्रानामुल्लेखेऽत्र तासां देवतानां सङ्केतो वर्तते । यथा 'अथाश्विन्यश्वशकिनी दस्रदेवता' (अभिधान १०८)।
विनीतः
डा० रूपनारायणपाण्डेयः मान्यवरेषु सम्पादकमहोदयेषु,
सादरं विकसन्तुतमां मे प्रणतयः । कुशली कुशलं कामये "स्वस्ति" ।
नन्दनवनकल्पतरोः पञ्चविंशी शाखा १०+१२० = १३० पुटैः (क्राउन-आकारैः), उत्तमकर्गजैः शोभनमुखपुटैः हस्तलग्ना समयेन । तस्याः चाकचिक्यमयं स्फुरणं त्वहं रात्रावेव प्राप्तवान्, स्फुरदक्षरवर्णैः ।
अभिराजराजेन्द्रमिश्राणां शतक-अन्योक्ति-गलज्जलिकाभिः सह प्रहसनं सम्पुटीकृत्य शाखेयं नितरां चकास्ति । पुनश्च विकसन्ति आचार्य रामकिशोरमिश्र-एस्.जगन्नाथ-वासुदेवपाठकमुनिकल्याणकीर्तिविजयानां लेखा: इति गन्धः सुवर्णे । जिनानां चित्रकाव्यानि, कथाः, किंबहुना प्राकृतमपि अस्मान् प्रचोदयति इति पुनर्वक्तव्यं नस्ति ।
Page #3
--------------------------------------------------------------------------
________________
प्रास्ताविकम्
___ "सर्वभाषीय-विश्वपुस्तकमेलायामस्माभिर्नीतानां पुस्तकानां ३०-४० प्रतिशतं पुस्तकान्यपि यदि विक्रीतानि स्युस्तदाऽपि वयमत्यन्तं हृष्टा भवामः । एतादृशीं धारणामेव मनसिकृत्य बेङ्गलूरुनगरे विश्वसंस्कृतपुस्तकमेलायामहं केवलं कुतूहलेन तत्रत्यं गतिविधि द्रष्टुं विविधसंस्थाभ्यश्चाऽस्मत्प्रकाशितानि पुस्तकानि दर्शयितुं गतवानहम् । किन्तु तत्र -
। द्वितीयदिन एव प्रायः सर्वेषामपि प्रकाशकानां पुस्तकापणा रिक्ता दृष्टाः, । आहत्य साधिकचतुष्कोटिरूप्यकाणां पुस्तकानि विक्रीतानि, - अस्मत्पुस्तकान्यपि हठात् क्रीतानि जनैः,
- सर्वत्र संस्कृतमयं वातावरणं जनानां संस्कृतप्रेम च दृष्टम् - इत्यादि ।
यद्यहं तत्र कुतूहलेनाऽपि न गतोऽभविष्यंस्तदा निश्चयेन बह्वनुतप्तोऽभविष्यम्"|- एतानि वचनानि सन्ति अहमदाबादनगरस्थ-सरस्वतीपुस्तकभण्डाराख्यस्य पुस्तकसंस्थानस्वामिनः ।
____ एवमन्यान्यमाध्यमैरस्माभिर्विश्वसंस्कृतपुस्तकमेलाविषये बहु-बहुतरं श्रुतं पठितं च । एतादृशां श्रेष्ठानां कार्यक्रमाणामायोजनार्थं संस्कृतभारतीसंस्थाया राष्ट्रियसंस्कृतसंस्थानस्याऽन्ये च कार्यकरा नूनं धन्यवादार्हाः । यत एतादृशाः कार्यक्रमा एव संस्कृतभाषायाः प्रसार-प्रचाराद्यर्थं दाढापादनार्थं च प्राणवायुसमा भवन्ति ।
अद्यतनः समाजो हि महता वेगेन भौतिकोन्नति तथाकथितसुखं च मृगजलतुल्यं प्राप्तुं प्रधावतीव । सामाजिक-नैतिक-व्यवहारिकमूल्यानि चाऽप्यद्यत्वे प्रतिदिनं परावर्तनं प्राप्नुवन्ति । ह्यो यन्निषिद्धमासीत् तदद्य हठात् स्वीकृतं भवेत्, यच्चाऽद्य प्रस्तुतं स्यात् तत् श्वो विरुद्धमपि भवेत् । एवं च सति न्याय्यः पन्थाः कः? - इति निर्णेतुं निश्चेतुं वाऽपि न शक्नोति आधुनिको लोकः । एतादृशि काले जनेभ्यो योग्य मार्गदर्शनं कर्तुं प्रभूष्णुरेका संस्कृतभाषैव दीपदण्डतुल्या । संस्कृतभाषा यदि शिक्षिता स्यात् तदा तन्माध्यमेनैव समग्रोऽपि शास्त्रमहार्णवस्तरीतुं सर्वथा सुकरो भवेत् । अथवाऽलं तेन महार्णवेन, एकैकोऽपि नीत्यादिबोधको ग्रन्थ एव, अरे ! केचन श्लोका एवाऽस्मान् समग्रमपि जीवनं स-सुखं, सानन्दं च जीवितुं न्याय्यं पन्थानं च निर्णेतुं निश्चेतुं तत्र च सञ्चरणाय पूर्णतया मार्गदर्शनं साहाय्यं च कर्तुं सर्वथा समर्थाः ।
एतादृशमहत्त्वपूर्णायाः संस्कृतभाषायाः प्रचार-प्रसाराद्यर्थं प्राणवायुप्रदानतुल्यं युगकृत्यं कुर्वाणायाः संस्कृतभारत्यादिसंस्थायाः परिश्रमोऽवश्यं स्तुत्यः । एतेन परिश्रमेण संस्कृतभाषा प्रोल्लसिता भवतु, भारतीयजनसमाजस्य च भौतिकतृष्णागहने कुत्रचिद्विनष्टं सत्त्वं पुनरप्युज्जीवतु विकसितं च भवित्वित्याशया विरमामः। जीरापल्ली-तीर्थम् (राजस्थानम्)
कीर्तित्रयी चैत्रशुक्ला पञ्चमी, २०६७
Page #4
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतर: २६
अनुक्रमः
कृतिः
को
पृष्ठम्
स्व. प्रवर्तकमुनिश्रीयशोविजयः
श्रीपार्श्वनाथस्तोत्रम् ॥ गुरुभगवद्भयः शासनसम्राट
श्रीविजयनेमिसूरीश्वरेभ्यः पत्रम् गीतद्वयम्
१. याचेऽहम्
२. विभीता सीता वन्दना
मुनिलावण्यविजयः प्रा. अभिराजराजेन्द्रमिश्रः
डॉ. वासुदेव वि. पाठकः 'वागर्थः'
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविशेषः
१. हेमस्तुतिः २. श्रीहेमचन्द्रस्तवः ३. कलिकालसर्वज्ञसूरीश्वराणां प्रशस्तं जीवनम् ४. हैम-सुभाषितानि ५. श्रीहेमचन्द्राचार्याः तैविरचितं
महादेवद्वात्रिंशिकास्तोत्रं च
विजयशीलचन्द्रसूरिः प्रा. किशोरचन्द्रपाठकः आ. विजयहेमचन्द्रसूरिः विजयशीलचन्द्रसूरिः
६. कलिकालसर्वज्ञस्य समुदारदृष्टिः ७. कलिकालसर्वज्ञश्रीहेमचन्द्राचार्याणां जीवनचरितम् ८. श्रीहेमचन्द्राचार्याणां शिष्यवृन्दम् ९. श्रीहेमचन्द्राचार्याणां प्रमुखसाहित्यसृष्टिः १०. श्रीहेमचन्द्राचार्याणां काव्यसृष्टिः ११. श्रीहेमचन्द्राचार्याणां प्रशस्तिः १२. कलिकालसर्वज्ञस्य समुदारदृष्टिः १३. कलिकालसर्वज्ञस्य योगसिद्धिः
१४. प्रज्ञातीर्थस्य वन्दनम् प्राकृतविभागः
आर्हन्त्यम् (अरिहंतत्तं) परिशिष्टम्
आ. विजयशीलचन्द्रसूरयः अनु. मुनि त्रैलोक्यमण्डनविजयः मुनिधर्मकीर्तिविजयः मुनिकल्याणकीर्तिविजयः मुनिकल्याणकीर्तिविजयः मुनिकल्याणकीर्तिविजयः मुनिकल्याणकीतिविजयः मुनिकल्याणकीर्तिविजयः मुनिविश्रुतयशविजयो गणिः मुनिविश्रुतयशविजयो गणिः मुनिअक्षयरत्नविजयः
१०३ १०४
अमृत पटेल
१०६
१०८
Page #5
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतर: २६
अनुक्रमः
.
कृतिः
कर्ता
पृष्ठम्
१११
राजेशकुमार मिश्रः मुनिधर्मकीर्तिविजयः
डा. रूपनारायणपाण्डेयः
आस्वादः
तीर्थङ्करमहावीरस्य उपदेशाः पत्रम् ग्रन्थसमीक्षा
'वेदमहत्त्वम्' कथा
महादानम् को मित्रधर्मः ? वात्यासारः तीर्थङ्करपार्श्वनाथ कथा कथात्रयी
हेतुरत्र भविष्यति मर्म नर्म वार्ता
श्रीहेमचन्द्राचार्यचन्द्रकार्पणसमारोह नन्दनवनकल्पतरोः पञ्चविंश्याः शाखाया लोकार्पणनिमित्तमायोजिता संस्कृत-सभा हृदयसन्तर्पकं वृत्तम् कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यस्य प्रतिभा नन्दनवनकल्पतरोः उद्भवो विकासयात्रा च संस्कृतकाव्यसाहित्ये जैनमुनीनां प्रदानम्
मुनिधर्मकीर्तिविजयः मुनिधर्मकीर्तिविजयः डॉ. नारायणदाशः डॉ. आचार्यरामकिशोरमिश्रः सा.ऋजुमतिश्री: एच्. वि. नागराजराव् कीर्तित्रयी
M V००१
WWW Wo 0
or
कीर्तित्रयी
३४
१३९
कीर्तित्रयी मुनिरत्नकीर्तिविजयः मुनिधर्मकीर्तिविजयः मुनिकल्याणकीतिविजयः मुनित्रैलोक्यमण्डनविजयः
१४१
Page #6
--------------------------------------------------------------------------
________________
Rad
PO)
॥ श्रीपार्श्वनाथस्तोत्रम् ॥ स्व. प्रवर्तकमुनिश्रीयशोविजयः
ते सर्वदैव भुवने न च शोचयन्ति क्लेशापदं सपदि ते प्रविमोचयन्ति । तान् वैरिणोऽपि वचनैर्न च वञ्चयन्ति ये त्वां सुपुष्परचनैररमर्चयन्ति ॥॥ ते कर्मरज्जुनिगडं त्वतिखण्डयन्ति सूक्तैर्विदग्धसमितिं सुविमण्डयन्ति । ते वैरिचक्रमपि चाऽत्र न चण्डयन्ति ये त्वत्स्तवेन दुरितन्त्वतितुण्डयन्ति ॥२॥ विघ्नव्रजं सततमेव निवारयन्ति बुद्ध्या त एव सदसच्च विचारयन्ति ॥ आपत्ततिं जिनवर प्रविदारयन्ति त्वद्भक्तिमेव हृदि ये प्रविधारयन्ति રો ते सिद्धिसौधगमने परितूरयन्ति संसारघोरविपिनं परिचूरयन्ति ॥ ते लोभमित्रनिवहं परिशूरयन्ति ये त्वलवस्तवभरं परिपूरयन्ति पापप्रवाहमिह ते परिपीलयन्ति पुण्यव्रजं प्रतिदिनं परिकीलयन्ति ॥ कामाममार्गमनिशं परिमीलयन्ति ये त्वन्नवस्तवभरैः परिशीलयन्ति ॥५॥ श्रोतॄन् सुधर्मवचनैर्भुवि पावयन्ति मायालताञ्च विकटां परिलावयन्ति ॥ तेऽल्पं जनानपि कदापि न दावयन्ति ये त्वां सुधारसमयं हृदि भावयन्ति ॥६॥ ते तोषपोषवचनैः परितूषयन्ति ध्यानामृतं धृतिगताः परिचूषयन्ति ॥ सज्ज्ञानदानमनिशं परिपूषयन्ति ये स्वं मनस्तव नवैः परिभूषयन्ति
છો ते पापपङ्कमनिशं परिशोषयन्ति क्रूरान् विरोधविततानपि तोषयन्ति ॥ चारित्रकन्दमतुलं परिपोषयन्ति त्वां पार्श्व पार्श्व इति ये परिघोषयन्ति ॥८॥ ते ज्ञानदानमनिशं प्रविदासयन्ति शान्तिं त एव हृदये त्वधिवासयन्ति ॥ दुष्कर्मकर्दममलं प्रविहासयन्ति ये भक्तितस्तव मनः प्रविकासयन्ति ॥७॥
ते दुःखाग्नि शमदमजलैर्देव ! निर्वापयन्ति स्वीयानेहःक्षणमपि वृथा नैव ते यापयन्ति संत्रस्तानामभयमनिशं सर्वतो दापयन्ति ये त्वद्भक्तिप्रवणहृदयं सद्गणे ख्यापयन्ति
Page #7
--------------------------------------------------------------------------
________________
॥११॥
ફરો
રૂ
ते भव्यानां भववनमहोदन्वतस्तारयन्ति स्वं शान्ताद्यैः सकलसुरसैर्भाषितं धारयन्ति ॥ विद्राव्यान्तर्भवकुविषयान् सर्वदोत्सारयन्ति ये त्वत्स्तुत्या स्वहृदमनिशं भक्तितः पारयन्ति तेऽद्रिप्रायानपि रिपुगणान् स्थानतश्चालयन्ति स्फीतं गीतं त्वतिशययशःपूरमास्फालयन्ति ॥ अंहःपडूं सततमिलितं स्वात्मनः क्षालयन्ति त्वद्भक्तौ ये सततमलसं चित्तमुत्तालयन्ति ते रागादीनतिरयरिपून सर्वतो ध्वंसयन्ति स्वान्तं शान्तं दमयमगुणैः सर्वदोत्तंसयन्ति ॥ कर्मवाताँश्चिरतरचितानाशु विसंसयन्ति ये त्वत्पादानभिनवनवैः सर्वदा शंसयन्ति ते सद्युक्तिप्रवरवचनैर्वादिनस्त्रासयन्ति वादित्रस्तान् सदसि विमुखान् सर्वदाऽऽश्वासयन्ति साधुस्स्वान्ताब्जवनमनिशं सर्वथोल्लासयन्ति ॥ ये त्वत्कीर्तीः कलुषहरणीः सर्वत: कासयन्ति ते भव्यानां भवभयवतां सव्रतं ग्राहयन्ति शोकाकीर्णानतिभयभरान्नित्यमुत्साहयन्ति ॥ दोषारण्यं तृणमिव तपस्तेजसा दाहयन्ति ये त्वद्भक्ति प्रगुणहृदयं कर्म निर्वाहयन्ति ते पापौघं तरुमिव परध्यानतस्तक्षयन्ति शास्त्रव्रातान्विततगहनान् बुद्धितो लक्षयन्ति ॥ सत्तूप्त्यर्थं शुभफलभरं निर्भरं भक्षयन्ति ये त्वद्भक्तौ भविकमनुजान् सर्वदा दक्षयन्ति
॥१६॥
इति श्रीविविधभयविभञ्जनसज्जनमनोऽनुरञ्जनकुजननिर्बीजगञ्जनसमस्तसहृदयशिरःश्लाघ्यसुशीलशीलितशरीरशोभस्वसौभाग्यसन्दोहसुभूषितभूतलविततगहनगम्भीरस्वपरसमयारण्यविविधविलासपञ्चाननायमानश्रीमद्विजयनेमिसूरीश्वराणां पादपद्मेन्दिन्दिरायमाणविनेययशोविरचितं
श्रीपार्श्वस्य स्तुतिफलपशंसा
स्तोत्रं समाप्तम् ॥
Page #8
--------------------------------------------------------------------------
________________
पत्रमेकम्
शासनसम्राजां परमगुरुभगवतां श्रीविजयनेमिसूरीश्वराणां शिष्येष्वन्यतमा आसन् आचार्यवर्याः श्रीविजयलावण्यसूरीश्वराः । ते हि तर्क-व्याकरण-साहित्यादीनां पारगामिणो बहून् ग्रन्थान् बहूंश्च टीकाग्रन्थान् विरचितवन्तः । किं बहुना ? कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितः सिद्धहेमव्याकरणस्य बहन्न्यासोऽद्यत्वेऽत्यल्पप्रमाणः प्राप्यते, तस्य च विशालस्त्रुटितो भाग एतैः श्रीविजयलावण्यसूरीश्वरैः स्वप्रज्ञया पूरितः।
ते हि यदा मुन्यवस्थायामासन् तदा राजस्थानस्य सोजतनगरात् प्रायो वैक्रमे १९८४ तमे संवति तैलिखितमिदं पत्रं स्वगुरुभगवद्भयः शासनसम्राड्भ्यः । अत्र पत्रे तेषां छन्दोऽलङ्कारादीनां विशदं ज्ञानं काव्यविरचनसामर्थ्यं च विलोक्यते ।
Page #9
--------------------------------------------------------------------------
________________
गुरुभगवद्भ्यः शासनसमाट् - श्रीविजयनेमिसूरीश्वरेभ्यः पत्रम् मुनिलावण्यविजयः
मात्राच्छन्दस्सु आर्याप्रकरणम्
पथ्यावृत्तम् ई स्वस्ति श्रीमन्तं, प्रभूतभूतिगणनाथसन्तानैः । विरचितसंस्तवनरचनं, तथाऽजिनविराजितनुपार्श्वम् ॥१॥
विपुलावृत्तम् चन्दिरललितललाटतटं, विलसन्मङ्गलोल्लसितकायम् । परिचारकेशसन्मुकुटाापरदेहदेशं च ॥२॥
चपलावृत्तम् विमलं तथा त्रिलोकी-मनस्कमानसमरालबालनिभम् । वृषभासितेन गम्यं, मनोहरेण किल चरणेन ॥३॥
मुखचपलावृत्तम् भ्रष्टा जडाशया वै, कृपादृशा यस्य भूमिमण्डलके । स्वर्गङ्गा मान्यत्वं, दधते परममलशेखरकम् ॥४॥
जघनचपलावृत्तम् सरसश्रीखण्डानां, भोगानां चक्रिणा च प्रवरेण ।। परिचर्यमाणकायं, च चक्रिणा पावनाशवता ॥५॥ इत्यार्याप्रकरणम् ॥
Page #10
--------------------------------------------------------------------------
________________
अथ गीतिप्रकरणम्
गीतिवृत्तम्
व्यक्तिविशेषं वन्दे, सत्यपि च प्रस्तुतेतरश्लेषे ।
रागानर्तितमतिगं, रुद्रत्वं समदृशं च कमपीह ॥ ६ ॥ षड्भिः कुलकम् ॥
उपगीतिवृत्तम् स्तम्भितवादिस्तम्भातिशयेन स्तम्भनेशेन । धर्मोकस्तम्भेनाऽऽढ्यभुवमलङ्कुर्वतां तेषाम् ॥७॥
उद्गीतिवृत्तम्
दधति सुदर्शनरत्नं, पुरुषोत्तमतामपि प्रवराम् ।
कृष्णत्वगदाकर ते, विजहाना अपि सदा च ये तेषाम् ॥८॥
आर्यागीतिवृत्तम्
सकलकलाभाजः शुचिपक्षोदितोदितवरोदयाः सन्तोऽपि ।
परिहृतदोषाकरताः कक्षीकृतमित्रताश्च किल ये तेषाम् ॥९॥ इति गीतिप्रकरणम् ॥
अथ वैतालीयप्रकरणम्
वैतालीयवृत्तम्
आनन्द भास्वरा वराः, कल्याणधरा ये क्षमाधराः । पार्थिवता यैरुपेक्षिता, तेषां वै बुधसद्मनां सदा ॥ १० ॥
औपच्छन्दसिकवृत्तम्
सर्वसुमतिशेखराश्च सर्वासुमतिविशेषविनाकृता जगत्याम् । परिवर्जितपाक्षिक ग्रहा ये यदपि विज्ञानाश्रिताश्च तेषाम् ॥ ११ ॥ आपातलिकावृत्तम्
मध्यस्थतया विदिता ये, उपलोकाग्रसिद्धितयाऽपि । चारुक्रमपद्मगता ये, रसभाजोऽपि जडाशयकान् ॥१२॥
दक्षिणान्तिकावृत्तम्
अतीतभूषास्तथाऽपि ये, सदा सुमनसाभ्यर्चितक्रमाः । सदा प्रसन्नीकृता यकैः, व्रताः सुमनसां सत्फलप्रदैः ॥१३॥
Page #11
--------------------------------------------------------------------------
________________
उदीच्यवृत्तिवृत्तम् क्षितौ हि सारस्वतामृतैः शुभमालाकारैर्जगद्वरैः । विभक्तिरोचिष्णुभिः सदा साधुपदैर्बुधसम्मतैरिह ॥१४॥
प्राच्यवृत्तिवृत्तम् लावण्यसुमालिनः सदादिममहाशया वृत्तचारवः । लक्षातिगमानसम्मिता अवधिशालिनः सत्तरङ्गता ॥१५॥
प्रवृत्तक वृत्तम् तथा च सद्रूपशोभिताः पात्रगाश्च सन्तापहा नृणाम् । सदा सदुद्यानभूमयश्चारुभव्यकमलप्रबोधदाः ॥१६॥
__ अपरान्तिकावृत्तम् ये सदा च गीर्याणबन्धुरा मानपालिनो ये धनार्चिताः । कस्तु रागमायातु दुःखदे विषयकर्मणीत्थं वहन्ति ये ॥१७॥
चारुहासिनीवृत्तम् सदाऽजितवरास्तथाऽपि ये न कैरपि जिता धियां गृहाः । प्रसन्नमुखसोमसुन्दराः सुभद्रसुखदायिनस्तथा ॥१८॥ इति वैतालीयप्रकरणम् ॥
अथाऽनुष्टुप्पकरणम्
वक्र वृत्तम् अशत्रुघ्नाः सुमिताभिनन्दिता अपि ये तेषाम् । सद्वल्लभाः क्षमाकाशा ये सन्ति सन्ततं तेषाम् ॥१९॥
पथ्यावक्रम् वाचस्पतिधरा येऽपि विबुधाचार्यताधराः । स्याद्वादनिर्मितो भेदो मन्येऽहं धर्म-धर्मिणोः ॥२०॥
विपरीतपथ्यावक्रम् ये सदानन्दकानन-प्रदेशास्तिलकाधाराः । नयानुरागिणः सदा विविधागमभाजश्च ॥२१॥
Page #12
--------------------------------------------------------------------------
________________
चपलावक्र वृत्तम् यशोजोद्योतममलं प्रकाशं ज्ञानसम्भूतम् । पुष्पदन्ताविव दधुर्ये विश्वमुपकुर्वाणाः ॥२२॥
युग्मविपुला नरेन्द्रप्रभवो ये हि दुर्विषहप्रतापगाः । ये मौक्तिकफलाशाश्च साधुहंसा विवेकिनः ॥२३॥
नविपुलावृत्तम् बोधिं मणिं दधति ये जयन्तं तिमिरगणम् । कान्तिशालिनमनिशं पुण्यपुआप्यममलम् ॥२४॥
तविपुलावृत्तम् ये च सम्पदं सर्वदा भव्यानां नृणां सर्वदा ।
प्रवहन्ति विश्वोत्तमास्तेषां पवित्रात्मनाम् ॥२६॥ इत्यनुष्टुप्प्रकरणम् ॥ पुराणपसिद्धिए लच्छीचंदुब्भवाणं दीवालिलद्धनंदणभावाणं सायराणं व गहिराणं बालचंदसहोयराणं वरुणागासवयंसाणं व जणनयणमालासहस्सेहिं दंसणिज्जाणं । विशदशीलोत्कर्षेणैव 'नेमीशे'ति प्रसिद्धावपि स्थितये श्रीमद्विजयनेमिसूरीशेति सुवर्णपङ्क्तिनाम्नोद्वहतां चेतनचिन्तामणीनां जङ्गमकल्पतरूणां जगद्गुरूणां गुरुचरणानां चरणाम्भोजद्वयीमभिवन्द्य मरुधरान्तर्गतसोजितरोडाभिधग्रामाज्जित-जय-महेन्द्रयुतो लावण्याभिधो धर्मसूनुः मौलौ विरचिताञ्जलिर्मुदाऽदो विज्ञपयति । निजावदाताधरीकृतसुरशाखिनां पुण्यपुञ्जानां श्रीमतां कृपापत्रं हरियुतमुपलब्धम् । उपलभ्य च निर्धनशेखरश्चिन्तामणिमिव अमन्दानन्दपुलकिताङ्गोऽहं सञ्जातः । श्रीमतां प्रभञ्जनप्रकोपं रुधिरपतनं शरीरदौर्बल्यं श्रीमद्विजयनन्दनसरिपकवानां च वायप्रकोपं ज्ञात्वा चेतश्चिन्तायते । निदाघस्य मध्यमवयसि नाऽधिकं विहरिष्यामि । पक्षान्तरितं पत्रमवश्यं लिखिष्यामि, मम वातातिरिदानीं कनीयस्येवाऽस्ति । केवलं श्रीमद्भ्योऽन्यत्र विहतिः न्यायाभ्यासत्रुटिश्चाऽतीव शल्यप्रदा । तत्पूर्तये प्रबलौत्सुक्येऽपि संयोगवशेनाऽत्र व्यवस्थितः किं कुर्वे ? श्रीमतां शरीरस्वास्थ्यमस्मादृशां जीवनदवरिका, अतः वक्तुमनर्हत्वेऽपि शरीरस्वास्थ्यव्यवस्थां याचे । किमपि विनयपथप्रतिपन्थि लिखितं भवेत् तस्य क्षमां याचयामि ॥
Page #13
--------------------------------------------------------------------------
________________
गीतद्वयम् प्रा. अभिराजराजेन्द्रमिश्रः
१. याचेऽहम् सुखाय नैव धनं वैभवं प्रयाचेऽहम्
परार्तिनाशने तमेकपणं याचेऽहम् !! उपैति सान्द्रतमस्सर्वतो भयं सूते । खलीकरोति दृशं वर्त्मनि भ्रमीभूते । क्वचिन्न रज्जुरेव जायतां भुजङ्गो मे
ततो नु चण्डिके ! विवेककणं याचेऽहम्
परार्तिनाशने तमेकपणं याचेऽहम् ॥१॥ जगत्समग्रमेव दावसकुलं जातं समय॑देवमन्दिरं वधस्थलं जातम् ! अहो स्वबिम्ब एव हिंस्रसौनिको जातः
कमीक्ष्य कुत्र कथं मङ्गलानि याचेऽहम्
परार्तिनाशने तमेकपणं याचेऽहम् ॥२॥ विपर्ययो न जगति हन्त कीदृशो दृष्टः अभीष्टताङ्गतो जनोऽपि लोकितोऽनिष्टः । अहो नु सान्द्रशोणितं वहज्जलं जातम्
चरित्रहेम्नि ततः शुद्धतां प्रयाचेऽहम्
परार्तिनाशने तमेकपणं याचेऽहम् ॥३॥ जनश्रुतिः प्रतीयते समन्वितं भवनम् । शतैः सहस्रमितैरेकलस्य संश्रयणम् मनांसि खण्डितानि, खण्डिताश्च विश्वासाः
स्वराष्ट्रसीम्नि पुनरखण्डतां प्रयाचेऽहम्
परार्तिनाशने तमेकपणं माचेऽहम् ॥४॥ धने समागते, गतव हार्दिकी प्रीतिः प्रवर्धितेऽपि रक्षणे, प्रवर्धिता भीतिः । घनान्धकारलीनमीक्ष्यते जगत्तस्मात्
रविं प्रकाशवितरणाऽकृपणं याचेऽहम् परार्तिनाशने तमेकपणं याचेऽहम् ॥५॥
1. Combined Family.
Page #14
--------------------------------------------------------------------------
________________
२. विभीता सीता
वीक्षते विभीता सीता क्याऽस्ति देवरो मे
क्वाऽस्त्यरण्यबन्धुर्मेऽसौ क्वाऽस्ति सोदरो मे ? पूततीर्थसेवातूषा दोहदाऽभिभूता श्वापदप्रचारे वने क्वाऽहमत्र नीता ।
आपतेद् विराधो भूयो दूषणोडपरो मे ॥१ संशये निमग्ना साऽहं निर्णयं न जाने भाविनी ललाटन्तपा नियतिकथा का मे ?
भात्यदृष्टभोगोऽक्षीणो विपनिर्भरो मे ॥ २ भूमिगतभेदाज्जाता नो पिता न माता बने सुखं दुःखं सोढं पुनर्वनमवाप्ता
वनं भाति धातस्सम्प्रति भाग्यतस्करो मे ॥३
जानकीविलापं श्रुत्वा खगास्त्यक्तगानाः कुशग्रासविरता मृग्यो द्रुमा वेपमानाः
नो विभाऽवशिष्टा सूर्ये कौमुदी न सोमे ॥४ पृच्छन्ति सीताव्यथां स्थविरमृगवधूट्यः नयनसलिलवाक्यैः सर्वास्तां भृशं लिहन्त्यः
__ केन कुलिशघाता जाते ! अर्पितास्तवेमे ॥ ५ समुच्छलति सीतागर्भः प्रतीकाररोषात् मातृविपच्छूलं दृष्ट्वा पितुश्चाऽपि दोषात्
जनय जननि ! शीघ्रं यथाउनुभव विक्रमं मे ॥६ समाश्वसिहि वत्से ! प्रीत्या वचो भणति कोऽयम् वाल्मीकिनामा मुनिस्तातसखस्सोऽहम्
इतः परं पुत्रीभूता वसस्याश्रमे मे ॥ ७
Page #15
--------------------------------------------------------------------------
________________
वन्दना
डॉ. वासुदेव वि. पाठकः 'वागर्थ'
गौरीसुत गणाध्यक्ष सुरासुरनरार्चित । साफल्यं ते कृपासाध्यं शुभकार्येषु सर्वदा ॥
प्रभुं प्राणनाथं परेशं नमामि
वरां वत्सलां मातृभूमिं नमामि ।
दयार्द्रं कृपार्दं भजे विश्ववन्द्यम् गुरुं गौरवार्थं प्रसन्नं नमामि ॥
प्रभो भक्तिमत्ता भवेद् ज्ञानयुक्ता विभो ज्ञानशक्तिर्भवेत् कर्मयुक्ता । शुभा कर्मनिष्ठा भवेत् सौम्यताढ्या गतिर्मे भवेत् सद्गुरोराशिषाढ्या ॥
गुरोः पादपद्मे मुदा नन्नतिस्स्यात् गुरोः पूजनार्थं पवित्रा मतिस्स्यात् । कटाक्षैः कृपासारयुक्तैः गुरुत्वम् करोतु प्रसादेन सत्पात्रतां मे ॥
देशिकानां दयादृष्ट्या वृष्टिस्सर्वार्थसाधिका । तया स्यात्सुफलं सत्त्वं सततोत्कर्षकारकम् ॥
१०
३५४, सरस्वती नगर, आंबावाडी, अमदावाद - १५. दूरभाष : ०७९-२६७४५७५४
Page #16
--------------------------------------------------------------------------
________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविशेषः
विश्वप्रथितवैदुष्याणां कलिकालसर्वज्ञश्रीहेमचन्द्राचार्याणामाचार्यपदस्य नवमशताब्दी (वि.सं. ११६६तः वि.सं. २०६६) निमित्तीकृत्य नन्दनवनकल्पतरोरियं शाखा तेभ्यः समर्प्यते । अत्र च विभागे विविधलेखकैलिखितं श्रीहेमचन्द्राचार्यसम्बन्धि साहित्यं प्रकाशितमस्ति ।
Page #17
--------------------------------------------------------------------------
________________
हेमस्तुतिः विजयशीलचन्द्रसूरिः
प्रसन्नमधुगम्भीरां सर्वशास्त्रावगाहिनीम् । ओजस्विनी च सरलां हैमी वाणी नमाम्यहम् ॥१॥ जो हेमसूरिहियए अणुरागो वीयरागमग्गम्मि । अवयरउ सो मणम्मी अम्हाणं भवसमुद्दसंताणो ॥२॥ धंधुक्कधरा धन्या यस्य धीरस्य जन्मना । व्रतवेदेन्दुचन्द्रे(११४५)ऽब्दे कार्तिक पूर्णिमादिने ॥३॥ चच्चिगपाहिणिपुत्तो सूरो सिरिमोढवंसगयणतले । नामेण चंगदेवो चंगो देवो व्व सो जयउ ॥४॥ अब्धिव्रतार्क सोमाब्दे(११५४) चङ्गः प्रव्रजितः प्रधीः । श्रीदेवचन्द्रसूरीणा-मन्तेवासितया मुदा ॥५॥ धन्ला पाहिणिमाया सहलं सयलं च जीवियं तीसे । वरतणयरयणमेयं समप्पियं जीअ सुहगुरुणो ॥६॥
१२
Page #18
--------------------------------------------------------------------------
________________
चङ्गोऽपि सोमचन्द्राख्यां बिभ्राणोऽखण्डसंयमः । ऊर्जस्वी समभूत सौम्यः सिद्धसारस्वतो गुणी ॥७॥ बालत्तणे वि नूणं अन्नूणगुणोहपूरियं हिययं । गुरुजणकरुणावसओ विणिम्मियं सोमचंदेण ॥८॥ तस्याऽनन्यगुणग्रामा-भिरामां वीक्ष्य पात्रताम् । दत्तं सूरिपदं तस्मै गुरुणा गुणचारुणा ॥॥ रसरसससहरतरणि-प्पमिए(११६६) वरिसेत्थ थंभतित्थपुरे । वइसाहसुद्धतइआ-दिणे दिणेसो ब्व तेयंसी ॥१०॥ सोमचन्द्रमुनिस्त्वेक-विंशत्यब्दवयास्तदा। संजातो हेमचन्द्रेति-नामतः सूरिशेखरः ॥११॥ गुज्जरभूमिनरेसो जगप्पसिद्धोऽत्थि सिद्धरायनियो । पियसज्जणसंसग्गो विज्जासंवड्ढणे रत्तो ॥१२॥
आकर्ण्य श्रीहेमसूरे-र्बाल्येऽप्यद्भुतवैदुषम् । विद्या-संस्कारसंसिद्ध्यै नृपेणाऽऽकारितो गुरुः ॥१३॥ तिहुअणगंडनिवेण हि विण्णतेहिं गुरुहिं तो रइआ । अणुसासणगंथा अहिणवा अउब्वा जगक्खाया ॥१४॥ अनेकलक्षसङ्ख्याक-पद्यप्रमितनूतनम् । साहित्यं सर्वविषयं निर्मितं हेमसूरिणा ॥१५॥ गुज्जरधरणीअहिवो कुमारपालो वि जेण पडिबुद्धो । जाओ सावयसीसो गुरुस्स गुरुगुणगरिढुस्स ॥१६॥ कुमारनृपतिद्वारा सप्तव्यसनवारणम् । दुर्गतेरिणं येना-ऽखिलदेशे प्रवर्तितम् ॥१७॥ अट्ठारसदेसेसु वि अमारिपरिपालणं खु संजायं । जस्सोवएसवसओ सो नंदउ हेमसूरिगुरू ॥१८॥ अनाग्रहो मुक्तिहेतुः, साम्यं काम्यं सदा बुधैः । इत्येवं सूचितं येन निजाचरितजीवितैः ॥१९॥
Page #19
--------------------------------------------------------------------------
________________
विज्जानिलओ तिलओ भूमीमहिलानिलाडदेसठिओ । धम्मरसायणवेज्जो पुज्जो विलसउ स हेमगुरु ॥२०॥ यस्योपकारमाहात्म्या- दद्याऽपि दृश्यते अहो !। दयासंस्कारप्रचुरा गौर्जरी जनता खलु ॥ २१ ॥ निक्कारणबंधुसमो असरिसकरुणायरो स हेमगुरू । सिरिपुण्णतल्लगच्छा-लंकारो जयउ चिरकालं ॥२२॥
निधिहस्तकरार्काब्देऽणहिल्लपुरपत्तने । प्रतिबोद्धुमिव दिव-स्पतिं सूरिर्दिवं गतः ॥२३॥ अत्थंगए गुरुम्मि गुरुविरहुप्पण्णतिव्वखेयमणो । कुमरनरिंदो छम्मा-साणंतरमुवगओ सग्गं ॥२४॥ श्रीकलिकालसर्वज्ञै- ग्रन्था ये सन्ति निर्मिताः । तान् पठन् सर्वशास्त्रेष्व-स्खलद्गामिमतिर्भवेत् ॥ जड़ होड़ मेरुसिहरी केण वि जीवेण तोलिउं सक्को । तो हेमसूरिपहुणो वयणरहस्सं हवड़ गम्मं ॥२६॥ नवमी जन्मशताब्दी समागता हेमसूरिगुरुराजाम् । समितिसमुद्रनभोयुग-प्रमितेऽब्दे (२०४५) भागधेयेन ॥२७॥ मनसि निधाय तमवसर - मेकादश्यां शुचावसितपक्षे । पं. शीलचन्द्रगणिना रचिता हेमस्तुतिश्चारुः ॥२८॥
यद् बालचापलमिदं कृतवानहकं निमित्तमत्रेदम् । मगुरुं प्रति प्रवहति भक्तितरङ्गो मनसि सततम् ॥२९॥
जयउ सिरी हेमगुरू जयंतु तह तेण विरइया गंथा । जयउ कुमरनरिंदो जयउ अणण्णा य तस्स गुरुभत्ती ॥३०॥
0
१४
Page #20
--------------------------------------------------------------------------
________________
श्रीहेमचन्दस्तवः प्रा. डॉ. किशोरचन्द्रपाठकः
वसन्ततिलकावृत्तम् हे हेमचन्द्र ! यतिपुङ्गव गुर्जरेशकारुण्यधाम जिनशासनमानदण्ड । आलुण्ठमानमनिशं तिमिरान्धनेत्रमुद्धाट्य नेत्रयुगलं मम, रक्ष रक्ष ॥१॥ निर्मथ्य शब्दजलधिं महतोद्यमेन यः सिद्धहेममणिदीपकमुज्जहार । वाचां मलं करुणया विमलं स कर्तुमिन्धेतराममलज्ञानमयं प्रदीपम् ॥२॥ नानापुराणनिगमागमवृत्तिजातं सूक्ष्म समीक्ष्य भवता कणादृष्ट्या । स्याद्वाद इत्यनुपमो भुवि सप्तभङ्गी सिद्धान्तितः सुनिपुणं च वरिष्ठपन्थाः ॥३॥ सद्धर्मकर्मपरिकर्मणि मर्मविज्ञं स्याद्वादवेद्यविषयं विषयानपेक्षम् । नूनं द्विजाद्विजपवित्रसुधर्मरूपं सारस्वतं किमपि धाम वयं भजामः ॥४॥
१५
Page #21
--------------------------------------------------------------------------
________________
संशोध्य सूक्ष्मतरदृष्टिबलेन चाऽऽद्यं सत्काव्यशास्त्रनिचयं, भवता निबद्धः । काव्यानुशासनमिति प्रथितो निबन्धः सिद्धान्तशुद्धिविबुभुत्सुजनाय नूनम् ॥५॥ त्वं भ्रान्तिपर्वतगणाय वरेण्यवज्रमज्ञानराशिदलनेऽसि दिवाकरस्त्वम् । नीलाम्बुदोऽसि भवतापविपन्नराणां शान्ताय श्रीगुरुवराय नमो नमस्ते ॥६॥ त्वत्सर्जनं सुविमलं निरवद्यरूपं तापत्रयादिशमनं तव पालनं च । त्वद्धिंसनं तिमिरसङ्गविनाशरूपं त्वन्तु त्रिदेवमयतां भजसे, नमस्ते ॥७॥ श्रीहेमचन्द्रशरणं चरणौ नमामः श्रीहेमचन्द्रशरणं मनसा व्रजामः । श्रीहेमचन्द्रशरणं वचसा गृणाम: श्रीहेमसूरिमनिशं शिरसा वहामः ॥८॥
'पद्मपाणि', ७, आनन्दनगर, चक्करगढ रोड, अमरेली-३६५६०१
१६
Page #22
--------------------------------------------------------------------------
________________
कलिकालसर्वज्ञ सूरीश्वराणां प्रशस्तं जीवनम्
| पूज्याचार्यदेवसूरिशिष्यः विजयहेमचन्द्रसूरिः
कलिकालसर्वज्ञेत्यप्रतिमबिरुदेन जगति समस्त विशेषतश्च जैनशासने प्रख्यातिमन्तः श्रीहेमचन्द्राभिधानाः सूरीश्वरा आर्हतशासनस्य बाढं प्रभावनाकारकाः सञ्जाताः ।
तेषां जीवनं कवनञ्च सर्वेषां कृते अत्याश्चर्यकरं विद्यते ।
पूर्वभवीयप्रबलसंस्कारसम्पत्तिं समादायैव ते हि पूज्या अत्रावतरितवन्तः, कथमन्यथा तादृशि लघुतमे वयसि मतिविभवविराजिताः, प्रबलवैराग्यभावनाभावितान्तःकरणा दीक्षाग्रहणाय समुत्सुकमानसाश्च स्युः ! जन्म दीक्षाग्रहणं च -
धंधुकाभिधाने ग्रामे मोढवणिग्जातीयगुणगौरवशालि-चच्च(चाचिग)कुले तद्धर्मपत्नी-रत्नकुक्षिणीश्रीचा(पा)हिणीजननीकक्षौ वि.संवति ११४५ तमे कार्तिकशक्लपूर्णिमायां समासादितजन्मान एते पज्यपुरुषा धृतचांगदेवपुण्याभिधाना बाल्यकालादेव विशिष्टक्षयोपशमशालिनो निजापूर्वबुद्धिचातुर्यचमत्कृतविचक्षणचेतस आसन् ।
समवयस्कसहाध्यायिबालकेषु सर्वथाऽनन्यसदृशा ह्येते दर्शनमात्रादेव सर्वेषां परमप्रीतिकरा भृशमाह्लादजनकाश्चाऽभूवन् ।
पूर्णतल्लगच्छीयश्रीदत्तसूरीश्वरपरम्परायाम् आचार्यश्रीगुणसेनसूरीश्वरपट्टाम्बरदिवाकराः श्रीदेवचन्द्रसूरीश्वराः समभूवन् । प्राकृतभाषायां गद्यपद्यमयश्रीशान्तिनाथचरित्ररचनाकारकास्ते हि पूज्या ग्रामानुग्राम विहरन्तो धर्मोपदेशदानेन भव्यजनान् प्रतिबोधयन्तश्च धंधुकाग्रामे पादौ अवधारितवन्तः ।
____ पूज्याचार्यभगवतां दर्शनमात्रेणैव सञ्जातापूर्वस्नेहसद्भावश्चांगदेवः शनैः शनैः परिचयं कुर्वन् गाढप्रेमास्पदं जातः ।
सूरीश्वरा यदा ततो विहारं कृतवन्तस्तदा बालश्चांगदेवो निज-जनकजनन्योरनुमतिं गृहीत्वा तैः सहैव विहारमकरोत् ।
Page #23
--------------------------------------------------------------------------
________________
बालोऽप्यबालधिषणः स गुरुणा सह विहरन् क्रमशः स्तंभतीर्थ(खंभात)नगरं संप्राप्तः ।
तत्र तवास्तव्यनेमिनामकतन्मातुलद्वारा चाचिगपाहिण्यौ विबोध्य गुरुश्रीदेवचन्द्रसूरिणा नववर्षीयश्चांगदेवो दीक्षितः, तस्य मुनिसोमचन्द्र इत्यभिधानं च विहितम् । सूरिपदप्रदानम् -
स्वल्पेनैव कालेन विशिष्टक्षयोपशमबलेन विनाऽऽयासं समधिगतसकलवाङ्मयवैदुष्यं तं गुरुप्रवरः श्रीदेवचन्द्रसूरीश्वरः वि.सं. ११६६तमे वर्षे मरुधरदेशे नागोरनामके नगरे महता महेन सूरिपदं दत्तवान, तदा तस्य श्रीहेमचन्द्रसूरिरिति नव्याभिधानञ्च कृतवान् ।
ततश्च स अजारिनामके ग्रामे वागधिष्ठात्रीं श्रीसरस्वतीदेवीं समाराध्य सम्प्राप्य च तदीयवरप्रसादं विरचय्य तर्कव्याकरणकाव्यकोशछन्दोऽलङ्कारादिसमस्तविषयेषु लघुबृहत्तमाननेकमौलिकग्रन्थान् जैनसाहित्यस्य महतीमुपासनां विदधे ।
तेषामनन्यसाधरणं वैदुष्यं निरुपमं ग्रन्थरचनाकौशलञ्च विज्ञाय कोऽपि मतिमान् किं न निजमूर्धानं धूनयेत् ?
ग्रन्थरचनया सार्द्ध तैः सूरीश्वरैः श्रीसिद्धराजजयसिंहाभिधानभूपालः श्रीकुमारपालाभिधक्ष्मापालश्च प्रतिबोधितः । तत्र कुमारपालमहीपालस्तु जैनधर्ममङ्गीकृत्य द्वादशव्रताराधनरूपश्रावकाचारपालनेन परमार्हत इति विरलं बिरुदमपि प्राप्तवान् । अपि च स हि श्रीहेमचन्द्राचार्यगुरुवरोपदेशेन स्वीयाष्टादशदेशेषु अमारि (जीवहिंसानिवृत्ति) प्रवर्तितवान् ।
अधुना बिहार-बङ्गादिदेशापेक्षया गुर्जरमरुधरादिदेशेषु यद् प्रवराचारविचारवैशा दरीदृश्यते तत्र हेतुः श्रीकुमारपालनृपतेः समुचिता अहिंसा प्रधाना राज्यव्यवस्थैव । न ह्यत्र विषये केषामपि वैमत्यम् ।
प्रान्ते - श्रीहेमचन्द्राचार्यभगवद्विहितभूपालप्रतिबोधमुपवर्ण्य केनचित् कविना विहितां स्तुतिमुल्लिख्य विरमामि
सन्त्यन्ये कवितावितानरसिकास्ते भूरयः सूरयः, क्ष्मापस्तु प्रतिबोध्यते यदि परं श्रीहेमसूरेगिरा । उन्मीलन्ति महामहांस्यपि परे लक्षाणि ऋक्षाणि वै, नो राकाशशिना विना बत भवत्युज्जागरः सागरः ॥ इति
Page #24
--------------------------------------------------------------------------
________________
- सुभाषितानि ॥
विजयशीलचन्द्रसूरिः
‘सुभाषितं' गीर्वाणवाण्या आभूषणम् । नैकैः प्रवचनैः प्रबन्धैः काव्यैर्वा यत् प्रयोजनं न सिध्येत्, तद् बहुश एकेन लघुना सुभाषितेन सिध्यतीति सर्वेषामनुभवः । प्रभूतभाषणेनाऽपि प्रत्याययितुमशक्यो जन एकेन सुभाषितेन लोकोक्त्या वा प्रत्याय्यते इति तु विदितमेव विदुषाम् । प्रतिपाद्यस्य विषयस्य दाढर्क्ष्यार्थं वैशद्यार्थमपि च सुभाषित - प्रयोगो लोकोक्तिप्रयोगो वा क्रियत एव कविभिर्ग्रन्थकारैश्च स्वकीयग्रन्थेषु । अर्थान्तरन्यासः, काव्यलिङ्गं - एतौ द्वावलङ्कारौ तु बहुधा सुभाषितस्यैव कार्यं निर्वहत इत्यपि सर्वप्रतीतम्। पश्यन्तु एकमुदाहरणमत्र बहुप्रसिद्धम्
‘“सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥ "
अर्थान्तरन्यासोऽत्राऽतीव मर्मस्पृक्तया प्रयुक्तः कविना, एतदेव कारणं यदिदं श्लोकार्थं विद्वद्गोष्ठिषु स्वतन्त्र-सुभाषितत्वेन सर्वदाऽऽद्रियमाणं सञ्जातम् । कालिदास - भवभूतिप्रभृतिभ्य आरभ्याऽसङ्ख्येयानां कवीनां ग्रन्थाः ईदृशसूक्तिभिर्भरिताः सन्तीति तथ्यं तत्तद्ग्रन्थपाठिनां सुज्ञातमेव ।
अस्यामेव विद्वत्परम्परायां सञ्जातः श्रीहेमचन्द्राचार्य: । तत्त्वतः स जैनमुनिरेव तथाऽपि स्वीयसमयभावि-विद्वद्वृन्दे स विद्वन्मूर्धन्यत्वेन कलिकालसर्वज्ञत्वेन च ख्यातिमाप्तवानिति तु निःसन्दिग्धमैतिहासिकतथ्यम् ।
तेन नैके ग्रन्था विरचिताः । शब्दानुशासन - छन्दोनुशासन - काव्यानुशासन-लिङ्गानुशासनवादानुशासनेति नामकानि पञ्चाऽनुशासनान्यपि साङ्गोपाङ्गानि तेनोपज्ञानि । त्रिषष्टिशलाकापुरुषचरिताभिधानः पुराणग्रन्थोऽपि महाकायो महाकाव्यात्मको व्यरचि तेन । एतद्ग्रन्थविषये मान्यानां विदुषामेवंविधा श्रूयत उक्ति: ‘“यदिहाऽस्ति तदन्यत्र, यन्नेहाऽस्ति न कुत्रचित् " । उक्तेरेतस्याः सत्यत्वप्रतीतिस्तु ग्रन्थस्यैतस्याऽवगाहनं विनाऽशक्यैव ।
अस्मिन् महाकाव्ये सूरिणा तेन महात्मनां चरितानि निरूपयता प्रसङ्गं प्राप्याऽनेकाः सूक्तयः सुभाषितरूपा लोकोक्तिरूपाश्च ग्रथिताः सन्ति । तासां सूक्तीनां रसपानमत्र कारयितुमुपक्रमः ।
ये भद्रंभद्रतुल्या व्यवहारजडा जना देशं कालं चोपेक्ष्य स्वकीयपारम्पर्येणैव वर्तन्ते तानुद्दिश्य
१९
Page #25
--------------------------------------------------------------------------
________________
आचार्यः कथयति -
"नहि सीदन्ति कुर्वन्तो देशकालोचितां क्रियाम्' || अयोग्यानां विरुद्धानां वा साहचर्य कीदृग् हास्यास्पदं भवेतेददाचार्य इत्थं सूचयति -
"कदली नन्दति कियद् बदरीतरुसन्निधौ ? ॥"
"वीणायां वाद्यमानायां वेदोदगारो न राजते ॥" मूढा अनागतभयोपायमकृत्वा भये उपस्थिते मौढ्येन इतस्ततो विह्वलीभूय धावन्ति, तदर्थं सूक्तिरियम् -
"कीदृशं कूपखननं सद्यो लग्ने प्रदीपने ?॥" 'यत्र दारिद्यं तत्र त्रीणि प्रभूतानि स्युः - सन्ततिः, क्षुत्, रोगाश्च' इति लोकप्रसिद्धम् । एतन्मनसि निधायेव आचार्येणोक्तम् -
"प्रायेण हि दरिद्राणां, शीघ्रगर्भभृत: स्त्रियः ॥" मत्सरिणो द्वेषवतश्च जनाल्लोका दूरमेव स्युरित्याशयेनाऽऽचार्येणोक्तम् -
"कुटुतुम्ब्याः पक्वमपि फलमश्नाति कोऽथवा ? ॥" सम्पत्तौ सर्वेऽपि स्वजनाः स्युः, विपद्वेलायां तु स्वीया भार्याऽपि त्यजतीति लोकस्थितिं वर्णयत्याचार्य एवम् -
"आसन्ने व्यसने लक्ष्म्या लक्ष्मीनाथोऽपि मुच्यते ॥" प्राणाः प्रकृतिश्च सदा सहैव यान्तीति लोकोक्तिः । आचार्यो विरुध्यत्यत्र -
"प्रकृतिव्यत्ययः प्रायो, भवत्यन्ते शरीरिणाम् ॥" अयमत्राशयः - स्वस्थः शान्तश्चाऽपि दृश्यमानो जनो मरणासन्नदशायां प्रायो विक्लवो रोदनशीलः परमुखप्रेक्षी च स्यादेव । उक्तिरेषा स्मारयत्येतां नीलकण्ठदीक्षितोक्तिम् -
"प्रायो मुह्यति चेतः प्राणिनां प्राणनिर्गमावसरे ।
पुण्येन यदि न मुह्यति पुत्रानेव स्मरन् म्रियते ॥" सहसा मुखादुद्गच्छन्ती वाक् प्रायशः भाविनि काले भविष्यतः कार्यस्य पूर्वसंकेतं ददातीवेति निरूप्यते आचार्येणेत्थं -
__ "भाविकार्यानुमानेन वागुच्छलति जल्पताम् ॥" उचिते-श्रेष्ठे स्थाने पदे वाऽयोग्यस्य जनस्य स्थापनं नितान्तमनुचितमिति सूचयतीयमाचार्योक्तिः
२०
Page #26
--------------------------------------------------------------------------
________________
"कर्पूरभाण्डे को नाम लवणं विनिवेशयेत् ? ॥" जातिवादो नेष्ट एव, किन्तु तदनिष्टता 'अमुका जातिर्नीचा, अमुका च श्रेष्ठा' इत्यात्मकजातिगतभेदभावतिरस्कारायैव । गुणावगुणवर्णननिषेधो नैव तत्र क्रियते । जातिगतानां समूहगतानां वा गुण-दोषाणां वर्णनं तिरस्कारभावनां विना स्यादेवेति निदर्शयन्नाहाऽऽचार्यः -
"ब्राह्मणजातिरद्विष्टो, वणिग्जातिरवञ्चकः । प्रियजातिरनीर्ष्यालुः शरीरी च निरामयः ।। विद्वान् धनी, गुण्यगर्वः, स्त्रीजनश्चाऽपचापलः ।
राजपुत्रः सुचरितः प्रायेण न हि दृश्यते ॥" युक्तानां सङ्गो योग्यैरेव वर्यो नाऽयोग्यैरिति तु सर्वे जानन्ति । एतन्निरूपणं त्वाचार्यप्रतिभेत्थं करोति -
"अजयं पङ्कजिन्या हि, राजहंसस्य युज्यते ॥" समर्थेनाऽपि जनेन विरुद्धमाचरणं नैव करणीयमिति शिक्षयत्येवमाचार्यः -
"कार्यं सपौरुषेणाऽपि वणिजा नहि पौरुषम् ॥" गुर्वाज्ञां विना, तामुल्लंघ्य वा सुन्दरं कार्य क्रियमाणमपि न श्लाघास्पदं, वस्तुतस्तु तादृशं कार्य अकार्यमेवेति सूचयितुं वक्ति आचार्यः -
___ "कृतं तेन कृतेनाऽपि, गुर्वाज्ञा यत्र लठ्यते ॥" तुच्छो जनोऽपि सतां संसर्गतो महत्त्वमवाप्नुवन् स्वेष्टं साधयतीति सूच्यतेऽनयोक्त्याऽऽचार्येण -
"अयोऽपि यानपात्रस्थं, पारं प्राप्नोति वारिधेः ॥" हीनोऽपि पदार्थः स्वीयहीनताबलेनैवोच्चत्वं प्राप्नुयात् कदाचित्, एतावन्मात्रतस्तस्य हीनता हीयेत, उच्चता च सिद्धयेतेति न मन्तव्यं, एतत् संसूचयन्निव वदत्याचार्यः -
"गिरिशिखरगताऽपि काकपाली,
पुलिनगतैर्न समेति राजहंसैः ॥" जीवनपथे यदि मार्गदर्शको न प्राप्येत, अयोग्यो वा प्राप्येत, तदा यत् स्याज्जीवनस्य तदाह -
__"अन्तरेणोपदेष्टारं, पशवन्ति नरा अपि ॥"
भगवद्गीताया वाक्यमिदं प्रसिद्धमस्ति - "यचदाचरति श्रेष्ठः, तत्तदेवेतरो जनः" । एतमर्थमेव भङ्ग्यन्तरेणाऽऽचार्यः कथयति -
"यत् कुर्वन्ति महान्तो हि, तदाचाराय कल्पते ॥"
२१
Page #27
--------------------------------------------------------------------------
________________
पराक्रमवन्तो विद्यावन्तो वा पुरुषा यत्र गच्छेयुस्तत्र तेषां गृहं सन्मानादि च भवेदेव, न तेषां तदर्थमायासश्चिन्ता वा कर्तुमर्हेति भावं मनसि निधायाऽऽचार्य आह -
"सिंह: प्रयाति यत्रैव तस्यौकः स्वं तदेव हि ॥" महान्तः सदैव शक्तिमन्त एव स्यः । परन्त ते धीरा गम्भीराश्चाऽपि स्यः अतः कदाऽपि विवेकं विमर्श वाऽकृत्वा ते शक्तिप्रयोगं नैव कुर्वन्ति । शान्तिप्रयोगेणैव यावत्कार्याणि सिध्यन्ति, तावत्ते शान्तिमेव प्रयुञ्जन्तीति कथयन्नाह सूरिः -
"महान्तः शक्तिमन्तो हि, प्रथमं साम कुर्वते ॥" साधवः सर्वं जनं साधुमेव मत्वा व्यवहरन्ति, ते 'शठे शाठ्यं समाचरे'दिति नीतिं न जानन्ति न वाऽऽचरन्तीति निर्दिशन्नाह -
"विपरीतं न शङ्कन्ते कदाऽपि सरलाशयाः ॥" 'असारात् सारमुद्धरे'दिति सुभाषितमेव भङ्ग्यन्तरेणेत्थं निरूपयत्याचार्य: -
"क्षाराब्धितोऽपि रत्नानि, गृह्णन्ति निपुणाः खलु ॥" 'उत्तमा कृषिः, मध्यमं वाणिज्यं, अधमा सेवा' इत्येवं हि लोकमान्यता । सेवा अर्थात् कैकर्यम् । तत्र धनलाभो यथाकामं भवत्यपि, किन्तु स्वमानं हित्वैव स स्यादित्यत्र न सन्देहः । सेवा-स्वमानयोर्न कदाऽपि सहावस्थानम् । स्वमानस्य बलिं दत्त्वाऽपि ये सेवां कुर्वते ते कीदृशाः स्युः ? एतत् श्लोकार्धरूपयोक्त्या कथयत्याचार्यः -
___“अतृप्ता एव कुर्वन्ति, सेवां मानविघातिनीम् ॥"
सर्वत्र सुस्थत्वमिच्छता जनेन किं शास्त्रमनुसर्तव्यं केवलं? किं वा लोकाचारोऽनुसरणीयः? अत्र विषये सूरेरियं मार्गदर्शिकोक्तिः -
"उपादेया शास्त्र-लोकव्यवहारानुगा हि गीः ॥" नन सर्वत्र शास्त्रादिष लोके च गुरुपदस्य महान महिमा वर्ण्यते । 'आज्ञा गरूणामविचारणीया' 'गुरुवचने च विमर्शः' इत्यादिवाक्यान्यपि गुरोरवश्यमान्यत्वमेव सूचयन्ति । अत्र प्रश्नो भवत्येवं - कदाऽपि कश्चिद् गुरुरुन्मार्गगामी शास्त्रादिविपरीतकारी वा भवेत्,तदा किं कर्तव्यम् ? तादृशावस्थायामपि स गुरुरादरणीय एव, उत त्यक्तव्योऽपि ? एतद्विषये स्पष्टं मार्गदर्शनं कुर्वन्नाचार्यो वक्ति -
"गुरौ प्रशस्यो विनयो, गुरुर्यदि गुरुर्भवेत् । गुरौ गुरुगुणैर्दीने विनयोऽपि त्रपास्पदम् ।। गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥"
२२
Page #28
--------------------------------------------------------------------------
________________
महतां - पुरुषाणां वा राष्ट्राणां वा पक्षाणां वा - युद्धेऽथवा संघर्षे त्रासस्त निर्दोषाणां प्रजानामेव भवतीति तथ्यं अनया सूक्त्या वर्णयत्याचार्यः -
"वनभङ्गाय सम्फेटो मत्तयोहि वनेभयोः ॥" मनस्तापेन सन्तप्तानां जनानां चन्द्रमा अपि सूर्यायते, अमृतमपि विषायते, शीतमप्युष्णायते इत्येवं अत्यल्पशब्दैरित्थमाचार्यः सूचयति -
"न तापो मानसो जातु, सुधावृष्ट्याऽपि शाम्यति ॥" सुभिक्षं दुर्भिक्षं च धनिकानां साधनसम्पन्नानां जनानां कृते भिद्यते । तेषां सुभिक्षे विना मूल्येनाऽल्पमूल्येन वा यथेच्छधान्यादिप्राप्तिरस्ति, दुर्भिक्षे तु किञ्चिदधिकमूल्यं दत्त्वाऽपि ते तु स्वेष्टमवाप्नुवन्त्येव, अतस्तेषां कृते न विशेषो भेदः परिस्थितिद्वये । ये तु साधनहीनाः निर्धना दरिद्राश्च, तेषां कृते दुर्भिक्षं तु स्यादेव दुर्भिक्षम्, अथ च सुभिक्षकालोऽपि तेषां कृते दुर्भिक्षतुल्य एव भवति । भिक्षाऽवाप्तेरभावाद्धनादिसाधनाभावाच्च । इममर्थं निरूपयन्नाचार्यो मार्मिकामुक्तिं कथयति -
"निर्धनस्य सुभिक्षेऽपि, दुर्भिक्षं पारिपार्श्वकम् ॥" स्वकीयायाः स्त्रियाः परिभवं ऋते पाण्डुपुत्रान् कः सहेत ? न केवलं मनुष्याः, अपि तु पशवोऽपि तं नैव सहन्ते इति सनातनं लोकव्यवहारमुच्चारत्याचार्य एवम् -
"नारीपरिभवं राजन् ! सहन्ते पशवोऽपि न ॥" कामदेवस्य माहात्म्यं सर्वस्मिन् काले, सर्वैविद्वद्भिः, सर्वैः शास्त्रकारैः, सर्वत्र देशेषु निरपवादतया स्वीकृतं गीतं चाऽस्ति । आचार्योऽपि तत् स्वकीयवाण्या गायतीत्थम् -
"हिमं सह्येत हेमन्ते, ग्रीष्मे च तपनातपः ।
झञ्झावातोऽपि वर्षासु, न पुनर्योवने स्मरः ॥" 'निरस्तपादपेदेशे, एरण्डोऽपि द्रुमायते' - इति प्रसिद्धाऽस्ति लोकोक्तिः । तामनुसरन्नाचार्योऽपि लिखति स्म -
"निर्वक्षदेशे क्रियते, ह्येरण्डस्याऽपि वेदिका ॥" स्त्रियो मिथो विवदमाना बहुशः सर्वत्र च प्राप्यन्ते । मन्दमतयस्तत्र हस्तक्षेपं कृत्वा विवाद वर्द्धयन्त्येव, न शमयितुं शक्ताः । व्यवहारचतुरास्तु स्त्रीभ्य एव तासां विवादशमनकार्यं समर्प्य ततो निवर्तन्ते। एवं कृते तासां विवादः शीघ्रं सौकर्येण च शाम्यतीति चतुरजनानामनुभवः । एतन्मनसिकृत्येवाऽऽचार्येण लिखितम् -
"स्त्रीणां विवादो निर्णेतुं स्त्रीभिरेव हि युज्यते ॥" द्रोणगुरुणा दुर्योधनायाऽऽदिष्टं – सर्वथा दोषमुक्तं जनं मार्गयाऽऽनय च । तेन गुर्वादेशानुसरणाय
२३
Page #29
--------------------------------------------------------------------------
________________
हृदयपूर्वकं प्रयतितम् । किन्तु अन्ततः स हताशो भूत्वाऽऽगतो गुरूसमीपे, निवेदितं च 'नैकोऽपि जनो निर्दोषः सर्वथा मया दृष्टोऽवाप्तो वा' । तदाकर्ण्य गुरुणा यद् विचारितं सम्भवेत् तदेवाऽऽचार्यो प्रतिपादयतीव -
"सर्वोऽपि सापराधो हि, छलमन्विष्यते यदा ॥" केचन निरन्तरमात्मप्रशंसायां निमग्नाः सन्ति । केचित् तु परनिन्दामेव सर्वस्वं मन्यन्ते । कतिपये तु स्वश्लाघां परनिन्दां चैतदुभयमपि कृत्वैव परितोषमावहन्ति । बहुधा एतेषु त्रिषु विभागेष्वेव विभक्ता जना दृश्यन्ते । परन्तु येऽल्पप्राया जना नैकस्मिन्नपि विभागे समाविशन्ति, अर्थान्न निजप्रशंसामिच्छन्ति कुर्वन्ति शृण्वन्ति वा, नाऽप्यन्यनिन्दाकरण-श्रवणयोस्तेषां रुचिः, तेषां स्थितिः का भवति? । आचार्यस्तान् सत्पुरुषत्वेन संस्थापयन्नत्र विषये गदति
"स्वप्रशंसेवाऽन्यनिन्दा, सतां लज्जाकरी खलु ॥" लोभः परमो दुर्गुणोऽस्माकम् । सकृदपि तद्वशं गताश्चेद् वयं गता एव । यथा यथा प्राप्तिर्वर्धते, तथा तथाऽधिकप्राप्तेरिच्छाऽपि वर्धत एव । सैव च लोभ इत्युच्यते । शास्त्रेष्वपि कथितमेतदित्थं- "जहा लाहो तहा लोहो, लाहा लोहो पवड्डइ" (यथा लाभस्तथा लोभो लाभाल्लोभः प्रवर्धते) । अन्यच्च लोभाक्रान्तो जनो लोभनिर्मितकार्पण्यदोषानुभावतः स्वीयवस्तुनोंऽशमेकमपि परस्मै न दत्ते न वा दर्शयत्यपि । मनुष्येषु तु प्रसिद्धैवेयं स्थितिः, किन्तु तिर्यग्योनिषु वनस्पतिष्वपि चैवं स्थितिः कदाचिद् दृष्टिगोचरा भवति तन्महते आश्चर्याय । लोभसञ्जया वनस्पतिरपि किं कुर्यादित्येतद् दर्शयत्याचार्योऽनया सूक्त्या
"तरवोऽपि निधि प्राप्य पादौः प्रच्छादयन्ति यत् ॥" परमतत्त्वसाधकेन 'कबीर'नामकेन महासाधकेन स्वीये भाषानिबद्ध पदे गीतं "कहत कबीरा सुन मेरे गुनिया, आप मूए पीछु डुब गई दुनिया" । आचार्यस्तु ततोऽप्येकं पदमग्रे गत्वा कथयति -
“अक्ष्णोः पिधाने पिहितं, ननु विश्वं चराचरम् ॥" व्रतिनां यतीनां कर्तव्यं किम् ? विवादो वा विवादोपशमो वा ? क्वचित् सम्पत्ति, कदाचिन्मठाश्रमादिकम्, कदाऽपि तु सत्ताधिकारमुत्तराधिकारितां वा निमित्तीकृत्य विवदमानान् साधून् दृष्ट्वा बाढं व्यथित आसीदाचार्यः । अथ च केचित्तु धर्ममेव पुरस्कृत्य विवदन्ते स्म । एवं कुर्वाणान् साधून् संन्यस्तांश्च समुद्दिश्य मार्मिकीमुक्तिमुक्तवानाचार्यः -
"आद्यो धर्मो व्रतस्थानां विवादोपशमः खलु ॥" कियतीः सूक्तीलिखेयम् ?। एतादृश्यस्त्वपरिमिताः सूक्तयो निर्मिता ग्रथिता वाऽऽचार्यपादेन । अनयैव च रीत्या तेन व्यवहारबोधोऽपि प्रदत्तः । सूचितवांश्च सः, यत् व्यवहारज्ञानं - व्यवहारकौशलं लोकव्यवहारतः शास्त्राध्ययनतोऽप्यवाप्तुं शक्यमस्ति, अत एव व्यवहारबोधप्राप्तिर्न 'काव्य'प्रयोजनं भवितुमर्हति । अत एव चाऽऽचार्येण स्वीये काव्यानुशासने काव्यप्रयोजनप्रतिपादनावसरे "व्यवहारविदे" इति प्रयोजनं पूर्वसूरिभिरादृतमपि नैव स्वीकृतम् । इयमेव आचार्यस्य नवोन्मेषशालिनी प्रतिभेति मे मतिः ।
व्यवहारचतुराय श्रीहेमचन्द्राचार्याय नमो नमः ।।
२४
Page #30
--------------------------------------------------------------------------
________________
[पूज्यपादा गुरुभगवन्त: श्रीविजयशीलचन्द्रसूरयः कलिकालसर्वज्ञ - श्रीहेमचन्द्राचार्याणां नवशततमं जन्मोत्सवं निमित्तीकृत्य ( विक्रमसंवत् २०४५ वर्षे) हेमाचार्यैर्विरचितं महादेवद्वात्रिंशिकास्तोत्रं संशोधनपुरस्सरं प्रकाशितवन्त आसन् । विगतवर्षे आचार्याणां नवशततमे सूरिपदोत्सवे पुस्तकस्याऽस्य द्वितीयाऽऽवृत्तिः प्रकाशिता
श्री हेमचन्द्राचार्याः
तैर्विरचितं महादेवद्वात्रिंशिकास्तोत्रं च ऽभूद्, यस्यां गुरुदेवैरावश्यकं संशोधनं
संवर्धनं च विहितमासीत् । अस्मिन् पुस्तके तैर्गुर्जरभाषया या तथ्यान्वेषिणी भूमिकाऽऽ लिखिता समभवत्, सा बहूनां मान्यानां समादरभाजनं जाता । नन्दनवन - सम्बन्धिभिस्तथ्यैरवगता भवन्त्विति धिया
श्रीविजयशीलचन्द्रसूरयः अनु. - मुनि त्रैलोक्यमण्डनविजयः
कल्पतरोर्वाचका अपि हेमाचार्याणां महादेवद्वात्रिंशिकायाश्च तस्या भूमिकायाः सङ्क्षिप्तानुवादोऽत्र प्रस्तूयते ।]
वैक्रमीयः २०४५ संवत्सरो यथा कलिकालसर्वज्ञ- श्रीहेमचन्द्राचार्याणां नवमजन्मशताब्द्या वर्ष आसीत्, तथा वैक्रमीयः २०६६वत्सरस्तेषामाचार्यपदप्राप्त्या नवशततमं वर्षमस्ति । ईदृशाः पुण्या अवसरा अस्मभ्यं तेषां धन्यानां गुणस्तुत्यर्थं, तज्जीवनकवनविषये चिन्तन - परिशीलन - स्वाध्यायाद्यर्थं, तैर्विहितानां सुकृतानां मूल्याङ्कनार्थं च सबलं निमित्तं ददति ।
कलिकालसर्वज्ञानां जन्मदिनमस्ति कार्तिकी पूर्णिमा । दिनमिदं कियन्महिमान्वितम् ! सिक्खसम्प्रदायप्रवर्तकानां गुरुनानकदेवानां जन्मदिनमपीदमेव । तथैव विंशशताब्द्या जैना आत्मसाधकाः श्रीमद्राजचन्द्रा अप्यस्मिन्नेव दिने जनिं लब्धवन्तः । यद्यपि जनिसमयो न मनुजेच्छावशवर्ती, तथाऽपि महतां जन्मदिनं जन्मसमयश्च समापत्त्या सहजतयैव वा तथा घटेते; यथा तेषां विदेहानन्तरमायतिसन्ततीनां कृते तानि दिनानि ते क्षणाश्चोत्सवस्य प्रेरणायाश्च मङ्गलं पर्व समापद्यन्ते ।
कार्तिकपूर्णिमातुल्य एव महत्तापूर्णो मङ्गलदिवसोऽक्षयतृतीया । वैशाखशुक्लतृतीयाया इदं शुभदिनं श्रीहेमचन्द्राचार्याणामाचार्यपदप्राप्तेरहः । भारतवर्षे संवत्सरस्य येऽङ्गुलिगण्यास्त्रिचतुरा वासराः सर्वश्रेष्ठा मङ्गलमुहूर्त्तनिभाश्च परिगण्यन्ते, तेष्वियमक्षयतृतीयाऽपि समाविष्टा भवति । ईदृशे श्रेष्ठदिने, विक्रमसंवत् ११६६वर्षे एकविंशतिवर्षात्मिकायामुद्गच्छद्यौवनस्य वासन्त्यां कलायां, जैनधर्मसङ्घस्य सर्वोच्चपदं-सूरिपदं प्राप्येत; तदपि महापुरुषाणाममीषां जीवनस्य कीदृशी मधुरा समापत्ति: !
* * *
यदि श्रीहेमचन्द्राचार्याणां समग्रतया मूल्याङ्कनं चिकीर्षितं भवेत्, तदपि पुनः सङ्क्षेपेण ; तर्हि तेषां जीवनं चतुर्षु भागेषु विभाजनीयं भवेत् : १. साहित्यसर्जनम् २. संस्कारवपनम् ३. अमारिप्रवर्तनम् ४. ब्रह्मयोगतप:साधनम् ।
२५
Page #31
--------------------------------------------------------------------------
________________
१. इन्द्रः, पाणिनिः, कात्यायनः, पतञ्जलिः, शाकटायनः, अमरसिंहः, धनञ्जयः, धनपालः, भट्टी, गुहसेनः, कालिदासः, वाल्मीकिः, व्यासः, हरिभद्रसूरिः, मातृचेटः, मम्मट: - इमे सर्वेऽप्यार्यसंस्कृतेः समर्था उद्गातारः सन्ति । एते सर्वेऽपि विभिन्नकालखण्डेषु विभिन्नतया च या याः साहित्यविधाः प्रणीतवन्तः, ता निःशेषा अपि साहित्यविधा हेमचन्द्राचार्या आत्मद्वितीयतयैव परिपोषितवन्तः । तथा चैतेषां सर्वेषां पूर्वसूरीणां साहित्यत उत्तमा शान् सङ्गृह्य स्वकीयं च सत्त्वं तत्र संयोज्य भारतवर्षायाऽमूल्यः साहित्यनिधिस्ते उपाहृतवन्तः ।
२. गौर्जरराष्ट्रं तदधीनान्यष्टादश संस्थानानि च तन्नामेदानीन्तनमध्यर्द्धं हिन्दुस्थानं - तस्मिन् नैतिकमूल्यानामारोपणार्थं सततं सबलपुरुषार्थो हेमचन्द्राचार्यैर्विहितः । पुरुषार्थोऽयं गुर्जरधरित्र्यां सम्पूर्णतः सफलो जातः । अत एव गौरेषु दयौदार्य, मार्दवं, सुजनता, लज्जा, सौहार्दै, सहिष्णुतेत्यादीनां तत्त्वानामवतरणं जातम् । मद्यपानद्यूतादिव्यसनेभ्यो जीवहत्यादिदुष्कर्मभ्यश्च गौर्जरा यदद्याऽपि प्रायो विप्रकृष्टाः, तस्य मूलभूतं कारणं हेमाचार्यैरुप्ताः संस्कारा एव ।
३. अहिंसा - भूतदया हेमाचार्याणां जीवनधर्म आसीत् , आसीच्च जीवनध्येयमपि । स्वयं ते वीतरागाः श्रमणा आसन्, ततोऽहिंसायाः परिशुद्धमाचरणं तेषां निजजीवने त्वासीदेव । तदाचरणमेव तदाचरणप्रेरकाणि तत्त्वानि चैव तेषां चित्तभूमौ दिव्यनिर्झरमेकं प्रवाहितवन्ति - दयानिर्झरम् । “न कस्मैचिद् दुःखं रोचते । सर्वेऽपि सुखीभवितुं- सुखमयं जीवनं यापयितुमिच्छन्ति । स्वस्मात् कस्याऽपि त्रासो भयमुपद्रवो मृत्युर्वा न जायेत स एव मनुजधर्मः, स एव च प्रकृतिनियमः । न केवलं मनुष्याणामपि तु तदितरस्य यस्य कस्याऽपि जीवस्य त्रासनं मारणं वा सत्त्वसृष्टेः प्रकृतेश्चाऽक्षम्योऽपराध एव" - एतादृग्विचारधारया तेषां हृदयं सदैवाऽऽीभूतं विद्यते स्म ।।
ते गदितवन्तः "स्वाङ्गे कुशाग्रेण दीर्यमाणो मनुष्यो न तावदपि सोढुं शक्नोति, किन्तूच्चैरारार्टि करोति, क्रोधेन प्रतीकाराय धावति च । परमसावेव निष्कारणमेव केवलं क्षुल्लकस्वार्थस्योदरस्याऽन्धश्रद्धाया वा पूर्तयेऽन्यान् प्राणिनस्तीक्ष्णैः शस्त्रैर्विदारयति । कीदृशीयं विडम्बना ! किं तेन तदा सा कुशाग्रतोदनवेदना नैव स्मर्यते ?" इति ।
अहिंसाया जीवद्रूपं - अहिंसापुरुष इति निःशङ्कतया परिचाययितुं शक्येत, तादृशी तेषामहिंसां प्रति भक्तिः श्रद्धा चाऽऽस्ताम् । इयमुत्कटा श्रद्धैव तेषां कृते एकं महान्तमवसरं प्रकल्पितवती - कुमारपालस्य परिचयः ; यस्योपयोगस्तैर्गुर्जरदेशे तदधीनसंस्थानेषु चाऽहिंसायाः प्रसाराय पालनाय च समीचीनैः साधनैः समुचितरीत्या च विहितः । तथाच कृत्वा गुर्जरदेशमहिंसाप्रधानसंस्कृतेराभिजनमहिंसायाः सन्देशवाहकं च ते निर्मितवन्तः ।
प्रसङ्गतो वार्तेकाऽत्रोल्लिख्यते । नडूलस्य राजा आल्हणदेवो, य: कुमारपालस्य सामन्त आसीत्, यश्च परमशैवीभूयाऽपि कुमारपालस्याऽहिंसाया आदेशमनुसरति स्म। तेन स्वकीयराज्येऽहिंसापालनाय
२६
Page #32
--------------------------------------------------------------------------
________________
दत्त एक आदेशो राजस्थानतः शिलालेखरूपेण प्राप्तोऽस्ति, यस्मिन् तेन प्रतिपक्षमष्टम्यामेकादश्यां चतुर्दश्यां च जीवहिंसायाः प्रतिबन्धो घोषितोऽस्ति । विक्रमसंवत् १२०९वर्षस्याऽस्मिन् शिलालेखे तस्य राज्ञः कुमारपालाधीनत्वस्य स्पष्टं सूचनमस्ति ।
अथ चाऽमुं जीवमात्रवधनिषेधसम्बन्धिनं शिलालेखं केवलगोवधनिषेधपरं मत्वाऽस्माकं विश्वविख्यातः पुरातत्त्ववित् (स्व.) श्रीहसमुख-सांकळियावर्यः, गोवधनिषेधसम्बन्धे सर्वकारस्य नीतियथार्थेति प्रदर्शयितुं, 'कुमारपालस्य शासनेऽपि सर्वथा गोवधनिषेधो न सम्भवित' इति विधानं कृतवान् । तस्याऽऽत्मवृत्तान्ते 'पुरातत्त्वने चरणे' इत्यस्मिन् (प्र.- आर.आर. शेठनी कंपनी, १९८५) १३८तमपृष्ठे लिखितमस्ति -
"एवं चैव सर्वकारस्याऽग्रे गोवधनिषेधस्य दुराग्रहो न युक्त इति मे मतिः । यतो भारतवर्षस्येतिहासे न कदापि सर्वथा गोवधनिषेध आसीत् । जैनधर्मस्य महाश्रयदाता कुमारपालोऽपि गोवधनिषेधं सर्वथा प्रवर्तयितुं न समर्थीभूतः । पक्षे केवलं दिनत्रयं गोवधनिषेधस्याऽऽदेशस्तेन प्रदत्तुं शक्यो जातः ।"
स एवाऽग्रे एवमुल्लिखति यदेतस्य मतस्य कृते तदा स्वयं प्रभूतानामाक्षेपाणां पात्रीभूतः, परं तटस्थसंशोधनस्य फलरूपेण प्राप्त तथ्यमेव स्वेन दृढमालम्बितमित्यादि ।
___ डॉ. सांकळियावर्यस्य विशिष्टविद्वत्तां प्रति प्रभूते आदरे सत्यपि तस्योपरितनकथनेऽस्माकं सम्मतिरसम्भवा । यतः कुमारपालस्याऽऽदर्शो न केवलं गोवधनिषेधः, अपितु प्राणिमात्रायाऽभयदाने तस्य रुचिरासीत् । स्वशासने आकीटककुञ्जरं कस्याऽपि हिंसा न भवेत्तदर्थं सोऽत्यन्तसमुत्सुक आसीत् । एवं सति गोवधनिषेधमात्रेण साकं तस्य सम्बन्धं योजयितुं कथं युज्येत? अन्यच्च यस्य शिलालेखस्याऽऽधारो डो. सांकळियावर्येण गृहीतस्तस्मिन् 'प्राणिनामभयदानं, जीववधः, अमारिः' इत्येतादृशाः शब्दाः सन्त्येव । एते शब्दा येषूपयुक्तास्तानि वाक्यानि स्पष्टतया निश्चितदिनेषु (प्रतिपक्षं त्रिषु) यस्य कस्याऽपि जीवस्य हिंसायाः प्रतिबन्धं सूचयन्ति । एषु वाक्येषु हिंसकस्य पापिष्ठतररूपेण गणनाऽस्ति । उपर्युल्लिखितकिराडूक्षेत्रस्थ-शिलालेखसदृशे रतनपुरस्य शिलालेखे तु प्रतिबन्धितदिवसेषु कुम्भकाराणां निभाण्डप्रज्वालनस्याऽपि निषेधः प्रवर्तितोऽस्ति । एवं च गोवधनिषेधमात्रस्य वार्तव कुतः समागतेति ।
अथ चाऽयं प्रश्नोऽवशिष्टः । मा भूः केवलं गोवधनिषेधः, जीववधनिषेध एव तिष्ठतु । परं स्वयं कुमारपालोऽपि प्रतिपक्षं केवलं दिनत्रयमेव तं प्रवर्तयितुं किल शक्तो जातः ? न खलु सदैव ? इति ।
प्रश्नस्याऽस्य समाधानमित्थम् । शिलालेखोऽयं यत्र सम्प्राप्तः स प्रदेशो न कुमारपालस्य साक्षादधीनः, अपितु गुर्जरराष्ट्राधीनसंस्थानम् । तत्र साक्षादाज्ञा तु आल्हणदेवस्य वर्तते स्म । अथ च यथेदानीं गणतन्त्रव्यवस्थायामेको मध्यस्थः सर्वकारो भवति, तदाश्रये च विभिन्ना राज्यसर्वकारा तत्तत्प्रदेशेषु व्यवस्थां निभालयन्ति; तत्र च समग्रस्य राष्ट्रस्य सर्वस्याः प्रजाया वा सम्बन्धिनीषु वार्तासु कासुचिन्मूलभूतनीतिविषयिणीषु च सर्वोपरिवतिनो मध्यस्थसर्वकारस्य आदेशः प्रवर्तते, तदितरासु प्रान्तीयासु वार्तासु च राज्यसर्वकारस्याऽधिकारो भवति । तथैव प्रायो गुर्जरदेशे इदानीन्तनकेन्द्रशासितप्रदेशसमेषु च साक्षाद्
२७
Page #33
--------------------------------------------------------------------------
________________
गुर्जरशासितेषु प्रदेशेषु, तदा कुमारपालस्य सम्पूर्णतोऽहिंसाया व्यसनमुक्तेश्च सदाऽनुल्लङ्घनीयो विधि: प्रवर्तमानोऽभवदेव ; परं कुमारपालस्य सामन्तानां राज्येष्वहिंसायाः सम्पूर्णतः पालनं नाऽऽसीदिति सम्भाव्यते। सामन्तानां राज्येष्वहिंसाया अधिकाधिकं पालनं कारयितुं स सन्नद्ध आसीत्, राजस्थाने च वैक्रमीयं १२०९संवत्सरं यावत् पक्षे दिनत्रयमहिंसापालने स साफल्यं प्राप्तवानासीदित्येवाऽत्र तात्पर्यम् ।
ध्येयं त्वेतदेव यत् कुमारपालेन तत्सामन्तैर्वा सम्पूर्णतोऽल्पतो वा यत्किञ्चिदप्यहिंसायाः पालनप्रवर्तनादि विहितं, तस्य प्रेरकबलं हेमचन्द्राचार्या एवाऽऽसन् । तैरुप्ताः कारुण्यसंस्कारास्तावद् दृढमूला जाता, यत् तदनन्तरं शतकानि यावत् तु ते जीवितवन्त एव; परमद्याऽपि, यदा गुर्जरदेशस्य शासकैरहिंसा मध्यकालीनाऽयुक्तरूढिरन्धश्रद्धा वा परिगण्यते, निपुणतयाऽधिकाधिकहिंसार्थं प्रोत्साह्यते च, तदाऽपि, तदात्वे उप्तानां दयासंस्कारानामंशा गुर्जरदेशस्य राजस्थानस्य च प्रदेशेषु दृश्यन्तेऽनुभूयन्ते च ।
४. अथ च कीदृशं हेमाचार्याणां शीलम् ? परमनैष्ठिकया ब्रह्मसाधनया मण्डितं योगमयं तपोमयं च तेषां जीवनं तत्प्रतिस्पर्द्धिनामपि हृदये आदरमहोभावं च प्रेरयत् स्यादिति निःशम् । तेषां ललाटे तपोदीप्तिः सत्त्वश्रीश्च तावद् विलसन्त्यौ स्यातां यत् तान् दृष्ट्वैव 'सातं वर्तते ?' इत्येतादृशान् प्रश्नान् प्रष्टुं साहसमेव न भवेदपित्वनायासेनैव मुखात् 'तपो वर्धते ? पुण्यं वर्धते? ज्ञानं वर्धते?' इत्येतादृशा आत्मनिष्ठर्षये एव प्रष्टुं योग्याः प्रश्नो निःसरेयुः । इदं परमं सत्त्वबलमेव ताननासक्तान् समभाविनोऽनन्यसामर्थ्यवतश्च कृतवत् स्यात् ।।
__ अस्योदर्करूपेण विकसितं तेषां पुण्यबलं दृश्यताम् । द्वौ द्वौ सम्राजौ तेषां चरणयोः प्रणमने तेषामादेशानुसरणे च स्वसौभाग्यं मन्वाते स्म, स्वनाम्नाऽऽचार्यनाम्नो योजनस्याऽवसरं सगौरवं वर्धापयतः स्म। कदाचिदेवमेव हैमशब्दानुशासनं सिद्धराजस्य हेमाचार्याणां च नाम्नोः संयोजनेन सिद्धहेमशब्दानुशासनरूपेण निमितं स्यात् । ततोऽप्यग्रेगत्य कुमारपालेन तु परदुःखभञ्जकेन वीरविक्रमेणेव जगत एवाऽनणीकरणस्याऽपार्थिवः स्वप्नो दृष्टः, आसेवितः, तद्दिशि च सर्वस्वं विनियोज्य स्वनाम्ना संवदपि प्रवर्तितम् । तत्रापि तेनाऽद्भुतं सृष्टम् । स्वगुरूणां हेमचन्द्राचार्याणां नाम तु तस्य कृतेऽनिवार्यमासीदेव, किन्तु तेन सहैव, स्वस्य वधार्थं सततं प्रयतितवतः, स्वेन दशकानि यावदत्रतत्राऽटाट्यां कारयितुश्च पितृव्यस्य पुरोगामिनो राज्ञः सिद्धराजस्याऽपि नाम तत्र संमील्याऽऽत्मनोऽद्भुतौदार्यस्य परिचयस्तेन विश्वाय प्रदतः । तेन प्रवर्तितस्य संवत्सरस्य नामाऽऽसीत्-सिद्धहेमकुमारसंवत् ।
__ अस्य संवन्नाम्नो द्वे प्रमाणे समुपलभ्यते । एकं-हेमाचार्यैविरचिताया अभिधानचिन्तामणिनाममालायाः स्वोपज्ञविवरणे (६.१७२) - 'संवद् वर्षे । यथा विक्रमसंवत्, सिद्धहेमकुमारसंव'दिति । द्वितीयं - सौराष्ट्र श्रीशत्रुञ्जयतीर्थे चतुर्मुखजिनालये एकत्र विराजमाने धातुविग्रहे उत्कीर्णो लेख: - 'श्रीसिद्धहेमकुमार सं. ४ वैशाख व. २ गुरौ भीमपल्लीसत्क व्यव. हरिश्चन्द्र भार्या गुणदेवि श्रेयार्थं श्रीशान्तिनाथबिम्बं कारित मिति ।
२८
Page #34
--------------------------------------------------------------------------
________________
संवत्सरोऽयं कदा प्रवर्तित इति न स्पष्टं ज्ञायते । सामान्यतो राज्ञां राज्याभिषेकसमये मरणकाले वा तन्नाम्ना संवत्सरः प्रवर्तते । ऐतिह्यं दर्शयति यत् कुमारपालस्य मरणकाले संवत्प्रवर्तनस्य सम्भाव्यतैव नाऽऽसीदिति तस्य राज्याभिषेकप्रसङ्गे एव संवत्सरोऽयं प्रवर्तित इत्यनुमीयते । परं तन्न युक्तम् । यतो राज्यप्राप्तेरनन्तरं वर्षदशकं कुमारपालेन सामन्तैः शत्रुभिश्च साकं युद्धे एव व्यतीतम् । अस्मिन् वर्षदशके तेन स्वस्थानस्थिरीकरणमतिरिच्य महत्त्वयुतं कार्यं कर्तुं नैव शक्तम् । एवं च स्वराजपदमेव यदा न निश्चलं तदा कुतः संवत्सरप्रवर्तनस्याऽवकाशलेशोऽपि? यावल्लोकोपकारकाणि कार्याण्येव न विहितानि, लोकहृदये स्थानमेव नाऽवाप्तं, तावत्संवत्सरप्रवर्त्तनं हास्यास्पदमेव न भवेत् ? कुमारपालसदृशो धीरपुरुषो न कदाऽपि तादृशमविवेकिजनोचितं कर्म कुर्यात् । अन्यच्च, संवन्नाम्नि तेन ययोरपि नाम्नी संयोजिते, तयोरेकस्य हेमाचार्यस्य प्रगाढः सम्पर्को राज्याभिषेकतः प्रभूतकालानन्तरं जातः, अपरस्य सिद्धराजस्य कृते तन्मनसि तदा राज्याभिषेककाले तीव्रा विषमभावनैव प्रवर्त्तमाना स्यादिति च यदि पश्येम, तॉपि नूनं ज्ञायेत यद् राज्यप्राप्तिवर्षे तु सिद्धहेमकुमारसंवत्सरस्य प्रवर्तनं नितान्तं दुःशकमेव ।।
तर्हि कदाऽयं संवत्सरः प्रवर्तित इति परामश्यमाने वैक्रमीये १२१६तमवर्षे घटनेयं घटिता स्यादिति भासते । तथाहि- कुमारपालप्रबोधप्रबन्धे (सिंघीग्रन्थमालायां प्रकाशिते कुमारपालचरितसङ्ग्रहेऽन्तर्गते) विक्रमसंवत् १२१६वर्षे मृगशीर्षशुक्लद्वितीयादिने कुमारपालस्याऽहिंसाकुमार्याः सार्धं विवाहस्याऽद्भुतं रूपकं वणितमस्ति (पृ. ९३) । रूपकतो ज्ञायमानं तथ्यं त्वेतत् - १२१६वर्षपर्यन्तं कुमारपालेनाऽमारिप्रवर्तनस्य स्वकीये ध्येये सर्वोच्चं लक्ष्यं साधितमासीत् । इयं लक्ष्यसिद्धिरेवाऽहिंसायाः साकं विवाहः सम्भाव्यते । आज्ञावतिष्वष्टादशमण्डलेषु वर्षचतुर्दशकं यावत् हिंसाया वारणं कुमारपालेन विहितमित्यपि तत्र समुपलभ्यते (पृ. १११) । कुमारपालस्य स्वर्गारोहणं वैक्रमीय १२३०वर्षे जातमिति वैक्रमीय १२१६वर्षत एवेयं कालगणनाऽऽरभ्यते इति निश्चितम् । अमारिपालनादृते विधवानां धनस्य राज्येन ग्रहणस्य प्रतिबन्धः, अष्टादशसु देशेषु व्यसनमुक्तिः, प्रजाया अनृणीकरणं, हिंसाधारितमेव येषां जीवनं तेषां हिंसानिरोधेऽपि सुस्थित्यर्थं वर्षत्रयं यावद्राज्येन पोषणमित्यादीन्यनेकानि यशस्वीनि लोकोपकारीणि च कार्याणि तावत्पर्यन्तं तेन सम्पादितान्यासन्नित्यपि तत्तद्ग्रन्थेभ्यो ज्ञायते । अतो वैक्रमीय १२१६वर्षं यावत् कुमारपालेन स्वनिर्धारितलक्ष्याणां सिद्धिः सम्पादिता स्यात्, तत्स्मृत्यर्थं च संवत्सरः प्रवर्तितः स्यादिति कल्पना सर्वथा युक्ता भाति ।
उपरितनी कल्पना यद्यवितथा तद्यभिधानचिन्तामणिग्रन्थोऽपि यथा विद्वांसो मन्वते तथा विक्रमसंवत् १२०६तः १२०९स्य मध्यभागे न, अपितु १२१६वर्षतः पश्चान्निर्मितः स्यादिति मन्तव्यम् । त्रिषष्टिशलाकापुरुषचरित्रे प्रसङ्गतो हेमाचार्यैः स्वेन निर्मितानां ग्रन्थानां याऽऽवली प्रदर्शिता, तस्यामप्यभिधानचिन्तामणिग्रन्थस्य नाम बहुपृष्ठभागवर्तीत्यपि ज्ञेयम् ।
संवत्प्रवर्तनस्य वर्षो यः कोऽपि स्यात्, तात्पर्यं त्वेतद् यत् कुमारपालेनाऽपि स्वनाम्ना हेमचन्द्राचार्याणां नाम्नः संयोजने आग्रहः सेवितस्तथाकृत्वा गौरवमनुभूतं च । हेमाचार्यैस्तादृशां प्रतापिनामपि सम्राजां
२९
Page #35
--------------------------------------------------------------------------
________________
कियती प्रीतिः सम्पादिता स्यात् !
*
* *
शङ्केयं मनसि जातु जायेत यद् राज्ञोरनुनयार्थं हेमाचार्यैः कियती चाटुकारिता कृता स्यात् ? तयो: कियत्यः प्रशस्तयो रचिता भवेयुः ? आत्मनो जीवने चर्यायां च कियत् परिवर्तनमङ्गीकृतं स्यात् ? इति ।
I
जायेत, अवश्यं जायेत | ‘राजा मित्रं केन दृष्टं श्रुतं वा' इत्येतत् सूत्रं परिचिन्वानस्य यस्य कस्याऽप्येतादृशी शङ्का जायेतैव । परमस्योत्तरमेतावदेव यद् भौतिकीनामेषणानामासक्तीनां च बन्धनैर्यो ग्रस्तः स्यात्, तस्य कृते ईदृशी कल्पना यथा पूर्णतो वास्तविकी समुचिता च भवेत्; तथा परमनिरीहस्याऽनासक्तस्य सकलकल्याणसाधकस्य च साधुजनस्य कृते ईदृगाशङ्काया आनयनं सर्वथाऽवास्तविकमनुचितं च । 'हेमचन्द्राचार्यै राज्ञोश्चाटुकारिता कृता स्यादित्यस्याऽपेक्षया 'राजभ्यां हेमाचार्याणां प्रीत्यर्थं कृपादृष्टिप्राप्त्यर्थं च सततं प्रयत्नो विधीयमानो भवेदिति सत्यस्य नेदीयः । अत्रैकतो हेमाचार्याणां निर्लेपगरिमाऽऽकल्यते, अपरतश्च तयोः सत्ताधीशयोः संस्कारिताऽपि दृश्यते । कियत्संस्कृतौ भवेताममू राजानौ यत् साधुताया विद्वत्तायाश्च चरणयोः प्रणिपतने आत्मनो गौरवमनुभवेताम् !
हेमाचायैर्जीवनस्य बहूनि वर्षाणि गुर्जरभूमौ तत्राऽपि विशेषतोऽणहिलपत्तने एव व्यतीतानि । तैर्जीवनस्य प्रारम्भकाले एवैकोऽगोचरः सङ्केतो लब्ध आसीत् - "महात्मन् ! भवता गुर्जरदेशो न कदापि त्यक्तव्यः । यतो भवतः पुरुषार्थेनाऽत्र प्रभूतानि पारमार्थिकानि कार्याणि सेत्स्यन्ति । अन्यत्र गमनेन तान्यशक्यानि भविष्यन्ति । ततो न विहातव्यं गुर्जरराष्ट्रम्" इति । ( कुमारपालप्रतिबोध:)
आचार्याः सङ्केतमिमं सम्यगन्वसरन् । फलतः सम्राजोर्द्वयोः सम्पर्कं साधनीकृत्य ते शक्ता गुर्जरदेशे साम्प्रदायिकं सौहार्दं विकासयितुं, गुर्जरप्रजाभिर्जीवदयां पालयितुं, विद्याक्षेत्रे संस्कारेषु च दरिद्रत्वेन परिगण्यमानं गौर्जरराष्ट्रं वैश्विकस्तरे विद्याधामत्वेन संस्कारभूमित्वेन च निर्मातुम् ।
अस्य कृते राज्ञां राजनीतिज्ञानां राजनीतेश्च सम्पर्कस्तेषां जीवनेऽनिवार्य आसीत् । परं ते आजीविका, दानपत्राणि, सत्ताधिकारः, पदोन्नतिः - इत्येतादृशां भौतिकतत्त्वानां लिप्सवो स्तुतिपाठकजातीया वा नाऽऽसन्, यत्तैः कस्यचन चाटुकारिता करणीया भवेत् । ते तु प्रभावका विवेकपुरुषा आसन् । सर्वेषामादरः, तद्द्वारा च सर्वेषां स्वकीयस्याऽभिगमस्य दिशि प्रेरणं, समग्रवातावरणस्याऽऽनुकूल्यसम्पादनं, ततश्च स्वकीयत्वेऽप्यवैयक्तिकानां स्वार्थरहितानां च प्रयोजनानां साधनं - एषा तेषां कार्यपद्धतिरासीत् । अन्ततस्तु ते श्रमणा आसन् – अकिञ्चना वीतरागाश्च । ते नैव राजसकाशात् सुखासिकादीनां बहुमानं गृहीतवन्त: । धनं ग्रामाधिपत्यं भूमिस्वाम्यं वा नैव प्राप्तवन्तः । स्वकीयमाश्रमं मठं वा नैव स्थापितवन्तः । नैव स्वकीयं सम्प्रदायं प्रवर्तितवन्तः, न चैव तदर्थं राजसाहाय्यं याचितवन्तः ।
सन्दर्भेऽस्मिन् श्रीमद्राजचन्द्रैः कथिता वार्त्ता स्मर्यते । तात्पर्यं श्रीमतामस्ति, शब्दा अस्य
३०
Page #36
--------------------------------------------------------------------------
________________
लेखकस्य । श्रीमद्भिः कथितमासीत् "अनुमानतस्त्रिंशत् सहस्राणि कुटुम्बानि हेमाचार्याणामनुरागीण्यासन् । प्रत्येकं कुटुम्बे पञ्चषान् मनुष्यान् गणयेम चेदपि सार्धलक्षमाहत्य भवेत् । एतावन्तोऽनुयायिनो भवेयुश्चेत् कोऽपि पुमानात्मनः स्वतन्त्रं सम्प्रदायं स्थापयेदेव । आश्चर्यं नाम हेमाचार्या अस्मिन् कर्मणि सर्वथा निःस्पृहा एवाऽवातिष्ठन् । ते नैवाऽऽत्मीयं पृथग्गणं निर्मितवन्तः" इति ।
परिस्थितावस्यां राज्ञां चाटुकारिता करणीया भवेत् तादृशी स्थितिस्तेषां जीवने आगता स्यादित्यसम्भवमेव ।
___ वस्तुतो हेमचन्द्राचार्या राजप्रीति सम्पादयितुं शक्तास्तत्रैको हेतुस्तान् सर्वज्ञसिंहासनमारूढीकर्तुं शक्ता तेषां सर्वतोमुखी प्रतिभा; द्वितीयस्तु साम्प्रदायिकान् जातीयान् वा विवादान् मतभेदांश्चाऽतिक्रान्ता समुदारा सहिष्णुस्तत्त्वग्राहिका समन्वयसाधिका च दृष्टिः । अस्याः प्रज्ञाया अस्याश्च दृष्टेः परिणामेनैव सिद्धराजस्य 'कतमो धर्मो मोक्षप्रापकः' इत्यस्य प्रश्नस्योत्तररूपेणाऽऽचार्याश्चारिसञ्जीविनीचारस्योदाहरणं प्रदर्श्य राज्ञः प्रजायाश्च सन्तर्पकं समन्वयसाधकं प्रत्युत्तरं दातुं समर्था अभवन् । अथ चाऽनया प्रज्ञया दृष्ट्या च प्रेरिता एव ते सोमनाथशिवालये कुमारपालेन साकं स्थित्वा महादेवस्तोत्रं प्रणीतवन्तः ।
घटितं चैतद यत कमारपालस्याऽऽचार्यान प्रत्यतिभक्त्याऽऽकलीभतास्तेजोदेषिणो राजानं प्रचोदितवन्तः - "भवत्प्रीत्यर्थमाचार्या एवं समन्वयं समन्वयं प्रलपन्ति कथञ्चित् तादृशं कुर्वन्ति च । परं भवद्भिः सार्धं सोमनाथतीर्थयात्रायै आगन्तुं कथ्यताम् । नैवाऽऽगमिष्यन्ति । मिषं प्रदर्श्य च्युता भविष्यन्ती"ति । राजा कदाचिदेतत् तथ्यं भावितवान् सोमनाथयात्रार्थमाचार्यान् विज्ञपितवांश्च । आचार्यास्तत्क्षणमेव वार्ताया मर्माऽवगतवन्तो राजविज्ञप्तिमवधारितवन्तश्च । तेजोद्वेषिणोऽपत्रपिता जाताः । परं वातैतावता न समाप्ता । राजाचार्यादयो यदा सोमनाथमासादितवन्तस्तदा शिवालये आचार्याणां पुरतः पुनर्विज्ञप्तिः समुपस्थिता"भवतामरुचिर्न भवति चेदस्य ज्योतिलिङ्गस्य पूजनं क्रियतां, गृह्यतामेष पूजोपचारः" । आचार्याणामसामान्यपरीक्षायाः क्षण आसीत् । किन्तु सदास्वस्था योगिन आचार्या विना विलम्बं 'पूजोपचारेण पूजनं मुनीनामसम्मत'मिति नियममनुसृत्य यौगिकप्रक्रियया तादृशीं शिवपूजां व्यरचयन्, यत् तां दृष्ट्वा शिवालयस्य महामान्या अधीशा अपि विस्मयमापन्नाः । तदनन्तरं चाऽचार्यास्तत्रैव महादेवस्तोत्रं प्रणीतवन्तः, समग्रं परिसरं दिव्यया भव्यया च वीतरागतयाऽऽच्छादितवन्तश्च ।
तेषां तत् स्तोत्रं तेजोद्वेषिणां धर्मान्तरासहिष्णूनां कृते निशितमुत्तरमासीत् । तेनैव साकं, ईशस्तु वीतराग एव स्यात्, शिवस्तु कल्याणकृदेव भवेत्, शिवस्य स्वरूपं कल्याणमयमेव वर्तेत, सतोश्च रागद्वेषयोर्देवत्वस्य शिवत्वस्य वाऽसम्भव एवेत्यादीनां सनातनानां सिद्धान्तानां निनादोऽपि तत्र प्रतिफलति स्म । समन्वयस्तु तत्स्तोत्रे प्रतिवाक्यं स्यन्दते स्म ।
सोमनाथस्य विश्वविश्रुते आलये तदाऽवश्यं त्रिमूर्तेः - ब्रह्मविष्णुमहेशानां शिल्पं विद्यमानं स्यात् । तत् त्रिमूर्तिशिल्पं भावप्रवणानामीशमयानां स्तुतिपाठे समाधिस्थानामाचार्याणां दृष्टिपथमवतीर्ण
३१
Page #37
--------------------------------------------------------------------------
________________
स्यात् । दृष्ट्वा च तद् विलक्षणं शिल्पमाचार्यचेतस्यभिनव उन्मेष उद्भूतः स्यात्- त्रयाणां तत्त्वानां मिथो भिन्नत्वे मूर्तेरैक्यं कथम् ? किं च तद्रहस्यम् ? त्रिमूर्तिरूपेण प्रतिष्ठिता ब्रह्मविष्णुमहेशा वस्तुतः के ? इति । क्षणं यावत् तस्मिन् चिन्तनाम्भोधौ निमज्ज्य तस्याऽगाधगाम्भीर्यत आचार्यैरुपलब्धं रहस्यं त्वेतत्ते ब्रह्मविष्णुमहेशा न स्थूलभौतिकतत्त्वानि, प्रत्युत निराकाराणि गुणात्मकानि परमतत्त्वानि । तेषां नामानि यदृच्छया दीयन्ताम्- ब्रह्मविष्णुमहेशा इति ज्ञानदर्शनचारित्राणीति वा । शब्दभेदेन न पारमार्थे किञ्चिदपि भेद इति । महादेवद्वात्रिंशिकायां प्रदर्शितः समन्वयोऽयं किल हेमाचार्यसन्निभस्य प्रचण्डमेधावतः कृते एव सुशकः । अन्यस्य कस्य तत्सामर्थ्यम् ?
हेमाचार्यैः सोमनाथदेवालये शिवलिङ्गसमक्षं प्रणीतस्य स्तोत्रस्य सम्बन्धे कानिचन तथ्यानि ज्ञेयानि। तथाहि
१. स्तोत्रस्याऽस्य सत्यं नाम महादेवस्तोत्रं वीतरागमहादेवस्तोत्रं वा नाऽस्ति, अपितु महादेवद्वात्रिंशिका
इति ।
२. द्वात्रिंशिकायामस्यां तन्नामानुरूपमनुष्टब्वृत्तीयानि द्वात्रिंशदेव पद्यानि (अपवादरूपेणाऽष्टाविंशतितममार्याछन्दसि), त्रयस्त्रिंशत्तमं चोपसंहाररूपमार्याछन्दसि । अद्योपलभ्यमाने चतुश्चत्वारिंशत्पद्यात्मके महादेवस्तोत्रेऽधिकानि पद्यानि पश्चात् प्रक्षिप्तानि स्युरिति सम्भाव्यते । तथ्यमिदं प्राचीनप्रत्याधारण प्रमाणीभवति ।
३. प्रबन्धेषु यद्यपि सोमनाथयात्रावर्णनेऽन्तिममेव पद्यं दृश्यते । परं तद् दृष्ट्वा 'शिवालये तु हेमाचायैरेक एव श्लोक उक्तः, स्तोत्रं तु पश्चाद् विरचित'मिति कल्पना न युक्ता । तादृशाः समर्था आचार्याः, यदा विशालो जनसमुदाय: साकाङ्क्षीभूयोपस्थितः स्यात् तदा, एकेनैव श्लोकेन स्तुति समापयेयुरित्यसम्भवम् । विस्तरभिया संवादादीनां सङ्क्षेपीकरणं प्रबन्धेषु बहुधा दृश्यते एवेति ।
४. 'स्तोत्रेऽस्मिन् न काऽपि दार्शनिकप्रौढता दृश्यते । अतीव साधारणैषा कृति'रिति केषाञ्चिच्चिन्तनम् । परं ते प्रष्टव्या यत् शब्दगतकाठिन्येनैव किं दार्शनिकप्रौढता सम्पद्यते? नूत्नतत्त्वोद्घाटनं त्वस्माभिस्त्रिमूर्त्तिविषये यथा दृष्टं तथाऽस्मिन् स्तोत्रेऽस्त्येव । महादेवस्य महत्त्वस्यैश्वर्यस्य च विषये सूक्ष्मविमर्शोऽप्यत्र बहुधा समस्ति । तज्ज्ञा एवाऽत्रस्थानि रहस्यानि प्रतिबोधयितुं प्रभवेयुः ।
स्तोत्रस्थवैशिष्ट्येष्वेकं वयमपि पश्येम- 'अर्हम्' इति हेमाचार्याणां परमप्रियो नित्यं हृदयस्थः प्रणिधानमन्त्रः । स्तोत्रेऽस्मिन् तैर्मन्त्रस्याऽस्य निरुक्तिर्घटकतत्त्वानि च स्फुटं वर्णितानि । सामान्यतो मन्त्रोऽयं जैनधर्मसम्बद्धो जैन-पञ्चपरमेष्ठिनां समावेशक एव परिगण्यते । परं स्तोत्रेऽस्मिन् ब्रह्मविष्णुमहेशानामपि 'अहम्'मन्त्रघटकतत्त्वरूपेण समावेशः प्रदर्शितोऽस्ति । किमियं न दार्शनिकप्रौढता ?।
३२
Page #38
--------------------------------------------------------------------------
________________
अन्यत्रापि रहस्यमिदं समुपलभ्यते । सिद्धहेमशब्दानुशासनस्य स्वोपज्ञविवरणे हेमाचार्यैः 'अहम्' अक्षरं सकलागमोपनिषद्भूतरूपेण परिचायितमस्ति । एवंरीत्या परिचयस्य कारणमित्थं विवृण्वन्ति लघुन्यासे कनकप्रभसूरयः - "सकलेति । सकलाः समस्ता ये आगमा लौकिका लोकोत्तराश्च तेषामुपनिषद्भूतं रहस्यभूतम् । ननु 'अर्ह'मित्यस्याऽर्हद्वाचकत्वे सति कथं लौकिकागमानामुपनिषद्भूतमिदम् ? इति । सत्यम्। सर्वपार्षदत्वाच्छब्दानुशासनस्य समग्रदर्शनानुयायी नमस्कारो वाच्यः । अयं चाऽहमपि तथा । तथाहि
"अकारेणोच्यते विष्णू, रेफे ब्रह्मा व्यवस्थितः ।
हकारेण हरः प्रोक्त-स्तदन्ते परमं पदम् ॥ (-महादेवद्वात्रिंशिका-३२) इति श्लोकेनाऽर्हम्-शब्दस्य विष्णुप्रभृतिदेवतात्रयाभिधायित्वेन लौकिकागमेष्वपि अर्हमिति पदमुपनिषद्भूतमित्यावेदितं भवति" इति । ब्राह्मणानां नगरपुराणेऽपि 'अर्हम्'पदमाहात्म्यं वर्णितम् -
"अकारादि-हकारान्तम्, ऊर्ध्वाधोरेफसंयुतम् । नादबिन्दुकलाक्रान्तं, चन्द्रमण्डलसन्निभम् ॥ एतदेव परं तत्त्वं, यो विजानाति भावतः ।
संसारबन्धनं छित्त्वा, स गच्छेत् परमां गतिम् ॥" हरिभद्राचार्यकृत-अष्टकप्रकरणस्य वृत्तौ श्रीजिनेश्वरसूरिभिरप्युपरितनश्लोकसदृशा एव श्लोका उद्धृता
वर्तन्ते
"अष्टवर्गान्तकं बीजं, कवर्गस्य च पूर्वकम् । वह्निनोपरिसंयुक्तं, गगनेन विभूषितम् ।। एतदेव परं तत्त्वं, यो विजानाति भावतः ।
संसारबन्धनं छित्त्वा, स गच्छेत् परमां गतिम् ॥" एवं समग्रतया विमर्श महादेवद्वात्रिंशिकायामुपनिषदां पुराणानां च रहस्यानि निक्षिप्तानि सन्तीत्यनुभूयते एव ।
हेमचन्द्राचार्याणां शिष्या अपि विद्वमूर्धन्याः प्रतिभासम्पन्नाश्चाऽऽसन् । तेषां सर्वेषां शिष्याणां वार्ता न क्रियते चेदपि रामचन्द्राचार्याणां वार्ताऽवश्यमुल्लेख्या ।
कुमारपालदेवप्रबन्धतो (सिंघीग्रन्थमालाप्रकाशिते कुमारपालचरित्रसङ्ग्रहेऽन्तर्गततः) यथा ज्ञायते
३३
Page #39
--------------------------------------------------------------------------
________________
तथा रामचन्द्राचार्या चारणज्ञातीया आसन् । प्रव्रज्यानन्तरं सर्वविद्याविशारदत्वमवाप्य ते एकदा गुरुभिः साकं विहरन्तो मार्गे पतितां बहुमूल्यां रत्नमालां दृष्ट्वा सहसैवोचुः-"एकस्तादृशः समय आसीद् यदा मार्गे विकीर्णान् धान्यकणानपि चायं चायं सञ्चयार्थमभिलाषो भवति स्म । अद्य तु मार्गपतितानि रत्नान्यपि नाऽस्माकमादरभाजनानि" इति ।
रामचन्द्राचार्या विलक्षणप्रतिभां धारयन्ति स्म । तद्विरचितानामनेकेषां ग्रन्थानां निर्देशा उपलभ्यन्ते । दशरूपकातिशायी द्वादशरूपकग्रन्थस्तैविरचित आसीद, यश्चाऽद्याऽनुपलभ्यः । तैविरचितानि नाट्यदर्पणः, द्रव्यालङ्कार, एकादशरूपकाणि चाऽद्याऽपि संस्कृतसाहित्ये विलक्षणां प्रभां प्रसारयन्ति । प्रबन्धशतकर्तृत्वेन तेषां कीर्तिः ।
स्वातन्त्र्यप्रेम रामाचार्याणां ग्रन्थेषु जीवने चाऽपि वारंवारं दृश्यते । कुमारपालस्याऽनुगामी अजयपालो यदा तानाजिज्ञपद् यद् “बालचन्द्राय सूरिपदं ददातु, नो चेद् राजसभायां तप्ते लोहपट्टे उपविश्याऽऽत्मानं विलोपयतु" तदाऽपि "बालचन्द्राय सूरिपदं न देय"मिति गुरोरिच्छामनुल्लङ्घ्य "अन्तरात्मन ऋते कस्याऽप्याज्ञां न स्वीकरोमी"ति कथयित्वा सगौरवं मृत्युविकल्पं स्वीकृतवन्तस्ते(सं. १२३०) । प्रसङ्गोऽयं तेषां सत्त्वस्य पराकाष्ठां द्योतयति । चारणज्ञातेः सहजसाध्यायां दृढायां प्रकृतौ साधुजनसुलभाया निरीहताया ज्ञानजन्याया प्रसन्नतायाश्च मिश्रणेन तेष्वीदृशमलौकिकं सत्त्वमुद्दीप्तं स्यादिति सम्भाव्यम् ।
विक्रमसंवत् १२९८वर्षे, मन्त्रीश्वर-वस्तुपालस्य विदेहानन्तरं मन्त्रिणस्तेजःपालस्य नेतृत्वे, पत्तनपुरे सञ्जातस्य सकलजैनश्रीसङ्घस्य सम्मेलनस्यैतिहासिकानि तथ्यानि निरूपयमाणस्येदानीं च विलुप्तस्य शिलालेखस्य कागदप्रतिकृतय उपलभ्यन्ते । तस्मिन् लेखे सम्मेलने उपस्थितानामाचार्याणामावल्यां केचन वसतिवासिनः(=संवेगिनः) केचिच्च चैत्यवासिनः । तत्र वसतिवासिनामाचार्याणां नामावल्यां श्रीहेमचन्द्राचार्याणां पट्टपरम्पराप्रतिष्ठितानामपि नामोपलभ्यते । तच्चैवं- "राजगुरु-श्रीहेमचन्द्रसूरिसन्ताने श्रीमेरुप्रभसूरिः" ।
स्तम्भतीर्थे खारवाडाविभागे श्रीअनन्तनाथस्य प्राचीनजिनालयस्य जीर्णोद्धारसमये, तस्यैकस्या भित्तेः १८५ धातुविग्रहाः समुपलब्धाः । विग्रहाणामेवं निक्षेपस्य कारणद्वयमेव सम्भवेत : विधर्मिणामाक्रमणे तेषां संरक्षणं पूजनादिकालेऽनवधानेनाऽतीवघर्षणेनाऽङ्गोपाङ्गादीनां विकृतितस्तेषां पूजार्हत्वस्य नाशनं वा । स्तम्भतीर्थे उपलब्धानां धातुविग्रहाणां निक्षेपस्य कारणं घर्षणमेवाऽऽसीदिति विग्रहाणामवलोकनेन स्पष्टं भासितमासीत् । तेष्वेकस्मिन् विग्रहेऽपूर्णोऽयं लेख: पठ्यते स्म
"संवत् १४९६ वर्षे शाके १३६२ प्रवर्त्तमाने वै.सु. ५ गुरौ मृगशीरनक्षत्रे सौम्ययोगे श्रीसूर्योदयात् दिवा प्रथमप्रहर छायापद ८ छायालग्ने वहमाने शुभे अद्येह श्रीस्तम्भतीर्थे श्रीकुमररायविहारे श्रीभूमिगृहे श्रीशत्रुञ्जयावतारे श्रीयुगादिदेवरङ्गमण्डपे पूर्वजकारित-श्रीमहावीरदेवमूर्ति श्रीराजगच्छे कलिकालसर्वज्ञ
Page #40
--------------------------------------------------------------------------
________________
प्रभुश्री-हेमचन्द्रसूरिपट्टे श्रीराजगुरु-श्रीहरिप्रभसूरि....''
___ उपर्युल्लिखितलेखद्वयाद् ज्ञायमानानि तथ्यानि त्वेतानि१. हेमाचार्या वसतिवासिनः-संविग्ना आचार्या आसन्, न तु चैत्यवासिनः । २. हेमाचार्याणां ख्याती राजगुरुत्वेनाऽऽसीत् । तेषां शिष्या अपि राजगुरुत्वेनैव परिचीयन्ते स्म ।
धातुविग्रहलेखात्तु हेमाचार्याणां शिष्यसन्तती राजगच्छत्वेनैव प्रसिद्धाऽभूदिति ज्ञायते । संवत् १२९८वर्षे तेजःपालमन्त्रिणः समये हेमाचार्याणां पट्टपरम्परायां मेरुप्रभसूरयः, संवत् १४९६वर्षे च हरिप्रभसूरयो विद्यमाना आसन् । अनयोः प्रथम आचार्यो 'हेमचन्द्रसूरिसन्ताने' इत्येवमुल्लिखितोऽस्ति, न तु प्रशिष्यत्वेन; द्वितीयश्च 'हेमचन्द्रसूरिपट्टे' इति । सारस्त्वेष एवाऽत्र यद् हेमाचार्याणामनन्तरं सार्धत्रिशततोऽप्यधिकवर्षाणि यावत् पञ्चदशशतकस्याऽन्तं यावत् तेषां शिष्यसन्ततिवर्तते स्म ॥
॥१॥
॥२॥
॥३॥
॥ श्रीमहादेव-द्वात्रिंशिका ॥ प्रशान्तं दर्शनं यस्य, सर्वभूताऽभयप्रदम् । मङ्गल्यं च प्रशस्तं च, शिवस्तेन विभाव्यते महत्त्वादीश्वरत्वाच्च, यो महेश्वरतां गतः । राग-द्वेषविनिर्मुक्तं, वन्देऽहं तं महेश्वरम् महाज्ञानं भवेद् यस्य, लोकालोकप्रकाशकम् । महादानं महाध्यानं, महादेवः स उच्यते महान्तस्तस्करा ये तु, तिष्ठन्तः स्वशरीरके । निर्जिता येन देवेन, महादेवः स उच्यते । राग-द्वेषौ महामल्लौ, दुर्जयौ येन निर्जितौ । महादेवं तु तं मन्ये, शेषा वै नामधारकाः शब्दमात्रो महादेवो, लौकिकानां मते मतः । शब्दतो गुणतश्चैव, मूर्तितो जिनशासने शक्तितो व्यक्तितश्चैव, विधानं लक्षणं तथा । मोहजालं हतं येन, महादेवः स उच्यते
||४||
||५||
॥६॥
||७||
३५
Page #41
--------------------------------------------------------------------------
________________
नमोऽस्तु ते महादेव !, महादोषविवर्जित ! । महालोभविनिर्मुक्त !, महागुणसमन्वित ! महारागो महाद्वेषो, महामोहस्तथाऽपरः । कषायाश्च हता येन, महादेवः स उच्यते महाक्रोधो महामानो, महामाया महामदः । महालोभो हतो येन, महादेवः स उच्यते महाकामो हतो येन, महाभयविवर्जितः । महाव्रतोपदेशी च, महादेवः स उच्यते महादया दमो यस्य, महाक्षान्तिर्महातपाः । महामौनी महायोगी, महादेवः स उच्यते महावीर्यं महाधैर्यं, महाशीलं महागुणाः । महापूर्जार्हकत्वाच्च, महादेवः स उच्यते स्वयम्भूतं यतो ज्ञानं, लोकालोकप्रकाशकम् । अनन्तवीर्य-चारित्रः, स्वयम्भूः सोऽभिधीयते शिवत्वाच्च जिनः प्रोक्तः, शङ्करश्च प्रकीर्तितः । कायोत्सर्गी च पर्यङ्की, स्त्रीभूषादिविवर्जितः अनाकारश्च साकारो, मूर्त्तामूर्त्तस्तथेश्वरः । परमात्मा च बाह्यात्मा, अन्तरात्मा तथैव च परमज्ञानयोगेन, परात्मा परमव्ययः । परमक्षान्तिसहितः, परमात्मा स उच्यते
परमात्मा सिद्धिसम्प्राप्तौ, बाह्यात्मा तु भवान्तरे । अन्तरात्मा भवेद् देहे, इत्येष त्रिविधः शिवः सकलो दोषसंयुक्तो, निष्कलो दोषवर्जितः । पञ्चदेहविनिर्मुक्तः, सम्प्राप्तः परमं पदम् एकमूर्त्तिस्त्रयो भागा, ब्रह्म-विष्णु-महेश्वराः । तान्येव पुनरुक्तानि, ज्ञान - चारित्र - दर्शनै: कार्यं विष्णुः क्रिया ब्रह्मा, कारणं तु महेश्वरः । कार्य-कारणसम्पूर्णो, महादेवः स उच्यते
३६
ዘረዘ
॥९॥
॥१०॥
॥११॥
॥१२॥
॥१३॥
॥१४॥
॥१५॥
॥१६॥
॥१७॥
॥१८॥
॥१९॥
॥२०॥
॥२१॥
Page #42
--------------------------------------------------------------------------
________________
प्रजापतिसुतो ब्रह्मा, माता पद्मावती स्मृता । अभीचिर्जन्मनक्षत्रं, एकमूर्तिः कथं भवेत् ? ॥२२॥ वसुदेवसुतो विष्णु-र्माता वै देवकी स्मृता । रोहिणी जन्मनक्षत्रं, एकमूर्तिः कथं भवेत् ? ॥२३॥ पेढालस्य सुतो रुद्रो, माता वै सत्यकी स्मृता । मूलं च जन्मनक्षत्रं, एकमूर्तिः कथं भवेत् ? ||२४|| चतुर्मुखो भवेद् ब्रह्मा, त्रिनेत्रस्तु महेश्वरः । चतुर्भुजो भवेद् विष्णुः, एकमूर्तिः कथं भवेत् ? ॥२५।। रक्तवर्णो भवेद् ब्रह्मा, श्वेतवर्णो महेश्वरः ।। कृष्णवर्णो भवेद् विष्णुः, एकमूर्तिः कथं भवेत् ? ॥२६।। ज्ञानं विष्णुः सदा प्रोक्तं, चारित्रं ब्रह्म उच्यते । सम्यक्त्वमीश्वरः प्रोक्तः, अर्हन्मूर्तिस्त्रयात्मिका ॥२७॥ क्षिति-जल-पवन-हुताशन-यजमाना-ऽऽकाश-सोम-सूर्याख्याः । इत्येतेऽष्टौ भगवति, वीतरागे गुणाः प्रोक्ताः ॥२८॥ क्षितिरित्युच्यते क्षान्ति-र्जलं शान्तिः प्रसन्नता । निस्सङ्गता भवेद् वायु-र्हताशो योग उच्यते ॥२९॥ यजमानो भवेदात्मा, नभो दान-दयादिभिः । सोममूर्तिर्भवेच्चन्द्रो, ज्ञानमादित्य उच्यते
॥३०॥ पुण्य-पापविनिर्मुक्तो, राग-द्वेषविवर्जितः । अतोऽर्हद्भ्यो नमस्कारः, कर्तव्यः सिद्धिमिच्छता ॥३१॥ अकारेण भवेद् विष्णू, रेफे ब्रह्मा व्यवस्थितः । हकारेण हरः प्रोक्त-स्तस्याऽन्ते परमं पदम् । ॥३२॥ भवबीजाङ्करजनना, रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा, महेश्वरो वा नमस्तस्मै
॥३३॥
॥ महादेव-बत्तीसी ॥
३७
Page #43
--------------------------------------------------------------------------
________________
कलिकालसर्वज्ञस्य समुदारदृष्टिः मुनिधर्मकीर्तिविजयः
अस्मिन् जगति केचिज्जन्मतो महान्तः भवन्ति, केचिच्च कार्यतो महान्तः सन्ति । तेषु केषाञ्चित् प्रभावस्तु तेषां विद्यमानतायामेव प्रवर्तते, किन्तु कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यसदृशाः केचिदेव विरला भवन्ति येषां प्रभावो न केवलं तेषां विद्यमानतायामपि तु सार्वकालिको भवति । एतादृशस्य महापुरुषस्य जीवनं सदा सर्वजनानां हितायैव भवति, सर्वेषां कृतेऽनुसरणीयं चाऽप्यस्ति । जगति बहवो जना जाता यैर्लोकोपयोगीनि बहूनि कार्याणि कृतानि किन्तु तानि कालमहागर्ते विलीनानि जातानि । किन्तु, आनवशतवर्षेभ्यः कलिकालसर्वज्ञस्य नाम सादरं गृह्यते कार्याणि च स्मर्यते सर्वैः, इत्येतदेवाऽस्य महापुरुषस्य महत्तां प्रदर्शयति । कस्मिंश्चित् क्षेत्रे कार्यं कुर्वन्तो महापुरुषास्तु बहवः, किन्तु सर्वेष्वपि क्षेत्रेषु निष्ठापूर्वकं कार्य कुर्वन् त्वेतादृशः कोऽपि विरल एव ।
एष महापुरुषः सर्वत्र समन्वयवादी समुदारदृष्टिर्दीर्घद्रष्टा चाऽऽसीत् । समर्यादं जैनधर्ममाचरितवानेष महापुरुषो धर्मनिपुणो व्यवहारनिपुणो राजनीतिनिपुणश्चाऽप्यासीत् । अत्राऽऽश्चर्यं त्वेतदेव यदेष राजनीतिनिपुणः सन्नपि निर्लेपतां साधुतां च न त्यक्तवान् । निर्लेपसाधुः सन्नपि व्यवहारदक्ष आसीत् । विश्वमान्यो विद्वान् सन्नपि गर्वरहित आसीत् । तत एव तेन धार्मिकक्षेत्रेण सह व्यवहारक्षेत्रे राजकीयक्षेत्रे सामाजिकक्षेत्रे चाऽपि लोकोपयोगीनि बहूनि कार्याणि कृतानि । स्वप्रज्ञया महापुरुषेणैतेन सर्वेभ्यो नूतना दृष्टिर्नूतना कल्पना च दत्ता । स्वीयोदारदृष्ट्याः प्रभावेणैव स न केवलं जैनेषु गूर्जरदेशे च अपि तु सर्वधर्ममान्यजनेषु समस्ते विश्वे चाऽपि प्रसिद्धि प्राप्तवान्, ततश्च विश्वस्मिन् विश्वे गूर्जरराज्यस्य गणना सञ्जाता । एवं समस्तप्रजानां जीवने जैनधर्मस्य अहिंसादयः सिद्धान्ता व्यापकत्वेन प्रसृताः ।
स्वजीवने कलिकालसर्वज्ञेन 'स्याद्वाद'शब्द: सार्थकतयाऽनुसृतोऽस्ति । तत एव विख्यातौ पराक्रमिणौ चाऽपि सिद्धराजजयसिंहः कुमारपालश्चेति द्वौ राजानौ तदनुयायित्वं स्वीकृतवन्तौ । एतौ द्वौ राजानौ न जैनधर्मिणौ, अपि तु सर्वधर्मानुरागिणौ आस्ताम् । तथाऽपि कलिकालसर्वज्ञस्य शिष्यत्वाङ्गीकरणे गौरवमनुभवतः स्म ।
पण्डितशिवदत्तेनैकस्यां पत्रिकायां लिखितम् - संस्कृतसाहित्यस्य विक्रमादित्यराजस्य च काले कालिदासस्य यत् स्थानं, श्रीहर्षस्य च राजसभायां यत् स्थानं बाणभट्टस्याऽऽसीत्, प्रायस्तादृशं, ततोऽप्यधिकं
Page #44
--------------------------------------------------------------------------
________________
च स्थानं चौलुक्यवंशोद्भवस्य सिद्धराजजयसिंहस्य राज्ये कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यस्याऽऽसीत् - इति ।
कुमारपालराजं बोधयितुं कलिकालसर्वज्ञेन प्राकृतद्वयाश्रयमहाकाव्ये रचितानि कानिचित् पद्यान्यवलोकनीयानि । तत्र सर्वत्र सर्वदर्शनमान्यकथनान्येव प्रयुक्तानि । सूरेरुदारदृष्टिं प्रमाणीकर्तुमेतान्येव पद्यानि समर्थानि सन्ति । यथा - मोक्षः कथमवाप्येत ? -
अदिशुस्तिदं निविस्टे चदुस्तवग्गविवय्यिदकशाए ।
शावय्य-योगलहिदे शाहू शाहदि अणमणे ॥ ८-२ ॥ (सं. अतिसुस्थितं निविष्टः, चतुर्थवर्गं विवर्जितकषायः ।
सावधयोगरहितः, साधुः साधयति अनन्यमनाः ।।) (अतिसमाहितं यथा भवत्येवं निविष्टो, धर्मध्याननिरतो, वर्जितकषायः, सावद्ययोगरहितो, मोक्षकतानमानसश्च संयतो निर्वाणं साधयति ।)
पुञ्ज निशादपजे सुपञले यदिपधेण वजन्ते ।
शयलययवश्चलत्तं गश्चन्ते लहदि पलमपदं ॥८-३॥ (सं. पुण्यः निशातप्रज्ञः, सुप्राञ्जलः यतिपथेन व्रजन् । सकलजगद्वत्सलत्वं गच्छन् लभते परमपदम् ।)
(पुण्यवान्, निशातप्रज्ञः, कौटिल्यरहितो यतिपथेन व्रजन्, सकलजगद्वत्सलत्वं गच्छन् पुरुषः परमपदं लभते ।)
शपल-विव कालहिदे पेस्कन्ते सव्वमोल्लदिस्टीए ।
मिद-पियमाचस्कन्ते चिष्ठदि मग्गम्मि मो कस्स ॥ ८-४ ।। (सं. स्व-परविवक्षारहितः, प्रेक्षमाणः सर्वमादृष्ट्या । मित-प्रियमाचक्षाणः, तिष्ठति मार्गे मोक्षस्य ॥) (स्व-परविवक्षारहितः, सर्वमार्दद्रष्ट्या प्रेक्षमाणो, मितं प्रियं चाऽऽचक्षाणः, मोक्षस्य मार्गे तिष्ठति ।)
यति अरिहपरममन्तो पढिय्यते कीरते न जीववधो ।
यातिस-तातिसजाती ततो जनो निव्वतिं याति ॥ ८-९ ॥ (सं. यदि अर्हत्परममन्त्रः, पठ्यते क्रियते न जीववधः ।
यादृश-तादृशजातिस्ततो जनो निर्वृतिं याति ।) (जीववधो न क्रियते, इति अर्हतां परममन्त्रं यः परावर्तते स हीनोत्तमकुलोऽपि जनो निर्वाणं याति ।)
३९
Page #45
--------------------------------------------------------------------------
________________
जई हिमगिरिहि चडेविणु निवडइ अह पयायतरुहि वि इक्कम ।
निक्कइअवें विणु समयाचारेण विणु मणसुद्धिऍ लहइ न सिवु जणु ॥८- २०॥
(सं. यदि हिमगिरौ आरुह्य निपतति अथ प्रयागतरौ अपि एकमनाः ।
निष्कैतवेन विना समयाचारेण विना मनः शुद्धया लभते न शिवं जनः ॥ )
(यदि हिमगिरौ प्रयागवटे चाऽपि आरुह्यैकमनाः निपतति, तथाऽपि निष्कैतवेन समयाचारेण मनः शुद्ध्या च विना जनः शिवं न लभते ।1)
तं बोल्लिअइ जु सच्चु पर, इमु धम्मक्खरु जाणि ।
अहो परमत्था, एहु सिवु, एहु सुहरयणहं खाणि ॥ ८-३९॥
(सं. तत् कथ्यते यत् सत्यं परं इदं धर्माक्षरं जानीहि ।
एषः परमार्थः, एतत् शिवं, एषा सुखरत्नानां खानि: ।)
(केवलं सत्यमेव वदनीयम् - एतदेव धर्माक्षरः, परमार्थः, शिवं सुखनिधिश्च सन्ति, इति ज्ञेयम् ।)
सच्चई वयणई जो बुवइ, उवसमु वुञइ पहा ।
पस्सदि सत्तु वि मित्तु जिम्वं, सो गृण्हइ निव्वाणु ॥ ८-४४ ॥
(सं. सत्यानि वचनानि यो ब्रूते, उपशमं व्रजति प्रधानम् ।
पश्यति शत्रुमपि मित्रं यथा स गृह्णाति निर्वाणम् II)
(यः सत्यवचनानि वदति, सदा उपशमयति, शत्रौ मित्रे च समदृष्टिः, सो जनो निर्व्वाणं प्राप्नोति ।) - इत्यादि ।
कथं वर्णयानि कलिकालसर्वज्ञस्योदारदृष्टिम् ! द्वौ महापराक्रमिणौ समर्थौ च राजानौ सूरेस्तस्य भक्तौ आस्ताम् । ततो यस्य राजानौ भक्तौ तस्याऽनुयायिवर्गोऽतिविशालः स्यादेवेत्यत्र न काऽपि शङ्का । यदीच्छेत् स तर्हि भिन्नसम्प्रदायस्य स्थापनं कुर्यात्, राज्ञो बलेन बलात्कारेण चाऽपि जैनधर्मानुयायिनः सङ्ख्यावृद्धिं कारयेत्, स्वनामाङ्कितानि बहूनि मन्दिराणि धर्मस्थानकानि ग्रन्थालयान् च निर्मातुं शक्नुयात्, तथाऽपि कुत्रचिदपि स्वस्य स्वधर्मस्य च महत्तां प्रस्थापयितुं प्रयत्नो न कृतः सूरिणा । यत एष सूरीशो न महत्त्वाकाङ्क्षी, नाऽपि चाऽहङ्कारी आसीत्, अपि तु समदर्श्यदारदृष्टिश्चाऽऽसीत् ।
एतौ द्वौ अपि राजानौ सूरेस्तादृशौ रागिणौ आस्ताम् यतः सिद्धराजेन स्वशासने 'सिद्ध - हेमसंवत्' इत्यस्य तथा कुमारपालेन ' सिद्धहेम - कुमारसंवत्' इत्यस्य प्रारम्भः कृत आसीत् । अत्र सूरीश्वरः केवलं ‘हेमसंवत्, हेम-सिद्धसंवत्, हेम-सिद्ध-कुमारसंवत्' चेति कर्तुं शक्तः आसीत्, किन्त्वदारदृष्टिना सूरिणैवं न कृतम् । ततोऽप्यधिकमौदार्यं त्वेतद् यत्- 'सिद्धराजस्तु कुमारपालस्य शत्रुरूप आसीत्, तथाऽपि सूरिणा सदुपदेशद्वारेण सिद्धराजस्याऽपि नाम कुमारसंवति उल्लेखित 'मिति ।
४०
Page #46
--------------------------------------------------------------------------
________________
अद्य गूर्जरजनानां चित्ते सहिष्णुतौदार्यं सर्वधर्मसमन्वयदृष्टिश्चेत्यादयो ये ये गुणा दृश्यन्ते, तेषां मूलमस्ति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यः । सूरिणा उक्तं चाऽपि
आद्यो धर्मो व्रतस्थानां विरोधोपशमः खलु ॥ ___ यं कमपि धर्मं देवं वाऽऽश्रयन्तु, किन्त्वन्येषां धर्माणां देवानां वा तिरस्कारमवहेलनं च न कुर्वन्तु । सदा सर्वैः सह समभावेन व्यवहरन्तु । सूरिणाऽस्य सम्पूर्णतया पालनं कृतम् । कुत्रचिदपि क्लेशो न कृतो न कारितश्च ।
समभावभावितात्मनः कलिकालसर्व-श्रीहेमचन्द्रसूरेश्चरणयोः सूरिपदस्य नवमशताब्दीवर्षे शतशो वन्दनानि ।
श्रीदेवसूरीणां दिगम्बरैः सह वादे जायमाने आचार्यहेमचन्द्रा अपि तेन सार्धं गताः । तदा दिगम्बरः कुमुदचन्द्रवादी स्वयं ज्यायान् किञ्चिद्व्यतिक्रान्तशैशवं श्रीहेमचन्द्रं प्रति 'पीतं तक्रं भवता?' इत्यभिहिते श्रीहेमचन्द्रस्तं प्रति 'जरातरलितमतिः किमेवमसमञ्जसं ब्रूषे ? श्वेतं तक्रं, पीता हरिद्रा' इति वाक्येनाऽधःकृतः 'युवयोः को वादी ?' इति पृच्छन् श्रीदेवसूरिभिस्तिरस्करणाय 'अयं भवतः प्रतिवादी'त्यभिहिते कुमुदचन्द्रः प्राह - 'मम वृद्धस्याऽनेन शिशुना सह को वादः ?' इति तदुक्तिमाकर्ण्य 'अहमेव ज्यायान, भवांस्तु शिशुः योऽद्याऽपि कटीदवरकं निवसनं च नाऽऽदत्से' इति हेमचन्द्रेणोक्तम् ।
(प्रबन्धचिन्तामणिः)
Page #47
--------------------------------------------------------------------------
________________
अयि भोः ! संस्कृतभाषा - काव्य - साहित्य- तर्क - योग-पुराणेतिहासप्रभृतिविद्याध्ययनाध्यापनसर्जनादिपटिष्ठा विद्वज्ज्येष्ठा: ! परिचितचरा एव तत्रभवतां भवतां पाणिनि - मम्मटानन्दवर्धनामरसिंहकालिदासाक्षपाद-पतञ्जलि - व्यासादयो महर्षयो महाकवयो ग्रन्थकाराश्च । एतैर्विना हि समग्रा अपि पूर्वोक्ता विद्याशाखा: शून्यायेरन् खलु ! किन्त्वेतेषामेव विविधदेशेषु विविधकालखण्डेषु च सञ्जातस्थितिकानां समन्वय एकस्मिन्नेव देशे एकत्र चैव कालखण्डे एकस्यां चैव व्यक्तौ सञ्जात इति वार्ता कदाचित् कर्णनयन-मनोगोचरा स्यात् तदा सा किं श्रद्धेया भवेत् खलु ? नैव । असम्भवितमेवैतत् किल !
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्याणां जीवनचरितम्
मुनिकल्याणकीर्तिविजयः
तथाऽपि एतस्मिन्नेव भारते देशेऽसम्भवितमपि तथाऽश्रद्धेयमप्येतत् सञ्जातमेव । कदा ? कुत्र ? इतिप्रश्नावलिरुत्तिष्ठेतैव नो मनस्येतत् श्रुत्वा । अरे ! इदामिदानीमेवाऽस्मिन्नेव सहस्राब्देऽत्रैव च गूर्जरदेशेऽसम्भवितमप्यश्रद्धेयमपि चैतत् सञ्जातं कलिकालसर्वज्ञानां श्रीमतां हेमचन्द्राचार्याणां जीवने । तेषां नित्यस्मरणीयमभिधानं केषां देश- विदेशीयानां विदुषामविदितं ननु ! विश्वस्यैकमनुपमं च महाव्यक्तित्वं, भारतीयसंस्कृतेर्यशउज्ज्वला गौरवगाथा, गूर्जरदेशं भाषा-साहित्य-संस्कारैः समृद्धीकुर्वज्जीवत् तपः, ज्ञानमहार्णव(Ocean of knowledge) तया अतिशायिप्रज्ञ (Intellectual giant) तया च सर्वत्र प्रथितं सार्वकालिकं सार्वदेशिकं विश्वजनीनं व्यक्तित्वं किलैतत् - इति तु सर्वथाऽविज्ञापनीयमेव विदुषां खलु ।
एवंस्थितेऽपि ऐदंयुगीनानां विद्याचणानां विद्यार्थिनां जिज्ञासूनां च कदाचित् जायेताऽपि जिज्ञासा कथङ्कारमेते विश्वस्याऽनुपमं महाव्यक्तित्वं सम्पादितवन्त: ? कथङ्कारं चैते ज्ञानमहार्णवता अतिशायि-प्रज्ञतया च जगति प्रसिद्धाः ? कथं च गूर्जरदेशं भाषा-साहित्य-संस्कारैरेते समृद्धीकृतवन्त: ? कथङ्कारं चैतेषु पाणिनि-मम्मटानन्दनवर्धनामरसिंह- कालिदासाक्षपाद-पतञ्जलि - व्यासादीनां महर्षीणां महाकवीनां ग्रन्थकाराणां च समन्वयः ? इत्यादि ।
यत्
-
एताः सर्वाः अन्याश्चाऽनुक्ताः सर्वा अपि जिज्ञासा: शमयितुमेवाऽयमुपक्रमो रचितोऽस्ति । किन्तु स्थीयतां क्षणम् । तैर्हि विश्वजनीनैर्महात्मभिर्यौ देश - कालावलङ्कृतावास्तां तावपि प्रथमं ज्ञैयौ खलु ! अतः ऐदम्प्राथम्येन तावेव प्रथमं विचारयामः । तत्राऽपि प्रथमं तावत् तेषां देशं जन्मभूमिं कर्मभूमिं विचरणभूमि
* अपारश्रुतकूपारदृश्यतया सञ्जातकलिकालसर्वज्ञप्रसिद्धेः । ( कुमारपालचरितसङ्ग्रहे)
४२
Page #48
--------------------------------------------------------------------------
________________
सर्वमप्येकमेवगूर्जरदेशं विचारयामः, सहैव तादात्विकी कालपरिस्थितिमपि किञ्चिद् विलोकयामः । गूर्जरराज्यस्य (गूजरातस्य) अद्यैका स्वतन्त्रा स्वारस्यपूर्णा चाऽभिव्यक्तिरस्ति । बहुशो गूर्जरजनानन्ये जना निर्बलतया भावयन्तः किञ्चिद् हीनतया प्रेक्षन्ते । किन्तु गूर्जरसदृशाः साहसिकाः पराक्रमिणो धीराश्च जना अत्यल्पाः सन्ति । प्राच्यकाले समग्रोऽपि सामुद्रिकवाणिज्यव्यापारः प्रायशो गूर्जरजनाधीन एवाऽऽसीत् । वाणिज्यमाध्यमेन ते सर्वत्राऽपि जगति गच्छन्ति स्म, वसन्ति स्म, तत्रत्यैश्च जनैः सहाऽऽनुकूल्येन सम्मिलन्ति स्म चाऽपि । गर्जरवणिजो जावा-समात्रा-ब्रह्मदेश-नेपाल-चीन-पारसकल-आफ्रिका-ग्रीस-रोमप्रभतिदेशेष्वपि वाणिज्यार्थं भ्रमणं कुर्वन्ति स्म । तत्रत्यां संस्कृति कलादिसमृद्धिं चाऽत्राऽऽनयन्ति स्म, अत्रत्यां च तत्र तत्र नयन्ति स्म । अरे ! आफ्रिकीयदेशेषु वाणिज्यार्थं वसितुं गताः सर्वप्रथमं विदेशिनो गौर्जरा एव । यूरपीयास्तु ततो बहुकालान्तरं तत्र प्राप्ताः । इयं च परम्पराऽऽधुनिकै!जरैरपि अक्षुण्णतया रक्षिताऽस्ति । अद्य सर्वत्राऽपि जगति स्वीयवाणिज्यकलया गूर्जराः प्रसिद्धाः सन्ति । गूर्जरधनिकानां नामानि सम्प्रति वैश्विकसामयिकेष्वपि सादरं गृह्यन्ते । न चैतावत्, गूर्जरा वैज्ञानिकाः, सारस्वताः, विविधशाखीया विद्वज्जनाश्चाऽद्य विश्वप्रसिद्धाः सन्ति । सर्वतोऽप्यधिकं त्वेतद् यद् - गूर्जरजना मूलत एव निरुपद्रविणः, शान्ताः, दयालवः, अहिंसकाः, मिलनशीलाः, सहिष्णवः, संस्कारिणश्च सन्ति ।
___ अत्र प्रश्नोऽयं जायते यद् ईदृश्या गूर्जरप्रजायाः मूलं कुलं च कुत्र वर्तते ? इति । किन्त्वस्योत्तरं प्राप्तुमितिहासपृष्ठानि अवलोकनीयानि । विक्रमात् पूर्वं तृतीयशताब्द्यामैदम्प्राथम्येन गूर्जरप्रदेशस्य सौराष्ट्रस्य चोल्लेखाः प्राप्यन्ते मौर्यकालीनेष्वशोकादीनां शिलालेखेषु - गिरिनारपर्वतस्य तलहट्टिकायाम् । यद्यपि तदात्वे गूर्जर-इति नामोल्लेखो नाऽऽसीत् । एकतो गिरिनगरं सौराष्ट्रदेशश्च, अन्यतो वलभीसाम्राज्यं, मध्ये चाऽविकसितोऽर्धविकसितो वाऽऽनर्तप्रदेशो दक्षिणे च लाटदेश आसीत् । (उत्तरे च राजस्थानप्रदेशे मरुभूमौ श्रीमालनगरे गूर्जराणां राज्यमासीत् ।) अत्र च विक्रमस्य प्रथमशतीं यावन्मौर्यवंशीयानां साम्राज्यमासीत् । ततो द्वितीयात् पञ्चमं शतकं यावदत्र क्षत्रपवंशीयनृपाणां शासनमासीत् । अथ च तत्काले भिन्नमालनगरे (श्रीमालनगरे) गूर्जराणां साम्राज्यं किञ्चिदिव दुर्बलं जातम् । अतस्ते शनैः शनैः ततो निःसृत्याऽऽनर्तादिप्रदेशेषु समागतास्तत्रैव चोषिताः ।
इतश्च पूर्वभारते मगध-वङ्गोत्कलादिदेशेषु वारं वारं दुर्भिक्ष-दुष्कालादयः प्राकृतिकविपत्तयः समजायन्त । तथा मगधेष्वपि शुङ्गवंशीया राजानस्तदात्वे शासति स्म । तैश्चाऽत्याचारं कृत्वा जैना बौद्धाश्च साधवो भृशं पीडिताः । अतः सर्वमेतत् सम्मुखीकर्तुमशक्नुवन्तोऽथाऽपि च स्वस्य मार्गस्य चाऽस्तित्वं रक्षितुं बद्धादरास्ते पूर्वभारताच्छनैः शनैः निःसृत्य पश्चिमं मध्यं दक्षिणं च भारतं प्रति प्रस्थिताः । तत्रापि जैनानां द्वौ विभागावपि प्रायशस्तदात्व एव सञ्जातौ । तयोश्च दिगम्बराः साधवो मुख्यतो दक्षिणभारतं प्राप्ताः, श्वेताम्बराश्च मध्यं पश्चिमं च भारतं प्राप्ताः । तत्र च राजस्थानं पूर्वमेव जैनसाधुभिर्भावित* श्रीपार्श्वनाथसन्तानीयाः श्रीरत्नप्रभसूरिप्रमुखा आचार्या भगवतो महावीरस्य निर्वाणादचिरमेवाऽत्र समागता आसन् । तैश्चाऽत्रोपकेशनगरे
लक्षशो जना जैनधर्मेण भाविता: उपकेश(ओसवाल)गोत्रस्य च स्थापनाऽपि कृता ।
४३
Page #49
--------------------------------------------------------------------------
________________
मासीत् । अतो बहवो जैनसाधवस्तत्रैव समागताः । तानेवानुसरन्तो जैनश्रावका गृहस्थाश्चाऽपि समागताः । ते च स्वेन सह भाषां, जैनसंस्कृति, जैनग्रन्थान्, लिपि, लेखनकलां, मुख्यतश्चाऽहिंसामयं दयापूर्णं च धर्ममपि समानीतवन्तः । अनेन राजस्थाने मेवाडप्रदेशे मरु(मारवाड)प्रदेशे च शनैः शनैः जैनधर्मप्रसारो जातः ।
अथ च राजस्थानादपि जैनसाधवो विहृत्य विहृत्य दक्षिणे सौराष्ट्रदेशे, वलभीप्रदेशे, लाटप्रदेशे चाऽपि गताः । तत्र च पूर्वमेव बौद्धानां प्रसर आसीत् । ते हि अशोकस्य कालादेव राज्याश्रयं प्राप्ताः सन्तोऽत्र बद्धमूलाः सञ्जाताः । (तेषां स्थानानि अद्याऽपि गिरिनगरे (जूनागढ) तालध्वजे (तलाजा[भावनगरं]) च द्रष्टुं शक्यानि ।) एतेषां त्रयाणामपि प्रदेशानां मध्यविभाग आनर्तप्रदेशतयोपलक्ष्यमाणोऽथाऽपि विकसितो नाऽऽसीत् । तत्र हि बहुश आभीरजातयोऽन्याश्च तादृश्यो यायावरजातयो वसन्ति स्म ।
विक्रमस्य सप्तमे शतके समग्रे भारते विचरितो ह्यु-एन-त्सांगः स्वपरिभ्रमणलेखेषु मो-ला-पो (मालवः), फ-ल-पी (वलभी), कु-चे-लो (गूर्जर:-भिन्नमालः), सु-ला-चा (सुराष्ट्रा), युह-शं-तो (उज्जयन्तः-गिरिनगरम्) इत्यादीनुल्लिखन् कथयति यदेते प्रदेशा अतीव समृद्धाः सन्ति । अत्र बौद्धानां शतशो विहाराः सन्ति, अन्येषामपि च धर्माणां मन्दिरादिस्थानानि सन्ति - इति ।
इतश्च भिन्नमाल(श्रीमाल)प्रदेशे गूर्जरज्ञातीया राजपुत्राः क्षत्रियाश्च किञ्चिदिव दुर्बला जाता आसन् । अतस्ते शनैः शनैस्ततो निःसृत्याऽऽनर्त-सौराष्ट्रादिप्रदेशेषु समागत्य तत्रैव वसन्ति स्म । अत आनर्तप्रदेशोऽपि शनैः शनैर्विकासं प्राप्तः । एतेन जैनसाधवोऽपि तत्र विहरन्तः समागताः । तत्रत्यांश्च जनान् धर्म-संस्कारादिषु मार्गदर्शनं कृतवन्तः । तथा च स प्रदेशो धर्म-संस्कारादिभिः समद्धो जायमान आसीत् ।
____ अथ च तदात्वे श्रीमालदेश-लाटप्रदेश-सौराष्ट्रप्रदेश-वलभीप्रदेशादिषु जैनानां बौद्धानां च मध्ये बहवो वाद-विवादा जायन्ते स्म । बौद्धाश्च राज्याश्रयं प्राप्तत्वात् अधिकसमर्था आसन्, अतोऽपि जैनास्तेषां साम्मुख्यं कर्तुं किञ्चिदिवाऽशक्ता आसन् । तावता वलभीप्रदेशे स्थितेन प्रभावकेण महाजैनाचार्येण मल्लवादिगणिक्षमाश्रमणेन बौद्धैः सह वादं कृत्वा ते जिताः । तत्राऽयं पणबन्ध आसीत् – यदि जैनाः पराजिता भवेयुस्तदा तैबर्बोद्धानां शिष्यत्वमङ्गीकर्तव्यं, यदि च बौद्धाः पराजिताः स्युस्तदा तैर्देशत्यागः कर्तव्यः । ततश्च बौद्धा (श्रीमालदेशाल्लाटप्रदेशं यावत्) देशत्यागं कृत्वा निर्गताः ।*
इतश्च विक्रमस्य नवमे शतके वलभीप्रदेशस्य तुरुष्कैर्भङ्गः कृतः । अन्यतः पूर्वोत्तरभारते शङ्कराचार्यस्य प्रभावेण शिष्टा जैना अपि ततो निर्गत्य पश्चिमभारतं समागताः । श्रीमालप्रदेशाच्चाऽधिकाधिकगूर्जरा आनादिप्रदेशेषु समागताः । अतस्तदात्व एव गूर्जराणामाधिक्यात् स प्रदेशः गूर्जरदेशतया प्रसिद्धो जातः । गूर्जरेष्वपि मुख्यतः चापोत्कट (चावडा) वंशीयाः क्षत्रिया एव तत्र प्रबला आसत्, अतस्ते एवाऽत्र प्रदेशे शासका जाताः ।
* बौद्धानां पश्चिमभारतान्मल्लवादिना, दक्षिणभारतादकलङ्कदेवेन, शेषभारताच्च शङ्कराचार्येण देशत्यागः कारितः ॥
४४
Page #50
--------------------------------------------------------------------------
________________
प्रारम्भे तु गूर्जरदेशो लघुरेवाऽऽसीत्, किन्तु शनैः शनैः तच्छासकानां शौर्य-पराक्रम-नीतिबलेन तस्य सीमानो विस्तारं प्राप्ताः । देशस्य प्रजाभिरपि निकटस्थ-मालवदेश-श्रीमालदेश-वलभीप्रदेशादीनां संस्कति-संस्कारादीनामाधारेण स्वसंस्कृति-संस्कारादयोऽकरिता वृद्धि प्रापिताश्च । किन्तु तासां(प्रजानां) धर्मसंस्कार-प्रेम-दया-ऽहिंसादयस्तु जैनमुनिभिरेवाऽऽमूलमारोपिता अङ्करिता: पल्लविताश्च । जैनाचार्यैर्हि जानद्भिरजानद्भिर्वा गूर्जरप्रजानां मानसं संस्कर्तुं पूर्णतया प्रयतितमस्ति । यतः पूर्वोत्तरदेशेभ्यो निःसृतानां जैनानां प्रथममाश्रयस्थानं राजस्थानप्रदेशस्ततश्च गर्जरदेशो जातोऽतस्तौ द्वावपि देशौ संस्कर्त धर्मसमद्धं च कर्तुं जैनसाधुभिः स्वीयं सर्वं सत्त्वं व्यापारितमिति यदि कथ्येत तदा नाऽस्ति अतिशयोक्तिः ।
इतिहासविदोऽपि वदन्ति यद् भिन्नमाल-वलभ्योः पतनानन्तरं गूर्जरदेशं गूर्जराणां शासनं च स्थापयितुं द्रढयितुं च जैनमन्त्रिभिर्जेन श्रेष्ठिभिश्चैवाऽत्यधिकतया प्रयतितं साफल्यं च प्राप्तमस्ति । कथनमिदं सर्वथा वास्तविकमस्ति । गूर्जराणां प्रथमस्य राज्ञो वनराज-चापोत्कटस्य मन्त्रिणो जाम्बश्रेष्ठिन आरभ्य आधुनिकसमये श्रेष्ठिश्रीलालभाई-दलपतभाई इत्येनं तथा श्रेष्ठिश्रीकस्तूरभाई-लालभाई-इत्येनं यावत् पश्येम तदा ज्ञायते यद् राजकीयपरिस्थितिषु जैनानां वर्चस्वं प्रभावश्च कीदृशोऽस्तीति । यद्यप्यैदंयुगीना जैनश्रेष्ठिनो न तथा राजकीयप्रभावयुताः सन्ति तथाऽपि तथ्यमेतत् तु जगद्विदितमस्ति यद् भारतदेशस्याऽधिकांशं वाणिज्यं जैनश्रेष्ठिन एव कुर्वन्तीति ।
एवं च गूर्जरदेशस्य तत्प्रजानां च संस्करणे समृद्धीकरणे च मुख्यभागो जैनानामस्ति । ब्राह्मणानामन्येषामपि धर्मिणां तत्र भागोऽस्त्येव - इति तु सर्वथा स्वीकार्यमेव, तथाऽपि अहिंसा-दया-निरुपद्रवितादिगुणान् प्रजानां मानसे प्रवाहयितुं स्थिरीकर्तुं च जैनाचार्यैर्यथा यावच्च प्रयतितं तथा तावच्च नाऽन्यः । अद्यत्वे गूर्जरराज्यादन्यानि राज्यानि पश्येम, यत्र पुरा ब्राह्मणादीनामेव वर्चस्वमासीत्, तत्र हिंसा-मांसभक्षणमद्यपानादयः सर्वथा सुलभाः । ननु ब्राह्मणजातीया एव मांसाहारं कुर्वाणा अपि दृश्यन्ते कुत्रचित् । एतद्वैपरीत्येन यत्र पूर्वं जैना आधिक्येनोषितास्तत्राऽहिंसा-शान्त्यादीनि विलोक्यन्तं एव ।
गूर्जरदेशमेवाऽधिकृत्य वदेम तदा गूर्जरदेशे चापोत्कटवंशीयानां शासनस्याऽऽद्यस्थापकस्य वनराजचापोत्कटस्य गुरवो जैनाचार्याः श्रीशीलगुणसूरय आसन्, येषां धर्मपूर्ण मार्गदर्शनं प्राप्य वनराजेन स्वीयवंशस्थापना न्याय्येन पथा दृढीकृता । ततश्च तदारभ्य गूर्जरदेशस्य राजधान्यां श्रीमदणहिल्लपुरपत्तने राजसभायां जैनसाधूनां स्थानं महत्त्वपूर्ण स्थिरं च जातम् ।
ततश्चौलक्यवंशस्थापकस्य मलराजदेवस्य शासनेऽपि जैनाचार्याणां स्थानमविचलमासीत् । तत्पत्रेण चामण्डराजेन तु स्वीये शासने श्रीमतो वीरगणिनो जैनमनेराचार्यपदप्रदानमहोत्सवः कारित आसीत्, ते चाऽऽचार्या निजगुरुपदे स्थापिताः । तस्य पुत्रेण दुर्लभराजेन स्वीये शासने सर्वेषामपि जैनसाधूनां पत्तननगरे वासायाऽनुमतिः प्रदत्ता । तदवसरे च समागता जैनागमटीकाकृतां श्रीमदभयदेवसूरीणां
* यथा महाराष्ट्रे ।
+ यथा कर्णाटके।
४५
Page #51
--------------------------------------------------------------------------
________________
गुरुवर्या जिनेश्वरसूरयोऽन्ये च बुद्धिसागरव्याकरणरचयितारो बुद्धिसागरसूरयोऽपि तस्य राज्ञः सभायां धर्मबोधनार्थं नित्यं समागच्छन्ति स्म ।
अथ श्रीदुर्लभराजभ्रातृनागदेवपुत्रस्य ( प्रथम ) भीमदेवस्य तु मातुला एव प्रसिद्धजैनाचार्या द्रोणाचार्याभिधा आसन् । एतैर्हि श्रीमदभयदेवसूरिविरचितानामागमग्रन्थटीकानां संशोधनं कृतमासीत् । तेषां च शिष्यैः सूराचार्याभिधैर्हि भोजराजप्रेषिताय गाथाया यथोचितमुत्तरं प्रदत्तमासीत् धारां च गत्वा भोजराजस्य सभापण्डिताः स्वीयप्रतिभाबलेन निर्जिताः ।
भीमदेवस्य पुत्रः कर्णदेवोऽपि जैनाचार्याणामुपदेशान् शृणोति स्म तेभ्यश्चाऽऽरं प्रदत्ते स्म । तत्पुत्रः सिद्धराजो जयसिंहो विद्वान् नीतिमान् सर्वधर्म - मतसमन्वयेच्छुकश्चाऽऽसीत् । तस्य शासने पत्तने समागतानां श्रीमदभयदेवसूरीणां संयमादिगुणैराकृष्टः स तेभ्यो मलधारीति बिरुदं दत्तवान् । तेषामेव शिष्याणां मलधारि श्रीहेमचन्द्रसूरीणां प्रवचनं धर्मोपदेशं च श्रोतुं स यथावकाशं गच्छति स्म । तेषामुपदेशेन स राजा स्वीयराज्ये अशीतेर्दिनानाममारिघोषणमपि कारितवान् । तस्य सभायामेव वादिश्रीदेवसूरयो वादे दिगम्बराचार्यं कुमुदचन्द्राभिधं पराजितवन्तः । ततश्चाऽस्माकं चरित्रनायकाः कलिकालसर्वज्ञाः श्रीहेमचन्द्र - सूरयोऽपि तस्य राज्ञो विद्याक्षेत्रे धर्मक्षेत्रे चाऽनन्या मार्गदर्शकाः सञ्जाताः।
तस्य राज्ञोऽन्वये सञ्जातस्य श्रीकुमारपालस्य तु ते पदे पदे प्रष्टव्या गुरव एवाऽऽसन् । तेषामुपदेशेन चाऽनेनाऽष्टादशसु देशेषु जीवदयाऽमारिघोषणं च प्रवर्तितम् । तदारभ्यैव गूर्जरदेशे यज्ञ-यागादिष्वपि जीववधो निषिद्धो जातः । मांसभक्षणं मद्यपानं च सर्वथा प्रतिषिद्धं जातम् ।
ततोऽपि वीरधवलस्य राज्ञ: शासने वस्तुपाल - तेजः पालयोश्च तन्महामात्य - सेनापत्योः जैनमन्त्रिणो राज्यकार्यकर्त्रीः सतोर्जैनाचार्याणां विजयसेनसूरिप्रमुखाणां मार्गदर्शनं प्राधान्यं भजति स्म ।
एवं नैके गूर्जरदेशीया राजानस्तदनन्तरमपि जैनसाधूनां मार्गदर्शनेनोपदेशेन च हिंसा - मद्यपानादिनिवारणां कृतवन्त: । अरे ! मोगलबादशाह अकब्बरोऽपि जैनाचार्य श्रीहीरविजयसूरीणां गुणै रञ्जितहृदयस्तेभ्यः सकाशाद् धर्मोपदेशश्रवणं कृतवान् तेषां प्रेरणया च समग्रे देशे षाण्मासिकीममारिघोषणां (अहिंसाघोषणां) कारितवान् ।
अस्तु तावत् । प्रकृतं प्रस्तुमः । एवं च जैनसाधूनां सततं विचरणेन संस्कारदानेन च गूर्जरदेशस्य
* भोजराजप्रेषिता गाथा -
सूराचार्यस्योत्तरम् -
+ दृश्यताम् आइन् -ए-अकबरी, अकबरनामा च ।
हेलानिद्दलियगइंदकुंभपयडियपयावपसरस्स ।
सीहस्स मएण समं न विग्गहो नेव संधाणं ॥ अंधयसुयाणकालो, भीमो पुहवीइ निम्मिओ विहिणा । जेण सयं पि न गणियं का गणणा तुज्झ एक्कस्स ॥
४६
Page #52
--------------------------------------------------------------------------
________________
प्रजाः शान्ता दया-परोपकार - सहिष्णुता - ऽहिंसादिगुणोपेताः जाता: * । तासां कुलं मूलं चाऽतीव गौरवशालि गभीरं च वर्तते ।
अथ च गूर्जरप्रदेशस्यैव प्रजाजनानामन्यतमा आसन् कलिकालसर्वज्ञाः श्रीहेमचन्द्राचार्याः । तैर्हि कथं निजजीवनं ज्ञान-दर्शन- संयमोपशम - योगादिगुणैः प्रोज्ज्वलं कृतं कथं च कल्पनातीतो विशालो ग्रन्थराशिर्विरचितो, गूर्जरदेशश्च भाषा - संस्कार - दयादिगुणैः समृद्धीकृत्य कथं हेमयुगः प्रवर्तित इत्येतज्ज्ञातुं चलन्तु भो रसिकजनास्तेषां जीवनचरित्रयात्रायां प्रतिष्ठामः । किन्तु स्थीयतां क्षणं, प्रथमं तावत् तेषामेव गुणगभीरां गौरवशालिनीं पवित्रां च गुरुपरम्परामपि जानीमहे यत्र सञ्जाताः प्रत्येकं गुरुभगवन्तः स्वपरहितैकरता ज्ञानिनो विशुद्धाचरणनिष्ठा जिनशासनसमर्पिताश्चाऽऽसन् ।
जैनानामन्तिमतीर्थकृतां श्रीमतां महावीरस्वामिनां प्रमुख शिष्याणां श्रीसुधर्मस्वामिनां परम्परायां कालक्रमेण चतुरशीतिर्गच्छाः संभूताः । तेषामन्यतमोऽस्ति पूर्णतल्लगच्छः । तस्मिंश्च गच्छेऽन्यदा श्रीदत्तसूरय नाम्नाऽऽचार्या आगमज्ञा अत्यन्तं प्रभावकाश्च सञ्जाताः । ते ह्येकदा चारं चारं वाग्जर्डदेशे रत्नपुरनगरे समागता: । तैः सह तेषां बहुश्रुतः शिष्यसमुदायोऽप्यासीत् । अथ च तस्मिन्नगरे यशोभद्र नाम्ना भद्रपरिणतिर्दानी च राजा शास्ति स्म । मुनयश्चैते साचार्या राजप्रासादाभ्यर्णदेशे एव वसतिं याचित्वा स्थिताः । तान् वन्दितुं प्रत्यहं बहवो भाविकजनाः समागच्छन्ति स्म । तेषां च विज्ञप्त्याऽऽचार्यभगवन्तस्तेभ्यो धर्मदेशनामपि श्रावयन्ति स्म । संसारस्वरूपबोधिनीं सुमधुरां धर्मदेशनां श्रुत्वा नैके जनाः संवेगवासिताः सन्तो मुनिदीक्षां गृह्णन्ति स्म नैके च श्रावकोचितव्रतानि गृह्णन्ति स्म । एवमेव दिनानि व्यतियन्ति स्म ।
अथैकस्यां रात्रौ यशोभद्रो नृपः स्वप्रासादगवाक्षे उपविष्टः आसीत् स्वीयपरिवारेण सह । तावता तेन निकटवसतौ स्थितानां मुनीनां स्वाध्यायपरायणानां मधुरध्वनिः श्रुतः । तच्छ्रवणेनाऽऽह्लादितहृदयस्य तस्य चित्ते संवेगो जागृतः, चिन्तितं च तेन यद् – “धन्याः खल्वेते मुनयो ये निष्पापाः सन्तः केवलमात्मसाधने धर्माराधने च निरताः समयाकुर्वन्ति । तदेतेषां पादपद्मप्रणत्याऽहमपि स्वीयमात्मानं विगतपापं धन्यं च करिष्यामि प्रातःकाले" ।
प्रभाते च कृतसर्वकर्तव्यः स सर्वेणाऽपि मन्त्रि - सामन्तान्तः पुरादिपरिवारेण परिकरितः सन् श्रीदत्तसूरीनाचार्यपादान् वन्दितुं तेषां वसतौ समागतः । तत्र च स आचार्यभगवत्पुरतो भूमौ स्वशिरो नामयित्वा भक्तिभावपूर्वकं वन्दितवान् साश्रुः साञ्जलिश्च विनिवेदितवान् - 'भगवन्तः ! धन्या यूयं ये खलु संसारासारतां विज्ञाय सर्वसङ्गत्यागं कृत्वाऽऽत्मकल्याणनिरताः परलोकं साधयथ । वयं त्विहलोकमात्रप्रतिबद्धाः भौतिकसुखरताश्चाऽऽरम्भ - परिग्रहादिभिः केवलं पापमेव चिनुमः' ।
★ लोकमान्यतिलकेन स्वीये प्रवचने एकदा कथितमिदम् । मेवाडप्रदेशसमीपवर्ती प्रदेशः ।
+
४७
Page #53
--------------------------------------------------------------------------
________________
गुरुभिरपि तं लघुपापं हितकाक्षिणं च ज्ञात्वा तस्मै मानुष्यदौर्लभ्य-मोहप्राबल्यादिबोधिनीहपरोभयलोकसाधनप्रेरिका च धर्मदेशना प्रदत्ता । तां श्रुत्वा तस्य हृदये धर्मानुरागाङ्कराः प्रस्फुटिताः । तेन गुरुपादौ प्रणम्य कथितं - 'भगवन्तः । भवद्भिरुभयलोकसाधनी या प्रेरणा प्रदत्ता साऽपूर्वैव, यतः प्रियतमोऽपि जनः केवलमिहलोकसुखार्थमेव प्रेरयति खलु । तद्भवतां प्रेरणा मम हृदये लग्नाऽस्ति । उचितकालेऽहमवश्यं राज्यमिदं त्यक्त्वा भवतां चरणयोः शरणं स्वीकृत्य निजजनु सफलीकरिष्यामि ।' ततः स पुनः पुनः गुरुपादौ प्रणम्य स्वस्थानं गतः, आचार्यभगवन्तोऽपि सपरिवाराः कतिपयदिनानन्तरं ततोऽन्यत्र विहृत्य गताः ।
इतश्च राजाऽन्यदा शरत्काले स्वीयक्षेत्रेषु सञ्जातं धान्यजातं विलोकयितुं सीमनि गतवान् । तदात्वे च कर्षकैनिष्फलं तृणादिकं पुञ्जीकृत्य ज्वालयितुमारब्धमासीत् । राज्ञाऽपि तमग्नि विलोकयता सहसा दृष्टं यदेका गर्भवती सर्पिणी तस्यैवाऽग्नेमध्ये कुतोऽप्यागता दग्धाऽस्तीति । तन्मनसि हाहाकारो जातः । पश्चात्तापक्लिन्नहृदयः स सबाष्पनेत्रश्चिन्तितवान् - 'नूनं गृहवासो हि महतां पापानां जनिस्थानमस्ति । अस्य त्याग एव श्रेयस्करः' । एवं च तस्य चित्तं वैराग्यरङ्गरञ्जितं जातम् । स सत्वरमेव स्वनगरं प्राप्य कञ्चिच्छ्रावकमाकारितवान् पृष्टवांश्च- 'महाभाग ! पूज्याः श्रीदत्तसूरिभगवन्तोऽधुना किं वा स्थानं पावयन्ति ?' तेनोक्तं - 'स्वामिन् ! अधुना ते भगवन्तो हि डिण्डुआणकपुरे विराजन्ते' । श्रुत्वैतत् सन्तुष्टो राजा तं सम्मान्य प्रेषितवान् स्वयं च रात्रावेव कमप्यनापृच्छ्याऽश्वारूढो गुरुभगवतां पार्वे समागतः ।
ततः प्रभाते गुरुभगवतो वन्दित्वा साञ्जलिविज्ञप्तवान् - प्रभो ! मयि कृपां कृत्वा दीक्षादानेनाऽनुगृह्णन्तु माम्' । गुरुभगवद्भिरपि तस्य शुद्धभावं ज्ञात्वा तद्विज्ञप्तिरङ्गीकृता । ततस्तेन स्वकण्ठस्थितो बहुमूल्यो रत्नहारः श्रावकेभ्यो दत्त्वा तन्मूल्येन नूतनं जिनमन्दिर निर्मातुमुपरुद्धम् । श्रावकैरपि तदङ्गीकृत्य शीघ्रमेव मनोरम्यो जिनालयो निर्मापितो योऽद्याऽपि यशोभद्रनृपस्य मूर्तिमत् पुण्यमिव विलसतितराम् ।* ततः प्रशस्ते दिने शुभे मुहूर्ते च राज्ञे गुरुभगवद्भिर्दीक्षा प्रदत्ता । दीक्षावसर एव राज्ञा प्रतिज्ञा कृता यद् - 'अद्यप्रभूति यावज्जीवमेकान्तरदिने उपवासः कर्तव्यः, तत्पारणके चाऽऽाम्लमेव कर्तव्य'मिति ।
दीक्षानन्तरं च यशोभद्रमुनिर्यथाप्रतिज्ञं तीव्रतपश्चरणं शुद्धव्रतपालनं च कुर्वन् सहैव कठोरपरिश्रमेण श्रुतसागरमप्यवगाह्य क्रमश आचार्यपदमपि प्राप्तवान् । अतः परं यशोभद्रसूरय इति विख्यातास्ते बहुषु ग्राम-नगरादिष विचरन्तो नैकान् भव्यजनान् प्रतिबोधयन्ति स्म यथोचितं साधुव्रतानि श्रावकोचितव्रतानि वा तान् ग्राहयति स्म । एवं च विपुलशिष्यपरिवारयुतास्तेऽन्यदा स्वपदे प्रद्युम्नसूरिरिति स्वीयं समर्थं शिष्यमाचार्यत्वेन स्थापयन्ति स्म ।
तत एकदा तीव्रतपःशोषितदेहास्ते विहरन्तः सपरिवारा उज्जयन्त(गिरनार)पर्वते समागताः । तत्र
* आ.सोमप्रभसूरिः कुमारपालप्रतिबोधग्रन्थे कथयतीदम् । + आचाम्लमिति दिने एकवारमेव रूक्षः शुष्को रसहीनश्चाऽऽहारो ग्रहीतव्यः ।
४८
Page #54
--------------------------------------------------------------------------
________________
च द्वाविंशतीर्थकृतां श्रीनेमिनाथस्वामिनां जिनालये दर्शन-वन्दनादिकृत्वा तत्रैवोपविष्टाः सन्तः प्रद्युम्नसूरिप्रमुखान् स्वशिष्यान् कथयन्ति स्म यत् - 'निश्चयनयेन तु राग-द्वेष- मोहादिरहितश्चिरासेवितज्ञान-दर्शन- चारित्रश्चाऽऽत्मैव तीर्थम् । तथाऽपि प्रदेशोऽयं तीर्थकरपदाक्रान्तः कल्याणकत्रयपवित्रितश्च व्यवहारतस्तीर्थमस्ति । अथ च दुःखावहोऽयं देहोऽन्यत्राऽपि त्यक्तव्य एव, तत् कथं नाऽत्र प्रशस्ततीर्थभूमौ त्यज्येत ?' इत्युक्त्वा शिष्यैर्वार्यमाणा अपि ते चतुर्विधमप्याहारं तदानीमेव प्रत्याख्यायाऽनशनं गृहीतवन्तः परमात्मप्रतिमासम्मुखमेव च दत्तदृष्टयो राग-द्वेषादिरहिताश्च परमतत्त्वसमापत्तौ लीना जाताः, दुःषमकाले चाऽपि पूर्वमहर्षीणां मार्गं सम्यगासेव्य त्रयोदशे दिने स्वर्गवासिनः सञ्जाताः ।
तदनन्तरं तेषां पट्टशिष्याः श्रीप्रद्युम्नसूरयोऽपि तपो - व्रतपालन - ज्ञानाराधन - मुख्यकर्तव्येषु लीनाश्चिरकालं विहृत्य बहून् भव्यजनान् प्रतिबोधयन्तो जनोपकारं कृतवन्तः सहैव निजजीवनकृत्येषु तिलकायमानं शास्त्रग्रन्थानामलङ्कारायमाणं च स्थानकप्रकरणं नाम ग्रन्थं विरचितवन्तः ।
अथ तेषां मुख्यशिष्या आसन् जैनागमग्रन्थानां टीकाकृतां श्रीमतामभयदेवसूरीणां सोदरा भ्रातरः श्रीदेवचन्द्रसूरयो, यैर्हि स्वीयतपस्तेजसाऽदूष्यवैदुष्येण निर्मलयशोधवलिम्ना च निखिलं भुवनमाह्लादितं कृतम् । तैश्च प्राकृतापभ्रंशादिभाषामयं श्रीशान्तिनाथतीर्थकृतां चरितं स्वगुरुविरचितस्थानकप्रकरणस्य वृत्तिं च विरचय्य जगते स्वीयवैदुष्यं परिचायितमस्ति, यदुक्तं सोमप्रभाचार्यैः
कयसुकयकुमुयबोहा, चउरचओरप्पमोयसंजणणी ।
संतिजिणचरियकहा, जुण्हव्व वियंभिया तत्तो ॥१॥
जेठा ठविया, पज्जुन्नमुणीसरेण धम्मदुमा ।
काऊण ताण विवइं, ते जेण लहाविया वुड्ढि ॥२॥ (कुमारपालप्रतिबोधे)
ईदृशा बहुश्रुतास्तपस्विनो योगिनश्चैते देवचन्द्रसूरय एव कलिकालसर्वज्ञानां श्रीहेमचन्द्राचार्याणां गुरव आसन् ।
तथा चैतादृश्यासीत् श्रीहेमचन्द्राचार्याणां गुणगौरविना गुरुपरम्परा ।
अथेदानीं तेषामेव हृदयाह्लादकर्यां जीवनचरितयात्रायां प्रस्थानं कुर्याम
सर्वत्राऽप्रतिबद्धतया विचरन्तो देवचन्द्रसूरयोऽन्यदा गूर्जरदेशस्य धन्धुक्ककनगरे ( इदानींत धन्धुकानगरे) समागताः । तानागतान् ज्ञात्वा भूयांसो नगरजनास्तान् वन्दितुं धर्मदेशनां श्रोतुं चाऽऽगताः। गुरुभिरपि संसारासारत्वप्रकाशनी उत्तमा धर्मदेशना दत्ता । तां श्रुत्वा सभामध्यस्थित एको देवकुमारसदृशः सुकुमारो वणिक्कुमार उत्थाय साञ्जलिर्व्यज्ञपयत् - 'प्रभो ! जन्म- जरा - मरणादिलहरीभिः संसारसमुद्रे ह्रियमाणाय मे प्रव्रज्याप्रवहणदानेन तारयन्तु कृपया' । गुरुभगवद्भिरपि श्रुत्वैतदानन्द-विस्मयादिभावयौगश्रीनेमिनाथपरमात्मनां दीक्षा - केवलज्ञान-निर्वाणाभिधास्त्रयः कल्याणका (कल्याणकारिणः प्रसङ्गाः) उज्जयन्तगिरावेव सञ्जाताः ।
४९
Page #55
--------------------------------------------------------------------------
________________
पद्ययुतैः पृष्टं – 'कस्त्वं भो भाग्यशालिन् ! कौ च ते पुण्यशालिनौ मातापितरौ ?' तावता तस्य कुमारस्य समीपस्थितेन नेमिनाम्ना जनेन सविनयं निवेदितं 'प्रभो! अयं चच्चश्रेष्ठिनतत्पत्न्याः शीलवत्या धर्मपरायणायाश्च चाहिणीनाम्न्या मे भगिन्याः पुत्रो निरुपमरूपवान् प्रकृष्टमतिवैभववान् जगदुद्धरणकरणमनोरथवांश्चाऽस्ति । यदाऽयं स्वमातुर्गर्भे समागतस्तदा तया स्वप्ने प्रथमं स्वीयगृहाङ्गणे विशालो रम्यश्चाऽऽम्रवृक्षः फलितो दृष्टः । तदनन्तरमेव स वृक्षस्तस्या गृहं त्यक्त्वाऽन्यत्र विशाले रमणीये चोद्याने गतः । तत्र स वृक्षः स्वच्छाया - पर्ण - पुष्प फलादिभिर्बहूनां जनानामुपकारकर आश्रयस्थानं च जात इत्यपि दृष्टम् । किञ्च, मातुः कुक्षिस्थेऽस्मिन् देशोऽयं निरुपद्रवोऽशिवादिरहितश्च जात:, सर्वत्र च सुकालः प्रवर्तितः । अस्य जन्मसमये दिङ्मुखानि विमलानि जातानि, जन्मस्थले च सगन्धोदक-कुसुमवृष्टिर्जाता, नभसि च दिव्यवादित्राणां नादः प्रसृतः । अस्य जन्मदिनोऽपि वैक्रमीय११४५तमाब्दस्य कार्तिकी पूर्णिमाऽस्ति । जन्मन आरभ्याऽयं सर्वेषां प्रियः प्रसन्नताप्रदश्चाऽस्ति । अतोऽस्य नाम चङ्गदेव इति स्थापितम् ।
-
एतच्छ्रुत्वा चङ्गदेवस्य च सामुद्रिकलक्षणानि पश्यद्भिर्गुरुभगवद्भिर्मधुरस्वरेण कथितं 'भोः ! अस्य मात्रा स्वप्ने यदुद्यानं दृष्टं तज्जिनशासनमस्ति । तत्र च व्रत - दीक्षाग्रहणपूर्वकं गतोऽयं समस्तशास्त्राणां परमार्थमवगाह्य तीर्थकरवल्लोकोपकारं करिष्यति । अतो भवान् अस्य माता- पितरौ बोधयित्वाऽस्मै दीक्षादानार्थमनुमतिं दापयतु । बहूनां लोकानामुपकारो भविष्यति' ।
-
ततश्चङ्गदेवस्य दीक्षानुज्ञार्थं तै: पित्रोर्बोधनाय बहु प्रयतितं किन्तु पितुरतीवप्रियत्वात् तेन सर्वथा निषिद्धम् । ततो गुरुभगवद्भिस्तन्माताऽऽकारिता कथितं च तत् तस्यै यत् सर्वमपि तन्मातुलस्य कथितमासीत् । तयाऽपि च कथितं - ‘प्रभो ! अहमपि जानामि यदयं मे पुत्रो जिनशासनस्यैव न्यासरूपोऽस्ति । किन्तु अस्य पितुरयमतीव प्रियोऽस्ति । अतः सोऽनुमतिं नैव दास्यत्यस्मै दीक्षाग्रहणार्थम्' । ‘अस्तु, यथाकालं सर्वमपि भविष्यती'त्युक्त्वा कतिचिद्दिनानन्तरं गुरुवस्ततो विहृत्य स्तम्भतीर्थं (खम्भातनगरं) प्रति प्रस्थिताः । चङ्गदेवोऽपि च धर्मैकचित्तो व्रतग्रहणे च तीव्रेच्छुकः पितुरनुपस्थितौ मातुलं मातरं चाऽऽपृच्छ्य गुरुभिः सहैव प्रस्थितः ।
इतश्च वाणिज्यार्थमन्यत्र गतश्चच्च श्रेष्ठी यदा गृहं प्रत्यागतस्तदा स्वपुत्रं अपश्यन् व्याकुलो जातः, स्वपत्न्याश्च पार्श्वात् तस्य गुरुभिः सहगमनं ज्ञात्वा तया वारयन्त्याऽपि तत्कालमेव स्तम्भतीर्थनगरं प्राप्तः । तत्र च तदा जैनश्रावकः उदयननामा ( गूर्जरदेशस्य महामात्यः) दण्डनायक आसीत् । तेन च चङ्गदेवस्य वृत्तं ज्ञातचरमासीत् । अतः सत्वरमेव स गुरुभगवतां पार्श्वे समागतं चच्च श्रेष्ठिनं यात्रा श्रमापनयनार्थं बोधनार्थं च स्वगृहमानीतवान् तस्य च यथोचितं सत्कारादि कृतवान् । ततश्चङ्गदेवमपि तत्राऽऽनीय तदुत्सङ्गे उपवेशितवान् ।
अथैतावताऽपि तस्य मनस्तापो व्याकुलता च नाऽपगताऽऽसीत् । स उग्रवचोभिरुक्तवान् 'मन्त्रिवर्य ! अहमेनं गृहे नेतुमेवाऽऽगतोऽस्मि । यदि भवान् मे तथाकर्तुं रोधयेत् तदा मया न्यायार्थं
५०
Page #56
--------------------------------------------------------------------------
________________
सिद्धराजसदसि गन्तव्यं स्यात् । नाऽहं कुतोऽपि बिभेमि' । उदयनमन्त्रिणाऽपि तं भृशं सान्त्वयित्वा साञ्जलि कथितं - 'श्रेष्ठिवर्य ! भवतः पुत्रो भवदुत्सङ्ग एवोपविष्टोऽस्ति । भवान् हि तं गृहे नेतुमपि शक्तस्तथाऽत्राऽऽचार्यभगवतां चरणयोः समर्पयितुमपि शक्तः । यदि स गृहे स्थास्यति तदा भौतिकदृष्ट्या कदाचित् भवत्कुटुम्बस्य किञ्चिच्छ्रेयः साधयिष्यति । यदि धर्मशासनाय तं समर्पयिष्यति भवांस्तदा स स्वेन सह समग्रं देशमपि धर्मपरायणं कृत्वा दिगन्तव्यापिनी कीर्तिमर्जयिष्यति । किञ्च, पश्यतु भवान्, भवानस्ति वणिक् । वाणिज्यं कृत्वा धनं प्राप्नोति । भवाननुभवति यदधिकाधिकधनप्राप्त्याऽपि सन्तोषो नैव भवति । ततोऽप्यधिकं प्राप्तुं लालसा भवत्येव । नाऽयं केवलं भवदनुभवः । ममाऽपि कोटिशो धनमर्जयित्वाऽप्ययमेवाऽनुभवः । तथ्यमिदं पुत्रादिस्वजनमोहविषयेऽपि समानमेव । कियन्तमपि कालं सहाऽवस्थित्याऽपि प्रेम मोहो वा निवारयितुं न शक्यः । प्रत्युत घृतेनाऽग्निरिव वर्धत एव । प्रान्ते च काल एव वियोजनेन बलादपि तं निवारयेत् । एतच्च संसारस्य सनातनं सत्यम् । भवानपि चैतज्जानात्येव । अन्यच्च, यच्छ्रेयस्करं कार्यं कर्तुमस्मादृशां शरीराणि मनांसि च न प्रभवेयुस्तत्राऽस्य बालस्य शरीरं मनश्चाऽवश्यं प्रभवेत् । एवं स्थितेऽपि केवलं शरीरमोहेन भवांस्तं यदि रोधयिष्यति तदा सत्पथात् तं च्यावयिष्यति केवलम् । तथा कुर्वंश्च भवानस्याऽकल्याणमेव साधयिष्यति' ।
एतच्छ्रुत्वा किञ्चिदनिश्चितमनस्को जातश्चच्च श्रेष्ठी सहसाऽवदत् - 'भवदुक्तं सत्यं स्यात् । किन्तु धनार्थं पुत्रमपि विक्रीणीयामित्येतादृशोऽधमोऽहं नास्मि' ।
'मा मैवं वदतु चिन्तयतु वा । नाऽहं मूर्योऽस्मि यद् भवन्तं तादृशं परिगणयेयम् । किन्तु भवानेव चिन्तयतु - पत्तनस्याऽग्रगण्यजनानामन्यतमत्वेन शोभिष्यमाणं रत्नमिदं धन्धुक्कनगरे धूलीधूसरं भवितुं कथं वा मंस्यते भवान् ? अपि च, देशस्य गौरवं न केवलं लक्ष्म्यां वाणिज्ये युद्धविद्यायां वा परन्तु धर्मसंस्कारप्रचार-प्रसारेणाऽपि भवति । पत्तनस्थप्रसिद्धजैनाचार्यश्रीशान्तिसूरिविषये तु भवताऽपि श्रुतं स्यादेव । एवं स्थितेऽपि केवलं लौकिककार्यार्थमेव यदि भवांस्तं गृहे नेष्यति तदाऽहं भवन्तं नैव वारयिष्ये, किन्त्वेतावत् तु भवन्तं कथयाम्येव यत् तस्य जीवनसमृद्धि प्रकटीभवन्तीं रोधयन् भवांस्तस्य स्वस्य च जीवनं महापातकयुतमेव करिष्यति । अतः परं भवदिच्छैव प्रमाणम्' - उदयन उक्तवान् ।
चच्चस्य चित्तं किञ्चिदिव विचारयितुं प्रवृत्तम् । शान्तिसूरेः कथास्तु तेनाऽपि श्रुता आसन् । 'मम पुत्रो महान् धर्मप्रभावको भविष्यति, कदाचित् स धन्धुक्कनगरे आगमिष्यति, तदा च तस्य चरणयोः सहस्रशो जना लोठिष्यन्ति, तस्याऽऽशिषो ग्रहीतुं नरा अहमहमिकयाऽऽगमिष्यन्ति । नरपतयश्च तस्य नामग्रहणेन धन्यतामनुभविष्यन्ति । देश-विदेशेषु तस्य यशः प्रसरिष्यति........' स्वप्नं पश्यन्निव चच्चः सहसा जागृतो जातो निर्णयं च गृह्णन् स उदयनमन्त्रिणमवदत् - 'मन्त्रीश्वर ! भवदुक्तं मम सम्मतम् । एषोऽहं भवते मत्पुत्रं समर्पयामि' । मन्त्रिणोक्तं - 'मा मैवं वदतु भवान् । भवता हि गुरुपादेभ्यः समर्पयितव्यः सः । धन्योऽस्ति भवान् । रत्नत्रय्याः पथि स्वपुत्रस्य समर्पणेन भवता महत् पुण्यमुपाजितमस्ति । नूनं धन्योऽस्ति भवान्' ।
Page #57
--------------------------------------------------------------------------
________________
ततश्च चङ्गदेवं गृहीत्वा द्वावपि गुरुभगवतां वसतौ गतौ । तेषां च हस्तयो: समर्पितः स चच्च श्रेष्ठिना सानन्दम् । गुरुभगवद्भिरपि स्तम्भतीर्थनगर एव आलिगवसतौ श्रीपार्श्वनाथजिनचैत्ये वैक्रमीये ११५४तमाब्दे माघशुक्लचतुर्दशीदिने शनिवासरे उदयनमन्त्रिकारितमहोत्सवपूर्वकं चतुर्विधश्रीसङ्घस्योपस्थितौ माता - पित्रोराशीः पुरस्सरं च दीक्षितश्चङ्गदेवः । तस्य च नाम मुनिसोमचन्द्र इति स्थापितम् ।
अथ च मुनिः सोमचन्द्रः कुशाग्रबुद्धिरत्यन्तं तेजस्वी चाऽऽसीत् । गुरवोऽपि श्रीदेवचन्द्रसूरयो महाविद्वांसो ज्ञानिनश्चाऽऽसन् । ततश्च जातो मणिकाञ्चनसंयोगः । तस्मिन् युगे लक्षण - तर्क - साहित्यानि महाविद्यात्वेन परिगण्यन्ते स्म । सोमचन्द्रेण मुनिना स्वल्पेनैव कालेन तासु तिसृष्वपि विद्यासु तथाऽन्येष्वपि योग-तत्त्वज्ञान-पुराणेतिहास - दर्शनादिविषयेषु आगमेषु च पारगामित्वमधिकारश्च प्राप्तौ । ज्ञानाभ्यासेन सहैव च तेन निर्मलीमसं चारित्रमिन्द्रियजयोऽन्तर्मुखता, शुद्धवैराग्यमुपशमभाव - इत्यादिका गुणा अपि स्वीयजीवने साधिताः ।
किञ्च, सोमचन्द्रो मुनिर्यद्यपि शास्त्रेषु पारङ्गतो जातस्तथाऽपि तस्य हार्दोऽभिलाषस्तु वाग्देव्याः साधनां कृत्वा सिद्धसारस्वतीभवनस्याऽऽसीत् । तदर्थं हि काश्मीरदेशं गत्वा काश्मीरवासिनी सरस्वती देवी आराधनीयेति निश्चित्य तेन स्वभावना गुरुभगवद्भ्यो निवेदिता । तैरपि प्रसन्नतया स्वीकृत्य काश्मीरदेशं प्रति विहर्तुमारब्धम् । अथ च पादचारेण गच्छतां तेषां कतिचिद्दिनानन्तरमेवैकदा स्वयं काश्मीरवासिनी वाग्देवी प्रत्यक्षीभूता कथितवती च - 'वत्स ! तव भक्त्या साधनया च प्रसन्नाऽहं तेऽभिलाषं पूरयामीहैव । अतो न त्वया काश्मीरदेशं यावदागन्तव्यम्' । एवं च देव्या प्रदत्तेन वरदानेन मुनिः सिद्धसारस्वतो जात: ।*
अथाऽन्यदा मुनिः सोमचन्द्रः स्वीयगुरुभिः सह कस्यचिच्छ्रावकस्य गृहे तत्प्रार्थनया भिक्षार्थं गतवान् । स हि श्रावकः पूर्वमतीव धनवानासीत्, किन्तु कर्मोदयात् स निर्धनो जात: । तेन स्वकृते प्रगुणितं काञ्जिकं गुरुभगवद्भ्य: प्रदत्तम् । एतद् दृष्ट्वा परितः पश्यता मुनिना मन्दस्वरेण गुरुभगवद्भ्यः कथितं 'प्रभो ! कियान् कृपणोऽयं श्रावको यः स्वगृहे कनकभरै: पूर्णे सत्यपि काञ्जिकं प्रदत्ते ?' । एतत् कथनं स श्रावकः श्रुतवान् । तेनाऽपि परितो दृष्टम् । तस्य गृहेऽङ्गाराणां राशिरेव सर्वत्र विकीर्ण आसीत् । किन्तु चतुरः स मुनेः सोमचन्द्रस्य कथनस्याऽऽशयमगवतवान्, यावच्च गुरवः किञ्चिद् विचारयेयुस्तावत् तेन स्वहस्ताभ्यां मुनिरुत्पाट्याऽङ्कारराशावेवोपवेशितः । पुण्यवतो मुनेः स्पर्शनेनैव स राशि: सुवर्णत्वेन परावृत्तो जात: । एतेन हृष्टः स श्रावक उच्चैरुक्तवान् - 'प्रभो ! नाऽयं मुनिः सोमचन्द्रोऽपि तु हेमचन्द्रः, यतः
* एवमेव अम्बिकादेव्यपि तस्योपरि प्रसन्नीभूता तस्मै वरं दत्तवतीत्यपि प्रबन्धैर्ज्ञायते । तथाहि - आचार्यदेवेन्द्रसूरिः, मुनिः सोमचन्द्रः, मुनिर्मलयगिरिश्चेत्येभिस्त्रिभिरपि कठोरसाधनयाऽम्बिका देवी प्रसन्नीकृता त्रिभ्योऽपि यथेप्सितं वरं प्रददौ । तत्र देवेन्द्रसूरिणा तीर्थोद्धारस्य, सोमचन्द्रेण राजप्रतिबोधस्य, मलयगिरिणा च सिद्धान्तग्रन्थानां विवरणलेखनस्य वरं याचितम् ।
+ अद्यत्वेऽपि प्राचीननगरेषु (निधानतया निखातं धनं खननकालेऽङ्गारराशित्वेन बहुधा प्रकटीभवति, किन्तु कस्यचिद् भाग्यवतः पुण्यैस्तदेव सुवर्णतयाऽपि प्रकटीभवति ।
५२
Page #58
--------------------------------------------------------------------------
________________
प्रत्यक्षं स्वर्णपुरुषोऽयं शुद्धचारित्रनिष्ठश्च' । स गुरुभगवद्भयो विज्ञप्तवानपि यद् - 'गुरवः ! कृपया गुणगणनिधयेऽस्मै मुनये आचार्यपदप्रदानं कुर्वन्तु । तदर्थं च जायमानं सर्वमपि व्ययभारमहमेव निर्वक्ष्ये । तत्र च महोत्सवकरणस्य लाभमपि मह्यमेव ददतु' ।
इतश्च, यदा मुनिः सोमचन्द्रः प्रवचनं दत्ते स्म तदा जनास्तस्य वाण्यां सारल्यं, सरसत्वं, भाषाशुद्धिं, तार्किकतां, दृष्टान्तकथनं, गभीरतां, काव्यशक्तिं च विलोक्य मन्त्रमुग्धा इव विशुद्धानन्दमनुभवन्ति स्म, महामात्य उदयनस्तु तां श्रुत्वा गर्वमनुभवति स्म, किंबहुना ? गुरुभगवन्तोऽपि तदाकर्ण्य प्रसन्नतामनुभवन्ति स्म । अतस्तैरपि मुनेः सोमचन्द्रस्य सर्वतोग्राहि-विद्वत्तां विलक्षणप्रतिभां विशुद्धचारित्रनिष्ठां योग्यतां च निरीक्ष्य तस्यैकविंशे एव वयसि वैक्रमीये ११६६तमे वत्सरे वैशाखशुक्लतृतीया(अक्षयतृतीया)दिने आचार्यपदप्रदानं निर्णीतं, महामहोत्सवपुरस्सरं च नागपुर(नागौर)नगरे चन्दनादिभिर्दक्षिणकर्णं चर्चयित्वा सूरिमन्त्रं च श्रावयित्वा मुनये सोमचन्द्रायाऽऽचार्यपदं प्रदत्तम् । पदप्रदानावसरे च तस्य नामाऽपि परावर्त्य नूतनं नाम 'आचार्यहेमचन्द्रसूरि रिति स्थापितम् । इतः परं ते आचार्यहेमचन्द्रसूरय इति विश्रुता जाता जगति ।
तस्मिंश्चाऽऽचार्यपदप्रदानमहोत्सवे आचार्यश्रीहेमचन्द्रसूरीणां माता – चाहिणी अपि उपस्थिताऽऽसीत् । तया च तदवसरे दीक्षाग्रहणार्थं स्वभावना प्रदर्शिता । तदा गुरुभिरपि तद्भावनामङ्गीकृत्य सा दीक्षिता साध्वीसङ्घ च प्रवेशिता । तदानीमेव च नूतनाचार्यैः स्वमातुरुपकाराणां वात्सल्यभावस्य च स्मृत्या तस्यै प्रवर्तिनी पैदमपि प्रदत्तम् ।
___ तदनन्तरं प्रायो वर्षाभ्यन्तर एवाऽर्थात् वैक्रमीये ११६७ तमे संवत्सरे गुरुभगवन्तः श्रीदेवचन्द्रसूरय इहलोकं त्यक्त्वा समाधिपूर्णमृत्युना स्वर्लोकमलञ्चक्रुः । आचार्याः श्रीहेमचन्द्रसूरयस्तु ततो विहृत्याऽणहिल्लपुरपत्तनं प्राप्ताः ।
तदात्वे तत्र सिद्धराजो जयसिंहः शास्ति स्म । स ह्येकदा गजारूढः सन् राजमार्गेण सपरिवारो गच्छन्नासीत् । तावता तेन पुरतः समागच्छन्त आचार्याः श्रीहेमचन्द्रसूरयो दृष्टाः । अतः स तेषां सम्मुखं गत्वा सप्रणाममुक्तवान् – 'आचार्यवर्याः ! किं भवद्भिः किञ्चिद् वक्तव्यं वा?' तदा प्रत्युत्पन्नमतिभिस्तैः सस्मितं कथितं - "कारय प्रसरं सिद्ध ! हस्तिराजमशङ्कितम् ।
त्रस्यन्तु दिग्गजाः किं तैर्भूस्त्वयैवोद्धृता यतः ॥" एतच्छ्रुत्वा सिद्धराजोऽतीव प्रसन्नो जातः । स तान् स्वीयमास्थानमलङ्कर्तुमामन्त्रितवान् ।
सिद्धराजो जयसिंहो हि चौलुक्यवंशीयो नृप आसीत् । अत: प्रथमं चौलुक्यवंशस्य परिचयं प्राप्नुयाम ।
वैक्रमीये ८०२तमे संवति वनराजचापोत्कटेनाऽऽनर्तप्रदेशे स्वीयराज्यस्य चापोत्कटवंशस्य च * जैनसाध्वीनां सर्वोच्चं पदम् ।
Page #59
--------------------------------------------------------------------------
________________
स्थापनं कृतम् । तदैव च अणहिल्लपुरपत्तननामकं नूतनं नगरं तेन स्वराज्यस्य राजधानीतयाऽऽवासितम् । तस्य गुरवो हि जैनाचार्याः श्रीशीलगुणसूरय आसन् मन्त्रिणश्चाऽपि जैना आसन् । वनराजश्च गूर्जरक्षत्रिय आसीत् । अतस्तद्राज्यं गौर्जरत्रेत्यभिधं प्रसिद्धम् ।* स हि ८६८तमे वैक्रमाब्दे १०९वर्षवयसि स्वपुत्रं योगराजं नृपत्वेन संस्थाप्य स्वर्गतः ।
योगराजोऽपि हि विंशत्यधिकशतवया : ८९७ तमे संवति स्वपुत्राणामपराधस्य प्रायश्चित्तं कर्तुमग्नौ प्रविश्य मृतः ।
ततस्तत्पुत्रः क्षेमराजः ९२२तमं वर्षं यावद्देशं शासितवान् ।
तत: ९२२ तमे वर्षे भूयडो नृपो जात: । तत: ९५१ तमे वर्षे वैरसिंहः ९७६तमे च वर्षे रत्नादित्यो राजाऽभवत् । ९९१ तमे वत्सरे सामन्तसिंहश्चापोत्कटो राजा जातः । किन्त्वेतावता हि कालेनैतेषां साम्राज्यं किञ्चिन्निर्बलमिव जातमासीत् ।
अथ च सामन्तसिंहस्याऽऽस्थाने एकदा त्रयश्चौलुक्यवंशीया राजपुत्रा राज - बीज - दण्डकनामान: समागता: । तेषां च ज्येष्ठस्य राजस्याऽश्वपरीक्षण - शस्त्रचालनादिनैपुण्यं पराक्रमं च दृष्ट्वा प्रसन्नेन सामन्तसिंहेन स्वभगिनी लीलादेवी तस्य परिणायिता । राजोऽन्यदा कच्छदेशं गतवानासीत् । तदा तत्रत्येन नृपेण लाक्षाकेण सहसैव सोऽसिना निहतः । एतद् वृत्तं ज्ञात्वा तीव्रशोकाहता तत्पत्नी लीलादेवी तदसहमाना मृता । सा हि तदा गर्भवत्यासीत् । अतो मन्त्रिभिस्तदुदरं विदार्य कथमपि बालको रक्षितः । स हि मूलनक्षत्रे जातोऽतस्तन्नाम मूलराज इति स्थापितम् । स च स्वमातुलस्याऽत्यन्तं प्रियस्तत्पार्श्व एव वर्धमानो यथाक्रमं सर्वा अपि कलाः शिक्षितवान्, यौवनं च प्राप्तः ।
इतश्च, सामन्तसिंहो मद्यप आसीत् । अतो यदा कदाऽपि पानमत्तः स मूलराजं नृपत्वेन स्थापयति स्म, मदापगमे तु स्वयं नृपो भवति स्म । राज्यमपि च तदानीं बहुभिः शत्रुभिराक्रान्तमासीत् । सामन्तसिंहस्य च तान् प्रतिकर्तुं सामर्थ्यं नाऽऽसीत् । अतो राजपुरुषाणां सूचनया साहाय्येन चैकदा मूलराज: स्वमातुलं हत्वा स्वयमेव नृपो जातो गूर्जरत्राराज्ये च चौर्लुक्यवंशं स्थापितवान् । स बहुपराक्रमं कृत्वा शत्रुभ्यो देशं रक्षितवान् निष्कण्टकं च कृतवान् । तेन स्वपितृघातको लाक्षाकोऽपि निहतः, सौराष्ट्रदेशीयो महालुण्टाको ग्राहरिपुरपि वशीकृतः । एवं सौराज्यं कृत्वा, पितृसदृशमातुलवधपातकेन सन्तप्तहृदयो सिद्धपुरे रुद्रमहालयनामकं शिवमन्दिरं कारयित्वा कान्यकुब्ज - काश्यादिप्रदेशेभ्यो ब्राह्मणानाकार्य तांस्तत्र वासितवान् तान् अन्यांश्च ब्राह्मणान् महादानैः समृद्धीकृत्याऽन्यदा * गौर्जरत्रमिदं राज्यं वनराजात् प्रभृत्यपि ।
स्थापितं जैनमन्त्र्याद्यैस्तद्वेषी नैव नन्दति ॥ ( प्रबन्धचिन्तामणि:)
+ ७५२ त: ८६८ तमं वैक्रमाब्दं यावत् तस्य जीवनम् ।
१. असेव्या मातङ्गाः परिगलितपक्षाः शिखरिणो, जडप्रीतिः कूर्मः फणिपतिरयं च द्विरसनः ।
इति ध्यातुर्धातुर्धरणिधृतये सान्ध्यचुलुकात्, समुत्तस्थौ कश्चिद् विलसदसिपट्टः स सुभट: ॥ ( इति चौलुक्यक्षत्रियाणामुत्पत्तिः ।) २. औदीच्या ब्राह्मणा इति विश्रुता एतेऽद्याऽपि तत्रैव वसन्ति ।
५४
Page #60
--------------------------------------------------------------------------
________________
मातुलवधप्रायश्चित्तरूपेणाऽग्निस्नानं कृत्वा देहं त्यक्तवान् ।
मूलराजस्य पुत्रश्चामुण्डराजः १०५२तमे वैक्रमे संवति राजाऽभवत् । सोऽपि स्वपितुरिवाऽत्यन्तं पराक्रमी आसीत् । तस्य पराक्रमेण मालवेशः सिन्धुराज: कान्दिशीकीभूय रणाङ्गणात् पलायितस्तथा लाटसेनापति बारपनामानमपि स वशीकृतवान् । स १०६६तमे संवति शुक्लतीर्थेऽनशनं प्रपद्य स्वर्गतः ।
तदनु तस्य पुत्रो वल्लभराजो नृपो जातः, किन्तु केनचिदज्ञातव्याधिना स षण्मास्यैव मृतः । अतस्तस्य लघुभ्राता दुर्लभराजः १०६६तमे वैक्रमाब्दे राजाऽभवत् । तेन द्वादशाब्दी यावन्याय्येन पथा राज्यं पालितं नैकानि च सत्कार्याणि विहितानि । ततः स वानप्रस्थत्वं स्वीकृत्य राज्यं च स्वीयलघुभ्रातुष्पुत्राय भीमदेवाय दत्त्वा तीर्थाटनमकरोत् ।
भीमदेवः १०७८तमे वैक्रमीये वर्षे गर्जरत्रादेशस्य राजा जातः । तस्य शासनस्य प्रारम्भ एव (१०८१तमे वैक्रमाब्दे, ३।११०२५ तमे ऐसवीये दिनाङ्के) गझनीवास्तव्येन मोहम्मदाख्येन भीमदेवस्य पूर्णप्रतिकारे सत्यपि सोमनाथमहादेवस्य विश्रुतो देवालयो लुण्टितो विनाशितश्च । तस्य प्रतिगमनानन्तरं भीमदेवेन स्वीयं राज्यं व्यवस्थितं कृतम् । मित्रनृपाणां साहाय्येन स सिन्धुदेशनृपं जितवान् काशीपतिकलचूरी-कर्णदेवाभ्यां च सह अवन्तीपतिं भोजराजमपि पराजितवान् । तस्य मन्त्री विमल: अर्बुद(आबु)पर्वतोपरि देवकुलपाटके( देलवाडा) विश्वविश्रुतं विमलवसतिनामकं जिनालयमारासणशिलया निर्मापितवान् । तस्य त्रयः पुत्रा आसन् । क्षेमराजः*, मूलराजः (द्वितीयः), कर्णदेवश्च । क्षेमराजो हि राज्यग्रहणं निराकृत्य संन्यस्तं गृहीतवान् । मूलराजस्तु यद्यप्यत्यन्तं तेजस्वी आसीत् किन्तु लघुवयस्येव मृतः । अतो भीमदेवः वैक्रमीये ११२० तमे वर्षे कर्णदेवं राज्येऽभिषिक्तवान् । आशापल्ल्या भिल्लान् जित्वा कर्णदेवेन कर्णावती(अहमदाबाद)नगरं वासितम् । कर्णाटकस्य राज्ञो जयकेशिनः पुत्र्या मयणल्लदेव्या तस्योद्वाहो जातः । तयोः पुत्रः सिद्धराजो जयसिंहः आसीत् । अथ क्षेमराजपुत्रो देवप्रसादो यद्यपि कर्णदेवानन्तरं राज्याधिकारी आसीत्, तथाऽपि स्वपितृव्यस्य कर्णदेवस्येच्छा सिद्धराजाय राज्यदाने आसीदतस्तत्समाधानार्थं देवप्रसादेनाऽग्निप्रवेशं कृत्वा प्राणास्त्यक्ताः ।
कर्णदेवेनाऽपि सिद्धराजो जयसिंहोऽष्टवर्षमिते वयस्येव राज्येऽभिषिक्तः । सिद्धराजस्य च देवप्रसादपुत्रेण त्रिभुवनपालेन सह गाढमैत्र्यमासीत् । तौ द्वावपि समानबल-शीलौ समानशौर्यवन्तौ च सहैव सर्वमपि कलाकलापं शिक्षितवन्तौ । एवं सत्यपि त्रिभुवनपालस्तं सेवकवत् सेवते स्म, तदादेशानुसारं च वर्तते स्म ।
अथ च सिद्धराजो जयसिंहो लघुवयस्येव बहून् पराक्रमान् कृत्वा स्वीयराज्यं निष्कण्टकं कृतवान्, बर्बरकनामानं राक्षसकल्पं महाशूरं चाऽपि जितवानासीत् । तस्य शौर्यमनितरसाधारणं, कीर्तिर्दिगन्तव्यापिनी राजनीतिश्च दिग्विजयिनी आसीत् । स विद्वान् विद्यारसिकश्चाऽऽसीत् । तथाऽपि विक्रमादित्यस्येव शुभ्रं
* क्षेमराजपुत्रो देवप्रसादः, तत्पुत्रस्त्रिभुवनपालः, तत्पुत्रश्च कुमारपालः ।
Page #61
--------------------------------------------------------------------------
________________
यशः प्राप्तुं मालवदेशमिव च गूर्जरदेशमपि संस्कार-सरस्वतीभ्यां समृद्धीकर्तुं तन्मनसि महेच्छाऽऽसीत् । कस्मिन्नपि विषये गूर्जराणां लाघवं तं पीडयति स्म । गूर्जराः सुभटाः, विद्वांसः, साधवः, सुन्दर्यः समाजनेतारश्चेति सर्वेऽपि गौरवान्विता एव स्युरिति समीहा तं निद्रातुमपि न दत्ते स्म । गूर्जरदेशे इदं नास्तीति वचोऽपि तद्धृदये शल्यायते स्म । तस्याऽऽस्थानस्य वैभवं दृष्ट्वा महान्तो नरपुङ्गवाः महापण्डिताश्चाऽपि चकिता भवन्ति स्म । तत्र साधारणः पण्डितस्तु प्रवेष्टुमपि नाऽर्हति स्म । स साहित्यादारभ्य सौन्दर्यं यावत् सर्वविषयेष्वपि रसं दर्शयति स्म, दार्शनिकचर्चासु तत्त्वज्ञाने चाऽप्यानन्दं प्राप्नोति स्म । तस्य महेच्छानां पार एव नाऽऽसीत् । स इच्छति स्म यद् गूर्जरदेशे पत्तननगरे चैकः कालिदासः स्यात् यः स्वीयकाव्यैर्गुर्जरदेशस्य गौरवं समुन्नतं कुर्यात्, योः रघुवंशसदृशीं तादृशीं कृतिमेकां रचयेत् यां श्रुत्वा पठित्वा च धन्यंमन्यः सर्वोऽपि गौर्जरो जनश्चौलुक्यवंशीयानां कीर्तिमाकालं गायेत्, यश्च विद्या-संस्कारादिभिनिसर्गत एव सर्वोत्तमः प्रतिभाशाली च साहित्यकारः स्यात्, ईदृशं साहित्यस्वामिनं स शोधयन्नासीत् समग्रेऽपि देशे । स्वान्वये सर्वोत्तमा शिल्पकला, सर्वश्रेष्ठं साहित्यं, सर्वोदात्ताः प्रजाश्च वर्तेरन् इति तस्य महाकाङ्क्षाऽऽसीत् । तस्य महिमानं समग्रभारतवर्षस्याऽनेके राजानो भय-प्रशंसामैत्र्यादिभावनिरीक्षमाणा आसन् ।
यदा पत्तने राजपाटिकायां व्रजतस्तस्य हेमचन्द्राचार्यैमिलनं जातं, तैश्च तस्य प्रशस्तिरूपः श्लोकः श्रावितस्तदाऽत्यन्तं प्रसन्नेन सिद्धराजेन चिन्तितं - 'नूनमते महात्मानो मे सर्वानपि स्वप्नानभिलाषांश्च सफलीकरिष्यन्ति' । अतः स तान् स्वीयास्थाने आमन्त्रितवान् । हेमचन्द्राचार्यैरपि तस्य मनोरथाः स्वप्नाश्च लक्षिताः । अतस्तेऽपि तान् पूरयितुकामा इव प्रत्यहं सिद्धराजस्याऽऽस्थानं गन्तुमारब्धाः ।
अथ च वैक्रमीये ११८१तमे संवति सिद्धराजजयसिंहस्य राजसभायां श्वेताम्बराचार्यवादिश्रीदेवसूरि-दिगम्बराचार्यकुमुदचन्द्रयोर्मध्ये जैनसिद्धान्तानाश्रित्य वादो जातः । तत्राऽयं पण आसीद् यद् यदि श्वेताम्बराः पराजिताः स्युस्तदा तैः सर्वैरपि दिगम्बरत्वं स्वीकरणीयं, यदि च दिगम्बराः पराजिताः स्युस्तर्हि तैः सर्वैरपि देशत्यागः करणीयः* | किन्तु वादिश्रीदेवसूरिभिः प्रतिष्ठापितान् तर्कान् अन्यांश्च चतुरशीतिप्रश्नान् प्रत्युत्तरयितुमक्षमाणां दिगम्बराणां वाचो मुद्रिताः । तैः पराजयं स्वीकृत्य देशत्यागः कृतः। अस्मिश्च वादावसरे श्रीदेवसूरीणां सहायकत्वेन श्रीहेमचन्द्राचार्या अप्यासन् । समाप्ते च वादे वादिश्रीदेवसूरीन् स्तुवद्भिर्टेमचन्द्राचार्यैरुक्तम् -
यदि नाम कुमुदचन्द्रं नाऽजेष्यद् देवसूरिरहिमरुचिः ।
कटिपरिधानमधास्यत कतमः श्वेताम्बरो जगति ? || अनेन वादजयेन तुष्टो राजा जयमुपलक्ष्य राजविहारनामकं जिनप्रासादं निर्मापितवान् । तत्र च प्रतिष्ठावसरे बहवः पण्डिताः समागता आसन् । तेषु चैको महापण्डितो भागवतो देवबोधोऽप्यासीत् । तस्य * राजमाता मयणल्लदेवी स्वीयपितृपक्षे दिगम्बरमतावलम्बिनी आसीत्, आचार्यकुमुदचन्द्रश्च तत्कुलगुरुरासीत् - इत्यतोऽयं
पक्षपातः ॥
५६
Page #62
--------------------------------------------------------------------------
________________
विद्वत्ता प्रतिभाचाऽनन्यसाधारणी आसीत् । सहैव स गर्वोन्नतोऽप्यासीत् । तेन हि जिनप्रतिष्ठावसरे स्तुति कुर्वता कथितम् -
एको रागिषु राजते प्रियतमादेहार्धहारी हरो नीरागेषु जिनो विमुक्तललनासङ्गो न यस्मात् परः । दुर्वारस्मरघस्मरोरगविषव्यासङ्गमूढो जनः ।
शेषः कामविडम्बितो न विषयान् भोक्तुं न मोक्तुं क्षमः ।। स्तुतिश्लोकमेनं श्रुत्वा तत्र स्थिताः सर्वेऽपि जना विस्मयचकिता जातास्तस्य च धन्यवादान् कथितवन्तः । राज्ञाऽपि स स्वीयास्थाने समागन्तुमामन्त्रितः । राज्ञो मुख्य आस्थानकविहि श्रीपाल आसीत् । केनचित् कारणेन तस्य देवबोधकविना सह वैमनस्यं जातम् ।
अथैकदा देवबोधो हेमचन्द्राचार्यान् मिलितुं तदुपाश्रयं गतवान् । तदा तत्र श्रीपालः कविरप्युपविष्ट आसीत् । तेनाऽऽचार्या विज्ञप्ताः – 'एनं माऽत्राऽऽगन्तुमनुमन्यध्वम्' । तदाऽऽचार्यैः कथितं – 'एतद्धि नोचितम् । स हि सिद्धसारस्वतो महापण्डितश्च । यदि स निरभिमानीभूय स्वयमेवाऽत्राऽऽगच्छेत् तदा सोऽवश्यं सत्कर्तव्यः' ।
तत आगतं तं देवबोधपण्डितं हेमचन्द्राचार्याः सत्कृत्य स्वसमीप एवोपवेशितवन्तः समयोचितवचनैश्च तं प्रीणितवन्तः । एतेन तष्टः स महापण्डितः हेमचन्द्राचार्यान् स्तुवन् कथितवान् -
पातु वो हेमगोपालो दण्ड-कम्बलमुद्वहन् । श्लोकार्धमेनं श्रुत्वा श्रीपालः कविरन्ये च तत्र स्थिता जनाः किञ्चिद रोषमिश्रितमाश्चर्यमनुभूतवन्तो यावत् तावत् तेनाऽन्यच्छ्लोकार्धमपि कथितं -
षड्दर्शनपशुग्रामं चारयन् जैनगोचरे ॥ एतन्निशम्य सर्वेऽपि प्रसन्ना जातास्तं च महापण्डितं भूयो भूयः प्रशंसितवन्तः ।
तत आचार्यैरपि तेन सह सम्भाषणं कृतं श्रीपालकवेस्तस्य च वैमनस्यं निवार्य द्वयोरपि मैत्र्यं साधितम् । यतो हि साधोः प्रथमो धर्मस्तु वैरनिवारणमेव विद्यते । तथा हेमचन्द्राचार्याणामपि जीवनमन्त्रः सर्वत्र सौमनस्यं समन्वयश्चैवाऽऽसीत् ।।
प्रवृत्तं सर्वं ज्ञात्वा सिद्धराजोऽपि प्रसन्नो जातस्तस्य वृत्तिश्च हेमचन्द्राचार्यान् प्रत्यधिकाधिकं प्रह्वीभूता । यद्यपि तस्य देवबोधकवेः श्रीपालकवेश्चेत्युभयोरप्याशाऽऽसीत्, किन्तु देवबोधस्य प्रतिभावत्त्वेऽपि गर्विष्ठत्वात् श्रीपालकवेश्च साधुचरितत्त्वेऽपि तादृशप्रतिभारहितत्वात् स आचार्यान् प्रत्येव समाकृष्टः ।
इतश्चाऽन्यान्यकार्यैः सह हेमचन्द्राचार्याणां विद्याकार्यमपि सन्ततं प्रवरीवति स्म । आदिनं विविधग्रन्थानां परिशीलनं, संशोधनं, नूतनग्रन्थसर्जनं लेखनं चेत्येव तेषां प्रवृत्तिरासीत् । तथा तेषां
५७
Page #63
--------------------------------------------------------------------------
________________
जीवनमत्यन्तं विशुद्धमासीत्, तेषां व्यवहारो मनो-वाणी-कर्मणामद्वैतपूर्वक: संयमयुतश्चाऽऽसीत्, एतेन सहोच्चाध्यात्मिकी भूमिकां, सर्वजीवैः सहाऽऽत्मौपम्यं, शत्रूनपि जयतो विनय-नम्रता-मृदुतार्जवादिगुणांश्च दृष्ट्वा सनृपाः सर्वेऽपि जना अमन्त्रमाकर्षणमनुभवन्त इव तेषां समीपमागच्छन्ति स्म सर्वत्र च तान् स्तुवन्ति -
आचार्या बहवोऽपि सन्ति भवने भिक्षोपभोगक्षमा नित्यं पामरदृष्टिताडनविधावत्युग्रजाग्रत्कराः । चौलुक्यक्षितिपालभालदृषदा स्तुत्यः स एकः पुन
नित्योत्तेजितपादपङ्कजनख: श्रीहेमचन्द्रो गुरुः ॥ श्रीहेमचन्द्राचार्याणां हार्दिकी भावना तु समग्रेऽपि भारतवर्षे विहृत्य लोकानुग्रहकरणस्याऽऽसीत्, किन्तु राज्ञः सिद्धराजजयसिंहस्याऽन्येषां चोपरोधात तथागर्जरदेशे विशेषतश्चाऽणहिल्लपुरपत्तने वासेऽधि परोपकारादिलाभं दृष्ट्वा ते तत्रैव स्थिताः । तत्र च प्रत्यहं राजास्थाने गच्छतां तेषां समुदारदृष्टि-सर्वग्राहिविद्वत्ता-तीव्रमेधाऽनन्यसदृशकाव्यप्रतिभा-समन्वयवादिताप्रमुखगुणानामधिकाधिकपरिचयेन राजा तान् प्रति विशेषसमादरवान जातो, जातश्चाऽयं मणि-काञ्चनसंयोग उभयोः, यतः एक आसीत् युगनिर्माताऽन्यश्च संस्कारनिर्माता, एकः समरविजयी अन्यः स्वविजयी, एकः काव्य-कलाप्रियोऽन्यः काव्य-कलासर्जकः, एक: प्रचण्डशक्तिमान् अन्यस्तु असाधारणपाण्डित्यवान् । राज्ञो हि स्वस्वप्ना आचार्यै रेव फलिष्यन्तीति श्रद्धा दृढा जाता ।
अथ च राज्ञो वृत्तिं तान् प्रत्येव प्रह्वीभूतां, तेषां च सर्वत्राऽधिकं महत्त्वं दृष्ट्वा बहूनां हृदयेषु ईर्ष्याग्निः प्रज्वलितः । चिन्तितं च तैर्यद् 'यद्येवमेव राजा एतादृशान् महत्त्वयुतान् करिष्यति तदाऽस्माकं काऽपि गणना नैव भविष्यति' । अतस्ते 'कथमपि हेमचन्द्राचार्याणां छिद्रान्वेषणं कृत्वा राज्ञे तन्निवेदनीयं राज्ञा च तिरस्कारणीयास्ते' इत्याशया छिद्रान्वेषणे प्रवृत्ताः ।
इतश्च चैत्यपरिसरे प्रत्यहं हेमचन्द्राचार्याणां धर्मोपदेशरूपाणि प्रवचनानि प्रवर्तन्ते स्म । बहवः श्रावकजना अन्येऽपि चाऽऽचार्यगुण-वाण्यादिभिः समाकृष्टाः प्रधानपूरुषास्तानि श्रोतुं समागच्छन्ति स्म । तदैकदाऽऽचार्यैः स्थूलभद्रमुनेः कथा श्राविता यथा - कथं स्थूलभद्रेण संसारत्यागः कृत, कथं चाऽऽत्मसाधन कृत्वा कामविजयो जितेन्द्रियत्वं च साधितं, ततश्च कथं पूर्वपरिचितवेश्यागृहे चातुर्मास्यं कृत्वा षड्रसयुतं भोजनं गृह्णताऽपि मनसि स्मरस्याऽवकाशो न दत्तः प्रत्युत सा वेश्या धर्ममार्गे प्रतिबोध्य व्रत-नियमादि ग्राहितेति । धर्मकथां श्रुत्वेमां जनाः प्रसन्ना जाताः स्थूलभद्रमुनेश्च वैराग्यं प्रशंसितवन्तः । किन्तु तत्राऽवसरे कश्चनेालुरपि तत्रोपस्थित आसीत् । तेन च 'लब्धं मयेदं छिद्र'मिति हृष्यता द्वितीयदिने राजपर्षदि सर्वेषां पुरतः कथितं 'यदेते जैनाचार्याः कीदृगसमञ्जसं कथयन्ति ननु? किं कश्चन वेश्यागृहेऽप्युषित्वा षड्रसमयं भोजनमपि च कृत्वा विरागी स्थातुं शक्तः खलु ? श्रूयताम् -
Page #64
--------------------------------------------------------------------------
________________
विश्वामित्र - पराशरप्रभृतयो ये चाऽम्बु - पत्राशिनस्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः । आहारं सघृतं पयो- दधियुतं ये भुञ्जते मानवा स्तेषामिन्द्रियनिग्रहः कथमहो दम्भः समालोक्यताम् ॥'
एतन्निशम्य सिद्धराजजयसिंहेन सादरमाचार्याः पृष्टाः
'प्रभो ! किमत्र तत्त्वम् ?'
आचार्यैरपि स्वस्थतया कथितं - 'राजन् ! एतस्य कथनमुचितमेव, किन्तु तत् पामरानाश्रित्य । सिंहसदृशपराक्रमाणां त्वन्यदेव विलसितं यदुक्तम्
-
सिंहो बली द्विरदशूकरमांसभोजी संवत्सरेण रतिमेति किलैकवारम् । पारापतः खरशिलाकणभोजनोऽपि
कामी भवत्यनुदिनं बत कोऽत्र हेतुः ? || '
एतच्छ्रवणेन प्रसन्नो नृपस्तमीर्ष्यालुं कथितवान् 'भोः ! त्वयाऽत्र किमपि वक्तव्यं वा ?' तदा स एतत्प्रत्युत्तरं दातुमक्षमोऽधोमुख उपविष्टः । राजाऽपि च तं सभाजनांश्चोद्दिश्य कथितवान् - 'प्रत्युत्तरं दातुं यदि सामर्थ्यं न स्यात् तदा राजसभायां यथाकथञ्चित् कथनेन स्वीयलघुतैव प्रकटीभवति' । एतेन स लज्जितो जातः ।
-
अथैकदा केनचिदन्येनेर्ष्यालुना राजसभायां कथितं राज्ञे - 'स्वामिन् ! एते जैना: सर्वथा नास्तिकाः सन्ति, ते प्रत्यक्षदैवतमपि सूर्यं न मन्यन्ते, तत्पूजादिकं च नैव कुर्वते' । एतच्छ्रुत्वा राज्ञाऽऽचार्याभिमुखमवलोकितम् । तदा हेमचन्द्राचार्यैः प्रत्युत्पन्नमतितया कथितं - 'राजन् ! वयं जैना यथा सूर्यमाराधयामस्तथा तु न केऽप्याराधयन्ति । तस्मिन् नभस्तलस्थित एव वयं जलाशनादि गृह्णीमो नाऽन्यथा ।
अन्ये तु न परमार्थतः सूर्याराधकाः, यतः
अधाम धामधामेदं वयमेव हृदि स्फुटम् । यस्याऽस्तव्यसनं प्राप्ते त्यजामो भोजनोदके ॥
पयोदपटलैश्छन्ने नैव कुर्वन्ति भोजनम् । अस्तङ्गतेऽतिभुञ्जाना अहो भानोः सुसेवकाः ॥
अस्तङ्गते च सूर्ये भोजनादीनां त्यागादि महत्फलं प्राप्येत । एतदर्थे च महर्षिणा व्यासेनाऽप्युक्तम्
ये रात्रौ सर्वदाऽऽहारं वर्जयन्ति सुमेधसः ।
तेषां पक्षोपवासस्य फलं मासेन जायते ॥'
श्रुत्वैतत् प्रसन्नः सिद्धराजः सभासद उद्दिश्योक्तवान् - 'विचार्यैव वक्तव्यं सर्वथा, न पुनरविचार्ये 'ति ।
५९
Page #65
--------------------------------------------------------------------------
________________
एवमेवाऽन्यदा राजसभायां समागतेभ्यः सर्वेभ्योऽपि धर्मगुरुभ्योऽन्यपण्डितेभ्यश्च राज्ञा पृष्टं - 'मान्या धर्मगुरवो विद्वांसश्च ! अहं ज्ञातुमिच्छामि यदत्र जगति पात्रं किम् ?'
तदा तदुत्तररूपेणाऽन्यान्यैर्धर्मगुरुभिः पण्डितैश्च स्वस्वसम्प्रदायानुसारं ये वर्तन्ते ये वाऽमुकं दर्शनं मन्यन्ते ते पात्रमिति प्रतिपादितम् । एतेन राज्ञः सन्तोषो नैव जातः । अथैतावताऽपि हेमचन्द्राचार्या मौनमाश्रित्यैवोपविष्टा आसन् । एतदुपलक्ष्य राज्ञा सादरमाचार्याः पृष्टा इममेवाऽर्थम् । एतद्विलोक्य बहव ईर्ष्यालवो हृष्टा जाता यदधुना जैनत्वादेते जैनमुनिरेव पात्रमिति कथयिष्यन्ति, तदा च तेऽपि साम्प्रदायिका मताग्रहिणश्चैवेति सिद्धं भविष्यति । ततश्च राजा जैनेभ्यो विमुखो भविष्यतीति ।
किन्तु हेमचन्द्राचार्याणां पिण्डमन्ययैव मृत्तिकया निर्मितमासीत् । तैरुक्तं – 'राजन् ! श्रूयताम् । पात्रपरीक्षा तु स्वविवेकनैव जायते न तु कस्यचित् कथनेन । एतदर्थे महाभारते द्वैपायनर्षि-युधिष्ठिर-भीमानां संवादोऽस्ति, तं शृणोतु' ।
'एकदा द्वैपायनर्षिर्हस्तिनापुरमागतो राजप्रासादे च युधिष्ठिरेण सह च काञ्चिद् आवश्यकी चर्चा कर्तुमुपविष्टः । तदा युधिष्ठिरेण भीममाहूय कथितं - "भोः ! भवान् द्वारि तिष्ठतु, कञ्चिदप्यन्तर्मा प्रवेशयतु" । सोऽपि तत् स्वीकृत्य द्वारि स्थितः । तावता तत्र द्वौ जनौ दानग्रहणार्थमागतौ । तत्र 'कस्मै दानं दातव्य'मिति निर्णीतुमक्षमो भीमोऽन्तर्गत्वा युधिष्ठिरं पृच्छति स्म -
"मूर्खस्तपस्वी राजेन्द्र ! विद्वांश्च वृषलीपतिः ।
उभौ तौ द्वारि तिष्ठेते, कस्मै दानं प्रदीयते ? ||" तदा युधिष्ठिरेणोक्तं - "सुखासेव्यं तपो भीम ! विद्याकष्टदुरासदा ।
विद्वांसं पूजयिष्यामि, तपसा किं प्रयोजनम् ? ॥" भीमोऽपि विचारकोऽस्ति । तेनोक्तं - "बन्धो ! श्रूयतां तावत् -
श्वानचर्मगता गङ्गा, क्षीरं मद्यघटस्थितम् ।
अपात्रे पतिता विद्या किं करोति युधिष्ठिर !? ॥" एतस्य श्रवणेन युधिष्ठिरस्याऽप्यसामञ्जस्यं जातम् । “किमधुनाकर्तव्य"मिति स चिन्ताकुलो जातः । तदा द्वैपायनषिणोक्तं -
"न विद्यया केवलया, तपसा चाऽपि पात्रता ।
यत्र ज्ञानं क्रिया चोभे, तद्धि पात्रं प्रचक्षते ॥" ततश्च द्वयोरपि युधिष्ठिर-भीमयोः समाधानं जातम् ।' 'अतो राजन् ! एवं विवेकेन ज्ञान-क्रियोभययुक्तं पात्रं निर्णेतव्यम्' । एतच्छ्रुत्वा राजा प्रसन्नो जातस्तस्य चाऽऽचार्यान् प्रति समादरोऽधिको जातः ।
Page #66
--------------------------------------------------------------------------
________________
एवंरीत्यैवाऽन्यदा राज्ञा 'को धर्मो मया समाचरितव्यः ?' इति राजसभायां पृष्टे पूर्वोक्तनीत्यैव हेमचन्द्राचार्यैश्चारिसञ्जीवनीचारन्यायदृष्टान्तं श्रावयित्वा धर्मपरीक्षा कथं कर्तव्येति ज्ञापितं सर्वदर्शनसम्मानेनैव सत्यधर्मो मार्गश्चाऽऽराध्यते इति कथितम् । एतेन राज्ञः समभाव इतोऽपि वृद्धिङ्गतः ।
अथ चैकदा हेमचन्द्राचार्याश्चैत्यपरिसरे श्रीनेमिनाथचरितं वर्णयन्तोऽवसरप्राप्तं पाण्डवचरितं वर्णितवन्तः । तत्र च ‘पाण्डवा जैनदीक्षां गृहीतवन्तः सिद्धाचले चाऽनशनं गृहीत्वा निर्वाणं प्राप्तवन्तः' इत्यपि सविस्तरं वर्णितवन्तः । एतच्छ्रुत्वा केचनेालवः सिद्धराजस्याऽग्रे - 'जैना एते स्मृतेविद्रोह कुर्वन्ति, तत्रोक्ताद् विपरीतं भणन्ति । एतेनाऽस्मत्पुरेऽरिष्टमपि कदाचिदुत्पद्येते'त्यादिकमधिक्षेपं कृतवन्तः । तदा सिद्धराजोऽपि तेषां समक्षमेवाऽऽचार्यान् एतद्विषयं स्पष्टीकर्तुं विज्ञपयामास । आचार्या अपि तदा महाभारत-वर्णितपाण्डवेभ्यो जैनशास्त्रवर्णितपाण्डवानामन्यत्वं महाभारतस्य सन्दर्भेणैव प्रतिपाद्य सर्वमपि स्पष्टीकृत-वन्तः । एतेन तुष्टो राजा तान् सादरं प्रशंसितवान् ।।
___ एवं चैतादृशैर्बहुभ्यः प्रसङ्गेभ्यो ज्ञातैः श्रीहेमचन्द्राचार्याणां समन्वयकारिता-समुदारदृष्टि-क्लेशाकरणबहुशास्त्रज्ञता-प्रत्युत्पन्नमतिता-निराग्रहिता-सर्वग्राहिपाण्डित्यादिभिर्गुणैनितरामभिभूतो राजा तान् प्रत्यधिकाधिकमादरवान् जातः । प्रायः सर्वकार्येषु च तेषामभिप्रायं पृच्छति स्म ।
किञ्च, सिद्धराजजयसिंहस्य पुत्रो नाऽऽसीत् । अतो वैक्रमे ११८५तमेऽब्दे तेन पुत्रकामनया पादचारेण तीर्थयात्रा कृता । तस्य नम्रविज्ञप्त्या च हेमचन्द्राचार्या अपि सहैव ययुः । तदवसरे तेनाऽतिनिकटतयाऽऽचार्याणां जीवनं विलोकितं, तेषां च त्याग-तपः-शुद्धिः-नि:स्पृहता-स्वस्थतादयो गुणा अप्यनुभूताः। ततस्तेनाऽऽचार्यैः सहैव शत्रुञ्जयतीर्थ-गिरिनारतीर्थ-सोमनाथतीर्थादीनां यात्रा कृता । यात्रान्ते च तेनाऽऽचार्येभ्यो विज्ञप्तं - 'प्रभो ! भवतां योग-ज्ञानबलेन कृपया विलोक्यतां यन्मे पुत्रो भविष्यति न वा?' तदाऽऽचार्यैरपि सोमनाथसमीपस्थे कोटिनगरे (कोडीनार) गत्वा दिनत्रयोपवासैश्चाऽम्बिकादेवीमाराध्य प्रसन्नीकृत्य च 'सिद्धराजस्य पुत्रो भविष्यति न वे'ति पृष्टम् । देव्या कथितं - 'सिद्धराजस्य भाग्ये सन्तानसुखं नास्ति । सोऽपुत्र एव मरिष्यति । तस्याऽन्वये तु तद्भातुस्त्रिभुवनपालस्य पुत्रः कुमारपालो राजा भविष्यति । एतदर्थसंवादिनी चेयं गाथा पुरा विक्रमादित्याय राज्ञे सिद्धसेनदिवाकरसूरिभिः कथिताऽऽसीत्
पुन्ने वाससहस्से सयंमि वरिसाण नवनवइअहिए (१९९९) ।
होही कुमरनरिंदो तुह विक्कमराय ! सारिच्छो ॥' इति । ततो देव्यन्तर्हिता । आचार्यैरपि यथातथं सर्वमप्येतत् सिद्धराजस्य कथितं, 'भाग्यादधिकं न कदाऽपि
* चारिसञ्जीवनीचारन्यायदृष्टान्तं परिशिष्टे विलोक्यताम् । + अयं प्रसङ्गो यथा प्रभावकचरिते वर्णितः स सर्वोऽपि परिशिष्टे विस्तरेण प्रदत्तोऽस्ति । कृपया तत्रैव विलोक्यताम् । ★ पृष्ठ - ५४स्था टिप्पनी विलोक्यताम् ।
Page #67
--------------------------------------------------------------------------
________________
प्राप्यतेऽतो वृथा शोकं मा कृथाः' इति सान्त्वनमपि प्रदत्तम् ।
___ततः सिद्धराजेनैतत् प्रमाणीकर्तुं नैमत्तिका अप्येतदर्थं पृष्टाः । तैरपि च स्वीयनिमित्तबलेन तत् तथैव दृष्ट्वा राज्ञे निवेदितम् । एतेन सिद्धराजस्य महद् दुःखं जातम् । कुमारपालस्योपरि तस्य हृदये द्वेषभावो जागृतः । तेन चिन्तितं यद् 'यावदयं जीविष्यति तावन्मे पुत्रो नैव भविष्यति, अत एनमेव प्रथमं घातयामि' । ततस्तेन कुमारपालं मारयितुं बहवः प्रयत्नाः कृताः किन्तु भाग्यबलात् स सर्वदाऽपि रक्षितोऽभवत् ।
इतश्च चामुण्डरायशासनकालादेव चौलुक्यानां मालवदेशं जेतुं स्वप्न आसीत् । सिद्धराजजयसिंहो हि स्वपराक्रमेण तं स्वप्नं सफलीकतवान । तेन मालवेशो नरवर्मा भीषणयुद्धे जितो मालवदेशे च स्वशासनाधिकारो नियोजितः । यदा स स्वनगरं प्रतिनिवृत्तस्तदा समस्तप्रजाभिस्तस्य विजयं निमित्तीकृत्य महोत्सवः कृतः । सर्वैर्धर्मगुरुभिरपि तदवसरे तस्याऽऽशीर्वचनान्युक्तानि । यदा च राजा हेमचन्द्राचार्याणां पुरतः समागतस्तदा तैरपि तस्याऽऽशीर्वादरूपेण श्लोकोऽयमुक्तः -
भूमि कामगवीं स्वगोमयरसैरासिञ्च, रत्नाकरा ! मुक्तास्वस्तिकमातनुध्वमुड़प ! त्वं पर्णकम्भीभव । धृत्वा कल्पतरोर्दलानि सरलैदिग्वारणास्तोरणा
न्याधत्त स्वकरैविजत्य जगतीं नन्वेति सिद्धाधिपः । तच्छ्रवणेन सिद्धराजस्य हृदयेऽपार आनन्दो जातः । स आचार्यान् सादरं नमस्कृत्य स्वप्रासादं गतः । तत आस्थानमण्डपे तेन धारानगर्या आनीतानि सर्वाण्यपि वस्तूनि प्रदर्शितानि । तेषु चैको ग्रन्थसङ्ग्रहोऽप्यासीत् । तं निरीक्षमाणो राजा भोजव्याकरणं नाम ग्रन्थं दृष्ट्वाऽऽचार्यान् पृष्ट्वान् – 'प्रभो ! किमेत'दिति । आचार्येरपि तं ग्रन्थं विलोक्य भोजराजप्रशस्तिः कृता, कथितं च - 'भोजराजेन व्याकरणमेतद् विरचितमस्ति, अधुना च गूर्जरदेशे बहुत्रेदमेव व्याकरणं पाठ्यते' । एतन्निशम्य सिद्धराजेन चिन्तितं - 'मया यत् पराक्रमस्फोरणं कृत्वा मालवदेशो जितस्तत्तु पाशवं बलमासीत् । यद्यहं तस्य सरस्वतीधाम्नः संस्कारितां साहित्यसृष्टिं चाऽत्र प्रकटयेयं तडेंव मे वास्तविको जयः' ।
ततस्तेन सभायां स्थितान् पण्डितानुद्दिश्य कथितं – “किमस्माकं देशे नास्ति तादृशः कोऽपि पण्डितो यः स्वप्रतिभया नूतनं व्याकरणं विरचयेत्, तथा चाऽस्मद्देशेऽस्मदीयमेव व्याकरणं पाठ्येत ?'
विद्वान् कोऽपि कथं नास्ति देशे विश्वेऽपि गूर्जरे ।
सर्वे संभूय विद्वांसो हेमचन्द्रं व्यलोकयन् ।। सर्वैरपि पण्डितैः कथितं – 'राजन् ! व्याकरणादिग्रन्थसृष्टौ किल हेमचन्द्राचार्या एव प्रभविष्णवो नाऽन्यः कश्चित्' । सिद्धराजस्य मनसि तु तेषामेव नामाऽवर्तत किन्तु तेन सर्वेषां साम्मत्यमपि प्राप्तम् । तेनाऽऽचार्येभ्यो विज्ञप्तम् -
६२
Page #68
--------------------------------------------------------------------------
________________
यशो मम तव ख्यातिः पुण्यं च मुनिनायक ! |
विश्वलोकोपकाराय कुरु व्याकरणं नवम् ॥* हेमचन्द्राचार्यैरपि तस्य विज्ञप्तिः स्वीकृता काश्मीरादिदेशेभ्यश्च विविधव्याकरणग्रन्था आनायिताः । ततस्तेषां गभीराध्ययनावलोकन-विवेचनादिपुरस्सरं तैरल्पेनैव कालेनाऽष्टाध्याय-द्वात्रिंशत्पादमयं सलघुबृहद्वृत्तिकं साङ्गोपाङ्गं च व्याकरणं सिद्ध-हेमचन्द्रशब्दानुशासनं नाम विरचितम् । तेन सह धातुपाठः, धातुपारायणं, शब्दकोशोऽभिधानचिन्तामणिनाममालाभिधानः, अनेकार्थसङ्ग्रहः लिङ्गानुशासनं, काव्यानुशासनमलङ्कारचूडामणि-विवेकवृत्तियुतं, छन्दोनुशासनं, निघण्टुः, देशीनाममालाभिधो देश्यशब्दानां कोशः, व्याश्रयमहाकाव्यं चाऽपि विरचितम् ।।
__ सर्वोऽप्येष ग्रन्थसमूह: सिद्धराजस्य राजपुरोहितेन सभापण्डितैश्च त्रिः सूक्ष्मेक्षिकया पठितो 'विशुद्ध एष' इति च कथितम् । एतेनाऽतीवाऽऽनन्दितेन राज्ञा व्याकरणमन्ये च ग्रन्था समहोत्सवं गजस्कन्धमारोप्य समग्रेऽपि नगरे शोभायात्रा विहिता, तत्सत्कार-सम्मानादि च कृतम् । ततस्तेषां ग्रन्थानां शतशः प्रतयो लेखयित्वा देशविदेशेषु प्रहिता, गूर्जरदेशे च सर्वत्र काकल-कायस्थनामानं व्याकरणपण्डितं नियोज्य तेषामध्ययनाध्यापनादि प्रारब्धम् ।
__ सिद्धराजस्य स्वदेशे साहित्यसृष्टेः संस्कारदानस्य च स्वप्ना हेमचन्द्राचार्यद्वारा फलिता जाता इति तद्धृदयं सर्वथा सन्तुष्टं जातम् । तन्मनसि तदास्थाने च हेमचन्द्राचार्याणां स्थानं प्रथमं जातम् । आचार्याणां दर्शनेनैव स चित्तनिर्वृतिं लभते स्म । पदे पदे स हेमचन्द्राचार्याणां मार्गदर्शनमपेक्षते स्म । आचार्या अपि निरपेक्षबुद्ध्यैव तस्य निरवचं मार्गदर्शनं कुर्वते स्म । सहैव साहित्यसर्जनं प्रजाभ्यश्च निरवद्यजीवनपद्धतेः शुद्धधर्म-संस्काराणां चोपदेशं कुर्वते स्म । अद्य या गूर्जरादिभाषोपयुज्यते तस्याः मूलं याऽपभ्रंशभाषाऽस्ति तस्या व्याकरणं पूर्णस्वरूपं च तैरेव प्रस्तुतम् । तेन सा भाषा, तत्फलत्वेन च गूर्जरभाषा सुनिबद्धा जाता । गूर्जरदेशस्य स्वीया भाषा प्राप्ता, भाषामाध्यमेन चैव संस्काराणां पोषणं प्राप्तम् । [अतो गूर्जरदेशः सर्वदाऽपि च तेषां कृतज्ञ ऋणी चैवाऽस्ति ।] एतत् सर्वं विलोक्य सिद्धराजः सर्वथा समाधानं प्राप्तवान् । वारं वारं चाऽऽचार्यान् प्रति कार्तश्यं प्रकटितवान् ।
किञ्च, अत्रेदं चिन्तनीयम् -
हेमचन्द्राचार्यैहि स्वगुणानुरक्तसिद्धराजपाबें - जैनधर्मो राज्याश्रितो भवेत्, राजा च जैनधर्मोपासको भवेत् – इत्येतदर्थं न कदाऽपि प्रयतितं न वा तदर्थं राजकीयचातुर्यमुपयुक्तम् । तथा सिद्धराजं तत्सभासदो वा प्रभावितान् कर्तुं तैः समन्वयवादित्वं नैव प्रकटितं साधितं वा किन्तु तेषां सहजप्रकृतिरेव समन्वयिताया आसीत् । स्वसम्प्रदायस्योन्नतिर्भवेत्, जैनानां च श्रेष्ठत्वं भवेदित्यादि तैः स्वप्नेऽपि नैव विचारितमासीत् । * तेनाऽतिविस्तृत-दुरागम-विप्रकीर्ण-शब्दानुशासनसमूहकदथितेन ।
अभ्यथितो निरवमं विधिवद् व्यधत्त शब्दानुशासनमिदं मुनिहेमचन्द्रः ॥ (सिद्धहेमव्याकरणप्रशस्ति:) + एतेषामन्यानां च ग्रन्थानां परिचयोऽत्रैव पुस्तकेऽन्यत्राऽऽलेखितोऽस्ति । कृपया तत्रैव विलोक्यताम् ।
Page #69
--------------------------------------------------------------------------
________________
सहैव सिद्धराजोऽपि विचारकः सर्वधर्मान् प्रत्युदारमतवांश्चाऽऽसीत् । स यस्य कस्याऽपि कथनं विना विमर्शेन स्वीकुर्यादित्येतत् सर्वथाऽसम्भवमासीत् । स केवलं गुणानुरागेणैव हेमचन्द्राचार्यान् प्रत्याकृष्टो जातः, यतस्तेन तेषां सहजं शीतलताप्रदं तेजः, माधुर्य, शान्तः समभावः, सर्वदर्शनसङ्ग्रहोऽनन्यसदृशी च विद्वत्तेत्यादयो गुणा दृष्टा अनुभूताश्चाऽऽसन् । स्वभावसिद्धेन गुणानुरागेण स देवबोधसदृशगर्विष्ठपण्डितपुरतोऽपि भूमावेवोपविशति स्म । एवं स्थिते – हेमचन्द्राचार्य राज्याश्रयं प्राप्तुं प्रपञ्चाः कृताः, सिद्धराजो वा तैश्चाटुकथनादिभिः प्रभावित - इत्यादिकथनं सर्वथाऽयोग्यं द्वयोरपि च प्रमाणपुरुषयोरन्यायकरम् ।
हेमचन्द्राचार्याः हि कर्मयोगितया केवलं निष्पक्षतया सर्वेषां समन्वयकर्तारः समभाविनो लोकप्रियाश्च साहित्यस्रष्टार आसन् । धर्माचार्यतया च ते त्यागिनो विरागिनो निःस्पृहा निष्कर्मिणश्च साधुपुरुषा आसन् । तत्पुरतश्च सिद्धराजो जयसिंहो हि कुलपरम्परया यद्यपि शैवधर्मी आसीत् तथाऽपि राजत्वेन सर्वधर्मसम्मानकारी निष्पक्षोऽसाम्प्रदायिको न्यायी चाऽऽसीत् । तस्य सभायां सर्वेऽपि धर्माचार्याः समागच्छन्ति स्म, जैनेष्वपि हेमचन्द्राचार्येभ्यः पूर्वमेव तस्य वीराचार्य-मलधारिहेमचन्द्रसूरिप्रमुखाचार्याणां गाढपरिचय आसीदेव । एवंस्थितेऽपि स केवलं हेमचन्द्राचार्याणां गुणैरसाधारणपाण्डित्येन विशालप्रतिभया चैवाऽऽकृष्ट आसीत् । सत्यं तत्त्वं च किम् ? इति ज्ञातुं तस्य तीव्रोत्कण्ठाऽऽसीत्, सा च हेमचन्द्राचार्यै रेव शमितेत्यतस्तेनाऽऽचार्या स्वमार्गदर्शकत्वेन स्थापिताः ।
द्वाभ्यामप्याभ्यां युगपुरुषाभ्यां सम्मील्य गूर्जरदेशः साहित्य-संस्कार-समृद्ध्यादिभिः सनाथीकृतः, लोकानां विद्याभिरुचिर्वधिता, विशेषतश्च समग्रमपि देशं तौ समन्वयधर्मिणं विधातुं सफलौ जातौ । अद्य गूर्जरदेशः समग्रेऽपि भारतवर्षेऽधिकसहिष्णुरधिकतयोदारमतवादी च यदस्ति तस्य मूलकारणत्वेन हेमचन्द्राचार्याः, स्याद्वादः(समन्वयवादः), सिद्धराजजयसिंहः कुमारपालश्चाऽस्ति; गूर्जरभाषा, गूर्जरास्मिता चाऽपि एतेषामेव कारणादद्यपर्यन्तमक्षुण्णा वर्तते ।
अस्तु, प्रकृतं प्रस्तुमः - सिद्धराजेन पूर्वोक्तगुणालङ्कृतेन सताऽपि सन्तानरहितत्वात् कुमारपालमात्सर्यप्रेरितेन च कुमारपालं हन्तुं घातयितुं वा बहवः प्रयत्नाः कृताः, किन्तु भाग्यबलीयस्त्वात् तस्याऽन्यान्यजनसाहाय्येन च स सर्वदा रक्षितो जातः । एतेन सिद्धराजस्य वैरवृत्तिरतीव वृद्धिङ्गताऽऽसीत् । अतः कुमारपालोऽपि तद्भयेन देशत्यागं कृत्वा कर्णाट-काञ्ची-कोल्लापुर-मालव-चित्रकूटादिदेश-प्रदेशेषु विचरितः प्रायश्च देशस्य सर्वेषामपि तीर्थानां यात्राऽपि तेन कृता । एतत् सर्वं स्वीयगुप्तचरेभ्यो ज्ञात्वा सिद्धराजेन देशाद् बहिरपि तं मारयितुं सैनिकाः प्रेषिताः किन्तु तदाऽपि स रक्षितो जातः । वाग्भट्टमन्त्री, सज्जनमन्त्री, आलिगमन्त्री, आलिगकुलालः, जाम्बमन्त्री, भीमाभिधक्षेत्रपतिः, कटुवणिक्, देवश्रीः, वौसिरिब्राह्मणः - इत्यादयस्तं विपत्काले बहु साहाय्यं कृतवन्तः । द्वि-त्रवारं च हेमचन्द्राचार्यैरपि स रक्षित आसीत् राजभटेभ्यः । ततस्तं सान्त्वयित्वा भविष्यत्काले च स एव नृपतिर्भविष्यति - इति चाऽऽश्वास्य प्रहित आसीत् । एतदपि तैः केवलं जैनमुनिसहजया दयावृत्त्या करुणया चैव कृतं, न पुनर्भाविनि काले कञ्चिल्लाभं प्राप्तुम् ।
६४
Page #70
--------------------------------------------------------------------------
________________
ततश्च वैक्रमे ११९९तमे वर्षे सिद्धराजो जयसिंहः स्वर्गतः । ततस्तस्य मन्त्रिभिर्यावद् योग्य उत्तराधिकारी न प्राप्येत तावत् सर्वाऽपि राज्यव्यवस्था कृता, जनैरपि च सिद्धराजगुणानुरक्तैस्तत्र साहाय्यं कृतम् । यदा चेयं वार्ता कुमारपालेन ज्ञाता तदा शीघ्रमेव सोऽज्ञातवासं त्यक्त्वाऽणहिल्लपुरपत्तनं प्राप्तो धैर्य पराक्रमं च प्रदर्श्य स्वयोग्यतां प्रमाणीकृतवान् । अतो मन्त्रिभिर्देशजनैश्च स एव राजत्वेनोद्घोष्य ११९९तमे वैक्रमाब्दे मार्गशीर्षकृष्णद्वितीयायां मृगशीर्षनक्षत्रे रविवासरे राज्येऽभिषिक्तः । राज्याभिषेककाले च तस्य वयः पञ्चाशदवर्षेभ्योऽप्यधिकमासीत् । राज्यं प्राप्यैदम्प्राथम्येन तेन सर्वेऽपि निजोपकारिणः स्मारं स्मारं प्रत्युपकृताः ।
अथ सिद्धराजस्य मृत्योरनन्तरं तदधीना बहवो राजानोऽन्येऽपि च केचन स्वतन्त्रीभूय गूर्जरदेशं विरुध्य वर्तितुमारब्धाः । अतः कुमारपालस्य राज्यप्राप्तेः प्रारम्भिकवर्षाणि तु विरोधिनां विरोधस्य चोपशमे एव व्यतीतानि । तेनाऽत्यधिकं परिश्रमं कृत्वा सर्वेऽपि शत्रवो विरोधिनश्च जिताः । तस्य जीवनस्य प्रभूतः कालो भ्रमणे एव व्ययित आसीदतस्तस्य शास्त्रज्ञानं यद्यपि न्यनमासीत तथाऽपि व्यवहारज्ञानमनभवज्ञानं च पूर्णमासीत् । शस्त्रविद्यायामपि स निपुणो महायोधश्चाऽऽसीदतः सैनिकेषु सोऽतीव प्रिय आसीत् । तेन निजं समग्रमपि व्यवहारज्ञानं युद्धकौशलं चोपयुज्य समग्राः शत्रवः पराजित्य मित्रीकृत्य चाऽष्टादशदेशेषु स्वशासनं स्थापितम् । ते च देशाः सपादलक्षः(शाकम्भरी), मालवः, कोङ्कणः, सिन्धुदेशः, यवनदेशः (तुर्कस्तानः), काशी, मगधदेशः, गौडदेशः, कान्यकुब्जः, दशार्णदेशः, चेदीदेशः, मथुरा, राजस्थानं, महाराष्ट्र, विदर्भः, कुरुदेशः, पञ्चनदः, सौराष्ट्रदेशः – इत्यादय आसन् ।
एतावता च प्रायो दशवर्षमितः कालो व्यतीतः । तदनन्तरं स स्थिरो जातः । इदानीं तस्य वयः प्रायः षष्टिवर्षमितमासीत् । अतस्तेन चिन्तितं – 'मम राज्यादिकं सर्वमपि सुस्थं जातमस्ति । अधुना मया शेषमायुः शान्त्या धर्मसाधनं कृत्वा व्ययितव्यम्' इति । तस्य हेमचन्द्राचार्याणामुपकारा अपि स्मृतिपथमागताः । अतः स तेषां चरणयोः पतित्वा व्यज्ञपयत् - 'प्रभो ! मम राज्यमिदं भवदधीनमेवाऽतो भवन्त एवैनं राज्यं स्वीकुर्वन्तु, अहं भवदाज्ञाकारी सेवको भविष्यामि' । आचार्यास्तु तस्मै स्वीयमर्यादां भौतिकवस्तुषु च विरक्तिं बोधयित्वा कथितवन्तः -
भुञ्जीमहि वयं भैक्ष्यं, जीर्णं वासो वसीमहि ।
शयीमहि महीपृष्टे, कुर्वीमहि किमीश्वरैः ?' || एतेनाऽधिकं सन्तुष्टो राजा तानेव स्वगुरुत्वेन सर्वकार्येषु च मार्गदर्शकत्वेन स्थापितवान् । ततः प्रत्यहं स तेषां पादमूले धर्मं नीति च बोद्धं गच्छति स्म । तेन हि स्वजीवने शास्त्रज्ञानमत्यल्पं प्राप्तमासीदतः स तस्मिन्नपि वयसि पठितुमारब्धवान् । सर्वप्रथमं स कामन्दकीयराजनीतिं पठितवान् । ततस्तेन व्याकरण-काव्य-साहित्यादीनामप्यध्ययनं कृतं तदभ्यासेन चाऽऽत्मनिन्दाद्वात्रिंशिकाभिधं काव्यमपि विरचितमासीत् । ततः सोऽन्यान्यशास्त्राण्यपि पठितवान् । अस्मिन् वयसि ज्ञानप्राप्तेस्तस्य निष्ठामालोक्य जनस्तस्मै विचारचतुरानन इति बिरुदं प्रदत्तमासीत् । तस्य गुणसम्पदपि निरुपमाऽऽसीत् । यादृशो वीरः
६५
Page #71
--------------------------------------------------------------------------
________________
स तादृश एव संयतः, यथा नीतिनिपुणस्तथैव धर्मपरायणोऽपि, यद्यपि दुर्धर्षस्तथाऽपि सौम्यः, तात्त्विकबुद्धिरपि व्यवहारकुशलोऽनुभवज्ञानी च, आवश्यकतायां सत्यां कोटित्याग्यपि व्यवहारे मितव्ययी, यादृशश्च पराक्रमी तादृश एव क्षमावान् स आसीत् । तस्य पराक्रम - कौशलादिभिर्गुर्जरदेशस्य गौरवं चरमशिखरं प्राप्तम् ।
अथ वैक्रमे १२०७ तमे संवति हेमचन्द्राचार्याणां मातुः साध्व्या अन्तकाल: सन्निहित आसीत् । तयाऽपि च स्वस्थेन समाधियुतेन च मनसाऽनशनं स्वीकृतमासीत् । तदात्वे श्रावकैस्तत्पुण्यार्थं कोटित्रयमितधनं व्ययितुं निर्णीतं घोषितं च । हेमचन्द्राचार्या अपि तत्रोपस्थिता आसन् । मात्रा धनव्ययघोषणं श्रुत्वा पुत्राभिमुखमालोकितम् । तदा तैरपि मातुः कृते लक्षत्रयमितश्लोकसर्जनपुण्यमुद्घोषितम् । तच्च श्रुत्वा सा प्रसन्ना जाता परमेष्ठिनमस्कारश्रवण-ध्यानादिपुरस्सरं च समाधिमरणं प्राप्य दिवङ्गता । तत आरभ्य हेमचन्द्राचार्या अधिकाधिकसाहित्यसर्जनानुषक्ताः कालं गमयन्ति स्म ।
=
एकदा कुमारपालेन धर्मचर्चायां जिज्ञासया 'जीवनस्य सार्थक्यं कुत्र कथं वे 'ति आचार्याः पृष्टाः। तदा तस्य सत्यजिज्ञासां ज्ञात्वाऽऽचार्यैः कथितं यद् 'जीवनसार्थक्यं हि बोध (ज्ञान) - श्रद्धा (दर्शन) - आचरण(चारित्र)रूपाया रत्नत्रय्या आराधने विद्यते । य एनां रत्नत्रयीं मनो- वाक्काययोगैः सम्पूर्णतयाऽऽराधयति तस्य कस्याऽपि सम्प्रदायस्याऽनुयायित्वं नाऽऽवश्यकम् । एतदाराधनेनैव स कृतार्थो भवेत्' । ततो राजाऽपि यथावबोधं सश्रद्धं सदाचरणे रतोऽभवत् ।
अथाऽन्यदा नगरचर्यां कुर्वन् स वधार्थं सौनिकगृहे नीयमानान् पशून् व्यलोकत । पशूनामार्तनादान् श्रुत्वा तस्य हृदयं करुणया द्रवीभूतम् । सहैव तन्मनसि ग्लानिरपि सञ्जाता यद् ‘राज्ये यदेतादृशं हिंसादिकार्यं भवति तस्य सर्वस्याऽपि उत्तरदायित्वं ममैव' । स सत्वरं गुरूणामन्तिकं गत्वाऽत्राऽर्थे तेषां मार्गदर्शनमयाचत । तैरपि 'दयैवाऽहिंसैव च सर्वेषामपि धर्माणां मूलमस्ती'ति प्ररूपितं कथितं च -
श्रूयते सर्वशास्त्रेषु सर्वेषु समयेषु च । अहिंसा लक्षणो धर्मस्तद्विपक्षश्च पातकम् ॥१॥ क्षमातुल्यं तपो नास्ति, न सन्तोषात् परं सुखम् । न मैत्रीसदृशं दानं, न धर्मोऽस्ति दयासमः ॥ २॥
-
'तत्र च पूर्णतया प्रयत्नो विधातव्यः' इति चोपदिष्टम् । एतच्च कुमारपालायाऽतीव रुचितम् । तेन स्वीये सर्वस्मिन्नपि राज्येऽमारिघोषणं कृतं, मांसभक्षणं च सर्वथा त्याजितम् । एतावदेव न, तेन स्वराज्ये वसतां सहस्रशः सौनिकानामपि मांसविक्रयणादिवृत्तिं त्याजयित्वा नूतनां वृत्तिमारब्धं सूचितं, वर्षत्रयं यावत् तेषां निर्वाहः स्यात् तावन्मितं धनमपि तेभ्यः प्रदत्तं राजकोशात् । ततः शनैः शनैस्तेन स्वशासने सर्वत्रैवमेवाऽमारिघोषणं कृतं पूर्णतया च पालितम् । तच्च पालनं तथा कारितं तेन यथा कुत्राऽपि कोऽपि ‘म्रियस्व-मारये’त्यादि वचनप्रयोगमपि कर्तुं नाऽनुमन्यते स्म । यदि स तथा प्रयोगं कुर्यात् तदा तस्य कठोरदण्डः प्राप्येत ।
६६
Page #72
--------------------------------------------------------------------------
________________
एतदमारिघोषणं राजपुरुषाणां सामन्तानामन्येषां च जनानां निर्बलत्वं भीरुत्वं वाऽभासत । किन्तु कुमारपालः स्वनिर्णये दृढ एवाऽवर्तत । तस्याऽविचलं मतमासीद् यद् बल-पराक्रमौ अन्यद् वस्तु, दयाऽहिंसा चाऽन्यदेव वस्तु । दयाया अहिंसायाश्च पालनेन न कोऽपि निर्बलो भीरुर्वा भवेदिति ।
__ अथाऽणिहल्लपुरपत्तने चौलुक्यानां कुलदेव्याः कण्टकेश्वरीदेव्या मन्दिरमासीत् । तस्मिन् प्रतिवर्षमेकवारं शतशो महिषादिजीवानां बलिदानं कृत्वा नैवेद्यरूपेण देव्यै समर्प्यते स्म । बलिदाननियमः कुलपरम्परागत आसीत् । स कदाचिदपि परावर्तयितुं न शक्यते स्म । यदा तदवसरः समागतस्तदा कुमारपालो हेमचन्द्राचार्याणां मार्गदर्शनं प्राप्तुं तेषां पार्वे गतः । यदा स तत्र गतस्तदा जनैः सर्वैरप्यूहितमासीद् यदधुनाऽऽचार्याणां परीक्षा भविष्यति । यतो यदि स तन्निषेधं कुर्यात् तदा नृपस्य हानिर्भविष्यति, तथा ते तद्विधानानुमति दातुमपि नैव शक्ताः, स्पष्टतया हिंसात्वात् तस्य । किन्तु सर्वेषामाश्चर्यमध्ये तैः कुमारपालस्य कथितं – 'राजन् ! भवतः कुलदेव्याः कण्टकेश्वर्याः कृते बलिदानार्थं पशून् ददातु तस्यै' । एतच्छ्रवणेनाऽवाङ्मूका जाताः सर्वे यावत्, तावत् तैरुक्तं – 'किन्तु, तेषां पशूनां वधो नैव कर्तव्यः । अपि तु जीवन्त एव ते देव्यै समर्पयितव्याः । यदि तस्यास्तेषां मांसस्येच्छा स्यात् तदा सा स्वयमेव ग्रहीष्यति । यदि सा न ग्रहीष्यति तदा मन्तव्यं यत् सा सर्वेषां जन्तूनां मातृभूता कथं तेषां स्वसन्तानानां प्राणानपहृत्य मांसं गृह्णीयात् ?' इति ।।
सर्वेषां निषेधे विरोधे च जातेऽपि कुमारपालेन गुरुवचोऽङ्गीकृत्य तथैव जीवन्तः पशवः समर्पिता देव्यै । आरात्रि च मन्दिरे एव स्थापितास्ते । द्वितीयदिने च प्रातस्तान् तथैव जीवन्तो दृष्ट्वा सर्वेऽपि जना हृष्टाः अभवन् । यद्यपि देव्याः पुरोहितेन कुमारपालो बहु भायितो भत्सितश्च तथाऽपि स स्वनिर्णये दृढोऽविचलश्चैवाऽवर्तत जीवदयामहिंसां च पालितवान् । तस्येदृशीं दृढतां दया-ऽहिंसादौ च गाढश्रद्धां विलोक्य कविभिर्बहु प्रशंसितः स तद्गुरवश्च -
पूर्वं वीरजिनेश्वरे भगवति प्रख्याति धर्मं स्वयं प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्तुं क्षमः श्रेणिकः । अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षा व्यधात् यस्याऽऽसाद्य वचस्सुधां स परमः श्रीहेमचन्द्रो गुरुः ॥ (कविः श्रीधरः)
तथा
आज्ञावर्तिषु मण्डलेषु विपुलेष्वष्टादशस्वादरादब्दान्येव चतुर्दश प्रसृमरां मारिं निवार्योजसा । कीर्तिस्तम्भनिभांश्चतुर्दशशती-संख्यान् विहारांस्तथा क्लृप्त्वा निर्मितवान् कुमारनृपतिजैनो निजैनोव्ययम् ।।
(मन्त्री यशःपालः मोहराजपराजयनाटके)
६७
Page #73
--------------------------------------------------------------------------
________________
अस्याऽमारिघोषणस्यैव कुमारपालकारितस्य सुफलमिदं यदद्याऽपि समग्रेऽपि भारतवर्षे गूर्जरराज्ये एव सर्वाधिकतयाऽहिंसापालनं भवति, अत्रैव चाऽधिकाधिकजना: शाकाहारिणो विद्यन्ते ।
एतदनन्तरं तेन समग्रादपि निजराज्यान्मद्यपान-द्यूत-मृगया-चौर्यादिदूषणान्यपि सर्वथा निवारितानि । एतत् सर्वमपि तेन कञ्चिद् धर्मविशेषं पालयितुं नैवाऽऽचरितमपि तु केवलं निजप्रजानामिह-पारलौकिककल्याणार्थमेवाऽऽचरितम् । तत्र च सम्पूर्णमपि मार्गदर्शनं प्रेरणं चाऽऽचार्याणामेवाऽऽसीद् यैहि निष्पक्षतया दयाभावनया च केवलं विशुद्धं राजधर्मं कुमारपालद्वारा पालयितुमेव तत् कृतम् । अन्यच्च, सर्वेषामपि धर्मसम्प्रदायानामेतत् सर्वमपि हितकार्यत्वेन सम्मतमेवाऽस्ति । अत: 'कुमारपालं जैनधर्मिणं कर्तुं ततश्च राज्याश्रयं प्राप्तुं हेमचन्द्राचार्यैः सर्वमप्येतत् कृत'मिति ये मन्यन्ते तत् सर्वथाऽनुचितमेव ।
अन्यदा मध्यरात्रे करुणं विलपन्त्याः कस्याश्चित् स्त्रिया रोदनं श्रुत्वा कुमारपालो निद्रातो जागृतः, तदुःखं दूरीकर्तुं च स्वयमेव तामन्वेष्टुं गतः । नगराद् बहिर्गतेन तेन स्मशानभूमौ दृष्टं यत् काचित् स्त्री सरोदनं विलपन्त्यस्ति, अन्या च तां सान्त्वयन्ती तत्रैवोपविष्टाऽस्ति । तेन तत्र गत्वा रोदनकारणं पृष्टा सा कथितवती यद् - 'अपुत्राया अस्या भर्ता वाणिज्यार्थं देशान्तरं गतस्तत्रैव मृत - इति वार्ता ज्ञात्वैषा रोदिति' । कुमारपालेन पृष्टं - "किमर्थमेषाऽत्राऽऽगत्य रोदिति ननु ?' तयोक्तं - 'अद्याऽप्येषा वार्ता नाऽन्यैः कैश्चिज्ज्ञाता । यदि नगरे एवैषा रुद्यात् तदा सर्वैरपि ज्ञायेत, तथा च राजपुरुषैनियमानुसारमस्याः सर्वमपि धनं स्वायत्तीक्रियेत । अत एवैषाऽत्राऽऽगत्य रोदिति' । कुमारपालेन सहसा स्मृतं यद – 'अपुत्राया नार्या भर्तृमरणे सर्वमपि धनं - रुदतीवित्तमित्यभिधं - राज्यकोशे क्षिप्यते - इति हि सर्वत्र परम्परागतो नियमोऽस्ति' । तेन चिन्तितं – 'यदि सर्वमप्यस्या धनादिकं राजा गृह्णीयात् तदा कथमेषा स्वनिर्वाह कुर्यात् ? नूनमत्यन्तमयोग्योऽनुचितश्च नियमोऽस्त्ययम्' । ततो मनसैव तं नियममपाकर्तुं निश्चित्य तेन सा रुदती स्त्री भणिता - 'पुत्रि ! मा रोदीः । अहमेव सोऽभाग्यो राजा यस्य भयेन रोदिषि त्वम् । किन्तु मयाऽद्य तद् धनं त्यक्तुं निर्णीतमस्ति । अतः सुखेन गच्छ स्वगृहं, न कोऽपि त्वां कदाऽपि पीडयिष्यति' ।
ततो राजप्रासादमागत्य प्रातःकाले सर्वावसरे स्वयमेवोत्थाय घोषितं - 'अद्यप्रभति राज्यकोशे रुदतीवित्तं नैव पतिष्यति, मया हि तादृशं धनं सर्वथा त्यक्तमस्ति' । एनां घोषणां श्रुत्वा मन्त्रिभिरन्यैश्च राजपुरुषैर्बहु प्रतिकृतं किन्तु कुमारपालेन दृढतया स्वनिर्णयं ज्ञापयित्वा तत् त्यक्तमेव, प्रतिवर्षं च ततः प्राप्यमाणानि कोटिशो रूप्यकाणि त्यक्तानि । करुणापरीतचेतसस्तस्येदं वृत्तं ज्ञात्वा प्रसन्नीभूता आचार्यास्तं प्रशशंसुर्यथा -
न यन्मुक्तं पूर्वे रघु-नहुष-नाभागप्रमुखैः प्रभूतोर्वीनाथैः कृतयुगकृतोत्पत्तिभिरपि । विमुञ्चन् सन्तोषात् तदपि रुदतीवित्तमधुना कुमारक्ष्मापाल ! त्वमसि महतां मस्तकमणिः ॥
* अद्यत्वेऽपि गूर्जरराज्ये ६५% जनाः शाकाहारिणो राजस्थाने च ६०% जनाः ।
६८
Page #74
--------------------------------------------------------------------------
________________
रामचन्द्राचार्या अपि -
अपुत्राणां धनं गृह्णन् पुत्रो भवति पार्थिवः ।
त्वं तु सन्तोषतो मुञ्चन् सत्यं राजपितामहः ॥ इति तं स्तुवन्ति स्म । प्रजाकल्याणार्थं तेन विहितानामीदृशानां कार्याणां सर्वेऽपि जना हार्दा प्रशंसां कृतवन्तः । किन्तु बहवः सामन्ता राजपुरुषाश्च तं निर्बलहृदयं भीरुवृत्तिकं च मन्यन्ते स्म । एतच्च कुमारपालस्य ज्ञातमासीत् । अत एकदा राजपाट्यां व्रजन् स एकस्मिन् शस्त्राभ्यासक्षेत्रे सप्त कटाहान् क्रमशः उल्लम्बितान् दृष्ट्वा सहैव समागतान् सामन्तादीन् उद्दिश्य कथितवान् – 'किं कोऽप्यस्त्यत्र य एतान् सप्ताऽपि कटाहान् एकेनैवेषुणा समकमेव विध्यात् ?' तदा तैरुक्तं - 'प्रभो ! पूर्वं भवतः प्रपितामहो भीमदेवस्तन्महामात्यश्च विमलनामेति द्वावेवाऽऽस्तां यौ एतान् सप्ताऽपि कटाहान् स्वाप्रतिमबलेन विध्यतः स्मैकेनैवेषुणा । ततः परं न कोऽपि सञ्जातस्तादृशो बलवान् य एतत् कर्तुं समर्थो भवेत् । तदा कुमारपालेन समीपस्थसैनिकहस्तात् शर-धनुषी गृहीत्वा कथितं - ‘एवं वा? तहि पश्याम्यहं तावत्' । ततो वीरासनेनोपविश्य शरसन्धान कृत्वा विस्फारितनेत्राभ्यां सर्वेषु पश्यत्सु तेन तथा शरो मुक्तो यथा समकमेव सप्ताऽपि कटाहान् विद्ध्वा बहिनिर्गतः । एतद् दृष्ट्वा तं निर्बलं भीरुकं वा मन्यमानानां सर्वेषामपि मतं परावृतम् ।
एवंस्थिते कुमारपालं दयावत्त्वात् अहिंसापालकत्वात् व्यसनत्याजकत्वाच्च प्रायः सर्वे जना जैनाश्चाऽपि मन्यन्ते स्म सगौरवं यद् राजा जैनधर्मी जातोऽस्ति । किन्तु हेमचन्द्राचार्या ह्यत्र सर्वथा तटस्था आसन् । तेषां दृढं मतमासीद् यद् - यदि कश्चिदपि धर्मो राज्याश्रितो भवेत् तथा राजाऽपि तद्धर्मरक्तो भूत्वाऽन्यधर्माणामुपेक्षां कुर्यात् तदा यद्यपि प्रथमं स धर्मः सुतरां विस्तरेत् । परन्तु गच्छता कालेन सर्वनाशस्य पथ्येव तस्य गतिः । वस्तुतो धर्मस्याऽऽधारो जनताहृदयमस्ति न तु राजसिंहासनम् । एतत् तथ्यं यदि न स्वीक्रियेत तदा केवलं घर्षणमेवाऽवशिष्यते । राजभिराश्रयणीयो हि एक एव मूलधर्मः । स चाऽयं -
अहिंसालक्षणो धर्मो, मान्या देवी सरस्वती ।
ध्यानेन मुक्तिमाप्नोति, सर्वदर्शनसम्मतम् ।। यो राजेमं धर्मं सम्यक्तयाऽऽचरेत् तस्य न कस्याऽपि विरोधः सम्मुखीकर्तव्यो भवेत् कदाऽपि, प्रत्युत सर्वा एव प्रजास्तत्साह्यमेवाऽऽचरेत् ।
यथा हेमचन्द्राचार्याणां चिन्तनमासीत् तथैव तेषां वाण्यपि अद्भुताऽऽसीत् । ते यदा वदेयुस्तदा कोऽपि विरोधं कर्तं समर्थो नाऽऽसीत । तेषां कथने कदापि क्षद्रवस्तनां महत्त्वमेव न क्रियेत स्म ।
अथैकदा तेषां मुख्यशिष्यै रामचन्द्राचार्याभिधैस्तेभ्यः सूचितं – 'प्रभो ! महाराजः कुमारपालोऽधुना किञ्चिदिव जैनधर्मं प्रत्याकृष्टोऽस्ति । यद्येतस्याः परिस्थितेलाभं वयं गृह्णीयामस्तदा जैनानां तद्धर्मस्थानादीनां च प्रभूतानि कार्याण्युत्तमतया भविष्यन्ति' । एतन्निशम्य हेमचन्द्राचार्यैः कथितं - 'भोः ! मनुष्यस्य -
Page #75
--------------------------------------------------------------------------
________________
विचारशीलमनुष्यस्य जीवने तादृशः क्षण एकः समायात्येव यदा स क्षुद्रादपि क्षुद्रे जन्तावपि स्वस्मिन्निव
चैतन्याविर्भावं लक्षयेत्, लक्षयित्वा च तं जन्तुं स्वतुल्यमेव मन्येत, तथा तस्य पीडायां स्वयमेव पीडामनुभवेत्, तन्नाशे च स्वनाशमेव भावयेत् । इदमस्ति सर्वजीवेष्वात्मौपम्यमिदमेव चाऽऽत्मौपम्यमस्ति जैनत्वम् । अस्मिन् जैनत्वे न कस्याऽपि सम्प्रदायविशेषस्याऽधिकारोऽस्ति किन्तु सर्वेषां कृतेऽस्त्येतत् । जैनत्वमेतद् यदा हृदये प्रकटति तदैव मनुष्यो जैनो भवेत्, नाऽन्यथा । कुमारपालमहाराजहृदयेऽपि जैनत्वं प्रकटीभूतमस्तीदम् । यदि वयमेतज्जैनत्वं - तात्त्विकं जैनत्वं व्यापार्य तत्प्रति किञ्चिद् भौतिकं प्राप्तमिच्छेम तदाऽस्मादृशः क्षुद्रो न कोऽपि स्यात्' ।
गुरोर्वाचि रामचन्द्राचार्यैरलौकिकं सत्त्वमनुभूतम् । तत्र वृथा साम्प्रदायिकोऽहङ्कारो नाऽऽसीत् प्रत्युत केवलं शुद्धतत्त्वमेव धर्मतया परिगणितमासीत् । रामचन्द्राचार्याणामितोऽप्यग्रे वक्तुं सामर्थ्यं नाऽऽसीत् तथाऽपि साहसमवलम्ब्य तैः कथितं - 'यद्येवं तहि प्रभो ! वयं जैनधर्मविस्तारस्याऽवसरं नाशयिष्यामः' ।
एवं श्रुत्वाऽऽचार्यैर्वेदनापूर्णस्वरेण कथितं - 'भवन्तः सर्वेऽपि राजानं जैनधर्मं प्रत्याकृष्टं दृष्ट्वा हृष्यन्ति । इदमेव मे महद् दुःखकारणम् । कश्चन दरिद्रो जैनधर्मं स्वीकुर्याद् राजा वा कश्चन जैनधर्म स्वीकुर्यादित्यत्र को वा विशेषः ? राजा कदाचित् बहूनि मन्दिराणि बध्नीयादित्येव किल ! । अपि च, यः कोऽपि कञ्चिद्धर्मं स्वीकुर्यात् - तेनाऽपि किम् ? स यदि तं धर्मं यथार्थरीत्याऽवबुध्य तदाचरणे निरतो भवेत् तदैव तेन स धर्मः स्वीकृत इति गण्येत । यदि भवादृशा अपि ईदृशमेव मतं धारयथ तदाऽहं मन्ये यद् राज्ञो व्यक्तित्वस्याऽन्यायो भवति । पूर्वस्य केनचिदलौकिकपुण्येन तस्य हृदये जगत: सर्वेषामपि जीवानां प्रति आत्मौपम्यं प्रकटितमस्ति । सर्वानपि सूक्ष्मस्थूलजीवान् स प्रेम-दया-करुणादिभावैः पश्यत्यधुना। तस्य वृत्तिरपि धर्मं प्रत्यधिकाधिकं प्रह्वीभूताऽस्ति । एतत् सर्वं दृष्ट्वाऽहं तद्भमिकोचितं धर्मं मागं च दर्शयन्नस्मि, किन्तु सहैव तं तस्य कुलधर्मपालनेऽपि प्रेरयामि राजधर्मं प्रत्यपि जागरयामि । यतः केवलमस्माकं धर्मः किञ्चिद् विस्तरेदित्यर्थं समग्रेऽपि देशे घर्षणमसामञ्जस्यं च प्रवर्तयेयमित्येतावान् क्षुद्रो नैवाऽहम् । यतो राज्ञे यदि धर्मो रुचितोऽस्ति तदाऽन्येषामपि राजपुरुषादिभ्यो धर्मो रुचित एवेत्येवं मनितुं न किमपि कारणम् । सर्वेभ्योऽपि धर्मं रोचयितुं सामर्थ्यमस्मत्समीपे तु नास्त्येव । अतोऽस्माभिः केवलं समन्वयस्य समाधानस्य च मार्गे एवाऽग्रेसर्तव्यम् । तदैवाऽस्माभिर्वीतरागजिनेश्वराणां मार्ग उपशमभावश्च सम्यगाराधितः - इति वक्तुं शक्येत' ।
गुरूणां हृदयगहनान्निःसृतानीमानि वचनानि श्रुत्वा रामचन्द्राचार्याः स्तब्धीभूताः । तैश्चिन्तितं - 'नूनं परमगुरूणां देवचन्द्रसूरीणां सर्वेऽपि योगाध्यात्मभाव-निःस्पृहतादिगुणाः पूज्यगुरुवर्यैर्यथार्थतया सात्मीभावमानीताः सन्ति' । ततः परं तैः कदाऽपि गुरुभ्य एतदर्थं न निवेदितम् ।
इतश्चैकदा कुमारपालेन गुरवो विज्ञप्ताः – 'प्रभो ! तादृशं किञ्चित् सत्कार्यं मे आदिशन्तु यत्करणेन मे पातकानि नश्येयुरात्मा पवित्रो भवेत्, मम नाम चाऽमरं भवेत्' । एवं विज्ञप्तेः श्रवणेन सर्वेऽपि सभासदश्चिन्तितवन्तः - 'नूनमेते जैनाचार्या अद्य राजानं जैनधर्मस्थानमेव निर्मातुमुपदेक्ष्यन्ति' । सर्वे तेषां
७०
Page #76
--------------------------------------------------------------------------
________________
वचनं श्रोतुं सकर्णीभूता आसन् । तावता गुरवो मधुरवचोभिरुक्तवन्त: - 'राजन् ! भवतः प्रपितामहस्य भीमदेवस्य शासनकाले प्रभासतीर्थे स्थितस्य सोमनाथमहादेवमन्दिरं म्लेच्छैर्विनाशितमस्ति । समग्रदेशवासिनो हि तथाऽपि सोमनाथमहादेवस्य दर्शन-पूजाद्यर्थं पूर्णश्रद्धया निरन्तरं तत्र समागच्छन्ति सदाऽपि । यदि भवान् पुण्यमुपार्जितुममरत्वं प्राप्तुं पातकानि च नाशयितुमिच्छति तदा सोमनाथमहादेवमन्दिरस्य जीर्णोद्धारं कृत्वा नूतनमुत्तुङ्गं विशालं चैकं महादेवालयं निर्माय तत्र महामहेन सोमनाथमहादेवं प्रतिष्ठितं करोतु । भवतः सर्वोऽपि अभिलाष: पूर्णीभविष्यति सहैव कोटिशः श्रद्धालूनां भक्तिभावस्य पुण्यमपि प्राप्स्यते' |
गुरूणामुपदेशं श्रुत्वा कुमारपालोऽतीव प्रसन्नो जातः, सभासदश्च सर्वेऽपि नितरां विस्मिता जाता:। सोमनाथस्य मुख्यार्चकोऽन्ये च येऽपि जना आचार्यान् जैनेतरद्वेषिणो मन्यन्ते स्म मात्सर्यं च धरन्ति स्म तेऽपि ससन्तोषमाचार्याभिमुखा जाताः । आचार्यैश्च राजामात्य -सेनापति-नागरजनप्रमुखेभ्यः सर्वेभ्योऽपि यावत् सोमनाथमहादेवस्य प्रतिष्ठा न सम्पद्येत तावन्मद्य - मांसादीनां त्यागस्य प्रतिज्ञा कारिता । कुमारपालेन सपद्येव तदङ्गीकृत्य सोमनाथ-महादेवमन्दिरस्य मूलशिल्पिनोऽन्वये जातः शिल्पी अन्वेषितस्तस्य च प्रभासतीर्थक्षेत्रे यथाशीघ्रं नूतनं सोमनाथमहादेवमन्दिरं निर्मातुमनुरुद्धवान् । मन्दिरनिर्माणार्थं च कुमारपालेन राज्यकोशाद् विपुलं धनमर्पितम् । यदा च देशजनैर्जीर्णोद्धारवृत्तमिदं ज्ञातं तदा तैरपि पूर्ण श्रद्धया भक्त्या च यथाशक्ति धनमर्पितम् । शिल्पिनाऽपि राज्ञो देशजनानां च भक्त्या श्रद्धया च प्रोत्साहितेन शीघ्रमेव नूतनं रमणीयं विशालं च मन्दिरं निर्मितम् । ततो राज्ञा मन्दिरस्य मुख्यार्चकादिभिश्चर्चयित्वा ज्यौतिषिकैः प्रतिष्ठादिन-मुहूर्त-लग्नादि निर्णीतमुद्धोषितं च सर्वत्र 'सोमनाथमहादेवप्रतिष्ठार्थं सर्वैरपि प्रभासतीर्थे समागन्तव्य'मिति । ततस्तेन हेमचन्द्राचार्येभ्योऽपि प्रतिष्ठायामागमनार्थं विज्ञप्तिः कृता तैश्च सहर्षं स्वीकृत्य कथितं – ‘भवान् सपरिवारस्तत्र प्राप्नोतु वयं तु शत्रुञ्जयादितीर्थयात्रां कृत्वा समागमिष्यामः' । एतज्ज्ञात्वा तु सर्वेभ्योऽपि तद्विरोधिभ्योऽधिकमाश्चर्यं सञ्जातम् ।
ततो यथाकालं सर्वेऽपि राजामात्यादयः सपरिवारास्तत्र प्राप्ताः । आचार्या अपि पादचारेण तीर्थयात्रां कुर्वाणाः प्रतिष्ठाकाले तत्रोपस्थिताः । एतेन भावबृहस्पति - विश्वेश्वरकवि-प्रमुखा अतीव प्रसन्ना जाता: । वैक्रमे १२११तमे संवति महामहेनैषा प्रतिष्ठा जाता । तदा च हेमचन्द्राचार्यैर्भावबृहस्पत्यादिभिः सह शिवपुराणवर्णितविधिना महादेवस्य आह्वाना - ऽवगुण्ठन-मुद्रान्यास - विसर्जनादि कृत्वा तत्प्रतिष्ठा कृता। ततो *महादेवद्वात्रिंशिकयाऽन्यैश्च स्तोत्रैर्भावपूर्णा स्तुतिरपि विहिता - यथा -
त्रैलोक्यं सकलं त्रिकालविषयं सालोकमालोकितं साक्षाद् येन यथा स्वयं करतले रेखात्रयं साङ्गुलि । राग-द्वेष-भयामयान्तक-जरा-लोलत्वलोभादयो नाऽलं यत्पदलङ्घनाय स महादेवो मया वन्द्यते ॥
* महादेवद्वात्रिंशिकाऽत्रैव ग्रन्थेऽन्यत्र प्रदत्ताऽस्ति ।
७१
Page #77
--------------------------------------------------------------------------
________________
यो विश्वं वेद वेद्यं जननजलनिधेर्भङ्गिनः पारदृश्वा पौर्वापर्याविरुद्धं वचनमनुपमं निष्कलङ्कं यदीयम् । तं वन्दे साधुवन्द्यं सकलगुणनिधि ध्वस्तदोषद्विषन्तं
बुद्धं वा वर्धमानं शतदलनिलयं केशवं वा शिवं वा ।। भवबीजाङ्करजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥
यत्र तत्र समये यथा तथा, योऽसि सोऽस्यभिधया यया तया ।
वीतदोषकलुषः स चेद् भवान्, एक एव भगवन्नमोऽस्तु ते ॥ इत्यादि ।। एतदवसरानन्तरं भावबृहस्पत्यादीनां सर्वेषामपि हेमचन्द्राचार्यान् प्रति हार्दो बहुमानभावः सञ्जातः ।
अथ च ततः प्रतिनिवृत्ताः सर्वेऽपि यथाकालं पत्तनं समागताः । ततो राज्ञा आचार्येभ्यो विज्ञप्तं - 'प्रभो ! अहं योगमार्गमभ्यसितुमिच्छामि । यदि मयि योग्यता स्यात् तर्हि कृपयोपदिशन्तु' । तदा गुरुभिरपि तत्प्रार्थनं स्वीकृत्य योगशास्त्रं विरचितं स्वयमेव च समग्रमपि तद् राज्ञः शिक्षितम् । द्वादशप्रकाशमयेऽस्मिन् योगशास्त्रे मार्गानुसारितागुणाः यम-नियमादियोगाङ्गानि श्रावकयोग्यद्वादशव्रतानि च सविस्तरं वर्णितानि सन्ति । ततस्तथैव तस्य भक्तिमार्गारार्धनार्थं विंशतिप्रकाशमयो वीतरागस्तवोऽपि विरचित आचार्यः । एतान् द्वात्रिंशदपि प्रकाशान् प्रत्यहं प्रातःकाले भणित्वैव कुमारपालोऽन्न-जलादिकं गह्णाति स्म । एवं च योगशास्त्रस्य सततमभ्यासेन योगमार्गे सोऽग्रेसरोऽभवत् स्ववंशपरम्पराक्रमागतं (Heridity) लूतारोगमपि च योगाभ्यासेन शमितवान् ।
गुरुमुखाद् धर्मशास्त्राणां निरन्तरं श्रवणेनाऽन्यदा कुमारपालस्य हृदये श्रावकयोग्यानि द्वादशव्रतानि ग्रहीतुं भावना जागृता । तेन चाऽऽचार्येभ्यस्तदर्थं निवेदनं कृतम् । तैरपि तदुचितं मत्वा शुभदिने चतुर्मुखजिनेश्वरप्रतिमासम्मुखं तस्मै विधिपूर्वकं व्रतानि प्रदत्तानि सहैव परमार्हत-इति बिरुदमपि प्रदत्तम् । ततस्तस्योद्यापनरूपेण तेन गुरूपदेशात् स्वनगरे कुमारविहारनामकं जिनमन्दिरं कुमारपालेश्वरमहादेवमन्दिरं चाऽपि निर्मापितं तत्प्रतिष्ठा च कारिता ।
एकदा गुरुभ्यः केनचिन्निर्धनश्रावकेण हार्दभावनया हस्तव्यूतमेकं स्थूलवस्त्रं प्रदत्तं, तच्च परिहितं गुरुभिः । तदा तत्राऽऽगतेन कुमारपालेन तद् दृष्ट्वा गुरुभ्यो विज्ञप्तं - 'प्रभो ! किमित्येतादृक्वस्त्रधारणम् ?' गुरुभिरुक्तं - 'राजन् ! अस्माकं त्वयमेव धर्मो यद् निर्दोषं वस्त्रान्न-पानादि यत्र यतो वा प्राप्यते तद् ग्रहीतव्यम् । परमत्र भवता किञ्चिच्चिन्तनीयं वर्तते यद् भवद्राज्ये एतादृशो निर्धनाः कियन्तः सन्तीति । एकतो धनवतां पार्वे कियद् धनमस्ति तस्य गणनैव नास्ति, अन्यतश्चैतादृशा जना अपि सन्ति ये प्रायो दिने एकवारमेव भोक्तुं कष्टेन लभन्ते । ईदृशां दुर्गतानां धारण-पोषणादि राज्ञः कर्तव्यं भवति । भवता स्वकर्तव्यं सम्यङ् निभालनीयम्' गुरूपदेशं श्रुत्वा करुणाभृतचेतसा नृपेण दीन-दुर्गतानां
७२
Page #78
--------------------------------------------------------------------------
________________
जीवनस्तरमूर्वीकर्तुं पूर्णतया प्रयतितं तत्र च साफल्यमपि प्राप्तम् ।
एवं चाऽनेकानेकसुकृत्यकरणेन कुमारपालस्य पुण्यानि तादृक्प्रबलानि जातानि यत् तस्य शासनकाले समग्र देशे न कदाऽपि दुर्भिक्षादीनि व्यसनानि सञ्जातानि नाऽपि च मार्यादि रोगा उत्पन्ना नैव च कोऽपि दुःखितः स्थितः । एतच्च हेमचन्द्राचार्याः स्वयमेव स्वविरचितायामभिधानचिन्तामणिनाममालायां कथयन्ति यथा -
कुमारपालश्चौलुक्यो राजर्षिः परमार्हतः ।
मृतस्वमोक्ता धर्मात्मा मारि-व्यसनवारकः ॥ ३/३७६) तथा सोमप्रभाचार्या अप्याहुः -
स्वचक्रं परचक्रं वा नाऽनर्थं कुरुते क्वचित् ।
दुर्भिक्षस्य न नामाऽपि श्रूयते वसुधातले ॥ मोहराजपराजयनाटके मन्त्री यशःपालोऽप्याह -
पद्मासद्म कुमारपालनृपतिर्जज्ञे स चन्द्रान्वयी जैन धर्ममवाप्य पापशमनं श्रीहेमचन्द्राद् गुरोः । निर्वीराधनमुज्झता विदधता द्यूतादिनिर्वासनं
येनैकेन भटेन मोहनृपतिजिग्ये जगत्कण्टकः ॥ इत्यादि ।। अथाऽन्यदा गुरूपदेशेन कुमारपाल: पादचारेण तीर्थयात्राः कर्तुकामो यात्रासङ्घमायोजितवान् । सहस्रशो जना अत्र सङ्के समागताः । गुरवोऽपि स्वीयसाधुवृन्देन सह समागताः । प्रथमं तैः शत्रुञ्जयतीर्थस्य यात्रा कृता । तत्र च गुरुभिः प्रथमतीर्थकृतः श्रीऋषभदेवप्रभोः सम्मुखं स्थित्वा महाकविधनपालविरचिता ऋषभपञ्चाशिका स्तुतिरूपेण गीता । तदा कुमारपालेनोक्तं - 'प्रभो ! भवन्तः स्वयमेव विरचितानि स्तुत्यादीनि किमर्थं न गायन्ति ?' तदाऽऽचार्यैरुक्तं - 'राजन् ! धनपालसदृशं सद्भक्तिगभितं स्तवनं नाऽस्माभिविरचयितुं शक्यम्' । तेषामीदृशीं विनम्रतां दृष्ट्वा कुमारपालोऽन्ये च सर्वथाऽभिभूताः सञ्जाताः । तैरनुभूतं यन्नेदमौपचारिकं नम्रत्वमपि तु वास्तविकमेव । ततस्ते भक्तिभृतचेतसा उज्जयन्तगिरेः प्रभासादिक्षेत्राणां च यात्राः कृत्वा स्वनगरं समागताः ।
अथ 'काव्यशास्त्रविनोदेन कालो गच्छति धीमता'मिति सुभाषितानुसारं प्रायशो राजानः स्वप्रशस्तिकाव्यानां श्रवणेन शृङ्गारिकश्लोकानां पठनादिभिश्च विनोदं प्राप्य कालं गमयन्ति । किन्तु कुमारपालनपाय नैतत् सर्वं रोचते स्म । इतो हेमचन्द्राचार्या अपि स्वाध्याय-साहित्यसर्जनादिषु मग्ना कालं वृथा यापयितुं सज्जा नाऽऽसन् । अतः कुमारपालेन तेभ्यो विज्ञप्तं – 'प्रभो ! भवद्भिर्मयि बहूपकृतमस्ति । * अन्यत्राऽपि ते वदन्ति – क्व सिद्धसेनस्तुतयो महार्था अशिक्षितालापकला क्व चैषा? || तथा - क्वाऽहं पशोरपि पशुर्वीतरागस्तव:
क्व च । उत्तित्तीर्घरण्यानी पद्भ्यां परिवाऽस्म्यतः ॥ सिद्धहेमव्याकरणेऽपि कथयन्ति ते - अनुसिद्धसेनं कवयः, उपोमास्वाति सङ्ग्रहीतारः - इत्यादि।
७३
Page #79
--------------------------------------------------------------------------
________________
अधुनाऽन्यमप्युपकारं कुर्वन्तु । कृपया मत्कृते तीर्थकर - चक्रवर्ति-वासुदेव-प्रतिवासुदेव - बलदेवादीनां चरितानि संसृजन्तु यत्पठनेन मे कल्मषाणि विनश्येयुः' । तदा हेमचन्द्राचार्यैस्तस्य प्रार्थना स्वीकृता, सरसया सरलया मधुरया गिरा च त्रिषष्टेरपि पूर्वोक्तानां महापुंसां चरितानि निबद्धानि तानि च त्रिषष्टिशलाकापुरुषचरित - महाकाव्यमिति प्रसिद्धानि । अत्राऽर्थे च ते स्वयमेवोचुर्यथा
-
जिष्णुश्चेदि - दशार्ण - मालव- महाराष्ट्रापरान्तान् कुरूसिन्धूनन्यतमांश्च दुर्गविषयान् दोर्वीर्यशक्त्या हरिः । चौलुक्यः परमार्हतो विनयवान् श्रीमूलराजान्वयी तं नत्वेति कुमारपालपृथिवीपालोऽब्रवीदेकदा ॥ पापर्द्धि- द्यूत-मद्यप्रभृति किमपि यन्नारकायुर्निमित्तं तत् सर्वं निर्निमित्तोपकृतिकृतधियां प्राप्य युष्माकमाज्ञाम् । स्वामिन् ! ऊर्व्यां निषिद्धं धनमसुतमृतस्याऽथमुक्तं तथाऽर्हच्वैत्यैरुत्तंसिता भूरभवमिति समः सम्प्रतेः सम्प्रतीह ||
पूर्वं पूर्वजसिद्धराजनृपतेर्भक्तिस्पृशो याच्ञया साङ्गं व्याकरणं सुवृत्तिसुगमं चक्रुर्भवन्तः पुरा । मद्धेतोरथ योगशास्त्रममलं लोकाय च द्वयाश्रयच्छन्दो-ऽलङ्कृति-नामसङ्ग्रहमुखान्यन्यानि शास्त्राण्यपि ॥
लोकोपकारकरणे स्वयमेव यूयं, सज्जा: स्थ यद्यपि तथाऽप्यहमर्थयेऽदः । मादृग्जनस्य परिबोधकृते शलाका-पुंसां प्रकाशयत वृत्तमपि त्रिषष्टेः ॥ तस्योपरोधादिति हेमचन्द्राचार्यः शलाकापुरुषेतिवृत्तम् । धर्मोपदेशैकफलप्रधानं, न्यवीविशच्चारु गिरां प्रपञ्चे ॥
(त्रिषष्टिशलाकापुरुषचरितमहाकाव्य - प्रशस्तिः ॥ )
ततः कुमारपालेनाऽपि महाग्रन्थस्यैतस्याऽन्येषामपि हेमचन्द्राचार्यविरचितानां ग्रन्थानां कृते भूि व्ययं कृत्वा देश-विदेशेभ्यस्तालपत्राणि आनायितानि तेषु च सर्वेषामपि ग्रन्थानां बह्वयः प्रतिकृतयो लेखयित्वा एकविंशतिर्ज्ञानकोशाः कारिताः, विविधमहानगरेषु च प्रेषिताः ।
एवं तेनाऽन्यान्यपि बहूनि सत्कार्याणि कृतानि यथा - स्वराज्ये प्रजानां सर्वाण्यपि शुल्कग्रहणानि निषिद्धानि, निरन्तरं दानशाला: प्रवर्तिताः, स्वपूर्वजैः कारितानां देवालयानां जीर्णोद्धाराः, प्रभूतनूतनमन्दिरनिर्माणं च, तारणदुर्गे चाऽतिविशालजिनालयस्य निर्माणमित्यादि कृतम् । तथा तस्य मनसि सर्वानपि दीनदुर्गतादिजनान् सुखीकर्तुं हार्दी भावनाऽऽसीत् साऽपि तेन यथाशक्ति पूर्णीकृता । हेमचन्द्राचार्या अपि
* अद्याऽपि समग्रे राज्ये विशालतयाऽद्वितीयमिदं जिनमन्दिरं गूर्जरराज्ये तारणगिरौ विराजते ।
७४
Page #80
--------------------------------------------------------------------------
________________
कुमारपालस्य सत्कार्यैः प्रसन्नीभूताः सततं तं यथोचितं प्रेरणं ददति स्म ।
वैक्रमे १२२३ तमे संवति भृगुकच्छनगरे आम्रभट्टमन्त्रिणा निर्मापितस्य शकुनिकाविहाराख्यजिनालयस्य प्रतिष्ठा हेमचन्द्राचार्यैः कृता । तदवसरे च राजा सर्वेऽपि च मन्त्रि-सामन्तादय उपस्थिता आसन् । प्रतिष्ठामहोत्सवोऽपि चाऽऽम्रभट्टेनाऽत्यन्तमुल्लसितहृदयेन भूरिद्रव्यव्ययं कृत्वा कृतः । तदा तस्याऽतीवोत्साहमुल्लासं च दृष्ट्वा नगरवास्तव्या सिन्धुदेवी तस्योपरि कुपिता सती तं विविधोपद्रवैः पीडयितुमारब्धा । तेन स मृतप्रायो जातः । तस्य परिवारजना बहु चिन्तिता जाताः । तदा केनचित् हेमचन्द्राचार्येभ्यो वृत्तमेतत् कथयितुं सूचितम् । परिवारजनैराचार्येभ्यस्तन्निवेदितम् । शीघ्रमेव चाऽऽचार्यैस्तत्र समागत्य स्वयोगबलेन सा सिन्धुदेवी निगृहीता, नियन्त्रिताऽऽम्रभट्टं च मोक्तुमादिष्टा । साऽपि तेषां तेजोऽसहमाना सद्य एवाऽऽम्रभट्ट मुक्त्वा स्वस्थान गतवती । ततो यथोचितमुपचारेराम्रभट्टः स्वस्थो जातः।
___ तदनन्तरं, कुमारपालेन स्वनगरे केचन जिनालया निर्मापिता आसन् । तेषां प्रतिष्ठा वैक्रमे १२२८तमे संवति कृता । तत्र च शुभमुहूर्त-लग्नादिवेलां साधयितुं हेमचन्द्राचार्यैः स्वशिष्यो बालचन्द्राख्यो घटीयन्त्रं दत्त्वोपवेशित आसीत् । किन्तु गुरुद्रोहिणा तेन स्वीयमर्थं साधयितुं लग्नवेलातः पूर्वमेव कथितं यद् - 'लग्नवेला समागते'ति । ततश्चाऽऽचार्यैर्मन्त्रोच्चारणपूर्वं तत्क्षणमेव प्रतिष्ठा कारिता । तदैव च वटपद्रात् कानजीनामा श्रेष्ठी धावन्नेव समागतः प्रतिष्ठां च समर्थितां दृष्ट्वाऽऽचार्यपादयोविलग्य विलपितुं प्रवृत्तो यथा - 'प्रभो ! मे प्रतिमायाः प्रतिष्ठा नैव जाते'ति । तदा शीघ्रमेवाऽऽचायैर्बहिरागत्य नभसि दृष्टिपातः कृतो ज्ञातं च - 'लग्नवेला त्विदानीमेव समायाते'ति । 'बालचन्द्रेण च स्वार्थसाधनाय मृषैव कथितमासी'दिति । तैर्झटिति तं श्रेष्ठिनं सान्त्वयित्वा तत्प्रतिमायाः प्राणप्रतिष्ठा कृता कथितं च - 'अस्य श्रेष्ठिनः प्रतिमायाः प्रतिष्ठाऽत्यन्तं शुभलग्ने सञ्जाताऽस्त्यत एषा चिरकालस्थायिनी । पूर्वं कृता तु प्रतिष्ठा न तथा चिरकालस्थायिनी । मन्ये दैवेच्छेयमेवाऽस्ती'ति ।
एतादृशाः प्रसङ्गास्त्वेतेषां जीवने बहवः समायाताः किन्तु तैः सर्वदाऽपि समतया समाधिना स्वस्थतया चैव व्यवहृतम् । एष हि तेषामस्तित्वेन सहाऽऽत्मसाद्भूतानां योगाध्यात्मादीनां प्रभाव आसीत् ।
अथ च सिंहावलोकनेन तेषां जीवनं विलोक्येत तदा ज्ञायते यद् - निजं समग्रमपि जीवनं तैर्नित्यनूतनसाहित्यसृष्टौ श्रुतोपासनायां च व्ययितम् । सहैवाऽन्तर्मुखताया योगाध्यात्मादीनां च साधनाऽपि निरन्तरं प्रवर्तमानाऽऽसीत् । तेषां ध्येयमासीत् भवबीजाङ्करजनकानां रागादीनां नाशः । तदर्थमेव च जीवनस्य प्रतिक्षणं प्रयतितं तैः । तेन च तेषां जीवनस्य प्रत्येकं क्षणः शुद्धानन्देन सात्त्विकप्रसन्नतया चैव व्यतीतः । तेषां संयमे साधुजीवने नित्यक्रियासु च तादृशं शौर्यं पराक्रमश्चाऽऽसीत् यादृशं ह्यपूर्वरणरसेन शत्रुणा सह युध्यमानस्य शूरयोधस्य कस्यचित् स्यात् । तैर्हि स्वीयामोघवाचा प्रायः सार्धलक्षं जनाः जैनधर्ममङ्गीकारिताः । एतादृशलोकसङ्ख्याबलेन ते हि कञ्चन नूतनसम्प्रदायं स्वकीयं गच्छं वा संस्थापयितुं समर्था आसन् । किन्तु तदर्थमावश्यकी महत्त्वाकाङ्क्षा तेषां नाऽऽसीत् नाऽपि च क्षुद्रता तुच्छता च ।
Page #81
--------------------------------------------------------------------------
________________
ते तु सर्वथा समत्ववन्तः स्थितप्रज्ञा विरागिनो ज्ञानिनश्चाऽऽसन्, ततश्च तेषां जीवने तादृश्येकाऽपि प्रवृत्तिर्न विलोक्यते यया स्वल्पमपि चित्तदौर्बल्यं प्रकटीभवेत् । तेषां जीवनसार्थक्यं त्वेकमेवाऽऽसीत् - स्वपरौन्नत्यम् । तीर्थकराणामुपदेशमनुसृत्य स्वयं परे च जना स्वजीवनमुन्नतं कुर्युस्तेन च तीर्थकरमार्ग तीर्थकरशासनं च प्रोज्ज्वलं कुर्युरित्येव तेषां हार्दोऽभिलाष आसीत् ।
एतादशेनाऽऽन्तरगणवैभवेन कबेरायमाणानां तेषां बाह्यः शारीरवैभवोऽपि प्रशस्तो योगसाधनया तपसस्तेजसा च देदीप्यमान आबाल-वृद्धानां च सर्वेषामाकर्षणकारणमासीत् । अत्राऽर्थे च तेषामेव समकालीनाः श्रीसोमप्रभाचार्यास्तान् यथादृष्टं यद् वर्णयन्ति तदेव पर्याप्तम् -
*तुलियतवणिज्जकंती सयवत्तसवत्तनयणरमणिज्जा । पल्लवियलोयलोयण-हरिसप्पसरा सरीरसिरी ॥१॥ आबालत्तणओ वि हु, चारित्तं जणियजणचमक्कारं । बावीसपरिसहसहण-दुद्धरं तिव्वतवप्पवरं ॥२॥ मुणियविसमत्थसत्था निम्मियवायरणपमुहगंथगणा । परवाई पराजयजायकित्ती मई जयपसिद्धा ॥३॥ धम्मपडिवत्तिजणणं अतुच्छमिच्छत्तमुच्छिआणं पि । महु-खीरपमुहमहुरत्तनिम्मियं धम्मवागरणं ॥४॥ इच्चाइगुणोहं हेमसूरिणो पेच्छिऊण छेयजणो ।
सद्दहइ अदिढे वि हु तित्थंकरगणहरप्पमुहे ॥५।। इत्यादि । ततश्च ये जनाः सर्वथा नास्तिकतया तीर्थकर-गणधरादिमहापुरुषाणामस्तित्वमासीत् पुरा - इति न मन्यन्ते स्म तेऽपि हेमचन्द्राचार्याणां भव्यव्यक्तित्वस्य दर्शनं कृत्वा सर्वथाऽऽस्तिका भवन्ति स्म - 'अस्मिन् कलिकालेऽपीदृशा महापुरुषा यदि विद्यन्ते तर्हि पूर्वं तीर्थकर-गणधरादयो महापुरुषा अवश्यं सञ्जाता एवे'ति श्रद्दधति स्म च ।।
अथाऽत्र जगति जातानां केषाञ्चिज्जन्म भव्यं भवति, श्रेष्ठतया जीवितानां केषाञ्चिज्जीवनमपि भव्यं भवति, सहजतया च सर्वमपि त्यक्त्वा परलोकं सञ्चरतां केषाञ्चिन्मृत्युरपि महोत्सवायते । किन्तु त्रयेऽपि जन्म-जीवन-मृत्यवः केषाञ्चिद् विरलानामेव भव्या भवन्ति । हेमचन्द्राचार्या ह्येतेषां विरलानामन्यतमा आसन् । उत्तमतया जन्म गृहीत्वा स्वपरकल्याण एव च जीवन व्यतीत्य चतुरशीतिवर्षायुष्काणां तेषां स्वर्गमनकालः सन्निहित आसीत् । तैर्हि पूर्वमेव स्वमरणसमय: शिष्याणां कुमारपालस्य च कथित * तुलिततपनीयकान्तिः, शतपत्रसपत्ननयनरमणीया । पल्लवितलोकलोचन-हर्षप्रसरा शरीरश्रीः ॥१॥
आबालत्वतोऽपि खलु, चारित्रं जनितजनचमत्कारम् । द्वाविंशतिपरीषहसहनदुर्धरं तीव्रतपःप्रवरम् ॥२॥ ज्ञातविषमार्थसार्था, निर्मितव्याकरणप्रमुखग्रन्थगणा । परवादिपराजयजातकीर्तिः मतिर्जगत्प्रसिद्धा ॥३॥ धर्मप्रतिपत्तिजननमतुच्छमिथ्यात्वमूच्छितानामपि । मधु-क्षीरप्रमुखमधुरत्वनिर्मितं धर्मव्याकरणम् ॥४॥ इत्यादिगुणौघं हेमसूरेः प्रेक्ष्य छेकजनः । श्रद्धधाति अदृष्टानपि खलु तीर्थकर-गणधरप्रमुखान् ॥५।। (कुमारपालप्रतिबोध:)
७६
Page #82
--------------------------------------------------------------------------
________________
आसीत् । एतच्च ज्ञानं तेषां योगाभ्यासस्य फलमासीत् । जीवनेऽजितानां सकलानामपि सिद्धीनां परीक्षा मृत्युकाल एव भवति । हेमचन्द्राचार्या हि तदर्थं सर्वथा सन्नद्धा आसन् ।
निश्चितदिने तैः शिष्यगणः कुमारपालः सकलसङ्घश्च स्वस्थाने एकत्र कृतः । सर्वेऽपि तत्प्रयोजनं जानन्ति स्मैव । अतः सर्वेऽप्युदासाः शोकमग्नाश्चाऽऽसन् । शिष्यवृन्दं स्तब्धतयैकतः स्थितमासीत् । राजाऽपि गुरुचरणयोर्मस्तकं नामयित्वोपविष्ट आसीत् । सङ्घश्च सजलनेत्र आसीत् । गुरुभिः सर्वेऽपि सप्रेमदृष्ट्या निरीक्षिताः सम्भाषिताश्च । शिष्याणामपि भवबीजाङ्करनाशार्थं साधनमाराधनं च कर्तुमनुशिष्टम् । ततो राज्ञे कथितं – 'राजन् ! भवान् कुलपरम्परया परममाहेश्वरो धर्माचरणेन च परमार्हतो भूत्वाऽपि जीवने परममानवोऽपि सञ्जातः । भवता निजजीवनं सफलीकृतमस्ति । अतः शोकं मा कार्षीत् । किञ्च, भवतो गमनकालोऽपि केवलं षण्मासावशिष्ट एव । अतोऽधिकाधिकसत्कार्याणि कृत्वा मरणं सफलीकरोतु' ।
ततस्तैः शिष्यगणेन नृपेणाऽन्यैश्च सह नम्रतया क्षमायाचनं कृतम् । सकलजगज्जीवैः सहाऽपि क्षमायाचनं कृतं, यथा -
क्षमयामि सर्वान् सत्त्वान्, सर्वे क्षाम्यन्तु ते मयि ।
मैत्र्यस्तु तेषा सर्वेषु त्वदेकशरणस्य मे ॥ अर्हत्सिद्ध-साधु-धर्मस्वरूपचतुःशरणं स्वीकृतं -
त्वां त्वत्फलभूतान् सिद्धांस्त्वच्छासनरतान् मुनीन् ।
त्वच्छासनं च शरणं प्रतिपन्नोऽस्मि भावतः ॥ ततः शुद्धात्मस्वरूपे लयं प्राप्तानां तेषां मुखान्मृदु-मधुरस्वरेण श्लोकावलिः प्रस्फुटिता -
न शब्दो न रूपं न रसो नाऽपि गन्धो न वा स्पर्शलेशो न वर्णो न लिङ्गम् । न पूर्वापरत्वं न यस्याऽस्ति सञ्जा स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ आत्मन् ! देवस्त्वमेव त्रिभुवनभवनोद्योतदीपस्त्वमेव ब्रह्मज्योतिस्त्वमेवाऽखिलविषयसमुज्जीवनायुस्त्वमेव । कर्ता भोक्ता त्वमेव व्रजसि जगति च स्थाणुरूपस्त्वमेव
स्वस्मिन् ज्ञात्वा स्वरूपं किमु तदिह बहिर्भावमाविष्करोमि ? || इत्यादि । शनैः शनैस्तेषां नेत्रे परमशान्तौ निमग्ने इव निमीलिते । वदनं तेजसा प्रोल्लसितम् । निर्दिष्टे च क्षणे शद्धस्वरूपानुसन्धाने लीनानां तेषां प्राणा योगप्रक्रियया ब्रह्मरन्ध्रान्निर्गताः । गर्जरदेशस्य संस्कारनेतारो महातपस्विनः परमसंयमवन्तोऽनन्यसाधारणविद्वांसो महानृपतिद्वयप्रतिबोधकाः समर्थसाधवश्च श्रीहेमचन्द्राचार्याः स्वर्गभुवमलञ्चक्रुः । एतच्च वैक्रमे १२२९तमे संवति घटितम् ।
७७
Page #83
--------------------------------------------------------------------------
________________
तेषामन्तिमयात्रायां लक्षशो जना उपस्थिता आसन् । चन्दनकाष्ठमयचितायां तेषां पार्थिवदेहस्याऽग्निसंस्कारो जात: । तदनन्तरं कुमारपालेन राज्ञा सबाष्पनेत्रेण तद्भस्मना तिलकं कृतम् । ततः सर्वैरपि जनैस्तत्रोपस्थितैस्तद्भस्म गृहीतम् । एतेन तत्र स्थाने महान् गर्त एव सञ्जातः, स चाऽद्याऽपि पत्तननगरे विद्यते 'हेमैंखाड’ इति नाम्ना प्रसिद्धश्चाऽस्ति ।
-
तदनन्तरं षण्मासान्ते कुमारपालनृपोऽपि हेमचन्द्राचार्यनिर्दिष्टदिने परमात्मतत्त्वलीनहृदयो गुरुभिः कृतानामुपकाराणां स्मरणं कुर्वन्, यथा -
श्रीहेमसूरिप्रभुपादपद्मं वन्दे भवाब्धेस्तरणैकपोतम् । ललाटपट्टान्नरकान्तराज्याक्षरावलिर्येन मम व्यलोपि ॥ इत्यादि,
प्रसन्नचित्तः कृतजगज्जीवमैत्रीभावः स्वभ्रातृजेनाऽजयपालेन कृताद् विषप्रयोगान्मर्त्यदेहमिमं त्यक्त्वा स्वर्लोकं प्राप्तः ।
अथ चैतत् चरितमिह समाप्तं भवति । किन्तु विरामात् पूर्वं काचित् स्पष्टता कर्तव्या । कलिकालसर्वज्ञानां श्रीहेमचन्द्राचार्याणां सम्पूर्णं जीवनचरितं कुत्राऽपि वर्णितं न प्राप्यते । विविधग्रन्थेषु केवलं याः काश्चन घटना: प्रसङ्गाश्च प्राप्यन्ते तानेव गुम्फित्वाऽत्र किञ्चिद् वर्णितमस्ति । तत्राऽपि च तेषामेव समकालीनैः श्रीसोमप्रभाचार्यैः कुमारपालप्रतिबोध: - नाम प्राकृतभाषामयो ग्रन्थो विरचितोऽस्ति, स च हेमचन्द्राचार्यशिष्यैरेव संशोधितोऽस्त्यतः सर्वथा प्रामाणिकोऽस्तीति तदनुसारमेव तेषां जन्मादिप्रसङ्गा वर्णिताः सन्ति । तथैव केषुचित् प्रबन्धेषु बहवश्चमत्कारपूर्णप्रसङ्गा अपि हेमचन्द्राचार्यानाश्रित्य वर्णिताः सन्ति । तेऽत्र चरिते नैव समाविष्टाः । अपि च, गूर्जरदेशनृपतेः सिद्धराजजयसिंहस्य कुमारपालस्याऽपि चरितप्रसङ्गाः केचनाऽत्र हेमचन्द्राचार्यचरिते समाविष्टाः सन्ति, यतस्तेषां त्रयाणामपि महापुरुषाणां जीवनान्यन्योन्यसम्मीलितानि पृथक्कर्तुं च नैव शक्यानि ।
किञ्च, पाश्चात्यविदुषा बुलर - इत्यनेनाऽन्यैश्च कैश्चित् तेषां जीवनप्रसङ्गाः लिखिताः सन्ति । किन्तु ते सर्वेऽपि विद्वांसः प्रायो जैनपरम्पराया जैनसाध्वाचाराणां चाऽनभिज्ञाः आसन् । अतस्तैः स्वमतिकल्पनया तत्र तत्र यत्किञ्चिदसमञ्जसं वर्णनं कृतम् । तच्चेह सर्वथा नाऽऽदृतम् ।
प्रान्ते मम मनोगतभावान् प्रकटीकृत्य समर्थयामि । एतच्चरितालेखने मां प्रवर्तयितृभिमर्म पूज्यगुरुवर्यैर्बहून् ग्रन्थानर्पयित्वा महत्त्वपूर्णवृत्तानि च कथयित्वा भृशमुपकृतोऽस्मि । अतो नितरां तेषामृणभारं धारयामि । चरितालेखनव्याजेन सर्वानपि ग्रन्थानेतान् पठतो मे हेमचन्द्राचार्याणामन्तरङ्गपरिचयो जातस्तेन च मनसि ये केचन विकल्पा असमञ्जसभावाश्चाऽऽसन् ते सर्वेऽपि स्वयमेवोपशान्ता: । सहैव च जीवने सर्वत्राऽपि समेषु विषमेषु च प्रसङ्गेषु समत्वं कथं धार्यं, समन्वयनं कथं कर्तव्यं, स्वस्थतया च कथं
* अद्यत्वे इदं स्थानं मुस्लिमजनानां हस्तगतमस्ति ।
७८
Page #84
--------------------------------------------------------------------------
________________
स्थेयमित्यादयो महत्त्वपूर्णा शिक्षापाठाः प्राप्तास्तथा चरितालेखनमेतत् कुर्वता नितान्तं चित्तप्रसन्नता हृदयप्रफुल्लितता च प्राप्ता । एते सर्वेऽपि लाभा नन्दनवनकल्पतरुमाध्यमेन संस्कृतसाहित्यवाचकानामपि स्यरित्याशासमानो विरमामि ।
-
-
-
-
-
-
-
-
-
नाम
सन्दर्भग्रन्थसूचिः अस्मिन् चरितालेखनेऽन्येषु च लेखेषु विविधा ग्रन्था लेखाश्चोपयुक्ताः सन्ति । तेषां सूचिरत्र प्रदत्ताऽस्ति । संस्कृत-प्राकृतग्रन्थाः
गूर्जरभाषापुस्तकानि ग्रन्थनाम ग्रन्थकारः
लेखकः कुमारपालप्रतिबोधः सोमप्रभाचार्यः
कलिकालसर्वज्ञहेमचन्द्राचार्य डॉ. रमणलाल ची. शाह प्रबन्धचिन्तामणिः मेरुतुङ्गाचार्यः
आचार्य हेमचन्द्र
डॉ.वि.भा.मुसलगांवकरः प्रबन्धकोशः राजशेखरसूरिः श्रीहेमचन्द्राचार्य
धूमकेतुः विविधा आचार्याः
राजर्षिकुमारपाल पुरातनप्रबन्धसङ्ग्रहः
धूमकेतुः हेमसमीक्षा
मधुसूदन मोदी कुमारपालप्रबन्धः अज्ञातः कर्ता
जैन जर्नल, एप्रिल-१९६८ विविधा लेखकाः प्रभावकचरितानि प्रभाचन्द्रसूरिः
जैनपरंपरानो इतिहास त्रिपुटीमहाराजाः कुमारपालचरितसङ्ग्रहः विविधा आचार्याः
जैनसाहित्यनो संक्षिप्त इतिहास मोहनलाल द. देसाई
लेखः महान् आचार्य श्रीहेमचन्द्रसूरि राजर्षि कुमारपाल श्रीमद् हेमचन्द्राचार्यनी कृतिओ हेमचन्द्राचार्य- शिष्यमण्डल श्रीमद् हेमचन्द्राचार्य हेमचन्द्राचार्यनी अपभ्रंशसेवा मध्यकालीन भारतना महावैयाकरण कवि हेमचन्द्राचार्य जैनदर्शन अने हेमचन्द्राचार्य
गूर्जरलेखाः
लेखकः आगमप्रभाकरमुनिश्रीपुण्यविजयजी पुरातत्त्वाचार्य श्रीजिनविजयजी मोतीचंद गि. कापडिया भोगीलाल सांडेसरा मोहनलाल द. देसाई चतुरभाई शं. पटेल पं. अंबालाल प्रेमचंद शाह जयन्त ठाकर डॉ. नगीन जी. शाह
--------
Page #85
--------------------------------------------------------------------------
________________
श्रीहेमचन्दाचार्याणां शिष्यवृन्दम्
मुनिकल्याणकीर्तिविजयः
श्रीहेमचन्द्राचार्यसदृशानां महापुरूषाणां परिकरे येषा नितरां ज्ञानपिपासा स्यात् तादृशा विद्याप्रियाः शिष्या एव सम्मीलिता भवेयुरिति तु सहजमेव । तेषां शिष्या प्रायः सर्वेऽपि प्रशस्ता विद्वांसः साहित्यकाराश्चाऽऽसन् - इति इतिहासो वदति । तत्राऽपि तेषां मुख्यशिष्य आचार्यरामचन्द्रसूरिरासीत् । तादात्विक-विद्वत्सु च तस्य स्थानं स्वगुरूणामनन्तरमेवाऽऽसीत् । एनमतिरिच्याऽन्येऽपि गुणचन्द्रः, महेन्द्रसूरिः, वर्धमानगणिः, देवचन्द्रः, उदयचन्द्रः, यशश्चन्द्रः, बालचन्द्रः - इत्याद्यास्तेषां शिष्या आसन् । ते सर्वेऽपि विद्वांसो यथाशक्ति साहित्यरचयितारश्चाऽऽसन् । हेमचन्द्राचार्याणामनन्यसाधारणपाण्डित्यस्य छाया तेषु सर्वेषु दृश्यते स्म ।
अथ सर्वेषामपि तेषां परिचयं प्राप्नुमः १. महाकविरामचन्द्रसूरिः
बाल्ये एव दीक्षां गृहीत्वा हेमचन्द्राचार्याणां शिष्यत्वमङ्गीकुर्वाणस्य चारणज्ञातीयस्याऽस्य जन्मस्थान-मातापित्रादि न किमपि ज्ञायते । हेमचन्द्राचार्याणां मुख्यशिष्य एष एवाऽऽसीत् । बाल्यादेव तस्य काव्यशक्तिरनुपमा प्रतिभा चाऽसाधारण्यासीत् । एकदा सिद्धराजजयसिंहेन गुरुभ्यः पृष्टं - 'प्रभो ! को भवतां विद्वान् गुणी च शिष्यः ?' गुरुभिः स्मित्वा 'रामचन्द्र' इति कथिते राजा तत्परीक्षार्थं - 'केनाऽतिवृद्धं दिनम् ?' इति सहसा तं पृष्टवान् । तदात्वे च निदाघसमय आसीत् । रामचन्द्रेणाऽपि तत्क्षणमेव कथितं -
देव ! श्रीगिरिदुर्गमल्ल ! भवतो दिग्जैत्रयात्रोत्सवे धावद्धीरतुरङ्गनिष्ठुरखुरक्षुण्णक्षमामण्डलात् । वातोद्भूतरजोमिलत्सुरसरित्सञ्जातपङ्कस्थली
दूर्वाचुम्बनचञ्चुरा रविहयास्तेनाऽतिवृद्धं दिनम् ॥ श्रुत्वैतदतीव प्रसन्नेन राज्ञा तस्य कविकटारमल्लः - इति बिरुदं प्रदत्तम् ।
हेमचन्द्राचार्याणां स्वर्गमनाज्जातः कमारपालस्य शोकस्तेनैवोपशमित आसीत् । कुमारपालस्य मुख्य आस्थानकविरपि स एवाऽऽसीदिति सम्भाव्यते ।
____ तेन रघुविलासः, नलविलासः, यदुविलासः, सत्यहरिश्चन्द्रः, निर्भयभीमव्यायोगः, मल्लिका-मकरन्दप्रकरणं, राघवाभ्युदयं, रोहिणीमृगाङ्कप्रकरणं, वनमालानाटिका, कौमुदी
८०
Page #86
--------------------------------------------------------------------------
________________
मित्राणन्दं, यादवाभ्युदयं चेति एकादश नाटकानि विरचितानि; सुधाकलश: इतिनाम्ना च सुभाषितकोशो विरचितोऽस्ति । स्वगुरुभ्रात्रा गुणचन्द्रेण सह तेन नाट्यदर्पणं नामा नाट्यशास्त्रग्रन्थोऽपि विरचितोऽस्ति तथा द्रव्यालङ्कारनामा तर्कशास्त्रग्रन्थोऽपि रचितः । ग्रन्थद्वयमपि स्वचितवृत्त्यलङ्कृतमेव राजते । एतदतिरिच्य तेन सिद्धहेमव्याकरणस्य बृहद्वत्तेासोऽपि विरचितोऽस्ति । तथाऽन्यान्यपि कुमारविहार-शतकम्, उदयनविहारप्रशस्तिः, ऋषभद्वात्रिंशिका-प्रभृतीनि काव्यानि च विरचितानि सन्ति । तत्समकालीनानां सर्वेषामपि विदुषां साहित्यतोऽस्य साहित्यप्रवृत्तिरधिकाऽस्ति, विशाला विविधाऽपि चाऽस्ति । गूर्जरदेशस्य विद्वद्भिः प्रायो द्वाविंशतिर्नाटकानि विरचितानि, किन्तु तेषामेकादश नाटकानि श्रीरामचन्द्रसूरिणा रचितानि । गूर्जरदेशस्य भारतस्य च संस्कृतसाहित्यक्षेत्रे तस्य प्रदानं वैविध्यपूर्ण श्रेष्ठगुणवत्तायुत्तं चाऽस्ति । तद्विरचितस्य सत्यहरिश्चन्द्रनाटकस्य इटलीदेशीयभाषायां रूपान्तरमपि सञ्जातम् (ई. सं. १९१३) ।
एवं सत्यपि तस्य मुख्यप्रदानं तु नाट्यशास्त्रे एवाऽस्ति । यतो नाट्यशास्त्रस्य ग्रन्था एव अत्यल्पाः सन्ति । तेषां च रामचन्द्रसूरेर्नाट्यदर्पणं वैशिष्ट्ययुतमस्ति । विविधविषयकान्युदाहरणानि प्रस्तोतुं तेन चतुश्चत्वारिंशतो नाटकेभ्योऽवतरणानि सन्दृब्धानि । तदुल्लिखितनाटकानां कानिचन त्वद्याऽप्राप्याणि । यथा विशाखदत्तरचितं देवीचन्द्रगुप्तनाटकं न प्राप्यतेऽद्य । किन्तु तस्य बहून्यवतरणानि नाट्यदर्पणे विद्यन्ते । तैश्च मौर्यकालीनेतिहासस्य बहूनि तथ्यानि प्रकटीभवन्ति । किञ्च नाट्यदर्पणे तेन रसशास्त्रमभिनयकलां चाऽऽश्रित्य कानिचन महत्त्वपूर्णानि तादात्विकरूढिभञ्जकानि च विधानानि कृतानि ।
अथ च पश्चात्कालीनग्रन्थेषु तस्य प्रसिद्धिः प्रबन्धशतकर्तृतया कृताऽस्ति साहित्यकारैः । स स्वयमपि स्वीयग्रन्थे विशेषणमिदं स्वकृते प्रयुनक्ति, यथा"श्रीमदाचार्यहेमचन्द्रशिष्यस्य प्रबन्धशतकर्तृमहाकवे रामचन्द्रस्य भूयांस: प्रबन्धाः ॥"
(निर्भयभीमव्यायोगः, प्रस्तावनायाम्) तथा "इति श्रीमदाचार्यहेमचन्द्रस्य शिष्येण प्रबन्धशतविधाननिष्णातबुद्धिना नाट्यलक्षणनिर्माणपातावगाढसाहित्याम्भोनिधिना विशीर्णकाव्यनिर्माणतन्द्रेण श्रीमता रामचन्द्रेण विरचितं..... द्वितीयं रूपकम् ॥"
(कौमुदीमित्राणन्दे) किन्तु प्रबन्धशतनामा ग्रन्थो न प्राप्यते नाऽपि च शतं प्रबन्धाः प्राप्यन्तेऽद्य ।।
स्वभावेन स स्वातन्त्र्यप्रियो मानी च । स्वकृते स विविधानि विशेषणानि प्रयुङ्क्ते आत्मश्लाघां चाऽपि कुरुते, यथा
- कविः काव्ये रामः सरसवचसामेकवसतिः । (नलविलासे) - पञ्चप्रबन्धमिषपञ्चमुखानकेन, विद्वन्मनःसदसि नृत्यति यस्य कीर्तिः । विद्यात्रयीचणमचुम्बितकाव्यतन्द्रं कस्तं न वेद सुकृती किल रामचन्द्रम् ॥ (रघुविलासे)
* ग्रन्थाग्रं - ५३०००श्लोकप्रमाणम् ।
Page #87
--------------------------------------------------------------------------
________________
- ऋते रामान्नाऽन्यः किमुत परकोटौ घटयितुं
रसान्नाट्यप्राणान् पटुरिति वितर्को मनसि मे ।। (नलविलासे) - प्रबन्धा इक्षुवत् प्रायो, हीयमानरसाः क्रमात् ।
कृतिस्तु रामचन्द्रस्य, सर्वा स्वादुः पुरः पुरः ॥ (कौमुदीमित्राणन्दे)
स्वातन्त्र्यप्रियताऽपि तस्य विशिष्टमप्रतिमं च लक्षणम् । एतदर्थं तेन प्रदर्शिता उद्दामभावना अद्याऽपि प्रस्तुता एव । स्वीयकृतिष्वपि तेन यथासम्भवं स्वातन्त्र्यं मौलिकत्वं च प्रकटितमस्ति । कानिचिदुदाहरणानि पश्यामः
स्वतन्त्रो देव ! भूयासं, सारमेयोऽपि वर्त्मनि ।
मा स्म भुवं परायत्तस्त्रिलोकस्याऽपि नायकः ॥ - सूक्तयो रामचन्द्रस्य, वसन्तः कलगीतयः ।।
स्वातन्त्र्यमिष्टयोगश्च, पञ्चैते हर्षवृष्टयः ॥ (सत्यहरिश्चन्द्रनाटके) - स्वातन्त्र्यं यदि जीवितावधि, मुधा स्वर्भूर्भुवो वैभवम् ॥ (नलविलासे, २-२) - न स्वतन्त्रो व्यथां वेत्ति, परतन्त्रस्य देहिनः ॥ (नलविलासे ६-७) - अजातगणनाः समाः परमतः स्वतन्त्रो भव ॥ (नलविलासे प्रान्ते) - प्राप्य स्वातन्त्र्यलक्ष्मीमनुभवतु मुदं शाश्वती भीमसेनः ॥ (निर्भयभीमव्यायोगे)
एतादृशविलक्षणप्रतिभावतोऽस्य कवेर्मरणं स्वगुरुभ्रातुर्बालचन्द्रस्येjया कुमारपालान्वये जातस्याऽजयपालनृपस्य द्वेषाद् बभूव । २. मुनिगुणचन्द्रः
अनेन विदुषाऽऽचार्यरामचन्द्रसूरिणा सह नाट्यदर्पणं द्रव्यालङ्कारश्चेति ग्रन्थद्वयं सवृत्तिकं विरचितम् । तथा स्वस्याऽन्याभ्यां गुरुभ्रातृभ्यामाचार्यमहेन्द्रसरि-वर्धमानगणिभ्यां सहाऽऽचार्यसोमप्रभसूरिविरचितः कुमारपालप्रतिबोधग्रन्थः साद्यन्तः श्रुतः संशोधितश्च । ३. आचार्यमहेन्द्रसूरिः
अनेन विदुषा स्वगुरुरचिताऽनेकार्थसङ्ग्रहोपरि अनेकार्थकैरवाकरकौमुदी नाम टीका वैक्रमे १२४१तमे संवति लिखिताऽस्ति । ४. वर्धमानगणिः
कुमारविहारप्रशस्तेर्व्याख्यां निर्मायाऽनेन विदुषा तस्या एकस्य पद्यस्य षोडशाधिकशतमर्थान् लिखित्वा स्वीयमद्भुतं पाण्डित्यं प्रकटितमस्ति । यद् वदति स्वयमेव सः - "श्रीहेमचन्द्रसूरिशिष्येण वर्धमानगणिना कुमारविहारप्रशस्तौ काव्येऽमुष्मिन् पूर्वं षडर्थे कृतेऽपि कौतुकात् षोडशोत्तरं व्याख्यानं चक्रे ॥"
Page #88
--------------------------------------------------------------------------
________________
५. देवचन्द्रगणिः
अनेन विदुषा नाटकद्वयं लिखितमस्ति । तत्र चन्द्रलेखाविजयप्रकरणनाटके कुमारपालस्य शाकम्भरीजयो वर्णितोऽस्ति । द्वितीये च मानमुद्राभञ्जकनाटके सनत्कुमार-विलासवत्यो-श्चित्रणमस्ति । ६. उदयचन्द्रगणिः
अस्य विदुषो न कोऽपि ग्रन्थः प्राप्यते, किन्त्वस्य व्याकरणविषयको बोधोऽतीव स्पष्टः सूक्ष्मदर्शी चाऽऽसीत् । तस्य प्रेरणयाऽऽचार्यदेवेन्द्रसूरिणा सिद्धहेमबृहद्वृत्तेः कतिचिदुर्ग-पदव्याख्या नाम टीका, उपमितिभवप्रपञ्चाकथासारोद्धारः इत्याख्यो ग्रन्थश्च विरचितौ । तथा, आचार्यदेवेन्द्रसूरिशिष्येण कनकप्रभेण हैमन्याससारसमद्धारो विरचितोऽस्ति । ७. यशश्चन्द्रगणिः
अस्याऽपि विदुषो न कोऽपि ग्रन्थः प्राप्यते । किन्तु ज्योतिर्विद्याया अङ्गविद्यायाश्चाऽध्येताऽयं मन्त्रवाद्यप्यासीदिति प्रबन्धग्रन्थेभ्यो ज्ञायते । अन्यान्येषु प्रधानकार्येषु हेमचन्द्राचार्याणां सहकारित्वमस्यैवाऽऽसीत् । ८. मुनिबालचन्द्रः
___ महत्त्वाकाङ्क्षी मुनिरयं यद्यपि विद्वानासीत् तथाऽपि गुरुद्रोहं गुरुभ्रातृद्रोहं च कृत्वा सर्वत्र लघुतां च प्राप्य मालवदेशं गतवान् तत्रैव च मरणं प्राप्तवान् । जैनसङ्केतीव प्रचलिता स्नातस्या-इत्याद्यपदप्रसिद्धा वर्धमानस्वामिस्तुतिरनेनैव विरचितेति सम्भाव्यते ।
अन्यदा श्रीकुमारपालनृपपुरतः श्रीयोगशास्त्रव्याख्याने सञ्जायमाने पञ्चदशकर्मादानेषु वाच्यमानेषु ‘दन्त-केश-नखास्थि-त्वग्-रोम्णां ग्रहणमाकरे' इति सूरिकृते पाठे पं. उदयचन्द्रगणिनं 'रोम्णो ग्रहण'मिति भूयो भूयो वाचयन्तं प्रभुभिलिपिभेदं पृष्टे स 'प्राणि-तूर्याङ्गाणाम्' इति व्याकरणसूत्रेण प्राण्यङ्गानां सिद्धमेकत्वमिति लक्षणविशेषं विज्ञपयन् प्रभुभिः श्लाघितो राज्ञा न्युञ्छनेन सम्भावितः ।
(प्रबन्धचिन्तामणिः)
८३
Page #89
--------------------------------------------------------------------------
________________
कलिकालसर्वज्ञानां श्रीहेमचन्द्राचार्याणां प्रमुखसाहित्यसृष्टिः
मुनिकल्याणकीर्तिविजयः
स्वीयं कलिकालसर्वज्ञत्वं प्रमाणीकर्तुं हेमचन्द्राचार्यैर्या साहित्यसृष्टिर्विद्वज्जगते उपायनीकृताऽस्ति तस्याः परिचयोऽत्र प्रस्तुतोऽस्ति । तेषां कुशाग्रप्रज्ञया सार्वत्रिकप्रतिभया च प्रायः सर्वेऽपि विषयाः ससाफल्यमवगाहिताः सन्ति । तेषां समकालीना महाविद्वांस आचार्या श्रीसोमप्रभसूरयस्तेषां ग्रन्थसृष्टेर्नामानि लिखन्ति यथा -
व्याकरणं पञ्चाङ्ग, प्रमाणशास्त्रं प्रमाणमीमांसा । छन्दोऽलङ्कृति-चूडामणि च शास्त्रेविभुर्व्यधित ॥१॥ एकार्थाऽनेकार्था, देश्या निघण्टुरिति च चत्वारः । विहिताश्च नामकोशाः, शुचिकवितानद्युपाध्यायाः ॥२॥
त्र्युत्तरषष्टिशलाकानरेतिवृत्तं गृहिव्रतविचारे । अध्यात्मयोगशास्त्रं विदधे जगदुपकृतिविधित्सुः ॥३॥ लक्षण - साहित्यगुणं, विदधे च द्वयाश्रयं महाकाव्यम् । चक्रे विंशतिमुच्चैः, स वीतरागस्तवानां च ||४||
इति तद्विहितग्रन्थसङ्ख्यैव नहि विद्यते ।
नामाऽपि न विदन्त्येषां मादृशा मन्दमेधसः ||५||
एतेन तेषां विशिष्टाप्रतिभायाः सूक्ष्मदर्शित्वस्य सर्वदिग्गामिपाण्डित्यस्य बहुश्रुतत्वस्य च परिचयः
प्राप्यते ।
यद्यपि, केचन विद्वांसो मन्यन्ते - यो हि मौलिकमपूर्वं च विरचयति स एव प्रतिभासम्पन्न इति कथ्येत साहित्यसर्जकत्वं च तस्यैव परिगणनार्हम् । हेमचन्द्राचार्यैर्हि पूर्वसाहित्यस्रष्टृणां ग्रन्थानुपयुज्यैव प्रायश: स्वग्रन्था विनिर्मिता । अतस्तेषामपूर्वत्वं मौलिकत्वं च नास्ति ।
तथाऽपि, मौलिकतामपूर्वतां चाऽधिकृत्य हेमचन्द्राचार्याणां मतं किञ्चिदपूर्वमेव । ते कथयन्ति यत् 'कोऽपि साहित्यस्रष्टा सर्वथा नूतनं वस्तु विरचयितुं न कदाऽपि समर्थः, पूर्वसूरीणां साहित्यं तेनाऽवलम्बनीयमेव । केवलं तस्य विकासो विकासस्य च शैली सर्वेषां भिन्ना
नूतना वा भवति' ।
८४
-
Page #90
--------------------------------------------------------------------------
________________
यदुक्तं तैरेव स्वविरचित - प्रमाणमीमांसाग्रन्थस्य टीकाया आरम्भे " अनादय एवैता विद्याः सङ्क्षेपविस्तार- विवक्षया नवनवीभवन्ति, तत्तत्कर्तृकाश्चोच्यन्ते ।"
एतन्मतेन यदि हेमचन्द्राचार्यविरचितग्रन्थानामेव परीक्षणं क्रियेत तदा तेषां मौलिकत्वमपूर्वत्वं चाऽक्षुण्णमेव सर्वथा । ततश्चाऽऽचार्याणां प्रतिभा साहित्यसर्जकत्वं चाऽप्यक्षुण्णमेव ।
अस्तु, प्रकृतं प्रस्तुमः । अत्रैकैकशस्तेषां ग्रन्थानां परिचयः प्रदत्तोऽस्ति ।
१. सिद्धहेमशब्दानुशासनम् (सिद्धहेमव्याकरणम् ) हेमचन्द्राचार्येभ्यः पूर्वं वर्तमानेषु व्याकरणेषु विस्तारः, काठिन्यं, क्रमभङ्ग आनुवृत्तिबाहुल्यं चेत्यादयो दोषाः सन्ति । तन्निवारणार्थं ह्याचार्यैः स्वपूर्ववर्तिव्याकरणानां सम्यग्ध्ययनं कृतम् । ततश्चैकं सर्वाङ्गपरिपूर्णमुपयोगि निर्दोषं च व्याकरणं विरचितम् । तदभिधानं च नृपस्य सिद्धराजजयसिंहस्य स्वस्य च नाम्नोऽर्धं भागं गृहीत्वा सिद्धहेमशब्दानुशासनमिति कृतम् । अत्र व्याकरणे तैः पूर्ववर्तिव्याकरणानां बहूनि सूत्राण्युदाहरणानि च यथातथमेवाऽत्र गृहीतानि सन्ति, किन्त्वेतावताऽपि तेषां निबन्धनक्रमवैशिष्ट्यं सर्वथा मौलिकमपूर्वं च । तथा बहुत्र तैः सूत्राणां भावमवगम्य ततो नूतनान्येव सूत्राणि विरचितानि । किन्तु सर्वाण्यपि सूत्राणि सुव्यवस्थितानि सुसम्बद्धानि च । तथा सूत्राणां प्रणयनमप्यावश्यकतानुरूपं कृतमस्ति । एकमपि सूत्रं तादृशं नास्ति यस्य कार्यमन्येन सूत्रेण क्रियेत । एवं च तेषां मौलिकता प्रतिभासम्पन्नता च सर्वथाऽक्षुण्णा वर्तते ।
-
किञ्च, पाणिनीयाऽष्टाध्यायी ह्यतीव विस्तृता दुर्बोधा च । तथा सा प्रक्रियानुसारिण्यपि नास्ति । इतरपक्षे कातन्त्रं व्याकरणं यद्यपि प्रक्रियानुसारि तथाऽपि परिपूर्णं नास्ति । अतो हेमचन्द्राचार्यैः कातन्त्रस्य प्रक्रियानुसारिणी परम्परा पुनरुज्जीविता, तथा पाणिनीयव्याकरणापेक्षया लघु स्पष्टं च, कातन्त्रापेक्षया च सर्वाङ्गपरिपूर्णं व्याकरणं विरचय्य व्याकरणक्षेत्रे नूतनस्य हेमसम्प्रदायस्य निर्माणं कृतम् । व्याकरणस्य साधारणबोधवानपि विद्यार्थी तेषां व्याकरणं सरलतया हृदयङ्गमं कर्तुं शक्नोति, संस्कृतभाषायाश्चसमस्तशब्दानामनुशासने पारङ्गतो भवति ।
अनेन परवर्तिनो वैयाकरणास्तथा प्रभाविता जाता यथा पाणिनीयवैयाकरणा अपि अष्टाध्याय्या अध्ययनमध्यापनं च प्रक्रियानुसारेणैव कर्तुमारब्धाः । षोडशशताब्द्या अनन्तरं (भट्टोजीदीक्षितेन सिद्धान्तकौमुदीप्रणयनानन्तरं) तु सर्वत्राऽपि प्रक्रियानुसारेणैव पाणिनीयव्याकरणस्य पठन-पाठनं भवति । सूत्रपाठक्रमानुसार्यध्ययनादि तु प्रायश उच्छिन्नमेव ।
आचार्यैर्हि व्याकरणेन सहैव तस्य लघुवृत्तिर्बृहद्वृत्तिर्बृहन्यासश्च विरचिताः । तथा उणादिसूत्राणि तद्विवरणं, धातुपाठो, धातुपारायणं तद्विवरणं, व्याकरणगतोदाहरणानां सिद्ध्यर्थं च द्वयाश्रयं महाकाव्यं चेति सर्वाण्यपि तदङ्गानि स्वयमेव विरचय्य पाणिनेः पतञ्जलेर्भट्टोजीदीक्षितस्य भट्टेश्च कार्याणि एकलेनैव कृतानि ।
अथ च पाणिनिमनुसृत्य हेमचन्द्राचार्यैरपि स्वीयव्याकरणमष्टस्वध्यायेषु विभक्तमस्ति । तत्र
८५
Page #91
--------------------------------------------------------------------------
________________
सप्तस्वध्यायेषु संस्कृतभाषाव्याकरणम्, अष्टमे चाऽध्याये प्राकृतभाषाव्याकरणं निबद्धमस्ति । संस्कृतव्याकरणमिव प्राकृतव्याकरणमपि सर्वाङ्गपरिपूर्णमस्ति । एतच्चाऽद्यावधि अपूर्वमेव । यतस्तेऽन्यवैयाकरणवत् पाणिनीयव्याकरणाल्लोकोपयोगिनोंऽशान् गृहीत्वैव सन्तुष्टा न जाताः किन्तु स्वकालं यावत् प्रचलिताया भाषाया अपि व्याकरणं निबद्धवन्तः ।
तेषां पूर्ववर्तिवैयाकरणैरपि वररुचि-चण्डप्रमुखैर्यद्यपि शौरसेनी-मागधी-पैशाचीभाषाणां स्वरूपं स्वस्वव्याकरणेषु किञ्चिन्निरूपितमस्ति, तथाऽपि अपभ्रंशभाषाया व्याकरणं तु हेमचन्द्राचार्याणामेवाऽपूर्वं प्रदानम् । अत्र च तैरुदाहरणरूपेण सर्वत्र पूर्णा गाथा: पूर्णानि वृत्तानि पूर्णानि चाऽवतरणानि प्रदत्तानि सन्ति, यैर्हि तेषां सङ्ग्राहकप्रतिभा लोकभाषानुरागश्च प्रतीयते । एतच्च विलोक्याऽपभ्रंशसाहित्यस्य प्राच्यसमृद्धि प्रति विद्वज्जगत् जागृतं जातं तन्मूलग्रन्थानां संशोधने च लग्नम् । एवं चाऽऽचार्यैरपभ्रंश-भाषाव्याकरणं विरचय्याऽपूर्वमैतिहासिकं च कार्यं कृतमस्ति । अद्यत्वे भाष्यमाणानां गूर्जर-मारुप्रमुखभाषाणां मूलमेषैवाऽपभ्रंशभाषाऽस्ति, तस्याश्च व्याकरणस्य तदुदाहरणानां चाऽभ्यासेनैतासां भाषाणां क्रमिको विकासः कथं जातस्तासु च के रूढप्रयोगाः के च नूतना इत्यादीनामध्ययनं बोधश्च सरलतया भवति । विद्वज्जना वदन्ति यत्- प्राचीनभाषाणामध्ययनार्थं सिद्धहेमशब्दानुशासनं विना न किमप्युपयुक्ततरम्।।
अथ च प्राकृतव्याकरणस्याऽपि प्रयोगानां सिद्ध्यर्थं तैः प्राकृतव्याश्रयमहाकाव्यं विरचितमस्ति । एवं च संस्कृत-प्राकृतव्याकरणस्य साङ्गोपाङ्गं विरचनेन तैरुभे अपि भाषे पूर्णतयाऽनुशासिते - इत्यतस्तव्याकरणस्य सिद्धहेमशब्दानुशासनमित्यभिधानं सर्वथा सार्थकमस्ति । २. नामानुशासनम् - १. अभिधानचिन्तामणिनाममाला - शब्दानां महार्णवरूपेऽस्मिन् शब्दकोशे प्रायो द्विसहस्रश्लोकेषु
विभागश एकस्मिन्नर्थे प्रयुक्ता नैके शब्दाः सङ्ग्रहीताः सन्ति । अस्य च कोशस्य विवरणं
ह्याचार्यैः स्वयमेव विरचितमस्ति । २. अनेकार्थसङ्ग्रहः - अस्मिन् शब्दकोशे एकस्य शब्दस्य नैकेऽर्थाः सङ्ग्रहीताः सन्ति । ३. निघण्टुशेषः आयुर्वेदसम्बन्धिनां वैद्यकीयानां वा शब्दानां सङ्ग्रहोऽयं तेषां सार्वत्रिकी प्रतिभा
प्रमाणीकरोति । ४. देशीनाममाला - देशीभाषासु रूढानां, व्याकरणेन साधयितुमशक्यानां, प्राकृतभाषाणामभ्यासे
चाऽत्यन्तमुपयोगिनां शब्दानामपूर्वः सङ्ग्रहोऽयं तेषां सूक्ष्मदर्शित्वं विविधभाषाज्ञानं लोकव्यवहारज्ञानं च प्रमाणीकरोति । अत्र सगृहीतेषु शब्देषु बहवो द्राविड-अरब्बीय
फारसीयभाषासम्बन्धिनः शब्दा अपि सन्ति । ३. लिङ्गानुशासनम्
लिङ्गानुशासनं विना शब्दानुशासनमपूर्णमेव । तामपूर्णतां दूरीकर्तुं तैर्विविधलिङ्गानां शब्दानां सङ्ग्रहोऽत्र कृतोऽस्ति । अत्र यावन्तः शब्दाः सन्ति तावन्तः कस्मिन्नपि लिङ्गानुशासने न सन्ति ।
Page #92
--------------------------------------------------------------------------
________________
४. छन्दोऽनुशासनम्
स्वसमयात् पूर्ववतिनां समेषामपि संस्कृत-प्राकृता-ऽपभ्रंशकाव्येषूपयुक्तानां छन्दसां समावेशस्तैरत्र कृतोऽस्ति । छन्दसां महाकोशेऽस्मिस्तैः प्रत्येकं छन्दसां शास्त्रीयं लक्षणं संस्कृतभाषायां तदुदाहरणं च यथास्वं संस्कृतादिभाषायां प्रदत्तमस्ति । अत्र च सर्वाण्यपि उदाहरणानि तैः स्वयमेव विरचितानि, न पुनः कुतश्चिदवतारितानि । अस्मिन् ग्रन्थैस्तैः सादरं भरत-पिङ्गल-स्वयम्भूप्रमुखाः स्मरणविषयमानीताः सन्ति, तथा माण्डव्यः, भरतः, काश्यपः, सैतवः, जयदेवः - इत्यादयः प्राच्याश्छन्दःशास्त्रप्रणेतार उल्लिखिताः सन्ति । ५. काव्यानुशासनम्
राजशेखरस्य काव्यमीमांसा, मम्मटस्य काव्यप्रकाशः, आनन्दवर्धनस्य ध्वन्यालोकः अभिनवगुप्तस्य च लोचनः - इत्येतेभ्यो ग्रन्थेभ्यो विविधां सामग्री गृहीत्वा विरचितोऽयं ग्रन्थो विदुषां मते यद्यपि सङ्ग्रहग्रन्थस्तथाऽपि अत्राऽप्याचार्याणां मौलिकता प्रतिभा चाऽक्षुण्णैव । अस्य ग्रन्थस्य विवरणं तैरलङ्कारचूडामणिविवेकश्चेति टीकाद्वयेन स्वयमेव कृतमस्ति । ६. प्रमाणमीमांसा
हेमचन्द्राचार्याणां विशुद्धदार्शनिकप्रतिभा प्रोज्ज्वलतया प्रकटयत्ययं ग्रन्थः । भारतीयदर्शनविद्याया ब्राह्मण-जैन-बौद्धेति-तिसृणामपि शाखानां तात्त्विकपरिभाषासु लाक्षणिकव्याख्यासु यथाक्रमं यानि विकासवृद्धि-परिवर्तनानि जातानि तानि ग्रन्थस्याऽस्याऽध्ययनेनाऽवबुध्यन्ते । आचार्यैः स्वपूर्ववर्तिनामागमिकतार्किकाणां श्वेताम्बराणां दिगम्बराणां सिद्धसेनदिवाकरसूरिजिनभद्रगणि-समन्तभद्राऽकलङ्काद्यवादिदेवसूरिपर्यन्तानां सर्वेषामपि जैनाचार्याणां मन्तव्यानि सर्वग्राहिण्या बुद्धि-शक्त्या सङ्कलय्य स्वीयया विशदयाऽपुनरुक्तया च विशिष्टशैल्या सूत्रेषु स्वोपज्ञविशदतमवृत्तौ च निरूपितानि । तेषां भाषाऽत्यन्तं परिमिता शब्दाडम्बरशून्या सहजा सरला चाऽस्ति । निरूपणमपि नाऽतिसङ्क्षिप्त-विस्तृतमस्ति। अत्र ग्रन्थे तैः प्रमाणानि नयान् सोपायांश्च बन्ध-मोक्षादीन् परमपुरुषार्थोपयोगिनो विषयांश्चर्चयित्वाऽनेकान्तवादस्य नयवादस्य च शास्त्रीय निरूपणं कृतमस्ति । एतच्च तेषां भारतीयप्रमाणशास्त्रक्षेत्रे विशिष्टं प्रदानमस्ति । तुलनात्मकदृष्ट्या दर्शनानामध्ययनं कुर्वतां जिज्ञासूनां कृते ग्रन्थस्याऽस्याऽध्ययनमतीव महत्त्वमावहति । यतोऽत्राऽऽचार्यैर्दिङ्नाग-धर्मकीर्ति-प्रमुखबौद्धविदुषां, कणाद-भासर्वज्ञ-व्योमशिव-श्रीधराऽक्षपाद-वात्स्यायनोद्योतकर-जयन्त-वाचस्पतिमिश्र-शबर-प्रभाकर-कुमारिल-मुख्यवेदिकविदुषां च ग्रन्थानां चार्वाकदर्शनस्य च विदुषो जयराशिभट्टस्य तत्त्वोपप्लवसिंहग्रन्थस्य पदार्था विशदतया चचिताः सन्ति । अयं हि ग्रन्थो यद्यपि सम्पूर्णो न प्राप्यते तथाऽपि ऐतिहासिक- दृष्ट्या तस्य जैनतर्कसाहित्ये भारतीयदर्शनसाहित्ये च विशिष्टं स्थानमस्ति । ७. त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् -
महाभारतमुद्दिश्य विद्वद्भिर्घोषितं यद् -
८७
Page #93
--------------------------------------------------------------------------
________________
"यदिहाऽस्ति तदन्यत्र, यन्नेहाऽस्ति न कुत्रचित् ॥"
इदं च वचनं त्रिषष्टिशलाकापुरुषचरितमहाकाव्यस्य विषयेऽपि समानमेव । यतस्त्रिषष्टिशलाकापुरुषचरितं नाम जैनसिद्धान्त-कथेतिहास-पौराणिककथा-तत्त्वज्ञानादीनां सर्वसङ्ग्रहः । षट्त्रिंशत्सहस्रश्लोकप्रमाणेऽस्मिन् ग्रन्थे हेमचन्द्राचार्याणां सुधावर्षिण्या वाण्या गौरवं माधुर्यं च पदे पदेऽनुभूयते । अत्र त्रिषष्टेरुत्तमपुरुषाणां चरितानि निबद्धानि सन्ति । ते चोत्तमपुरुषाः २४ तीर्थकराः, १२ चक्रवर्तिनः, ९ वासुदेवाः, ९ प्रतिवासुदेवा: ९ बलदेवाश्च सन्ति । सहैव बहून्यवान्तरचरितान्यपि अत्राऽऽचार्यैर्यथायथं निवेशितानि सन्ति । आचार्याणां सर्वसङ्ग्राहिण्या प्रतिभायाः प्रभावेण ग्रन्थेऽस्मिन् तादात्विकसामाजिकधार्मिक-वैचारिकरूढयो बहुत्र प्रतिबिम्बिता विलोक्यन्ते । काव्यशास्त्रीयदृष्ट्याऽपि ग्रन्थोऽयं प्रासादिकः कल्पना-माधुर्योल्लसितश्चाऽस्ति । साद्यन्तमस्य पठनेन संस्कृतभाषायाः प्रायः सर्वेऽपि शब्दा अवबुध्येरन् - इति व्यवस्थाऽऽचार्यैः सहजतया कृताऽस्ति । किं बहुना ? हेमचन्द्राचार्याणां कलिकालसर्वज्ञत्वं साधयितुमयमेक एव ग्रन्थोऽलम् ।
८. योगशास्त्रम् महाराजकुमारपालस्य योगाभ्यासकृते विनिर्मितोऽयं ग्रन्थो द्वादशप्रकाशात्मकोऽस्ति । अस्मिन् पातञ्जलयोगसूत्रशैल्या अष्टानां योगाङ्गानां जैनदृष्ट्या विस्तृता सरला विशदा च चर्चा कृताऽस्ति । विषयवर्णने चाऽऽचार्याणां मौलिकता प्रतिपदं प्रोल्लसति । तत्र प्रथमे प्रकाशे यमाः, द्वितीय-तृतीयचतुर्थेषु प्रकाशेषु नियमाः, चतुर्थे एव आसनानि, पञ्चमे प्राणायामः, षष्ठे प्रत्याहारः, सप्तमे धारणा, अष्टम-नवम-दशमेषु ध्यानम्, एकादशे समाधिः, द्वादशे च स्वानुभवसिद्धं योगतत्त्वं वर्णितानि सन्ति । सहस्राधिकमूलश्लोकमयस्याऽस्य ग्रन्थस्य वृत्तिरपि तैरेव विरचिताऽस्ति यत्र च जैनागम-सिद्धान्तयोगग्रन्थानां यथा तथैव महाभारत-मनुस्मृति-पुराणोपनिषदादीनामप्यवतरणानि प्रदत्तानि ।।
९. व्याश्रयं महाकाव्यम् शास्त्रकाव्यानां परम्परायां व्याश्रयमहाकाव्यस्य स्थानमद्वितीयमस्ति । एतन्महाकाव्यं व्याकरणस्येतिहासस्य काव्यत्वस्येति त्रयाणामपि वाहकमस्ति । अस्य द्वौ विभागौ स्तः । प्रथमे विभागे विंशतिः सर्गाः सन्ति । तेषु सिद्धहेमशब्दानुशासनस्य संस्कृतविभागस्थायाः सप्ताध्याय्याः प्रयोगानामुदाहरणानां च सिद्ध्या सह चौलुक्यवंशजातानां मूलराजाद्यानां सिद्धराज-जयसिंहपर्यन्तानां नृपाणां वर्णनं कृतमस्ति । द्वितीये च विभागे अष्टसु सर्गेषु प्राकृतव्याकरणापरनाम्नः सिद्धहेमशब्दानुशासनस्याऽष्टमाध्यायस्य प्रयोगानामुदाहरणानां च सिद्ध्या सह कुमारपालराजस्य चरितं निबद्धमस्ति । एवं चैतन्महाकाव्यं संस्कृतभाषाया प्राकतस्य च षण्णामपि महाराष्ट्री-शौरसेनी-मागधी-पैशाची-चलिकापैशाचीअपभ्रंशभाषाणां बोधार्थमत्यन्तमुपयोगि । सहैव महाकाव्यस्याऽपि सर्वेषामपि लक्षणानामस्मिन् विद्यमानत्वात् काव्यत्वदृष्ट्याऽपि सर्वथा साफल्यं वहति महाकाव्यमिदम् । तथैव चौलुक्यवंशीयनृपाणामितिहासज्ञानेऽपि सर्वथा प्रस्तुतमिदं महाकाव्यम् ।
१०. वीतरागस्तवः वीतरागभक्तिमयमिदं काव्यं काव्यत्वदृष्ट्याऽपि श्रेष्ठमस्ति । भक्तितत्त्वेन * श्रीहेमचन्द्रप्रभवाद् वीतरागस्तवादितः । कुमारपालभूपालः प्राप्नोतु फलमीप्सितम् ॥ (वीतरागस्तवस्याऽन्तिमः श्लोकः)
Page #94
--------------------------------------------------------------------------
________________
सहाऽत्र सर्वत्र जैनदर्शनमपि व्याप्तमस्ति । विंशतिप्रकाशमयेऽस्मिन् भक्तिस्तवे शान्तरसो निरालम्बं प्रवहति, आनन्दः सर्वत्रोज्जागरोऽस्ति, स्वीयाराध्यतत्त्वे च लयप्राप्तेः प्रवृत्तिरपि सहजाऽस्ति । महाराजकुमारपालस्यैवकृते विनिर्मितमिदं भक्तिकाव्यं हेमचन्द्राचार्याणां श्रेष्ठसर्जकत्वं द्योतयति ।
११. अन्ययोगव्यवच्छेदद्वात्रिंशिका केवलं द्वात्रिंशवृत्तमयेऽस्मिन् वर्धमानजिनस्तुतिरूपे काव्यग्रन्थे हेमचन्द्राचार्य: सर्वेषामपि दर्शनानां सिद्धान्तान् विषयीकृत्य विशदा चर्चा कृताऽस्ति । चिन्तनस्य भक्तेश्चाऽत्यन्तं सुन्दरः समन्वयोऽत्र काव्येऽस्ति यदेष ग्रन्थो दार्शनिकदृष्ट्या काव्यकलादृष्ट्या चेत्युभयथाऽप्यत्यन्तमुत्कृष्टोऽस्ति । अस्मिन् ग्रन्थे आचार्यश्रीमल्लिषेणसूरिभिरत्यन्तं प्रासादिक-रोचक-शैल्या सरसया च भाषया स्याद्वादमञ्जरीनाम वृत्तिविरचिताऽस्ति ।
१२. अयोगव्यवच्छेदद्वात्रिंशिका वर्धमानजिनस्तुतिरूप एवाऽयमपि काव्यग्रन्थः केवलं द्वात्रिंशद्वत्तमय एवाऽस्ति । अत्र च जैनदर्शनस्य तत्सिद्धान्तानां च महत्त्वं प्रस्थापितमस्ति । अयमपि ग्रन्थो दार्शनिकदृष्ट्या काव्यत्वदृष्ट्या चोत्कृष्ट एवाऽस्ति ।
१३. महादेवस्तोत्रम् हेमचन्द्राचार्याणामुदात्तसमन्वयभावनाया उत्कृष्टं फलमस्त्येतन्महादेवस्तोत्रम् । चतुश्चत्वारिंशद्वृत्तमयेऽस्मिन् स्तोत्रेः तैर्विविधान् दृष्टिकोणानुपयुज्य महादेवस्य स्तुतिर्विहिताऽस्ति । (अस्य स्तोत्रस्य विशेषपरिचयस्त्वस्मिन्नेव ग्रन्थेऽन्यत्र प्रदत्तोऽस्ति ।)
अथाऽऽचार्याणां मुख्यसाहित्यसृष्टेः परिचयोऽत्र प्रदत्तोऽस्ति । अन्येऽपि तेषां वेदाङ्कशादयो ग्रन्थाः सन्ति, किन्तु विस्तरभयादत्र नाऽत्र परिचायिताः ।।
विद्वांसो हि महाभारतकारान् व्यासमहर्षीन् तेषां विशालग्रन्थरचनदृष्ट्या सर्वश्रेष्ठग्रन्थकारतया मन्यन्ते, तेषां च सर्वग्राहित्वं दर्शयितुं 'व्यासोच्छिष्टं जगत् सर्वम्' इति समुद्घोषयन्ति । एवमेवाऽत्राऽऽचार्याणां विशालकायं विपुलग्रन्थसमूहं दृष्ट्वा यदि “हेमोच्छिष्टं तु साहित्यम्" इति कथयेम तदा नाऽत्युक्तिः । तेषां साहित्यस्य वास्तविकं मूल्यं विविधता सर्वदेशीयता च स्तः । तैहि न काऽपि विद्याशाखोपेक्षिता प्रत्युत विशिष्टतया सेवितैव । तेषां प्रतिभा सार्वत्रिकी, अध्ययनं परिपूर्णं, विषयसंशोधनं च सर्वावयवि वर्तते । तेषां सङ्ग्राहकताऽप्यनन्यसाधारणाऽनुपमेया चाऽस्ति । तेषां साहित्ये तत्तद्विषसम्बन्धिनां तत्कालज्ञातानां च प्रायः सर्वेषामपि ग्रन्थानामुद्धरणानि सन्ति । अस्मिन् क्षेत्रे तेषां प्रतिस्पर्धी न कोऽप्यस्ति । अथैवं सत्यपि तेषां मौलिकताऽक्षुण्णैव वर्तत इति तु महाश्चर्यजनकम् । अस्तु ॥
सदा हृदि वहेम श्रीहेमसूरेः सरस्वतीम् । सुवत्या शब्दरत्नानि ताम्रपर्णी जिता यया ।।
(कीर्तिकौमुद्यां महाकविः सोमेश्वरभट्टः)
Page #95
--------------------------------------------------------------------------
________________
श्रीहेमचन्दाचार्याणां काव्यसृष्टिः मुनिकल्याणकीर्तिविजयः
अत्र श्रीहेमचन्द्राचार्यविरचितेभ्यो ग्रन्थेभ्यः कानिचन काव्यानि तेषां सुधावर्षिण्या वाण्याः प्रासादिकत्वं, माधुर्य, गौरवं, सामग्रयेण च प्रतिभामास्वादयितुं प्रस्तुतानि ।
मात्रयाऽप्यधिकं किञ्चिन्न सहन्ते जिगीषवः । इतीव त्वं धरानाथ ! धारानाथमपाकृथाः ॥१॥ क्षुण्णाः क्षोणिभृतामनेककटका भग्नाऽथ धारा ततः कुण्ठः सिद्धपतेः कृपाण इति रे मा मंसत क्षत्रियाः !। आरूढप्रबलप्रतापदहनः सम्प्राप्तधारश्चिरात् । पीत्वा मालवयोषिदश्रुसलिलं हन्ताऽयमेधिष्यते ॥२॥ (सिद्धहेमशब्दानुशासनप्रशस्तौ) अकृत्रिमस्वादुपदां परमार्थाभिधायिनीम् । सर्वभाषापरिणतां जैनी वाचमुपास्महे || (काव्यानुशासनमङ्गलश्लोकः) न धर्महेतुर्विहिताऽपि हिंसा, नोत्सृष्टमन्यार्थमपोद्यते च । स्वपुत्रघातान्नृपतित्वलिप्सासब्रह्मचारि स्फुरितं परेषाम् ॥१॥ प्रतिक्षणोत्पाद-विनाशयोगि-स्थिरैकमध्यक्षमपीक्षमाणः । जिन ! त्वदाज्ञामवमन्यते यः, स वातकी नाथ ! पिशाचकी वा ॥२॥
(अन्ययोगव्यवच्छेदद्वात्रिंशिकायाम्) (भगवद्भक्तिः-वीतरागस्तवे)
अनाहूतसहायस्त्वं त्वमकारणवत्सलः । अनभ्यथितसाधुस्त्वं त्वमसम्बन्धबान्धवः ॥१॥ अनक्तस्निग्धमनसममजोज्ज्वलवाक्पथम् । अधौतामलशीलं त्वां शरण्यं शरणं श्रये ॥२।। अभवाय महेशायाऽगदाय नरकच्छिदे । अराजसाय ब्रह्मणे कस्मैचिद् भवते नमः ॥३॥
Page #96
--------------------------------------------------------------------------
________________
असङ्गस्य जनेशस्य निर्ममस्य कृपात्मनः । मध्यस्थस्य जगत्त्रातुरनङ्कस्तेऽस्मि किङ्करः ॥४॥ अगोपिते रत्ननिधाववृते कल्पपादपे । अचिन्त्ये चिन्तारत्ने च त्वय्यात्माऽयं मयाऽर्पितः ॥५॥ लावण्यपुण्यवपुषि त्वयि नेत्रामृताञ्जने । माध्यस्थ्यमपि दौःस्थ्याय किं पुनद्वेषविप्लवः ? ॥६॥ युगान्तरेषु भ्रान्तोऽस्मि त्वदर्शनविनाकृतः । नमोऽस्तु कलये यत्र त्वदर्शनमजायत ॥७॥ शमोऽद्भुतोऽद्भुतं रूपं,सर्वात्मसु कृपाऽद्भुता । सर्वाद्भुतनिधीशाय, तुभ्यं भगवते नमः ॥८॥ सर्वे सर्वात्मनाऽन्येषु दोषास्त्वयि पुनर्गुणाः । स्तुतिस्तवेयं चेन्मिथ्या, तत्प्रमाणं सभासदः ॥९॥ औदासीन्येऽपि सततं, विश्वविश्वोपकारिणे । नमो वैराग्यनिघ्नाय, तायिने परमात्मने ॥१०॥ हिंसका अप्युपकृता, आश्रिता अप्युपेक्षिताः । इदं चित्रं चरित्रं ते, के वा पर्यनुयुञ्जताम् ? ॥११।। जन्मवानस्मि धन्योऽस्मि, कृतकृत्योऽस्मि यन्मुहुः । जातोऽस्मि त्वद्गुणग्राम-रामणीयकलम्पटः ॥१२॥ भ्रान्तस्तीर्थानि दृष्टस्त्वं, मयैकस्तेषु तारकः । तत् तवाऽङ्घौ विलग्नोऽस्मि, नाथ ! तारय तारय ॥१३।। यावन्नाऽऽप्नोमि पदवी, परां त्वदनुभावजाम् । तावन्मयि शरण्यत्वं, मा मुञ्च शरणं श्रिते ॥१४॥ तव चेतसि वर्तेऽहमिति वार्ताऽपि दुर्लभा । मच्चित्ते वर्तसे चेत् त्वमलमन्येन केनचित् ॥१५।। अप्रसन्नात् कथं प्राप्यं, फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः ? ॥१६।। मदृशौ त्वन्मुखासक्ते, हर्षबाष्पजलोमिभिः । अप्रेक्ष्यप्रेक्षणोद्भूतं, क्षणात् क्षालयतां मलम् ॥१७॥ त्वद्वक्त्रकान्तिज्योत्स्नासु, निपीतासु सुधास्विव । मदीयैर्लोचनाम्भोजैः, प्राप्यतां निनिमेषता ॥१८॥
Page #97
--------------------------------------------------------------------------
________________
कुण्ठाऽपि यदि सोत्कण्ठा, त्वद्गुणग्रहणं प्रति । ममैषा भारती तर्हि, स्वस्त्येतस्यै किमन्यथा ? ॥१९॥ तव प्रेष्योऽस्मि दासोऽस्मि, सेवकोऽस्म्यस्मि किङ्करः । ओमिति प्रतिपद्यस्व, नाथ ! नाऽतः परं ब्रुवे ॥२०।। (इत्यादयः)
(भावना)
वने पद्मासनासीनं क्रोडस्थितमृगार्भकम् । कदाऽऽघ्रास्यन्ति वक्त्रे मां जरन्तो मृगयूथपाः ? ॥१॥ शत्रौ मित्रे तृणे स्त्रैणे स्वर्णेऽश्मनि मणौ मृदि । मोक्षे भवे भविष्यामि निविशेषमतिः कदा ? ॥२।। (योगशास्त्रे प्रकाशः ३)
(भगवदाश्रयः) न श्रद्धयैव त्वयि पक्षपातो न द्वेषमात्रादरुचिः परेषु । यथावदाप्तत्वपरीक्षया तु त्वामेव वीर ! प्रभुमाश्रिताः स्मः ।।
(अयोगव्यवच्छेदद्वात्रिंशिकायाम्) (उपमोत्प्रेक्षादयोऽलङ्काराः)
द्वयाश्रयमहाकाव्ये न जानू अरुजल्लङ्कां भ्रमतो यस्य मारुतेः । अहो आऽन्तं जिगमिषो रुजेत् तस्याऽपि जान्विह* ||१/३२॥ (* अणहिल्लपुरपत्तने) जङ्गन्म इत्युक्तिपरैः सपर्णध्वद्यष्टिभी रश्मिधृतानडुद्भिः । ग्राम्यैरविद्वद्भिरुदीक्ष्यतेऽसौ *यूखास्रदिन्दुर्दधिपिण्डबुद्ध्या ॥२/४१) (* द्यौरेव उखा-स्थाली, तत: स्रंसतेऽधः पततीति द्यूखास्रत्) - इत्यादयः ॥
त्रिषष्टिशलाकापुरुषचरितमहाकाव्ये अर्थस्तस्य महार्थस्य पर्यपूर्यन्त सेवकाः । महासरोवरस्येव स्यन्दैरभ्यर्णभूमयः ॥१।१।४३।। अत्राऽन्तरे च केनाऽपि सार्थवाहस्य ढौकितम् । पक्वचूताञ्चितं स्थालं भ्रष्टसन्ध्याभ्रसन्निभम् ॥१।१।५८।। महाकाया महास्कन्धा महिषास्तोयवाहिनः । महीं प्राप्ता इवाऽम्भोदा जनानां चिच्छिदुस्तृषम् ॥१।१७०।।
Page #98
--------------------------------------------------------------------------
________________
अध्वन्यजन आजानुसंलग्ननवकर्दमः । आमुक्तमोचक इव प्रचचाल शनैः शनैः ॥१।१०९६।। वृन्दारकाणां हस्तेषु हस्तेभ्यः सञ्चरिष्णवः । बभ्राजिरे ते कलशाः श्रीमतां बालका इव ॥१।१५३१।।
त्राभ्यां सा पदाभ्यां पदे पदे । विकस्वराणि पद्मानि रोपयन्तीव भुव्यपि ॥१।२।७५।। - इत्यादयः ।।
श्रीहेमचन्द्राचार्या यथाऽसाधारणपाण्डित्यालङ्कृताः शास्त्र पारगामिण आसन् तथैव सामान्यजनताव्यवहारैर्लोकसाहित्येनाऽपि च पूर्णतया परिचिता आसन । त्रिषष्टिशलाकापुरुषचरितमहाकाव्ये तैरेषा क्षमता पूर्णतयोपयुक्ताऽस्ति । एतस्याः श्रेष्ठमुदाहरणं, विवाहप्रसङ्गे वरं वधूमनुवरं वोद्दिश्य स्त्रीभिर्यानि कौतुकधवलगीतानि गीयन्ते तान्यपि तैरत्र महाकाव्ये यथाप्रसङ्गं निबद्धानि सन्ति । तेषामन्यतमदत्र प्रस्तुतमस्ति -
वधूट्योः पारिपाश्विक्यश्चतुरा नर्मकर्मणि । एवं कौतुकधवलान् गातुमारेभिरे स्त्रियः ॥ (१।२।८५४ त:-) ज्वरीवाऽब्धि शोषयितं मोदकान परिखादितम । श्रद्धालुरनुवरको मनसा केन नन्वसौ ? ॥१॥ मण्डकेभ्योऽखण्डदृष्टिः कान्दुकस्येव कुक्कुरः । स्पृहयालुरनुवरो मनसा केन नन्वसौ ? ॥२॥ आजन्मादृष्टपूर्वी किं वटकान् रोरबालवत् । श्रद्धत्तेऽत्तुमनुवरो मनसा केन नन्वसौ ? ॥३॥ तोयानां चातक इव धनानामिव याचकः । पूगानां श्राद्धोऽनुवरो मनसा केन नन्वसौ ? ॥४॥ ताम्बूलवल्लीपत्राणां तृणानामिव तर्णकः । श्रद्धालुरद्याऽनुवरो मनसा केन नन्वसौ ? ॥५॥ हैयङ्गवीनपिण्डस्य बिडाल इव लम्पटः । श्राद्धश्चूर्णस्याऽनुवरो मनसा केन नन्वसौ ?।।६।। विलेपनस्य केदारकर्दमस्येव कासरः । श्रद्धां दधात्यनुवरो मनसा केन नन्वसौ ? ||७|| निर्माल्यानामिवोन्मत्तो माल्यानां लोललोचनः । श्रद्धानुबन्ध्यनुवरो मनसा केन नन्वसौ ? |८||
Page #99
--------------------------------------------------------------------------
________________
हेमचन्द्राचार्यैः स्वरचितकाव्यानुशासनादिग्रन्थसमूहस्य टीकासु यानि काव्यान्युदाहरणतयोद्धरणतया वा संदृब्धानि तेषामवलोकनेन ज्ञायते यत् ते स्वकालात् पूर्वं प्रवृत्तैः स्वसमकाले च प्रवर्तमानैः सर्वैरपि विद्याप्रवाहै: नितरां परिचिताः आसन् । ततः कानिचनाऽत्र प्रस्तुतानि -
द्वौ वज्रवर्णी जगतीपतीनां सद्भिः प्रदिष्टौ ननु सार्वजन्यौ । यः स्याज्जपाविद्रुमभङ्गशोणो यो वा हरिद्रारससन्निकाशः ॥ (काव्यानुशासने, अ० १) हंहो स्निग्धसखे ! विवेक ! बहुभिः प्राप्तोऽसि पुण्यैर्मया गन्तव्यं कतिचिद्दिनानि भवता नाऽस्मत्सकाशात् क्वचित् । त्वत्सङ्गेन करोमि जन्ममरणोच्छेदं गृहीतत्वरः को जानाति पुनस्त्वया सह मम स्याद् वा न वा सङ्गमः ॥ (तत्रैव) स्वास्थ्यं प्रतिभाऽभ्यासो भक्तिविद्वत्कथा बहुश्रुतता । स्मृतिदाढय॑मनिर्वेदः मातरोऽष्टौ कवित्वस्य ।। (तत्रैव) सन्ध्यां यत् प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे धत्से यच्च नदीं विलज्ज ! शिरसा तच्चाऽपि सोढं मया । श्रीर्जाताऽमृतमन्थने यदि हरेः कस्माद् विषं भक्षितं मा स्त्रीलम्पट ! मां स्पृशेत्यभिहितो गौर्या हरः पातु वः ॥ (काव्यानुशासने, अ० २) कृष्णेनाऽम्ब ! गतेन रन्तुमधुना मृद् भक्षिता स्वेच्छया सत्यं कृष्ण !, क एवमाह, मुसली, मिथ्याऽम्ब ! पश्याऽऽननम् । व्यादेहीति विकाशिते शिशुमुखे माता समग्रं जगत् ।
दृष्ट्वा यस्य जगाम विस्मयपदं पायात् स वः केशवः ।। (तत्रैव) - इत्यादि । एवमेवाऽपभ्रंश(प्राकृत)भाषाव्याकरणेऽपि हेमचन्द्राचार्यैः पुरातनानि नवीनानि च लोकसामान्यप्रसिद्धान्येवोदाहरणानि सन्दृब्धानि, तानि च मारु-गूर्जरादिभाषाया अध्ययनाय क्रमिकविकासबोधाय चाऽत्यन्तमुपयुक्तानि । ततः कानिचनाऽत्राऽपि प्रस्तूयन्ते -
एइ ति घोडा एह थलि एइ ति निसिआ खग्ग ।
एत्थु मुणीसिम जाणिअइ जो नवि वालइ वग्ग ॥४-३३०॥ (सं० छाया) एते ते अश्वाः एषा स्थली एते ते निशिताः खड्गाः ।
अत्र मनुष्यत्वं (पौरुषं) ज्ञायते यो नैव वालयति वल्गाम् ॥ दहमुहु भुवणभयंकरु तोसिअसंकरु णिग्गउ रहवरि चडिअउ ।
चउमुह छंमुहु झाइवि एक्कहिं लाइवि णावइ दइवें घडिअउ ॥४-३३१॥ (सं०)
दशमुखः भुवनभयङ्करः तोषितशङ्करः निर्गतः रथवरे आरूढः । चतुर्मुखं (ब्रह्मणं) षण्मुखं (कार्तिकेय) ध्यात्वा एकस्मिन् लात्वा इव दैवेन घटितः ॥
९४
Page #100
--------------------------------------------------------------------------
________________
(सं०)
(सं०)
(सं०)
(सं०)
जो गुण गोवइ अप्पणा पयडा करइ परस्सु । तसु हउँ कलिजुगि दुल्लहहो बलि-किज्जउँ सुअणस्स ॥४-३३८॥ यः गुणान् गोपयति आत्मनः प्रकटान् करोति परस्य । तस्य अहं कलियुगे दुर्लभस्य बलीक्रिये सुजनस्य ।। जिव जिव वंकिम लोअणहं णिरु सामलि सिक्खेइ । तिवँ तिवँ वम्मह निअय-सर खर-पत्थरि तिक्खेड ॥४-३४४॥ यथा यथा वक्रतां लोचनयोः नितरां श्यामली शिक्षते । तथा तथा मन्मथो निजकशरान् खरप्रस्तरे तेजयति ॥ भल्ला हुआ जु मारिआ बहिणि ! महारा कंतु । लज्जेज्जंतु वयंसिअहु जइ भग्गा घरु एंतु ॥४-३५१॥ भव्यं भूतं यन्मारितः भगिनि ! मदीयः कान्तः । अलज्जिष्यम् वयस्याभ्यः यदि भग्नः (पलायितः) गृहम् ऐष्यत् ।। जहिँ कप्पिज्जइ सरिण सरु छिज्जइ खग्गिण खग्गु । तहिँ तेहइ भड-घड-निवहि कंतु पयासइ मग्गु ॥१४-३५७॥ यत्र कल्प्यते शरेण शरः छिद्यते खड्गेन खड्गः । तत्र तादृशे भट-घटानिवहे कान्तः प्रकाशयति मार्गम् ।। साहु वि लोउ तडप्फडइ वड्डत्तणहाँ कएण । वडुप्पणु परि पाविअइ हत्थि मोक्कलडेण ॥४-३६६॥ सर्वोऽपि लोकः विह्वलीभवति महत्त्वस्य कृते । महत्त्वं पुनः प्राप्यते हस्तेन मुक्तेन (दानं कुर्वतेति शेषः) । जइ ससणेही तो मुइअ अह जीवइ निन्नेह । बिहिं वि पयारेहिं गइअ धण किं गज्जहि खल मेह ! ॥४-३६७॥ यदि निःस्नेहा तदा मृता, अथ जीवति, निःस्नेहा । द्वाभ्यामपि प्रकाराभ्यां गता प्रिया, किं गर्जसि खल ! मेघ ! ॥ अम्हे थोवा रिउ बहुअ कायर एम्व भणंति । मुद्धि निहालहि गयणयलु कई जण जोण्ह करंति ? ॥४-३७६॥ वयं स्तोका रिपवः बहवः, कातरा एवं भणन्ति । मुग्धे ! निभालय गगनतलं कति जनाः ज्योत्स्नां कुर्वन्ति ?।। मह कंतहों बे दोसडा हेल्लि ! म झंखहि आलु । देन्तहाँ हउँ पर उव्वरिअ जज्झंतहों करवालु ॥४-३७९॥
(सं०)
(सं०)
(सं०)
Page #101
--------------------------------------------------------------------------
________________
(सं०)
(सं०) मम कान्तस्य द्वौ दोषौ सखि ! मा मन्यस्वाऽलीकम् ।
(दान) ददतः अहं परमुवृता (शिष्टा), युध्यमानस्य करवालः ॥ तिलहँ तिलत्तणु ताउँ पर जाउँ न नेह गलंति । नेह पणइ ते ज्जि तिल तिल फिट्टवि खल होति ॥४-४०६॥ तिलानां तिलत्वं तावत् परं यावत् न स्नेहाः गलन्ति । स्नेहे प्रणष्टे ते एव तिलाः तिलाः भ्रष्ट्वा खलाः भवन्ति ।। बम्भ ते विरला के वि नर जे सव्वंग-छइल्ल ।
जे वंका ते वंचयर जे उज्जुअ ते बइल्ल ॥४-४१२॥ (सं०) ब्रह्मन् ! ते विरला: केपि नराः ये सर्वाङ्गच्छेकाः ।
ये वक्रा ते वञ्चकाः ये ऋजवः ते बलीवर्दाः ।। पिउसंगमे कउ निद्दडी पिअहों परोक्खहाँ केम्व ।
मइँ बिन्नि वि विन्नासिआ निद्द न एम्व न तेम्व ॥४-४१८॥ (सं०) प्रियसङ्गमे कुतः निद्रा प्रियस्य परोक्षे कथम् ।
मया द्वे अपि विनाशिते निद्रे न एवं न तथा ॥ सरिहिँ न सरेहिँ न सरवरेहँ न वि उज्जाण-वणेहिं । देस रवण्णा होंति वढ ! निवसंहिँ सअणेहिँ ॥४-४२२॥ सरिद्भिः न सरोभिः न सरोवरैः नाऽपि उद्यानवनैः । देशाः रम्याः भवन्ति मूर्ख ! निवसद्भिः सुजनैः ॥ बाह विछोडवि जाहि तुहुँ हउ तेवइ को दोसु ।
हिअयट्ठिउ जइ नीसरहि जाणउँ मुंज सरोसु ॥४-४३९॥ (सं०) बाहुं त्यक्त्वा यासि त्वं, भवतु तथा, को दोषः ? हृदयस्थितः यदि निःसरसि जानामि मुञ्ज ! सरोषम् ॥
इत्यादयः ॥ अत्र व्याकरणे प्रदत्तानामुदाहरणानां वैविध्यं दृष्ट्वैव ज्ञायते यद् हेमचन्द्राचार्याणां प्रसरः सर्वसामान्यजनसमूहेऽप्यासीत् । एतादृश्युदाहरणानि सङ्ग्रह्य तैः सर्वोऽपि लोकसमूह: शौर्य-प्रेम-नीत्यादिगुणैः सनाथीकृत इव ।
(सं०)
Page #102
--------------------------------------------------------------------------
________________
श्रीहेमचळाचार्याणां गुणैः प्रभावितै: समकालीनैः पाश्चात्यकालीनैश्च सर्वसाम्प्रदायिकैर्विवद्भिः कृता प्रशस्तिः मुनिकल्याणकीर्तिविजयः
जैनागमानां सिद्धान्तग्रन्थानां च समर्था वृत्तिकृतः आचार्यमलयगिरयो हेमचन्द्राचार्याणां समकालीनाः सहवर्तिनश्चाऽप्यासन् । ते स्वयमेव व्याकरणादिस्वतन्त्रग्रन्थानां टीकाग्रन्थानां च रचयितारः सन्तोऽपि हेमचन्द्राचार्यान् स्वटीकाग्रन्थेषु सादरं सबहुमानं च सन्दर्भयन्ति, यथा – तथा चाऽऽहुः स्तुतिषु
गुरवः (आवश्यकसूत्रवृत्तौ) ___ तथा तेषां समकालीना एव श्रीसोमप्रभसूरयस्तान् स्तुवन्ति –
किं स्तुमः शब्दपाथाधेहेमचन्द्रयतेर्मतिम् । एकेनाऽपि हि येनेदक कृतं शब्दानशासनम् ॥१॥ स्तुमस्त्रिसन्ध्यं प्रभुहेमसूरेरनन्यतुल्यामुपदेशशक्तिम् । अतीन्द्रियज्ञानविवजितोऽपि, यः क्षोणिभर्तुळधित प्रबोधम् ॥२॥ (कुमारपालप्रतिबोधग्रन्थे) क्लृप्तं व्याकरणं नवं विरचितं छन्दो नवं व्याश्रयालङ्कारौ प्रथितौ नवौ प्रकटितं श्रीयोगशास्त्रं नवम् । तर्कः सञ्जनितो नवो जिनवरादीनां चरित्रं नवं
बद्धं येन न केन केन विधिना मोहः कृतो दूरतः । (शतार्थकाव्यटीकायाम्) ३. तेषां शिष्यौ श्रीरामचन्द्रसूरि-गुणचन्द्रसूरी कथयत: -
शब्द-प्रमाण-साहित्य-च्छन्दोलक्ष्मविधायिनाम् ।
श्रीहेमचन्द्रसूरिपादानां प्रसादाय नमो नमः ॥ (नाट्यदर्पणे) ४. गुरुगूर्जरराजस्य चातुर्विद्यैकसृष्टिकृत् ।।
त्रिषष्टिनरसद्वृत्त-कविर्वाचां न गोचरः ॥ (मुनिरत्नसूरयोऽममचरित्रे) ५. सन्त्यन्ये कवितावितानरसिकास्ते भूरयः सूरयः
मापस्तु प्रतिबोध्यते यदि परं श्रीहेमसूरेगिरा । उन्मीलन्ति महामहांस्यपि परे-लक्षाणि ऋक्षाणि वै नो राकाशशिना विना बत भवत्युज्जागरः सागरः ॥ (उपा.जिनमण्डनगणी कुमारपालप्रबन्धे)
९७
Page #103
--------------------------------------------------------------------------
________________
६.
७.
८.
साहित्य - व्याकरणाद्यनेकशास्त्रनिर्माणप्रत्नप्रजापतिः श्रीहेमचन्द्रयतिपतिः ।
९.
वैदुष्यं विगताश्रयं श्रितवति श्रीहेमचन्द्रे दिवम् ॥
निःसीमप्रतिभैकजीवितधरौ नि:शेषभूमिस्पृशां पुण्यौघेन सरस्वती - सुरगुरू स्वाङ्गैकरूपौ दधन् । यः स्याद्वादमसाधयन्निजवपुर्दृष्टान्ततः सोऽस्तु मे सबुद्ध्यम्बुनिधिप्रबोधविषये श्रीहेमचन्द्रः प्रभुः ॥ (आ. मल्लिषेणसूरिः स्याद्वादमञ्जरीमङ्गलाचरणे) सप्तर्षयोऽपि गगने सततं चरन्तो त्रातुं क्षमा न मृगीं मृगयोः सकाशात् ।
याच्चिरं कलियुगे प्रभुहेमसूरिरेकेन येन भुवि जीववधो निषिद्धः ॥ (विविधगच्छीयपट्टावलीसङ्ग्रहे) १०. य: सुज्ञैः सर्ववित् प्रोक्तः कलिकालेऽपि सूरिराट् ।
तस्य श्रीहेमचन्द्रस्य प्रमाणं मेऽत्र वर्तताम् ॥ ( श्रीमधुसूदनः मोदी हेमसमीक्षारम्भे)
(पूर्णकलशगणी प्राकृतद्वयाश्रयटीकारम्भे)
(राजकविः सोमेश्वरदेवः सुरथोत्सवमहाकाव्ये)
११. " तेषां समये न कोऽपि गच्छो न काऽपि परम्परा जैनसम्प्रदाये आसीद् यत्र स्थिताः साधवस्तेषां गुणैर्मुग्धाः सन्तस्तेषां स्तुतिं न कृतवन्तः स्युः ।
तैर्हि स्वजीवने राजा, राज्यं, मित्राणि, विरोधिनः, शिष्याः, जैनाः, जैनेतराः, धर्मोपदेशः, साहित्यसर्जनं, निर्ग्रन्थजीवनं, लोकसम्पर्क: - इत्येतेषां सर्वेषामपि विषयाणां समानतयोत्तरदायित्वं पालनीयमासीत् । तच्च तैः स्वजीवनस्य प्रत्येकं क्षणं पूर्णतयोपयुज्य पालितम् ।
******
देश-विदेशानां सर्वोऽपीतिहासो यदि विलोक्येत तदाऽपि तेषां सदृशो निर्लेपः, आदर्शजीवी, विद्वान्, साहित्यस्रष्टा, राजनीतिदक्षः, व्यवहारज्ञः, तेजस्वी, प्रतिभावांश्च पुरुषः प्राप्तुमशक्य एव । अत एव तेषां कलिकालसर्वज्ञः इति बिरुदं सर्वथा सार्थकमस्ति " |
९८
(आगमप्रभाकरः मुनिश्रीपुण्यविजयः) १२. नूनं हेमचन्द्राचार्या वर्तमानकालीन भारतीयमानसस्रष्टृष्वन्यतमाः । भारतीये चेतिहासे तेषां स्थानं वाल्मीकि-व्यास-शङ्कराचार्यादीनां सदृशमस्ति ।
(- के.एम्. पाणिक्कर: A Survey of Indian History ग्रन्थे) १३. हेमचन्द्राचार्याणां समकालीनैराचार्यैर्विद्वद्भिश्च तेषां कृते प्रयुक्तं 'कलिकालसर्वज्ञः' इति बिरुदं, तेषां सर्वास्वपि विद्याशाखासु विस्मयावहां साधिकारां गतिं दृष्ट्वा सर्वथा योग्यमेवाऽस्ति । कवितया शास्त्रकारतया च ते वस्तुतो महासमर्थाः आसन् । तैर्हि स्वप्रतिभया स्वदेशस्य भाग्यं संस्कृतिश्च परावर्तिते । न केवलं जैना अपि तु गूर्जरदेशोऽपि तेषां महान्तं ऋणभारं धारयति, तथा
Page #104
--------------------------------------------------------------------------
________________
वैश्विकसंस्कृत-साहित्यक्षेत्रेऽपि वैयाकरणतया कोशकारतया काव्यशास्त्रप्रणेतृतया छन्दःशास्त्रकारतया
च तेषां विशिष्टं स्थानमस्ति । (-एम्. विन्टरनित्झ्, जर्मनविद्वान्) १४. शब्दविज्ञानक्षेत्रे हेमचन्द्राचार्याणां प्रदानमतिविशालं विस्मयप्रेरकं च । तेषां पाण्डित्यं ह्यगाधमप्रतिरूपं
चाऽस्ति, तथा विद्वज्जनानां कृतेऽद्यावधि ते कलिकालसर्वज्ञाः - कलियुगे सर्वस्याऽपि ज्ञेयस्य ज्ञातारः - सन्ति, यच्च विशेषणं ते सर्वथाऽर्हन्ति । मध्यकालीनभारते तेषां परिमाणं धारयन्तो
विद्वांसो प्रायो न सन्ति । (-एस्. सेनगुप्ता, महावैयाकरणः) १५. नमोऽस्तु हेमचन्द्राय, विशदा यस्य धीप्रभा । विकासयति सर्वाणि, शास्त्राणि कुमुदानीव ॥
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यान् पाश्चात्या विद्वांसो ज्ञानमहार्णवः (Ocean of knowledge) इति सादरं वर्णयन्ति, तथैव तेषां कृते अतिशायिप्रज्ञः (Intellectual Giant) इति विशेषणं प्रयुञ्जन्ति । तेषां प्रतिभायाः प्रभा न केवलं धर्माध्यात्मक्षेत्रेषु अपि तु साहित्य-भाषा-तर्कादिक्षेत्रेष्वपि समानतया विस्तीर्णाऽस्ति । तेषां व्यक्तित्वे समकालमेव वैयाकरणस्य, आलङ्कारिकस्य, साहित्यकारस्य, दार्शनिकस्येतिहासकारस्य, पुराणकारस्य, कोशकारस्य, छन्दोनुशासकस्य, धर्मोपदेशकस्य, महतो युगकवेश्च समन्वयो दृश्यते । तेषां व्यक्तित्वं सार्वकालिकं सर्वदेशिकं विश्वजनीनं चाऽस्ति सहैव तेषां कार्याणि सम्प्रदायातीतानि सार्वजनीनानि च । अत एव तेऽन्येभ्य आचार्येभ्यो विद्वद्भयः कविभ्यश्चाऽत्यधिकं श्रद्धा-सम्मानाधिकारिणः । तेषां जीवने प्रतिपदं विविधता, सर्वदेशीयता, पूर्णता, सत्यं, समन्वयिता च दृश्यते । ते हि निर्भया, राजनीति-विचक्षणा, गुरुसेविनो, वादिमानमर्दकाः, सत्योपासकाः, संस्कृतिपोषका, देशोद्धारकाश्चाऽऽसन् । एवं सत्यपि कस्मिंश्चिदपि जागतिकपदार्थे तेषां मोहो ममत्वं वा नाऽऽसीत् ।
समग्रेऽपि भारतवर्षस्येतिहासे यदि परं सर्वथाऽपि मद्य-मांसयोनिषेधो हि राज्ञः कुमारपालस्य काले एव जातः । तस्य च सम्पूर्ण श्रेयो निःसन्देहतया हेमचन्द्राचार्याणामेव । सिद्धराजजयसिंहकुमारपालश्चेत्युभयोर्नुपयोः सत्ताकाले विराजमानानां तेषां युगो हैमयुगः इति नाम्नेतिहासस्य सुवर्णपृष्ठेष्वङ्कितोऽस्ति ।
(-वि.भा.मुसलगांवकरः, दार्शनिको महाविद्वान्) १६. हेमचन्द्राचार्या नामाऽद्वितीयाः साहित्यस्रष्टारोऽनुपमयुगद्रष्टारः, समर्थाश्च धर्माचार्याः, हेमचन्द्राचार्या
नाम सर्वतोमुखपरिणतप्रज्ञा, साङ्गोपाङ्गं सम्पूर्णमध्ययनं, स-रसा सर्वोत्कृष्टसर्जकता, तथा हेमचन्द्राचार्या नाम ज्ञानमहार्णवः, जङ्गमो ज्ञानकोशः, विद्याम्भोधिमन्थनमन्दरगिरिः । कियद् वा कथयामः ?
तत्सदृशस्य महोर्जस्विनः सुपुत्रस्य कृते गूर्जरदेशो देशवासिनश्च यावन्तं गर्वं गौरवं च वहेयुस्तावन्तमल्पमेव ।
कलिकालसर्वज्ञानां तेषां कुशाग्रप्रज्ञाया अगोचरा न काऽपि विद्याशाखा । सर्वग्राहिण्या
९९
Page #105
--------------------------------------------------------------------------
________________
बुद्धिशक्त्या तैर्व्याकरणालङ्कार-च्छन्दः-कोश-काव्य-चरित-दर्शन-तर्क-योगादीनि सर्वाण्यपि क्षेत्राणि समवगाहितानि । तेषां विद्या-तपसोः प्रभावेण गूर्जरदेशोऽद्याऽपि शान्तोऽहिंसकः समन्वयवादी चाऽस्ति ।
__ (- चतुरभाई शङ्करभाई पटेलः, प्राकृतव्याकरणवित्) १७. हेमचन्द्राचार्या हि महातपस्विनो महा-राजनीतिज्ञा महान्तश्च विद्यानिधयः । चिरकालाय तैः पत्तननगरस्य संस्कारस्वामिनां चक्रवतिपदमनुभूतम् । जैनसाधुसहजं देशभ्रमणं त्यक्त्वा गूर्जरदेशमुन्नतं विकसितं च कर्तुं तैः स्वजीवनं समर्पितम । तेषां सर्जनं नतनामेव कल्पनासष्टि विरचितवत । ततश अणहिल्लपुरपत्तनं जगत्येव विश्रुतं जातम् । चौलुक्यवंशेन रघुवंशस्य यशः प्राप्तम् । ततस्तैः कुमारपालमपि प्रतिबोध्य शुद्धमार्गे च प्रेर्य मद्य-मांसौ निषेधितौ, नैतिकविशिष्टतायाश्चाऽद्भुतं वर्णलेपनं कृतम् । साहित्यशास्त्र-विद्यायाः समृद्धेः कलिकालसर्वज्ञत्वं प्राप्तम् । वादिनो जिताः । अगाधं च ज्ञाननिधि मथित्वा श्रेष्ठानि कृतिरत्नानि विरचितानि । गूर्जरजनाय संस्कृतसाहित्यजगति स्थानं प्रदत्तम् । स्वयं च ते राजपुरुषाणां मध्ये उपविष्टाः, राज्याधिकारोपरि च नैतिकसत्तायाः श्रेष्ठत्वं प्रमाणितम् । गूर्जरदेशस्य महत्त्वाय च शब्ददेहः समर्पितः । अद्य तेषां स्वर्गमनस्य शतशो वर्षाणि व्यतीतानि तथाऽपि गूर्जरभाषा-भाषकस्य लोकसमूहस्य जीवने तेऽद्याऽपि जीवन्ति ।
(- क.मा.मनशी. भारतीयविद्याभवनसंस्थापक:) १८. गूर्जरदेशे तादृशा विद्वांसोऽतीव स्तोका येषां स्थानं वैश्विकसाहित्यक्षेत्रे स्यात् । हेमचन्द्राचार्या तेषामन्यतमाः । तेषामुदारव्यक्तित्वेन गूर्जरदेशो विश्वव्यापको जातः । गूर्जरभाषा, गूर्जरसंस्काराः, गूर्जरप्रणालिकाः (रूढयः), गूर्जरव्यवहार-विवेकौ-गूर्जरसाहित्यं, गूर्जराणां समन्वयभावना, गूर्जराणां च गूर्जरत्वम् - एतेषु सर्वेष्वपि हेमचन्द्राचार्याणामस्तित्वस्याऽप्रतिमं मुद्राङ्कनं वर्तते । पूर्वं हि गूर्जराणां भाषाशुद्धिषाभिमानश्च नाऽऽस्ताम् । हेमचन्द्राचार्यैस्तेभ्यो भाषाभिमानो भाषाशुद्धिश्च प्रदत्ते । अर्थोपार्जने रता जनाः स्वपूर्वजानां पराक्रमगाथां विस्मरन्त आसन् । पराक्रम एव जीवनमिति तथ्यं तेषां मनसो विलुप्यमानमासीत् । हेमचन्द्राचार्यैः शूराणां भटानां सज्जनानां सहृदयानां च कर्तव्यानि लोकभाषाग्रथितगाथानां माध्यमेन समुपदिश्य निर्बला गौर्जरा अपि पराक्रमिणः कृताः। गूर्जराणां स्वीयामस्मितां त एवमेव सहजतया प्रकटितवन्तः ।।
सूर्योदयवेलायां, सरस्वतीनदीतटे स्थितामेकां महाशक्ति, स्वनिर्मलतेजसा समग्रमपि गूर्जरदेशं प्रकाशयन्ती कल्पयन्तु, भवतां हेमचन्द्राचार्या दृश्येरन् ।
(धूमकेतुः, गूर्जरसाहित्यकार:) १९. कलिकालसर्वज्ञरूपमप्रतिमं बिरुदं प्राप्तवतां श्रीहेमचन्द्राचार्याणां जीवनं नाम भारतीयसंस्कृतेरेका यशउज्ज्वला गौरवगाथा । प्राचीना अर्वाचीना भारतीया वैदेशिकाश्च विद्वांसो यन्मुक्तकण्ठं प्रशंसित
१००
Page #106
--------------------------------------------------------------------------
________________
वन्तस्तादृशं विश्वव्यापि व्यक्तित्वं धारयतां तेषां तुलनां साहित्यक्षेत्रे साधुताक्षेत्रे च व्यतीते वर्षसहस्रे न कोऽपि कर्तुं समर्थो जात: ।
काव्य, व्याकरणं, छन्दः, अलङ्कारः, इतिहास:, पुराणं, कोशः, चरितं, योग:, अध्यात्मं, त्यागः, तप:, ध्यानं, सदाचारः, संयमः, राजकल्याणं, लोककल्याणम् - इत्येतेषु विभिन्नक्षेत्रेषु समकालमेव प्रायः सप्ततिं वर्षाणि यावद् यादृशं च वैशिष्ट्यपूर्णं चिरञ्जीवि च कार्यं तैः कृतं तादृशं तावच्च न केनाऽपि कृतम् । हेमचन्द्राचार्या नाम सद्गुणानां जीवन् पर्याय: । औदार्यं, गाम्भीर्यं, निर्भयत्वं, सूक्ष्मदर्शित्वं, समयौचित्यं, परोपकारित्वं जितेन्द्रियत्वं, त्यागः, तपश्चरणं, संयमः, शुचित्वं, स्वधर्मवात्सल्यं, परमतसहिष्णुता, तर्कपाटवं, समन्वयत्वं सर्वग्राहित्वमित्याद्यगण्यगुणानां श्रेष्ठं स्वरूपं तेषां जीवने पदे पदे प्रकटितं भवति । तेषां हृदयं तथा कारुण्यपूर्णमासीत् यथा तत्प्रभावात् तेषां सम्पर्कं प्राप्तस्य विरोधिनो द्वेषिणो वाऽपि जनस्य हृदयं पश्चात्तापेनाऽऽर्द्रं भवति स्म ।
गूर्जरदेशस्येतिहासे सुख-समृद्धि - संस्कारितादीनाश्रित्य चौलुक्यानां युग एव सुवर्णयुग: । तस्य च पराकाष्ठा द्वयोर्नृपश्रेष्ठयोः सिद्धराजराजसिंह - कुमारपालयोः शासनकाले समागता । तयोश्च द्वयोरपि नृपयोर्मार्गदर्शनं कृत्वा सत्पथे प्रवर्तकास्तु हेमचन्द्राचार्या एव । अतश्चौलुक्यानां सुवर्णयुगो हैमयुग इत्युच्यते ।
(- डॉ. रमणलाल ची. शाह, जैनदर्शनविद् गूर्जरसाहित्यकारश्च )
O
कदाचित् प्रत्यूषे श्रीकपर्दिमन्त्री प्रणामानन्तरं श्रीसूरिभिर्हस्ते किमेतदिति पृष्टे स प्राकृतभाषया हरडइ(हरीतकी) इति विज्ञपयामास । प्रभुभिरुक्तं- 'किमद्याऽपि ?' अनाहतप्रतिभतया तद्वचनच्छलमाकलय्य कपर्दिनोक्तम् - 'इदानीं तु न' । 'कुत: ?' 'अन्त्योऽप्याद्योऽभूत् मात्राधिकश्चेत्यतः' । हर्षाश्रुपूर्णदृशः प्रभवः श्रीरामचन्द्रप्रभृतिपण्डितानां पुरस्तात्तच्चातुरीं प्रशशंसुः । तैरज्ञाततत्त्वैः किमिति पृष्टो हरडड़ इति शब्दच्छलेन ह-कारो रडइ (रोदिति), अस्माभिरुक्तं 'किमद्याऽपि ?' इत्यभिहितमात्रेण वचस्तत्त्वविदाऽनेन 'नेदानी' मुक्तम् । यतः पुरा मातृकाशास्त्रे हकारः प्रान्ते पठ्यते अत एव रडइ, साम्प्रतं त्वस्मन्नामनि प्रथमस्तथा मात्राधिकश्चेत्यतो न ॥ (प्रबन्धचिन्तामणि:)
१०१
-
Page #107
--------------------------------------------------------------------------
________________
काव्यकालसर्वज्ञस्य समुदार दृष्टि:
मुनिविश्रुतयशविजयो गणि:
आचार्यवर्य कलिकालसर्वज्ञस्य समुदारतायाः किं वर्णनं स्यात् ? स तु अत्यन्तं नम्रोऽहङ्काररहितश्चाऽऽसीत् । द्वौ द्वौ राजानो सदा तस्य चरणयोः पततस्तथापि कदापि तैर्बलात् 'तव राज्यस्य सर्वे जनाः जैना एव भवन्तु' इति न कथितम् । अपि तु स्वयं सिद्धराजायाऽपि कदापि 'जैनधर्मपालनं करोतु' इति न कथितम् । 'भवान् मया प्ररूपितं धर्मं स्वीकरोतु' इति न कथितम् । किन्तु समन्वयदृष्ट्या धर्मं निगद्य जनानां विवेकचक्षुरुद्घाटितम् । तथैव सिद्धराजभूपालस्याऽपि विवेकचक्षुः स्वयमेव विकसितं भवेत् इति कृत्वा तत्पार्श्वे बलाद् किमपि न कारितम् ।
तत: कुमारपालभूपालोः गुर्जरनरेशोऽभूत् । स तु अत्यन्तं समर्पित आसीत् । तथापि स्वस्य मानसन्मानं गौणीकृत्य केवलमहिंसायाः परिपालनं एव कारितम् । किन्तु कदापि परस्परं विविधधर्माणां संघट्टनं - संघर्षश्च न कारितः । अपि तु परस्परं प्रेम्णो वृद्धिरेव कारिता ।
न केवलमेतद् यद् स्वयं न कलहप्रियः, अपि तु कुमारपालायाऽपि एवंरीत्या शिक्षा दत्ता । येन कस्यापि राज्यसस्य लोभेन स्वयं न युद्धं कृतवान् । केवलं स्वराज्यरक्षा कृते एव युद्धं कुमारपालेन कृतम् ।
एता सर्वा वार्ता तु प्रतिबोधादिरूपा जाता । किन्तु साहित्यक्षेत्रेऽपि स्व-परदर्शनानां विविधविषयान् अधिकृत्य स्वतन्त्रग्रन्था रचिताः । मध्यस्थबुद्ध्या विचारान् कृत्वा सम्यग् लेखनं कृतम् । परदर्शनकाराऽपि तेषां समुदारदृष्टिं विलोक्य विस्मिता जाता: । तेषां समुदारदृष्ट्या एव कुमारपालमूपाल अतीव आकृष्टः सन् तेभ्यो दूरं न गतवान् प्रतिदिनं तेषामभ्यर्णे स्वाध्यायादि यथाशक्यं कृतवांश्च ।
अत: कलिकालसर्वज्ञस्य समुदारदृष्ट्या तेषां नाम सम्पूर्ण भारतवर्षे विश्रुतम् । अद्याऽपि परदेशीया विद्वांसोऽपि स्वग्रन्थे तेषां नाम लिखति ।
ईदृशी समुदारदृष्टिरस्माकमपि भवतु ॥
0
१०२
Page #108
--------------------------------------------------------------------------
________________
काव्यकालसर्वज्ञस्य योगसिद्धिः
मुनिविश्रुतयशविजयो गणिः
अनेकेषु विषयेषु लब्धप्रतिष्ठस्य कलिकालसर्वज्ञस्य कस्मिन् विषये सिद्धिर्नासीद् ? तेषां योगसिद्धेः प्रावीण्यं तु वायामगोयरम् ।
योगिकुले जातत्वाद् आजन्मत एव ते योगसिद्धाः आसन् । एतत्समर्थनाय कतिपयोदाहरणानि दीयन्ते ।
___ एकदा बहुदिनेषु गतेष्वपि यदा कुमारपालः सूरिवर्याणां पार्वे नाऽऽगतस्तदा तैः श्राद्धाः पृष्टाः - 'किं कारणेन राजा न दृश्यते?' । तदा श्रावकवर्गः सर्वं विज्ञाय कथितं यदधुना राजा अन्यस्य कस्याऽपि योगसिद्धस्य पार्वे गच्छति । तदा आचार्यवर्यानुरोधात् श्राद्धैः प्रवचने राजा आमन्त्रितः । आचार्यवर्याः सप्तपट्टकानामुपरिष्टात् पट्टकोपरि व्याख्यानार्थमुपविष्टाः । श्रावकैः पूर्वनिर्देशानुसारं क्रमश एकैकं कृत्वा सप्ताऽपि पट्टकानि निसारितानि । आचार्यवर्यास्तु निरालम्बमाकाश एव स्थित्वा व्याख्यानं ददति स्म । कुमारपालोऽत्यन्तमाश्चर्यचकितो बभूव । 'कीदृशी योगसिद्धिः कलिकालसर्वज्ञस्य' इति चिन्तयन् विस्मितो जातः ।
एकदा ते राज्ञा पृष्टा- 'अद्य का तिथि: ?' अन्यमनस्कतया गुरुवर्यैरमावस्यायाः स्थाने पूर्णिमा इति प्रोक्तम् । पश्चाद् स्वीयस्खलनं विज्ञातम् । किन्तु समग्रसभाजनेषु 'अद्य पूर्णिमा इति जैनाचार्याः कथयन्ती'ति वार्ता प्रसृता । अत आचार्यवर्यैः स्वयोगशक्त्याऽऽकाशे पूर्णचन्द्रो दर्शितः । द्वादश गव्यूतान् यावत् सर्वत्र राज्ञा जनाः प्रेषिताः । सर्वत्र चन्द्रो दृष्टः, सर्वे च सभासदो विस्मिता बभूवुः । आचार्यैस्तु पश्चात् सङ्घसमक्षं स्वस्खलनां प्रकटीकृत्य 'केवलं जैनशासनस्याऽवर्णवादं रो« मयैतत् कृतम्' इत्युक्त्वा प्रायश्चितं याचितम् ।
अनया रीत्या योगस्य सिद्धयः कलिकालसर्वज्ञस्य जीवने अनेका दृश्यन्ते ।
१०३
Page #109
--------------------------------------------------------------------------
________________
प्रज्ञातीर्थस्य वन्दनम्
मुनि-अक्षयरत्नविजयः ( पू. युग. आ. विजयधर्मसूरीश्वरसमुदायवर्ती )
देशनासमये परमतारक - परमात्मना प्रभुमहावीरेण 'उप्पन्नेई वा, विगमेई वा, धुवेई वा' इति त्रिपदी यथा गणधरेभ्यो दत्ता, तथाऽस्मदाप्तजनैरस्मभ्यमेका मनोहरा कल्याणकारिणी त्रिपदी दत्ता । सेयं त्रिपदी ‘१. परित्यजनीयोऽवर्णवादः २. अर्जनीय आशीर्वादः ३. करणीयो गुणानुवादश्चेति' ।
त्रिपद्या: प्रथमपदस्य भावोऽयं यदनेकदोषाणां मूलसदृशेऽवर्णवादे सत्पुरुषाणां प्रवृत्तेरनौचित्यात् कुत्सापराभिधानादवर्णवादाद् दुर्जनार्हाद् विरमेयुस्सज्जनाः । पूज्यानां गुर्वादिकानां कृपाया आत्मप्रगतेर्निबन्धनत्वात् ये ये पूज्यास्तेषामाशीर्वादार्थे सर्वदोद्यमशीलैर्भवितव्यमिति द्वितीयपदं प्रेरयति । सर्वोत्तमतृतीयपदार्थोऽयं यद् गुणवतां जनानां गुणस्तवनस्याऽवसरं कदाऽपि न परित्यजेत्, गुणानुवादस्याऽस्मद्गुणविकासे निमित्तत्वात् ।
इदानीं त्रिपद्यास्तृतीयपदाचरणस्याऽवसरः समुपस्थितोऽस्ति । यतो नवपदमण्डलस्य तृतीयपदालङ्कारिष्णोः कलिकालसर्वज्ञश्रीमहेमचन्द्राचार्यभगवतः सूरिपदनवमशताब्दी प्रचलतीदानीम् । अतस्तस्य पूज्यपादस्य गुणस्तवने चित्तमुल्लसितम् । आगच्छत, अवसरं प्राप्य वयं सर्वे श्रीमतोऽद्वितीयप्रज्ञावैभवद्योतक-प्रसङ्गावलोकनेन तदीयं गुणसङ्कीर्तनं कुर्याम्, तेन च पूर्वोक्तत्रिपद्या अन्तिमं पद्यं चरितार्थं कुर्वीमहि । यतो 'महात्मनां कीर्तनं हि श्रेयो निःश्रेयसास्पदम्' ।
“भोः समज्यासदः ! सभायामस्यामस्ति कोऽपि प्रकृष्टप्रभावसम्पन्नः कोविदो यो ग्रन्थादेतस्मादप्युत्कृष्टं ग्रन्थसर्जनं कर्तुं शक्नुयात् ?" गुर्जरनेशः सिद्धराजजयसिंह आह्वानपूर्णभाषया स्वप्रस्तावं विद्वद्जनान् प्रति प्रकटीचकार ।
१०४
Page #110
--------------------------------------------------------------------------
________________
वस्तुतो मालवमहीपतिना भोजेन विरचितो व्याकरणग्रन्थः सरस्वतीकण्ठाभरणाख्यः सिद्धराजस्य हस्तमागत आसीत् । सम्राट सिद्धराजोऽतिमुदितवान् दृष्ट्वा नयनाभिरामं तत्सर्जनम् । कृतिरेषा राज्ञो मनस्येकां विशिष्टामभिलाषां प्रादुरभावयत् - "यदि धारानगर्या राजैतादृशं ग्रन्थं सृष्ट्वाऽमरत्वमाप्नुयात्, तहहमपि केनाऽपि गुर्जरविदुषाऽस्मादप्युत्तमं ग्रन्थं मदीयनामयुक्तं विरचय्याऽमरतां कथं न प्राप्नुयाम्" इति ।
परामर्शबीजमिदं राज्ञा राजसमज्यायामाह्वानपूर्वकं प्रकटीकृतम् । यत: ‘सर्वे जनास्सन्ति महत्त्वाकाङ्क्षाभिः पूर्णाः ।'
सर्वेऽप्यन्ये विद्वन्मन्या विपश्चितो नोत्साहवन्तोऽभूवन् स्वीकर्तुमाह्वानमिदम् । यतस्तैः सुज्ञातं यत् कार्यमिदं दुःसाधतरमस्ति । सर्वान् निस्तेजसो दृष्ट्वा राज्ञा प्रज्ञापुरुषश्रीमद्हेमचन्द्राचार्यो विज्ञप्तो यद् - "यशो मम तव ख्यातिः, पुण्यं च मुनिनायक ! विश्वलोकोपकाराय, कुरु व्याकरणं नवम् ॥" तां भक्तिपूर्णा विज्ञप्तिं श्रुत्वा प्रज्ञाप्रतिभासम्पन्नो हेमचन्द्राचार्य उक्तवान् – “गुर्जरेश ! निश्चिन्तो भव । भवत्प्रार्थनानुरूपं व्याकरणग्रन्थमहमल्पावधौ स्रक्ष्यामि । तवाऽभिलाषोऽवश्यं परिपूर्णो भविष्यति" ।
हर्षोन्मत्तः सिद्धराज उच्चचार - "गुरुदेव ! भवति मे पूर्णविश्वासः । भवानेतदर्थे प्रभविष्णुः । अहमादरपूर्वकं ग्रन्थसर्जनकार्यं भवते समर्पयामि ।"
अभिनवसर्जनं चिकीर्षः श्रीहेमचन्द्राचार्यः कार्यमारब्धवान् त्वरितम् । नैके मासा व्यतीताः । प्रायो वर्षान्ते श्रीहेमचन्द्राचार्योऽवदत् - "राजन् ! तृप्तो भव, तवाऽभीष्टं सम्पन्नम् । अद्य तीव्रपरिश्रमतरौ सपादलक्षमान-भव्यव्याकरणग्रन्थफलं लग्नमस्ति ।"
सन्देशमानन्ददायकं श्रुत्वेमं रणरणकेन सिद्धराजेन तत्क्षणमेव तद्व्याकरणग्रन्थोऽवलोकितः । तस्याऽनुपमा रचनां दृष्ट्वा सिद्धराजस्य मनोमयूरोऽनृत्यत् । अणहिल्लपुरपत्तने सिद्धराजेन तस्याश्चमत्कृतिपूर्णकृतेर्भव्यशोभायात्रा निर्धारिता । समस्तनगरी नववधूसदृशी व्यभूष्यत राज्ञा । सबहुमानेन सिद्धराजेन व्याकरणग्रन्थो हस्त्युपरि विराजितः । जलपूर्णजलधिरिव पौरजनपूर्णा भव्यातिभव्या शोभायात्रा निर्गता । पूतं ग्रन्थरत्नं पूजितं लोकैः स्वर्णरजतपुष्पैः । ग्रन्थसन्मानार्थमैतिहासिकमहोत्सवः कृतः । सिद्धराजजयसिंह हेमचन्द्राचार्ययोः स्मृत्यर्थं ग्रन्थाभिधानं 'सिद्धहेमचन्द्रशब्दानुशासनम्' इति कृतम् । हेमचन्द्राचार्यस्याउनुपमप्रज्ञाद्योतकेन तेन ग्रन्थेन जगन्नभोमण्डले जिनशासनस्य गौरवपताकोच्चैः स्पन्दमानाऽभवत् ।
अतुलपुण्यस्य तीव्रतमप्रज्ञायाश्च प्राबल्याद् हेमचन्द्राचार्यानां जीवनाकाशमेतादृशैस्त्वनेकप्रसङ्गतारकैर्व्यराजत । वयं तान् सर्वान् प्रसङ्गान् युगपदनुमोदयितुं सूरिहेमचन्द्रेभ्यस्तैरेव रचितस्य वीतरागस्तवग्रन्थस्य श्लोकपङ्क्ति प्रयुज्य विरमामोऽत्रैव यद् - 'महतां काऽपि वैदुषी ?'
१०५
Page #111
--------------------------------------------------------------------------
________________
प्राकृतविभागः
आर्हन्त्यम् (अरिहंतत्तं)
अमृत पटेल:
=
तेणं कालेणं तेणं समए णं अस्सि चेव जंबुद्दीवे दीवे भरहवासस्स दाहिणे अद्धभागे मज्झिमखंडे गुज्जरत्ता नामेणं विसया होत्था ।
तत्थ णं लोगहिए लोगमहिए चोलुक्कवंसे कुमारवालनामधेज्जो राया आसी, परमो आरहंतो, जिणवयणभावियमणो, देवगुरुसंथवमहियवयणो सोऽन्नया कलिकालसव्वण्णुणो सिरिहेमचंदसूरीसरगुरुणो चरणवंदणवत्तियाए गुरुवसहिमहिगओ, तत्थ य देसणावसाणे अवसरं पप्प पमुइयहियएणं वियसियवयणेणं हरिसंसुसमद्दनयणेणं सिरंसि करजुयलेणं दसवत्तं पउणं विरइऊणं विन्नवेइ - जहा भयवं ! कुणसु मे किवं, जेण हं अमिय-अमिय- किवासमियलोगतावाणं महियपावाणं जियभयाणं जिणाणं अमियगुणकित्तणं सुमि, सुत्ता अप्पणो सवणं जिणगुणसुवण्णकित्तणलंकरियं करेमि, दिणाणुदिणं च पुणो पुणो य मणं अमंदपुण्णसंभारभरियं भावेमि, अप्पाणं च जम्मणजायसंजायखेय-क्खोह - विक्खोहविप्पजढं विहामि, कम्मपलिमंथुं च परिमंथामि....
तए णं कुमारपाल भूवालस्स भवमहणं महंतंमणुण्णं मणाहिलासमुदयपव्वयमारोहिऊण दसणकिरणजाल-विद्धंसियघणंधयारं सूरिसूरो - भो ! नरिंद ! इमे खलु जिणिदा सुरिंदविदवंदिया सव्वेसु सत्तजोणिसु समयं सव्वहा निरुवमं भावदयं सुहं वरिसंति - जम्हा एते जिणा अरिहंता खलु सहावओ च्चिय दयामयहियया दयामयवयणा, लोगहिया ते नियं हियमहियं अवहीरिऊण सव्वेसु सत्तेसु सव्वेसु भूसु सव्वेसु जीवेसु सव्वेसु पाणिसु निययं निच्छइयं हियं च्चिय झायंति, 'हियं च तं अहिंसा-संजमतवोमइएणं धम्मेणमेव 'त्ति एगंतं वयंति, धम्मं च तं सयं सययं सम्ममाराहेंति, - जओ परमकारुणिगाणं ताणं अप्पा परमट्ठहियट्ठाणभूओ, मणंसि च तेसिं एसे अज्झत्थिए संकप्पे चितिए वरिवट्टइ - जहा सव्वे अप्पाणा धम्मत्ताणसारक्खिया हवंतु, परे य अप्पे धम्मेण एव रक्खन्तु, रक्खाविन्तु य, धम्मो य विणा अहिंसातो न संभवेइ, अहिंसाए य विणा करुणाभावणं न जायइ, करुणा य मेत्तीभावमइया हि अग्घइ, मेत्ती य सव्वेसु जीवेसु अजीवेसु वा, समत्तभावत्तो जीयंती वट्टइ । अओ - सम्मत्तपरिक्खणत्थं सव्वे सत्तवंता सत्ता संतु – अमियदयामियनुवण्णा परपराभवभावणाविहूणा, परदोसदंसणबंधियनयणा नियगुणवक्खाणमुक्कवयणा, अवि य सव्वेसु भावेसु सम्मं सम्मत्तं राग - दोसरहियत्तं पेच्छंतु मिच्छत्तं च धियं धिसणं मइं बुद्धिं जहंतु, जेण य गुणं गुणमेव, दोसं दोसमेव निरिक्खंतु, देवं तु देवं, न अदेवं देवं, गुरुं तु गुरुं, न अगुरुं गुरुं, धम्मं तु धम्मं, न अधम्मं धम्मं जाणंतु वा माणंतु वा, जेण जीवा सव्वे
१०६
Page #112
--------------------------------------------------------------------------
________________
वि मिच्छंधयारत्तो मा भमंतु भीमे भवगहणे' - इमेयारूवा भावदया ताणं अरिहंताणं अरहंताणं अरुहंताणं भगवंताणं विज्जइ, इणमो य भावदया ताणं जगवल्लहाणं अणाहणाहाणं अरिहंताणं 'अरिहंतत्तणं अत्थि, एसा सव्वजीवसंजीवणी सव्वचिंताचूरणी भावदया अरिहंतत्तरूवेण सव्वेसु सव्वेसु अरिहंतेसु वट्टइ च्चिय जेणं ते अभयदाणसहावा अभयवंता अभयदिता य जगजीवजोणी जगाणंदाय जायंति... जयंम्मि जयंति, अओ तं अरिहंताणं अरिहंतत्तणं सिवकारणं सिवरूवयं सिवफलयं सव्वया सव्वहा सिवाहिट्ठियं'ति,
एवंविहं 'अरिहंतत्तं परमतत्तं'ति निययहिययमंदिरे झाएयव्वं-जहा एतं अरिहंतत्तं चिय सम्मं सत्तं सव्वसत्तहितं सव्वलोअईसरं, जओ तं च्चिय सव्वसुक्खनियाणं, नऽन्नं, तं च्चिय तिलोकस्सेक्कमेव सक्खं परुक्खं ईसरत्तं ति,
तया कलिकालसव्वण्णुणो चरणणलिणलीणो सिस्सो सक्कयभासानिउणो सिरिमहिंदसूरिंदो मिव सिरिमहिंदनाम सूरिंदो गहिय अरिहंतत्तवक्खाणपरमत्थो चवइ - भयवं ! कल्लं किल सयमेव विरइए त्ति सक्कभासाविहूसिए तिसट्ठीपुरिसचरिए महाकव्वे इणमेव अत्थं मंगलसिलोगरूवेणं निरूविअं अत्थि, - जहा -
सकलार्हत्प्रतिष्ठान-मधिष्ठानं शिवश्रियः । भू-र्भुवः-स्वस्-त्रयीशानमार्हन्त्यं प्रणिदध्महे ॥१॥ इति ।
२०३/बी, एकता एवन्यु, बेरेज रोड, वासणा, अहमदाबाद.
अन्यदा हेमचन्द्रचार्येषु राजसभायामागच्छत्सु सत्सु वामराशिर्भरटकस्तानुद्दिश्य निन्दाश्लोकमाह
यूकालक्षशतावलीवलवलल्लोलोल्लसत्कम्बलो दन्तानां मलमण्डलीपरिचयाद् दुर्गन्धरुद्धाननः । नासावंशनिरोधनाद् गिणिगिणीपाठप्रतिष्ठास्थितिः
सोऽयं हेमडसेवडः पिलपिलत्खल्लिः समागच्छति ।। श्रुत्वैतत् स्मिताननैराचार्यैस्तत्पाश्र्वं गत्वा मधुरस्वरेण कथितं - "विद्वद्वर्य ! उत्तमोऽयं श्लोको भवता कल्पितः, किन्तु त्रुटिरेका परिमार्जनीयाऽस्ति । 'हेमडसेवड' - इत्यस्य स्थाने 'सेवडहेमड' इति कर्तव्यं, यतो विशेषणं सर्वदा पूर्वमेव पठ्यते' ।
एतदाकर्ण्य वामराशिस्त्रपाधोमुखो जातः, सभासदश्चाऽऽचार्याणां समत्वं गाम्भीर्यं च दृष्ट्वा विस्मयं प्राप्ताः ।
(प्रबन्धचिन्तामणिः)
१०७
Page #113
--------------------------------------------------------------------------
________________
परिशिष्टम्
पाण्डवानां प्रवज्या
अन्यदा पत्तने -
चतुर्मुखाख्यजैनेन्द्रालये व्याख्यानमद्भुतम् । श्रीनेमिचरितस्याऽमी श्रीसङ्घाग्रे प्रतुष्टुवुः ॥१॥ * श्रीहेमचन्द्राचार्याः सुधासारवचःस्तोमाकृष्टमानसवासनाः । शुश्रूषवः समायान्ति तत्र दर्शनिनोऽखिलाः ॥२।। पाण्डवानां परिव्रज्या-व्याख्याने विहितेऽन्यदा । इतरे मत्सराध्माता: व्याचख्युपतेरिदम् ॥३॥ * सिद्धराजजयसिंहस्य स्वामिन् ! पुरा महाव्यासः कृष्णद्वैपायनोऽवदत् । वृत्तं युधिष्ठिरादीनां भविष्यज्ज्ञानतोऽद्भुतम् ॥४॥ तत्रेदमुच्यते स्वायुःप्रान्ते पाण्डोः सुता अमी । हिमानीमहिते जग्मुहिमवद्भूधराध्वनि ॥५॥ श्रीकेदारस्थितं शम्भुं स्नानपजनपूर्वकम् ।। आराध्य परमाभक्तिस्वान्ताः स्वान्तमसाधयन् ॥६॥ युग्मम् ॥ अमी श्वेताम्बराः शूद्रा विद्रुतस्मृतिसूक्तयः । तदुक्तवैपरीत्यानि जल्पन्ति निजपर्षदि ॥७॥ अनौचित्यकृताचारात् पुरे तेऽरिष्टमित्यदः । भूभृता रक्षणीयाश्च दुराचाराः प्रजाकृताः ।।८।। विचार्य हृदि कार्याणि विचारक ! विधेहि तत् । इत्युक्त्वा विररामाऽसौ परव्यूहोऽतिधीरगीः ।।९।। राजाऽप्याह न भूपाला अविमृश्यविधायिनः । दर्शनानां तिरस्कारमविचार्य न कुर्वते ॥१०॥ अनुयोज्या अमी चाऽत्र दधुश्चेत् सत्यमुत्तरम् । तन्मे गौरविता एव न्याय एवाऽत्र नः सुहृत् ॥११।।
१०८
Page #114
--------------------------------------------------------------------------
________________
तथा हि
-
हेमाचार्योऽपि निर्ग्रन्थः सङ्गत्यागी महामुनिः । असूनृतं कथं ब्रूयाद् विचार्यं तदिदं बहु ||१२|| एवं भवत्विति प्रोचुः प्रवीणा इतरे अपि । आजुहाव ततो राजा हेमचन्द्रं मुनीश्वरम् ॥१३॥ अपृच्छदथ माध्यस्थ्यात् सर्वसाधारणो नृपः । शास्त्रे चाऽऽर्हती दीक्षा किं गृहीता पाण्डवैः किमु ? ||१४|| सूरिरप्याह शास्त्रे नः इत्यूचे पूर्वसूरिभिः । हेमाद्रिगमनं तेषां महाभारतमध्यतः ॥ १५ ॥ परमेतन्न जानीमो ये नः शास्त्रेषु वर्णिताः । त एव व्यासशास्त्रेऽपि कीर्त्यन्तेऽथ परेऽपरे ||१६|| राजाऽऽह तेऽपि बहवः पूर्वं जाताः कथं मुने ! अथाऽवोचद् गुरुस्तत्र श्रूयतामुत्तरं नृप ! ॥१७॥ व्याससन्दर्भिताख्याने श्रीगाङ्गेयः पितामहः । युद्धप्रवेशकालेऽसावुवाच स्वं परिच्छदम् ॥१८॥ मम प्राणपरित्यागे तत्र संस्क्रियतां तनुः । न यत्र कोऽपि दग्धः प्राग् भूमिखण्डे सदा शुचौ ॥१९॥ विधाय न्याय्यसङ्ग्रामं मुक्तप्राणे पितामहे । विमृश्य तद्वचस्तेऽङ्गमुत्पाट्याऽस्य ययुर्गिरौ ॥२०॥ अमानुषप्रचारे च शृङ्गे कुत्राऽपि चोन्नते । अमुञ्चन्; देवतावाणी क्वाऽपि तत्रोद्ययौ तदा ॥ २१ ॥ अत्र भीष्मशतं दग्धं पाण्डवानां शतत्रयम् । द्रोणाचार्यसहस्त्रं तु कर्णसङ्ख्या न विद्यते ॥२२॥ एतद् वयमिहाऽऽकर्ण्य व्यमृशाम स्वचेतसि । बहूनां मध्यतः केऽपि चेद् भवेयुर्जिनाश्रिताः ||२३|| गिरौ शत्रुञ्जये तेषां प्रत्यक्षाः सन्ति मूर्तयः । श्रीनासिक्यपुरे सन्ति श्रीमच्चन्द्रप्रभालये ||२४|| केदारे च महातीर्थे कोऽपि कुत्राऽपि तद्रतः । बहूनां मध्यतो धर्मं तत्र ज्ञानं न नः स्फुटम् ॥२५॥ स्मार्त्ता अप्यनुयुज्यन्तां वेदविद्याविशारदाः ।
ज्ञानं कुत्राऽपि चेद् गङ्गा न हि कस्याऽपि पैतृकी ॥२६॥
१०९
Page #115
--------------------------------------------------------------------------
________________
राजा श्रुत्वाऽऽह तत् सत्यं वक्ति जैनषिरेष यत् । अत्र ब्रूतोत्तरं तथ्यं यद्यस्ति भवतां मते ॥२७।। अत्र कार्ये हि युष्माभिरेकं तथ्यं वचो ननु । अजल्पि यद विचार्यैव कार्यं कार्य क्षमाभृता ॥२८॥ उत्तरानुदयात् तत्र मौनमाशिश्रियंस्तदा । स्वभावो जगतो नैव हेतुः कश्चिन्निरर्थकः ॥२९।। राज्ञा सत्कृत्य सूरिश्चाऽभाष्यत स्वागमोदितम् । व्याख्यानं कुर्वतां सम्यग् दूषणं नास्ति वोऽण्वपि ॥३०॥
(श्रीप्रभाचन्द्रसूरिविरचिते प्रभावकचरिते हेमचन्द्राचार्यचरित्रे श्लो. १४१-१६९, १७१)
चारिसञ्जीवनीचारदृष्टान्तम्
पुरा कश्चिद् व्यवहारी पूर्वपरिणीतां पत्नीं परित्यज्य (नूतनां परिणीय) संग्रहणीसात्कृतसर्वस्वः सदैव (आस्ते । तदा) पूर्वपत्न्या पतिवशीकरणाय तद्वेदिभ्यः कार्मणकर्मणि पृच्छ्यमाने कश्चिद् गौडदेशीयो 'रश्मिनियन्त्रितं तव पति करोमी'त्युक्त्वा किञ्चिदचिन्त्यवीर्यं भेषजमुपनीय 'भोजनान्तर्देय'मिति भाषमाणः स गतः । कियद्दिनान्ते समागते क्षयाहनि तस्मिंस्तथाकृते स प्रत्यक्षां वृषभतां प्राप । सा च तत्प्रतीकारमनवबुध्यमाना विश्वविश्वाक्रोशान् सहमाना निजं दुश्चरितं शोचन्ती कदाचिन्मध्यन्दिने दिनेश्वरकठोरतरनिकरप्रसरतप्यमानाऽपि शाड्वलभूमिषु तं पतिं वृषभरूपं चारयन्ती, कस्याऽपि तरोर्मूले विश्रान्ता निर्भर विलपन्ती, आलापं नभस्यकस्माच्छुश्राव । तदा तत्राऽऽगतो विमानाधिरूढः पशुपतिर्भवान्या तदुःखकारणं पृष्टो यथावस्थितं निवेद्य तस्यैव तरोश्छायायां पुंस्त्वनिबन्धनमौषधं तन्निर्बन्धादादिश्य तिरोदधे । सा तदनु तदीयां छायां रेखाङ्कितां निर्माय तन्मध्यवर्तिन औषधाङ्करानुच्छेद्य वृषभवदने क्षिपन्ती, तेनाऽप्यज्ञातस्वरूपेणौवधाङ्करेण वदनन्यस्तेन स वृषभो मनुष्यतां प्राप ।
___ यथा तदज्ञातस्वरूपोऽपि भेषजाङ्करः समीहितकार्यसिद्धिं चकार तथा कलियुगे मोहात् सम्यगपरिज्ञानेऽपि सर्वदर्शनाराधनेनाऽविदितस्वरूपोऽपि धर्मो मुक्तिप्रदो भवतीति निर्णयः ।
(प्रबन्धचिन्तामणिः)
११०
Page #116
--------------------------------------------------------------------------
________________
आस्वादः
| तीर्थङ्करमहावीरस्य उपदेशाः
राजेशकुमार मिश्रः
एकदा श्रद्धालुः महावीरं पृष्टवान् - भगवन् ! अहं सर्वव्रतान् पालयामि । अजितधनस्य एकांशदानं करोमि ! उपवासमपि करोमि, तथापि मनः शान्तं न भवति । कृपया कथ्यताम्, मनसः शान्त्यर्थं किं करणीयमस्ति ?
भगवान् महावीरः प्रश्नोत्तरं दत्तवान् - भद्र ! धनदानेन सन्तोषं न धारय । स्वहस्तेन परसेवां कुरु। अन्धकारं नाशयितुं दीपकं प्रज्वालय । अज्ञानान्धकारग्रस्तं ज्ञानदीपप्रकाशेन भक्तिमार्ग दर्शय, येन संसार-सागरात् उद्धारः स्यात् । ईश्वरभक्तिसंलग्नाय दिव्यानन्दानुभूतिः भवति ।
जिज्ञासुना प्रश्नः कृतः - भगवन् ! जैनधर्मस्य कः सारः ? स्वामिमहावीर उत्तरे कथितवान् – भद्र ! त्वं स्वस्मै यद् इच्छसि, तत्परस्मै अपि वाञ्छ । यत्त्वं स्वस्मै नेच्छसि, तत्त्वं परस्मै नेच्छ । यत्त्वं स्वस्मै करोषि, तत्त्वं परस्मै कुरु । एतदेव जैनशासनमस्ति । अयमेव जैनधर्मस्य सारः ।
जिज्ञासुः प्रश्नं कृतवान् - भगवन् ! अस्माकं किं कर्तव्यमस्ति ? भगवान् महावीर उपदिष्टवान् - भद्र ! यदि त्वं स्वपीडां न वाञ्छसि, तत्परपीडनमपि न कुरू । सदाचारं पालय । सद्विचारान् धारय । ज्ञानप्रकाशं प्रसारय । इत्थं स्वामिना महावीरेण स्वास्याऽन्तिम उपदेशः कार्तिककृष्णत्रयोदश्यां कृतः । स्वामिमहावीरस्य उपदेशाः प्रसिद्धाः सन्ति ।
अध्यापकः, राजकीय उच्चतरमाध्यमिकविद्यालयः,
देवताधारः, पत्रालय:-कोटः चम्बा - २४९१४५ (उत्तराखण्ड-)
१११
Page #117
--------------------------------------------------------------------------
________________
पत्रम्
मुनिधर्मकीर्तिविजयः
नमो नमः श्रीगुरुनेमिसूरये । आत्मीयबन्धो ! चेतन !
धर्मलाभोऽस्तु । अत्र वयं सर्वेऽपि कुशलाः स्मः । तत्राऽप्येवमेव स्यादित्याशासे । देव-गुरु-धर्मस्य प्रसादेन पूज्यपादगुरुभगवता सहाऽस्माभिः कर्णावतीनगरतः प्रारब्धा विहारयात्राऽद्य सुखं समाप्ता ।
विहारं कुर्वता यदा सावरकुण्डलानगरं प्राप्तं तदा मयैकं दृश्यं दृष्टम् । मार्गशीर्षमास आसीत्, शीतकालो वर्तते स्म, प्रत्यूषकाल आसीत् । मार्गस्यैकस्मिन् कोणे चतुभि: पोतैः सह कुक्कुरी स्वपिति स्म । तैः सह सूकर्यास्त्रयः पोता अपि निद्रान्ति स्म । यं कुक्कुरं निरीक्ष्येतस्ततो नश्यन्तः सूकरपोता अपि कुक्कुरपोतैः सह सानन्दं ससुखं च प्रेम्णा सालिङ्गनं सुप्ताः, इति दृष्ट्वा मनसि विचारधारा जागृता ।
चेतन ! प्रत्येकं प्राणी प्रेम वात्सल्यं चेच्छति । तदेव प्राणिनां नूतनं चैतन्यं जीवनं चाऽर्पयति । मनसा हताशाः, सामाजिक-व्यवहारैस्त्रस्ताः, कौटुम्बिकक्लेशैः पीडिताः, सर्वतः सततमुपेक्षिताश्च प्राणिनोऽपि प्रेम्णा वात्सल्येन चाऽऽहूताः शान्तिमनुभवन्ति जीवने हि नूत्नां दिशं चाऽवाप्नुवन्ति ।
उपेक्षया घृणया क्रोधेन च यन्न भवति तत् प्रेम्णा वात्सल्येन च भवति । उपेक्षादिकेन कदाचिदन्यान् त्वं वशीकुर्याः किन्तु तेषां हृदयं न जेतुं शक्नुयाः । प्रेम्णा वात्सल्येन च त्वमन्यान् वशीकुर्या एव,
११२
Page #118
--------------------------------------------------------------------------
________________
तथा ते हृदयेनाऽपि तवाऽधीना भवन्ति । क्रूराः शत्रवश्च जना अपि प्रेम्णा वात्सल्येन चाऽधीना भवन्ति । तथाऽपि न जाने किमर्थं वयं कांश्चिदपि जनान् प्रेम्णा नाऽऽह्वातुं शक्नुमः, न च मधुरवाक्यानि वक्तुं शक्नुमः । निरन्तरं क्लेश-सन्ताप-कटुतादिरूपाग्निदाहेन वयं प्रज्वलामः ।।
बन्धो ! कोकिलस्य काकस्य च मध्ये को भेदः? द्वयोर्न कोऽपि किमप्यस्मभ्यं ददाति । तथाऽपि कोकिलोऽस्मद्भ्यो रोचते, काकस्त्वप्रियो भवति । अत्र कारणमेतदेव यत्, कोकिल: प्रियकरं वचनं वदति, काकः सदाऽप्रियमेव वक्ति । एवं प्रियवचनेन प्रेम्णा चाऽशक्यमपि शक्यं भवति । अद्यैवैकः प्रसङ्गः श्रुतो मया । सत्यघटनाऽस्त्येषा ।
उन्नतपुरे (उनानगरे) एको बालो वसति । स सर्वानपि मुखेन दशति । ततो गृहसभ्याः प्रातिवेश्मिकाश्चाऽतीव त्रस्ता जाताः । किं करणीयमिति मुह्यन्ति स्म ते । आङ्ग्लवैद्यचिकित्सा - शान्तिकपौष्टिककर्म-भूतप्रेतपिशाचादिशमनम् - इत्यादिका बहवः प्रयत्नास्तस्य शान्त्यर्थं कृताः, किन्तु ते सर्वेऽपि निष्फला जाताः । अन्ते पितृभ्यां गृहस्य बहिर्भागे एकस्मिन् कोणे स बालको लौहशृङ्खलया बद्धः । दूरत एव जलमन्नं च ददन्ति तस्मै । सोऽपि तत्रैव स्नानं मूत्रादिकं चाऽपि करोति । त्रस्ता गृहजनाः सर्वेऽपि तमुपेक्षन्ते स्म, न च प्रेम्णा वात्सल्येन चाऽऽह्वयन्ति स्म ।
एकः सेवारसिकः शिक्षक उन्नतपुरे वसितुमागतवान् । तेनैका लघुशाला प्रस्थापिता । तत्र मन्दबुद्धीन् बालकान् प्रेम्णा विविधयुक्त्या चाऽभ्यासं कारयति, विना मूल्यं चाऽऽहारादिकमपि कारयति । बालकः स्वबुद्ध्या भोजनं, वस्त्रपरिधानं, स्नानं, योग्यस्थाने च मूत्रादिकं कर्तुं यथा समर्थो भवेत् तथा तस्मै शिक्षणं दीयते तत्र ।
एतेन शिक्षकेन लौहशृङ्खलया बद्धस्य बालकस्य वार्ता श्रुता । स तस्य बालकस्य समीपं गन्तुमुत्कण्ठितो जातः । किन्तु ग्राम्यजनैहजनैश्च निषेधः कृतः । तथाऽपि दिनत्रयानन्तरं सर्वमप्यविगणय्य बालकस्य निकटं गतवान् स शिक्षकः । तत्रत्यैर्जनैः सोपहासमुक्तम् - एकोऽस्तु मन्दबुद्धिरासीदेव, अद्य द्वितीय आगतवान् । सोत्साहं समीपं गत्वा तस्य बालकस्य शिरसि प्रेम्णा शिक्षकेन तु हस्तः प्रसारितः, खादितुं 'बिस्कीट-चाक्लेट' इत्यादिकं दत्तम् । बालकस्त्वतीव प्रसन्नो जातः । तेन बालकेन न दष्टं, न चाऽऽराटिः कृता । शिक्षकेण सहाऽऽनन्देन व्यवहारः कृतः । ततो बालकस्य पितृभ्यामनुमतिं स्वीकृत्य स बालको लौहशृङ्खलया मोचितः । तदा स बालको दशक्षणं यावत्तं शिक्षकमानन्देनाऽऽलिङ्गितवान् । पश्चात् शिक्षकं प्रणम्य रोदितवान् । अन्ते शिक्षकस्तं बालकं स्वशालायामानीतवान् । अद्य प्रायो वर्षत्रयं व्यतीतम् । स बालकः स्वहस्तेन स्नाति भक्षयति च । अथ कदाचिदेव दशति । प्रायः शान्त एव सञ्जातोऽस्ति ।
स शिक्षकोऽस्मत्समीपमागत्योक्तवान् - गुरुवर ! एतादृशास्त्रिंशद् बालका अत्र वसन्ति । सर्वानप्येतदरीत्यैव पालयामि। कदाचित्ते बालकाः क्रोधेन वस्तूनि त्रोटयन्ति, जनान् त्रासयन्ति चाऽपि,
११३
Page #119
--------------------------------------------------------------------------
________________
किन्तु तान् बालकान् प्रेम्णा वात्सल्येन चैव बोधयामि । अस्माकं शालायां कदाचिदपि कठोरवाण्यास्तुच्छकारस्योच्चैराक्रोशस्य क्रोधस्य वा प्रयोगो नैव भवति, केवलं प्रेम्णा, धैर्येण, प्रशान्त्या चैव तैः सह व्यवहियते ।
प्रेम्णा किं किं न भवति ?
चेतन ! किं कथयामि ? यदा 'अजाहरा'तीर्थमध्ये महोत्सवः प्रचलित आसीत् तदाऽस्माकं समक्षमैतैर्बालकैर्नृत्यं कृतम् । यथा हस्ताङ्गल्या स्थाली वर्तुलाकारेण भ्रामयन्ति जनास्तथैकेन बालकेन पादस्योपरि त्रिपद्या भ्रमणं कारितम् । एवं मन्दबुद्धिजना अपि विविधां प्रवृत्तिं कुर्वन्ति । सर्वेषां जनानामात्मनि प्रचण्डशक्तिरस्त्येव केवलं तां शक्तिमदघाटयितमेव केनाऽपि प्रयत्नः करणीयः स्यात् । पितृभ्यां "ये बालका मन्दबुद्धयो मूर्खाश्चे"ति उपेक्षितास्त एव बालकाः कस्यचिदपि प्रेम्णः साहाय्येन स्वजीवनं निर्वोढुं शक्ता जाताः ।
अद्य गृहे गृहे क्लेशो वर्तते । न केऽपि सुखिनः सन्ति । अत्राऽपि कारणमस्ति - प्रेम्णो वात्सल्यस्य चाऽभावः । यदि सर्वेऽप्यन्येषामपराधं विस्मृत्य चित्तस्थितमुपेक्षादिकं विहाय प्रेमपूर्वकं व्यवहरेयुस्तहि सर्वत्र सुखं शान्तिश्च प्रसरेयुः । सर्वेऽपि जनाः प्रेमाऽभिलषन्ति, मां प्रेम्णाऽऽह्वयेयुः - इति सर्वेऽपीच्छन्ति, किन्तु न केऽपि प्रेम दातुमन्येभ्य इच्छन्ति ।
बन्धो ! अद्य केचित् परम्परावादिनस्तु प्रेमशब्दं निशम्य द्विषन्त्युद्विजन्ति च । “महत् पापं कृतं खलु" इति मनसिकृत्य प्रेमशब्दमुपेक्षन्ते । एतैर्जनैः प्रेमशब्दस्य महत्तां न्यूनीकृत्यैष शब्दोऽत्यन्ततुच्छशब्दरूपेण प्रस्थापितः, किन्त्वेतत्तु निश्चितमस्ति यत्, प्रेम्णो वात्सल्यस्य च विस्तारं विना न केषाञ्चिदपि विकासः शक्योऽस्ति । प्रेम एवाऽऽत्मिकं विकासस्य प्रथमं सोपानमस्ति । त्वं जानास्येव प्रत्येकं तीर्थङ्करः पूर्वस्मिन् तृतीये भवे -
शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः ।
दोषाः प्रयान्तु नाशं सर्वत्र सुखीभवतु लोकः ॥ इति भावनयैव तीर्थङ्करनामकर्मोपार्जयति । 'शिवमस्तु सर्वजगतः' नाम प्रेम्णो नितरां विकासः । बुद्ध-कृष्ण-राम-ईशुख्रिस्त-अल्लाह-इति ये येऽन्येऽपि महापुरुषा जातास्ते ते सर्वेऽपि प्रेम्णो विस्तारेणैव महापुरुषत्वमवाप्ताः - इति न कदापि विस्मर्तव्यम् ।
अन्ते, त्वमपि तव चित्ते स्थितं प्रेमोज्जागरय । प्रथमं गृहजनान् पश्चात् क्रमशो मित्रजनान्, प्रातिवेश्मिकान, नगरजनान् च प्रेम कृत्वाऽऽत्मिकविकासस्य मार्गे उन्नतिं साधय - इत्यभिलाषा ।
११४
Page #120
--------------------------------------------------------------------------
________________
ग्रन्थसमीक्षा
'वेदमहत्त्वम्' (हिन्दी-अनुवादसहितम्)
डा. रूपनारायणपाण्डेयः
प्रणेता : डा. राजेन्द्रप्रसादपाण्डेयः अनुवादकः डॉ. उदयशङ्करझाः प्रकाशकः शारदासंस्कृतसंस्थान, सी २६/५९, जगतगञ्ज, वाराणसी, २२१००२
प्र. सं. - २००९ ख्रि०, २०६५ वि.सं., पृ. सं. २८+२०८, मूल्यम् - रू. ४००/
वैदिकधर्मस्य संस्कृतेः परम्परायाश्च सर्वस्वभूताः सन्ति वेदाः । वेदावबोधाय महर्षिभिर्वे वेदाङ्गानि, दर्शनानि, पुराणानि च विरचितानि । विविधं वेदाः स्कन्दस्वामि-उद्गीथ-वेङ्कटमाधवआनन्दतीर्थ-आत्मानन्द-सायण-उनट-महीधर-हलायुध-अनन्ताचार्य-भट्टभास्करमिश्र-माधव-भरतस्वामिनीलकण्ठचतुर्धर-दयानन्द-सातवलेकर-अरविन्द-करपात्रस्वामिप्रभृतिभिराचार्यैर्व्याख्याताः । वेदस्य चरमे भागे जगद्गुरुशङ्कराचार्य-रामानुजाचार्यादीनां भाष्याणि नितरां राजन्ते । पाश्चात्यपण्डितैः ओल्डेनबर्गविल्सन-राथ-ऐसेन-रोअर-ग्रासमान-कीथ-ग्रिफिथ-मैक्समूलर-लुडविग-वेबर-ईग्लिङ्ग-स्टेवेन्सनकालण्ड-गार्बे-ग्रास्ट्रा-एटल-मैकडानलप्रभृतिभिरपि वेदस्य तात्पर्य स्वकीयविचारधारया विचिन्तितम् । अद्याऽपि वेदार्थावबोधने विद्वांसः प्रयतन्ते । प्रयत्नेऽस्मिन् पद्यमयो वेदार्थः डा० राजेन्द्रप्रसादपाण्डेयेन 'वेदमहत्त्वम्' इति ग्रन्थे प्रास्तूयत ।
अस्मिन् ग्रन्थे - शान्तिपाठः, स्वस्तिपाठः, शिवसङ्कल्पसूक्तम्, पुरुषसूक्तम्, संज्ञानसूक्तम्, प्रजापतिसूक्तम्, विश्वेदेवासूक्तम्, वाक्सूक्तम्, पृथ्वीसूक्तम्, उषस्सूक्तम्, सूर्यसूक्तम्, अन्नसूक्तम्(क), श्रद्धासूक्तम्, नासदीयसूक्तम्, रुद्रशान्तिसूक्तम्, सर्वार्पणसूक्तम्, सुजीवनसूक्तम्, वीरसूक्तम्, सत्कर्मफलसूक्तम्, अक्षसूक्तम्, ईशावास्योपनिषद्, अभयसूक्तम्, प्रदूषणमुक्तिसूक्तम्, दीर्घायुष्यसूक्तम्, विश्वकर्मसूक्तम्, वृष्टिसूक्तम्, ब्रह्मौदनसूक्तम्, अन्नसूक्तम्(ख), वायुहस्तस्पर्शसूक्तम्, स्त्रीमहिमा, पत्नीप्रेम, रतिसूक्तम्, वृषभकृषीवलसूक्तम्,
११५
Page #121
--------------------------------------------------------------------------
________________
कविकीनाशसूक्तम्, स्वराष्ट्रविजयः, वैदिकं राष्ट्रगीतं चेति शीर्षकेषु वेदमन्त्राणामर्थः प्रतिपादितः । ग्रन्थादौ 'वेदमहत्त्वे' सप्तत्रिंशदधिकशतश्लोकेषु वेदविषयकान् स्वकीयान् विचारान् प्रस्तौति ग्रन्थकारः । ग्रन्थात् प्राक् शोभन्ते डा० अभिराजराजेन्द्रमिश्र-प्रो. वेम्पटिकटम्बशास्त्रि-शिवजी उपाध्याय-कमलेशदत्तशास्त्रिमहाभागानाम् आशीर्वचांसि ।
वर्तमाने वैज्ञानिके युगे वेदानामध्ययनस्य किमपि प्रयोजनमस्ति, न वेति शङ्कायाः समाधानं सम्यग् विधीयतेऽत्र ग्रन्थकृता । वेदेषु समाजवादः, समभावः, सत्यनिष्ठता, भौतिकविज्ञानं, गणितं, राष्ट्रभावना, दर्शनं, नीतिः, काव्यं, कलाश्चेत्यादिविषयाणामुत्सो विराजते । वेदानां परिशीलनाय ग्रन्थकारो नास्तिकान् संबोधयति -
'स्तुतिः समेषाञ्च मतं समेषां समानमन्त्रत्वसमानभागः । सहोक्तिभावश्च सहैव यानं वेदेषु साम्यस्य विशिष्टमूलम् ।। अथर्ववेदे पृथिवी स्तुताऽस्ति सा धर्मभाषाबहुला तथोक्ता । भाषासु धर्मेषु समानभावो वेदेषु दृष्टः प्रथमं समन्तात् ॥ हे नास्तिका बुद्धियुता भवन्तो वेदानवश्यं परिशीलयन्तु ।
सम्यक् परीक्ष्याऽपि विविच्य सम्यक्, सम्यक् मतं स्वं परिचारयन्तु ॥' (वे०, पृ. २६-२७) यद्यपि प्राच्यैस्तथा पाश्चात्त्यैर्विपश्चिद्भिर्व्याख्यातं विचिन्तितं च वैदिकं साहित्यं तु नितरां विपुलतरं विद्यते, तथाऽप्यत्र तस्य कानिचन तान्येव सूक्तानि मन्त्रा वा मनोहरैः पद्यैः स्वैरं व्याख्याताः, येषामाधुनिकचिन्तनधारायां सकलसृष्टेः सम्यग्विकासस्य विवर्धनाय, समाजस्य लोकस्य च हितायाऽतितरामपेक्षा विद्यते। अद्य सर्वे समाजे समतां समाजवादं धर्मनिरपेक्षतां परिवेश-परिरक्षणं नारीप्रतिष्ठां वैज्ञानिकी दृष्टिमार्थिकी प्रगति चाऽभिलषन्ति । एतत्सम्बद्धा विषमा ग्रन्थेऽस्मिन् संकलिताः । ऋषयो नूतनाम् विचारान् कामयन्ते
'नवीनानां विचारणां स्वागते प्रस्तुतः सदा । प्राचीनप्रतिबद्धानां समुन्मोचनवाञ्छकः ॥ सद्योजाता विचारा ये सद्योजाता जनास्तथा ।
जगत्यन्तलिप्तानां प्रभुतावर्धने क्षमाः ॥' (वे०, पृ. ३५-३६) मीमांसकैर्वेदानां नित्यत्वमपौरुषेयत्वं चाऽङ्गीक्रियते किन्तु ग्रन्थकारस्तेषां मतं तथैव नाऽङ्गीकरोति । सोऽन्यथा वेदानामपौरुषेयतां प्रतिपादयति । तद् यथा -
'समाजस्य कृतिः सैषा, समाजायाऽस्ति सञ्चिता । कर्ता भोक्ता जनो नैकः, तदर्थेऽपौरुषेयता ॥' (वे० पृ. ६)
११६
Page #122
--------------------------------------------------------------------------
________________
वेदार्थप्रतिपादने स सनातनी श्रुतिसूत्रपरम्परां पाश्चात्त्यपण्डितानां नवीनां वा पद्धतिमपि न गृह्णाति । एकमुदाहरणमत्र द्रष्टव्यं विद्वद्वर्यैः चिन्तानीयाऽस्ति व्याख्येयम् ।
'ब्राह्मणोऽस्य मुखमासीद बाह संरक्षकः कृतः ।
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥' (ऋ० १०।९०।१२, शु.प. ३११११, अथर्व० १९।६।६, तै० आ० ३।१३।५) इति मन्त्रस्य व्याख्याने तस्य नवीना सामाजिकी दृष्टिरित्थं विराजते -
'चिन्तकोऽस्य मुखं जातः, बाहू संरक्षकः कृतः ।
व्यापारी चोरूरूपोऽभूत्, सेवकश्चालके पदे ॥' (वे०, पु. पृ० ४३) एवमन्यत्राऽपि तस्य वैदिकानां शब्दानां नवा अर्था विराजन्ते । एते अर्थाः वेदं प्रति तस्याऽऽधुनिकी विचारधारां प्रस्तुवन्ति । अनेन वेदानामध्ययनस्याऽभिनवा वाञ्छा समुत्पाते ।
ग्रन्थस्य मुद्रणं यद्यपि भव्यतरं विद्यते, तथापि कानिचित् स्खलितानि व्यथयन्ति । तदयथा - अग्निसूक्ते (वे०, पृ. ५९)
'पूर्वेषां सदृषीणां या वन्दनीयाग्निदेवता ।
नवानामपि कन्याऽस्ति, सा देवानत्र चाऽऽनयेत् ॥' अत्र 'कन्या' इति पदं चिन्तनीयमस्ति । मम मतौ 'वन्द्या' इति पाठः स्यात् । ऋग्वेदे कथमपि 'अग्निदेवता' ऋषीणां कन्या भवितुं न शक्नोति । यस्य मन्त्रस्य रूपान्तरमत्र वर्तते, तस्यार्थे 'कन्या' इति पदस्याऽवकाशो नास्ति । (द्र० ऋ० १।१।२) 'अग्नि: पूर्वेभिर्ऋषिभिरीड्यो नूतनैरुत । स देवा इह वक्षति ।।)
अस्य ग्रन्थस्य हिन्दीरूपान्तरं रम्यं वर्तते, किन्तु सन्दर्भेऽस्मिन् रूपान्तरकारेणाऽपि किमपि चिन्तनं न कृतम् । एवमन्यत्र मुद्रणत्रुटिश्चिन्त्येत ।
ग्रन्थान्तेऽनूदितं वैदिकं राष्ट्रगीतं नितरामभिनन्दनीयमस्ति, ग्रन्थकृतश्च प्रकृष्टां राष्ट्रभक्तिं प्राकाश्यं नयति । ग्रन्थोऽयं न केवलं संस्कृतज्ञानाम्, अपि तु समेषां राष्ट्रभक्तानां चिन्तकानां लोकहितनिरतानां च सङ्ग्राह्या सम्पत्तिरस्ति-वेदस्य गौरवस्य विज्ञानाय । यद्यत्र ते मन्त्रा अपि संकलिता भवेयुः, येषामर्थोऽत्र शोभते, तर्हि ग्रन्थस्याऽस्य विशिष्टो महिमा स्यात् । जयतु संस्कृतं संस्कृतिश्च ।
मनीकापूरा, सोरामः, प्रयागः, उ०प्र०, २१२५०२
११७
Page #123
--------------------------------------------------------------------------
________________
कथा
महादानम् मुनिधर्मकीर्तिविजयः
एकस्मिन् ग्रामे केचिज्जना विद्यालयं प्रस्थापयितुमुद्यमवन्त आसन् । तत्राऽपि प्राध्यापकः श्रीमहेशभाईमहोदयस्तु तदर्थं परिश्रममविगणय्य प्रयतते स्म । केचिद् ग्रामाग्रण्यो न शिक्षणे, अपि तु राजकार्ये रुचिवन्त आसन् । ततस्ते सहजतया नाऽनुमतिं ददति स्म । तथाऽपि महेशभाईमहोदयस्याऽतीवपरिश्रमेण वाक्चातुर्येण चाऽनिच्छयाऽपि ते ग्रामाधीशाः स्वीकृतिं दत्तवन्त आसन् । तत्रत्यैर्ग्रामजनैरन्यैश्चाऽपि कार्यकरणेन धनं सम्पादयितुं बहु साहाय्यं दत्तम् । तथाऽपि लक्षमेकं रूप्यकाणामिदानीमपि आवश्यकमासीत्, यतो नूतनविद्यालयस्य स्थापनायां विशेषतो धनमावश्यकमासीत् । एतेन कारणेन किं करणीयं, कुत आनेयम् - इति चिन्ताकुल आसीन्महोदयः ।
तदा सहसैवैकः पङ्गुः भिक्षुक आगतवान् | अञ्जलिं कृत्वा तेन भिक्षुकेण नमस्कारः कृतः । स महोदयस्तस्मै रूप्यकमेकं दातुं यावच्चिन्तयति तावदेव स भिक्षुक उक्तवान् " महोदय ! विद्यालये दानरूपेण किञ्चिद् दातुमिच्छामि किं भवान् स्वीकरिष्यति ?"
साश्चर्यं महोदयेन पृष्टम् - किं दास्यते भवता ?
भिक्षुको जगाद - महोदय ! मया सहाऽऽगच्छतु ।
न कस्यचिदपि हृदयं सन्तापनीयमिति चिन्तयित्वा तेन भिक्षुकेण सह सकौतुकं स गतवान् । निम्नजना यत्र वसन्ति तादृशे स्थाने एकस्मिन् लघावुटजेऽवसत् सः । तत्र द्वावपि गतवन्तौ । भिक्षुकेणोक्तं - महोदय ! आगच्छतु ।
भिक्षुकस्य गृहे किं स्यात् ? किं दास्यत्येषः ? इति चिन्तयन्नुटजे प्रविष्टवान् ।
भिक्षुकेणोटजस्यैकः कोणः खनितः । तत एकः कुम्भो निष्कासितः । तत्कुम्भात् पञ्चशतं रूप्यकाणि बहूनि कागदानि च बहिरानीतानि । सर्वमपि मिलित्वा पञ्चत्रिंशत् - शताधिकं लक्षमेकं रूप्यकाणि जातानि । “एतानि गृह्णातु, विद्यालयस्य स्थापनायामुपयोक्तव्यानि" इत्युक्तं भिक्षुकेण ।
महोदयो गदितवान् - भवान् किं करिष्यति ?
भिक्षुकेण व्याकृतम् - एतानि न मामकान्यपि तु समाजस्यैव । अतस्तदर्थमेवोपभोक्तव्यानि । अहं त्वेकाकी ! न मम कोऽपि परिवारोऽस्ति । यावज्जीविष्यामि तावद्भिक्षां याचिष्ये । अतोऽलं चिन्तया । एतच्छ्रुत्वा महोदयस्तु चकितवान् । तेन पृष्टम् - विद्यालये शिलालेखे किं नाम लेखनीयमस्ति ? भिक्षुकः कथितवान् महोदय ! अस्माकं भिक्षुकाणां किं नाम स्यात् ? भिक्षुक एव, किन्तु 'भारतस्य भाविनागरिकेभ्यो भिक्षुकेण दत्त एष उपहार:' इत्युल्लेखनीयम् ।
भिक्षुकस्य देहे दानवीरो भामाशाहोऽस्ति इति चिन्तयन् गतवान् महोदय: ।
44
११८
Page #124
--------------------------------------------------------------------------
________________
5 | को मित्रधर्म: ?
मुनिधर्मकीर्तिविजयः
एकस्यां शालायां द्वौ विद्यार्थिनौ सहाध्यायिनौ आस्ताम् । तयोर्मध्ये बाढं मैत्र्यासीत् । गते काले तत्रैको जातश्चिन्तकः अन्यश्च राजप्रधानो जातः ।
एकदा प्रधानस्य पत्नी चिन्तकस्य गृहे आगतवती । तया पृष्टम् - भवान् कथं भवतो मित्रं मेलितुं गृहं नाऽऽगच्छति ?
चिन्तक उवाच - साम्प्रतं तु बहवो जनास्तं मेलितुमागच्छन्ति । ततोऽहं यदि नाऽऽगच्छेयं तर्हि न काऽपि बाधाऽस्ति, अहं तु तदैवाऽऽगमिष्यामि यदा स निर्वाचने पराजितो भविष्यति ।
प्रधानपत्नी जगाद - कथमेवं भवान् वदति ?
चिन्तकेन कथितं - तस्मिन् काले नमस्कारं कुर्वन्तः सर्वेऽपि विमुखा भविष्यन्ति, ततो मे सुहृद् हताशयाऽभिभूतो भविष्यति ! तदोत्साहस्यौषधम्, आश्वासनरूपं वेदनोपशामकं पट्टकं च गृहीत्वा मम मित्रस्य पीडां दूरीकर्तुमागमिष्यामि ।
सानन्दं प्रधानपत्नी आह - सत्यं, सत्यम् । मित्रस्य धर्मो न कोलाहलवर्धनम्, अपि तु अर्तिपीडाशमनमेव ।
११९
Page #125
--------------------------------------------------------------------------
________________
वात्यासारः
कथा
ओडिआमूलम् - श्रीचन्द्रशेखरदासवर्मा अनुवादकः - डॉ. नारायणदाशः
बहुवारं स्मृतेर्वातायनानि उन्मोचितानि भवन्ति । वृष्टिसिक्ते गभीरनिशीथे, शिशिरार्दै प्रातःकाले, रौद्रातपाञ्चिते सुमध्याह्ने ममताया मनोभूमि सहसा प्रविशति महेशः । मुहूर्तं यावत् चञ्चला भवति ममता । तत: संज्ञां प्राप्नोति सा । महेशस्य गमनात् परं बहूनि वर्षाणि अतीतानि । पुरातन-स्मृतिततिस्तां विचालयति, पीडयति । शिशूनां कोमलमुखानि दृष्ट्वा सर्वं विस्मर्तुम् इच्छति सा । त एव तस्या विश्वासास्पदानि । तथापि रात्रावेकलशयनसमये मनसि आगच्छति तस्याः कालरात्रेः कथा । ।
तदा विवाहात् परं पञ्च वर्षाणि एवाऽतीतानि । वैवाहिकजीवने महेशस्तस्यै प्राददात् अशेषतृप्ति विशेषानन्दं च । पुरस्काररूपेण अयच्छत् अमूल्यरत्नद्वयम् - अंशुमन्तम् अनामिकां च । शिशुद्वयं पितेव सौम्यदर्शनम् । सुखेनाऽऽनन्देन च परिपूर्णे तस्याः परिवारे हठात् आविर्भूता श्यामली । श्यामली कार्यालये महेशस्य सहकर्मिणी । वर्षद्वयात् सम्पर्कः । तेन सम्पर्केण महेशो विस्मरति आत्मानं, स्वपरिवेशं, स्वीयां रूपवती पत्नीं ममताम् । अस्मिन् विषये इतस्ततो बहुवारं श्रुत्वा एकदा रात्रावन्ततः पृष्टवती महेशम्......।
- यदहं शृणोमि, तत्सत्यं वा... ? - अपि त्वं श्यामलीविषये वदसि ? आम्, तया सह मम अतिनिविडसम्पर्कः वर्तते । - किं दम्पत्योः पवित्रसम्बन्धात् अपि ? पृष्टवती ममता ।
- आम्, तस्यै प्रतिश्रुतवान्, आवां विवाहपञ्जीकरणं करिष्यावः इति । परन्तु विवाहविच्छेदपत्रके भवत्या हस्ताक्षरात् परम् ।
सहसा गृहमध्ये अप्रत्याशितभावेन विस्फोरणम् अभवत् । एवं श्रोष्यति इति कदापि न कल्पितवती ममता ।
- त्वं निस्सर इतः, अस्मात् गृहात्, अस्मिन् मुहूर्ते । – तथा दोषम् अपि न करिष्यामि, यतो हि अत्र यथा तव अधिकारः तथा मम अपि ।
- तर्हि म्रियस्व अत्र एव, अहं निर्गच्छामि । तदा मध्येरात्रम् एव महेशः स्वीयद्रव्याणि धृत्वा निर्गतः, न कदापि प्रत्यागतः ।
१२०
Page #126
--------------------------------------------------------------------------
________________
जनः अयं तया नागकन्यया निगडितः तस्याः पाशेन ।
तस्य गमनात् परं तया निःसङ्गता अनुभूता । गृहस्य अन्तरतमः जनः गृहात् बहिः निर्गतः । कः वा अपराधः तस्या: ? दिनं दिनं तं प्रतीक्षते स्म सः अपराधः वा तस्या: ? शरीरम् अस्वस्थं चेत् आरात्रि जागरणेन सेवा कृता, सः अपराधो वा ? शिशूनां कृते किमपि क्रेतुं भोजयितुं वदति स्म सः अपराधो वा ? कः तस्याः अपराधः ? ममता स्वयं न जानाति स्म ।
परिस्थिति सम्भालयितुं बहूनि दिनानि अतीतानि । तथा वयः अपि न जातम् । त्रिंशद्वर्षीया युवति: । द्वौ लघुशिशू । विशालः संसारः । कियन्तः लोकाः कियन्तः, सम्मर्दाः, कियत्यः समस्याः। अस्याम् अवस्थायां तया हताशा एव सम्मुखीकृता ।
I
अरक्षितं तिष्ठति दैवरक्षितम् इति न्यायेन एकदा निरञ्जनबाबुः आगतवान् ममताया: समीपम् । सः महेशस्य उपरितन: अधिकारी घटनां श्रुत्वा सः दुःखं विज्ञाप्य सहयोगार्थं प्रतिश्रुतिबद्धः जातः । अवदत् च जीवने जीवितुं जीवयितुं च संग्रामस्य आवश्यकता वर्तते । असीमं धैर्य साहसं च धारयतु । बालद्वयस्य प्रगत्या एव भवत्याः दुःखं गमिष्यति । एतदर्थम् अस्माकं कार्यालयपक्षतः कस्य अपि साधारणसहयोगस्य आवश्यकता भविष्यति चेत् अवश्यं साधयिष्यामि ।
गभीरे सागरे निमज्जन्ती ममता कूलं प्राप्तवती । पूर्वम् एव मातृप्रदत्तं सीवनयन्त्रम् एकम् आसीत् । मात्रा शिक्षितम् आसीत् एव सीवनादिकम् । तयापि तदा वयनादिकम् अपि शिक्षितम् आसीत् । ताम् अभिज्ञताम् अधुना सा कार्ये प्रयुक्तवती गृहे सा सीवनयन्त्रं संस्थाप्य प्रतिवेशिनां कार्याणि स्वीकृतवती । गृहे शिशुद्वयम् । अत: गृहात् बहिः अगत्वा गृहे एव सीवनापणं प्रारब्धवती । प्रथमतः कानिचित् दिनानि कार्यं कृत्वा एका सहकर्मिणी नियोजिता । क्रमशः कार्यं वर्धितम् । तेन सह दायित्वम् अपि । बालौ विद्यालयं गतौ । ममताया: व्यवसाय: वर्द्धितः । निरञ्जनबाबो: सहयोगेन जिल्लाशिल्पकेन्द्रात् ऋणं स्वीकृत्य सीवनयन्त्रचतुष्टयं स्वीकृत्य जनान् नियोजितवती । अधुना तस्या: सीवनापण: सम्यक् प्रचलति ।
यदा कदा आगच्छति निरञ्जनबाबुः । साहाय्यं करोति, सहानुभूतिं प्रदर्शयति । उपदिशति - चरैवेति चरैवेति । पृष्ठतः मा पश्यतु । कष्टं प्राप्स्यति ।
भवतः उपकारः अविस्मरणीयः । कथं निर्यातनं भविष्यति अस्य स्नेह ऋणस्य । ममता
वदति ।
-
वयं सर्वे मायाबन्धनेन बद्धाः परस्परं भावयन्तः भवामः । नो चेत् कथं सरिष्यति संसारः । आम्, कथनीयम् आसीत् यत् महेशः अत्र नास्ति । तां कन्यकां नीत्वा कोलकातां पलायितः ।
सर्व श्रुत्वा अपि ममता किमपि नोक्तवती ।
समय: स्वीयगत्या गच्छति । वयसः वृद्धया सह ममताया: दायित्वबोधः अपि वर्द्धितः । पुत्रः अंशुमान् अधुना छात्रवृत्ति स्वीकृत्य यन्त्रविद्यां पठति । कन्या पठति महाविद्यालये विज्ञानम् अधिकृत्य ।
१२१
—
-
Page #127
--------------------------------------------------------------------------
________________
ममता सर्वम् अपि भगवतः उपरि अत्यजत् । मध्ये मध्ये सीवनकार्ये मातरं सहयोगं करोति अनामिका । अधुना ममता सीवनशिक्षाकेन्द्रं चालयति । तदर्थम् एकं गृहं निर्मितवती । अन्या कन्यकाः अपि आगच्छन्ति प्रशिक्षणार्थम् । तद्दिनमासीत्- यदा ते वारद्वयम् अपि भोजनं न अलभन्त । अधुना परिस्थितिः परिवर्त्तिता । सा पुत्रं कन्यकां च स्नेहेन पालितवती । मध्ये मध्ये अंशुमान् पृच्छति - मातः ! भवत्याः तु कोऽपि दोषः नास्ति, तथापि पिता त्यक्तवान् किमर्थम् ? ममता उदतरत् - तत्सर्वं समयः वदिष्यति । मम चिन्ता तु वर्तते, भवान् कथम् उत्तीर्णः भूत्वा नियुक्ति प्राप्स्यति । अग्रे अंशुमान् किमपि न वदति, यतो हि सः जानाति, अधिकप्रश्नेन माता दुःखं प्राप्स्यति ।
कदाचित् परिश्रान्तायाः तस्याः मनः शरीरं च विश्रामम् इच्छतः । तदा तस्याः पूर्वस्मृतयः समक्षम् आगच्छन्ति । विवाहात् परम् आद्यवर्षाणि आसन् अनन्तसम्भावनानाम् आशानां च वर्षाणि । महेशः तस्य कथां कथयति, तस्य कोम्पान्याः कथां वदति, कथयति तस्य अनुभवान् । विपणनाधिकारी इति तस्य बहुवारं बहिर्गमनम् आपतति स्म । तदा दुःखेन वदति स्म महेशः ।
- मम प्रोन्नतेः परं बर्हिगमनं न भविष्यति । तदा तव पार्वे एव भविष्यामि, कार्यालयगमनसमयं विहाय ।
___ - भवतु, भगवन्तं प्रार्थय, शीघ्रं प्रोन्नतिः भवतु । हसन्ती अवदत् ममता । क्व गताः ते दिवसा:? सहसा व्यग्रा भवति ममता, अनामिका महाविद्यालयात् आगमिष्यति, तस्याः कृते अल्पाहारः सज्जीकर्तव्यः । समेषाम् अपि भावनानाम् अन्तः भवति ।
सर्वमपि सुखेन चलति । हठात् प्रातः समागतः निरञ्जनबाबुः । स्नानं समाप्य मन्दिरगमनार्थं सज्जीभवति स्म ममता । गृहे एव अनामिका इतस्ततः भवति । एतावता निरञ्जनबाबुः तस्याः शुभचिन्तकेन परिणतः आसीत् । अतः ममतायाः गृहद्वारं तदर्थं सदा उन्मुक्तं तिष्ठति । तं दृष्ट्वा पृष्टवती ममता -
- श्रीमन्, भवान् प्रातः एव... । किञ्चित् उपविशतु श्रीमन् ! अहं तावता पूजां निर्वतयानि ?
- अद्य काचित् शुभवेला, यतो हि मम आगमनसमये भवती पूजार्थं मन्दिरं निर्गच्छन्ती अस्ति । एवम् उक्त्वा स्वकोषात् द्वित्राणि भावचित्राणि निष्कास्य प्रदर्शितवान् ।
- किमेतत् श्रीमन् ? अहं बोद्धं न प्रभवामि । - किं वयः अनामिकायाः ? निरञ्जनमहोदयः हसन् अपृच्छत् । - अधुना विंशतिः प्रचलति.... । - भवती कस्मिन् वयसि विवाहिता ? - अष्टादशे श्रीमन् ! अविचिन्त्य उक्तवती ममता ।
१२२
Page #128
--------------------------------------------------------------------------
________________
- भवतु, एतत् वरस्य भावचित्रम्, एतत् वैयक्तिकविवरणम् च । भवती दृष्ट्वा विचार्य मां वदिष्यति । अहं गच्छामि अधुना । केवलम् एतद् अवश्यं स्मारयामि, कन्या अधुना विवाहयोग्या अभवत् इति । अतः साक्षात्समये समीचीनं कार्यं करणीयमेव । इत्युक्त्वा प्रतिनिवृत्तः निरञ्जनबावुः ।
सहसा तूष्णीं जाता ममता । अवकाशदिवसः इति विशेषकार्यं नासीत् । तस्याः मनःस्थितिम् अवगत्य अनामिका अपृच्छत् -
- अम्ब ! अद्य भवत्याः किं जातम् ? इति । - कुत्र, किमपि तु नास्ति ! माता उक्तवती ।
- परन्तु भवत्याः मनः भाराक्रान्तम् इति दर्शनामात्रेण कोऽपि वदिष्यति । मया लक्षिता एव भवती, क्लान्ता परिश्रान्ता इति प्रतिभाति । यथा कोऽपि शतकिलोमितं प्रस्तरं भवत्याः मस्तके स्थापितवान् । किम् अभवत् भवत्याः ?
- नहि, रे मातः,.... अहम् अस्य गृहस्य एव चिन्तयामि ।। - कुत्र, गृहस्य किमपि असौविध्यं तु न पश्यामि अहम् ।
- नहि, रे, वर्षद्वयात् परम् अंशुमतः पाठः समाप्तः भविष्यति, सः नियुक्ति प्राप्स्यति, तदनु तदर्थं वध्वन्वेषणं भविष्यति, वधूः अत्र आगमिष्यति, लघुकं गृहम् इदं....?
- अहो ! भ्राता नियुक्तिं प्राप्स्यति, तस्य वेतनेन उपरि एकं गृहं निर्मास्यते, का हानिः ? - तदनु पुनः ते परिणयः ... ... ।
- अहो ! कारणम् अत्र, अहं वदामि अम्ब ! स्नातकोत्तरोपधिप्राप्तेः पूर्वं मम परिणयस्य वार्ताम् अपि न करिष्यति ... ... ... |
- तत्तु सत्यमेव, किन्तु पूर्वव्यवस्था करणीया खलु... .... । अनामिका विरक्तभावेन मातुः समीपात् पलायिता । ममता मनसा अवदत्, उन्मादिनीयम् ... ।
अनामिकायाः विवाहविषयचिन्तनसमये महेशस्य स्मृतिः बलात् प्रविशति अदिनवात्यासारः इव । ये प्रस्तावं नीत्वा आगमिष्यन्ति, ते प्रथमतः पितृपरिचयं प्रक्ष्यन्ति । उत्तमगृहं नास्ति चेत्, उत्तमवरोऽपि न लभ्यते । किमुत्तरं दास्यति सा...? सामान्यम् अपि दोषं विना सा अद्य दोषिणी ... । अनेकटीकाटिप्पणीः श्रुतवती सा अतीतकाले । समयेन सह तत्सर्वम् अपि अतीतम् । निरञ्जनबाबुना आश्वस्ता सा । तद्विषये चिन्ता मास्तु इति । वरपक्षस्य आवश्यकी सुन्दरी कन्या, अन्यत् किमपि नास्ति । यौतुकविषये अपि ते किमपि न वदिष्यन्ति । वस्तुतः यौतुकनामश्रवणेन ममता शङ्काग्रस्ता भवति । सा जानाति एव - यौतुकेन एव नारी यन्त्रणाग्रस्ता भवति । श्वशुरालये नाना कथां नाना व्यथां च प्राप्नोति वधूः । अन्ततो आत्महत्यां तथाविधं किमपि वा आचरति । तथा उदाहरणानि सन्ति बहूनि ।। निरञ्जनबाबुः उक्तवान्, दिनत्रयात् परं ते आगमिष्यन्ति । वरपिता कश्चन अधिकारी । पुत्रः
१२३
Page #129
--------------------------------------------------------------------------
________________
यन्त्रज्ञः । टाटाकोम्पान्यां नियुक्तः । आगामिनि वर्षे विदेशं गमिष्यति । अतः तस्य पितरौ निश्चितवन्तौ, ऐषमः विवाहं समाप्य नवदम्पती आगामिवर्षे विदेशं गमिष्यतः । सुन्दरः प्रस्तावः । यदि तस्याः कन्या तेषां मनोमता स्यात् ! अवश्यम् अनामिकायाः भावचित्रं दृष्ट्वा ते चितवन्तः, परन्तु भावचित्रात् सर्वं न ज्ञायते खलु । ताभ्यां चिता चेत्, पत्रः आगमिष्यति, कन्यादर्शनार्थम् । ततः एव अन्तिमनिर्णयः भविष्यति । ममता चिन्तयति, कन्या एका वर्तते चेत् प्रस्तावाः तु आगमिष्यन्ति । परन्तु सपद्येव कन्याविवाहकथाचिन्तनेन तस्याः मस्तकमेव चक्राकारेण भ्रमति ।
बहुदिनेभ्यः परं ममता स्वीयम् असज्जितं गृहं पुनः सज्जितवती । गृहे नूतनयवनिकाः योजिताः । अतिथिप्रकोष्ठस्य सोफासनानि अपि परिवर्त्तितानि । चायाधान्यां पुष्पाधानी पुष्पैः पूर्णा । भित्तौ योजितानि नूतनभित्तिचित्राणि । यदपि भवतु नाम, वरपिता पदस्थः अधिकारी, पुत्रोऽपि यन्त्रज्ञः । प्रथमतः गृहदर्शनेन एव रुचिबोधस्य परिचयः भवति । एका एव कन्या तस्याः । कदापि कस्यापि अभावस्य असौविध्यस्य वा सम्मुखीना न जाता । पितुः मातुश्च स्नेहप्राप्त्या अनामिका आत्मानं भाग्यवतीं मनुते ।
अस्य सुखायोजनस्य मध्ये ममता लक्षितवती, अनामिकायाः मनसि नास्ति सुखस्य स्पर्शः । केवलं अष्टचत्वारिंशद्होराः एव अवशिष्टाः । मध्ये रात्रिद्वयम् । तृतीयसन्ध्यायां ते आगन्ष्यिन्ति । कन्यया सुखेन भवितव्यम् आसीत् । परन्तु अनामिकायाः मनं तु कुत्रापि न लग्नम् । केवलं सा वदति, एवं त्वरा किमर्थम् अम्ब ! भवत्याः कन्या किं भवत्यै न रोचते ?
ममता उदतरत् - किं त्वया चिन्त्यते, एकदा एव सर्वं निश्चितं भविष्यति? भवती ते द्रक्ष्यन्ति । चेष्यन्ति । पुनः पुत्रेण सह आगमिष्यन्ति, तदा भवती तं द्रक्ष्यति । उभयोः मनोमतश्चेत् एव विवाहः भविष्यति । पुनश्च विवाहः भवति योगायोगस्य विषयः । अनेकत्र निश्चितः अपि विवाहः अन्तिमपर्याये न भवति । वेद्याम् उपविष्टः वरः प्रतिनिवर्त्तते । एतत् तु आरम्भमात्रम्, किमर्थं चिन्तिता भवति ? इतः अपि लोभनीयाः प्रस्तावाः आगमिष्यन्ति ।
ममता अनामिकायाः कथायाः गुरुत्वं न ज्ञातवती । साधारणतः कन्याः प्रथमतः नेति नेति उक्त्वा पुनः सुखेन गृहसंसारं सज्जीकुर्वन्ति । अनामिका तस्याः कन्या, तद्रक्तेन निर्मिता । तस्याः वचने स्थिता ।
रात्रौ अनामिका सम्यक् न भुक्तवती । पठनव्याजेन स्वप्रकोष्ठं गतवती । ममता अपि तद्दिने सम्यक् निद्रां न प्राप्तवती । परस्मिन् प्रातः विलम्बन उत्थितवती अनामिका । जाते अल्पाहारसमये आह्वयत् ममता।
- अरे, भवत्याः नेत्रे स्फुटिते इव लक्ष्येते । आरात्रि अपठत् वा ? - नहि, अम्ब ! रात्रौ कोऽपि कीट: नेत्रे पतितः । तदर्थं किञ्चिन्मदितवती नेत्रे । तदर्थं तथा लक्ष्यते । - कुत्र, आगत्य दर्शयतु मनाक् ... | ममता कन्यां स्वसमीपम् अनयत् । - भवती क्रन्दितवती वा न वा, सत्यं वदतु मातः ! - सत्यमेव मुखं गोपायित्वा... कामं रुदितवती अनामिका ममतावक्षसि ।
१२४
Page #130
--------------------------------------------------------------------------
________________
- अम्ब ! कृपया भवती अस्य विवाहस्य प्रहसनं समापयतु ।
- किमर्थम्, एतत् तु आरम्भमात्रम् । इतोऽपि सुन्दरपुरुषाः आगमिष्यन्ति । भवती चेष्यति एकम् एव, ... भवत्याः चयनम् एव मम निश्चयः ।
- यदि भवत्याः कथा सत्यमेव, तर्हि अहम् एकं चितवती अम्ब ! तदर्थं किं भवती माम् अनुमंस्यते ? सहसा एवम् उत्तरं प्राप्स्यति इति ममता स्वप्ने अपि न चिन्तितवती । चिन्तितवतीअनामिकायाः बालस्वभावः इदानीम् अपि न गतः । साम्प्रतम् अपि उत्तमाधमविचारो न जातः तस्याः । इदानीम् अपि मम वस्त्राञ्चलं न त्यजति । परन्तु किं कथयति अद्य? ... ... कदापि एवंविधां कथां तु सा न श्रुतवती ।
- भवती किं वदति अनामिका, अहं किमपि बोद्धुं न शक्नोमि । भवादृशी कन्या पुनः अस्मिन् वयसि । नहि, नहि, कृपया एवं किमपि न अकरिष्यत्, येन अहम् उपहसिता अभविष्यम् ! कियदुःखं यन्त्रणां च सोढ्वा अहं भवतीं पालितवती, किं न जानाति भवती ?
- अहं भवत्याः मनसि कदापि दुःखं न दास्यामि । आवयोः बन्धुत्वम् एव वर्तते । वर्षद्वयात् परम् आवां विवाहबन्धनेन आबद्धौ भविष्यावः । प्रथमतः स्वीयवृत्तेः प्रोन्नतिं विधाय तदनु यत्किमपि ।
- अस्तु, अस्तु, विरमतु अधुना, वाचोयुक्तितः । भवती किं निर्मास्यते स्वीयां वृत्तिम् ? अद्य पिता नास्ति इति, अहम् अस्यां परिस्थितौ अस्मि । अन्ततो रुदितवती एव ममता । यथा कोऽपि वात्यासारः प्रवाहितो गृहे ।
- मयि विश्वसितु अम्ब ! भवत्याः विश्वासे अहं विषं न मिश्रयिष्यामि । अस्मिन् विषये इतोऽपि न वदिष्यामि । भवत्याः मनसि कष्टं दत्तवती, कृपया क्षाम्यतु माम् । इत्युक्त्वा अनामिका मातुः पदतले न्यपतत् ।
तस्यां रात्रौ निद्रां न प्राप्तवती ममता । आत्मानम् असहायां मनुते सा । सहसा, तस्याः अनुभवः जातः, सम्पूर्णे संसारे सा एकाकिनी वर्तते । अस्याम् अपि परिस्थितौ पार्श्वे स्थातुं कोऽपि न वर्तते । जीवनस्य चतुष्पथे सा पथभ्रष्टा जाता । केन मार्गेण निर्गमिष्यति सा ? कः समीचीनः कः वा असमीचीनः? तस्याः एका एव कन्या ! अत्र भावप्रवणतायाः किमपि मूल्यं नास्ति । परिस्थितिः सम्मुखीकर्तव्या खलु ! भवतु नाम काचित् कठोरा निष्पत्तिः । प्रथमतः चिन्तितवती, निरञ्जनं ज्ञापयितुम् । अनन्तरं चिन्तितवती, प्रथमतः स्वीयबोधो भवतु । प्रवाहः केन मार्गेण प्रवहति ? तदनु किमपि कर्तव्यं खलु !
परस्मिन् प्रातः ममता स्वीयनिष्पत्तिं श्रावितवती । अवदत् - अनामिके ! अद्य सायं तम् आह्वयतु अस्माकं गृहं, चायपानार्थम् । अहं तेन सह वार्तालापं करिष्यामि । यद्यहं द्रक्ष्यामि, तस्य योग्यता वर्तते भवत्याः हस्तं धारयितुम्, अहम् अवश्यं भवत्याः मनसि दुःखं न दास्यामि इति प्रतिशृणोमि । ततः भवतोः कृते तु मम जीवनम् । यदि परिणयोत्सवः समीचीनतया अभविष्यत्, तर्हि बहिःस्थसंसारस्य लोकनिन्दाम् अपि अहम् असहिष्यम् । मम जीवने उदितः वात्यासारः, प्रशाम्यतु अपि ।
१२५
Page #131
--------------------------------------------------------------------------
________________
- अहो ! बहुप्रीणामि भवत्याम् अम्ब ! उक्तवती अनामिका । ततः स्वप्रियं बान्धवं मातुः आह्वानं ज्ञापितवती ।
अवनता चिरप्रतीक्षिता सन्ध्या । आनन्देन इतस्ततः भवति अनामिका । यदि अनुभवः मात्रा सह इतस्ततः किमपि वदिष्यति, तर्हि सर्वं समाप्तं भविष्यति । परन्तु सा तु जानाति अनुभवम् । स्वल्पं वदति सर्वदा सः । तम् अपि सर्वम् असूचयत् अनामिका । उत्तमच्छात्ररूपेण महाविद्यालये तस्य सुख्याति: अपि वर्तते । तदुपरि विश्वसिति महाविद्यालयस्य अध्यक्षः, पोषयति च उच्चाभिलाषम् । अस्मिन् वारे सर्वश्रेष्ठः स्नातकोऽपि भवेत् !
बहिः मोटरद्विचक्रिकायाः ध्वनिः श्रतः । अनामिका अधावत द्वारम् उदघाटयितम् । - मातृष्वसे ! नमस्कारः ! ... ... मम नाम अनुभवमहान्तिः ।
- उपविशतु, उपविशतु पितः ! मां सर्वम् उक्तवती अनामिका भवतः विषये । अनुभवः मुखम् अवनतवान् ।
तस्य मुखं लक्षितवती ममता । ... अरे, किं पश्यति सा ! एतत् तु तदेव मुखम्, सैव आकृतिः, तथैव नेत्रे, उन्नतः कपोलः ! अयं तु तस्य एव प्रतिरूपं प्रतिभाति । सपद्येव उत्थाय तम् आन्दोलितवती ममता । सहसा आसन्दात् उत्थितः अनुभवः ।
- मां किमपि वदति वा मातृष्वसे! यत् प्रष्टव्यम् अवश्यं पृच्छतु, अहं निश्चयेन सत्यं वदिष्यामि । मामपि उक्तवती अनामिका - कथं स्निह्यति भवती तस्याम् ! अतः भवत्याः मनःप्रातिकूल्येन आवां नाऽऽचरिष्याव: किमपि ।
- अस्तु, पुत्र ! किमुक्तवान् भवतः नाम ? ममता सहजा भवितुं चेष्टते स्म । - अनुभव, ... ... अनुभवमहान्तिः । - पिता कि करोति ?
- पितुर्नाम महेशमहान्तिः । पूर्वं वयम् एकत्र अतिष्ठाम । पितुः स्थानान्तरणं जातं कोलकातां प्रति । अधुना कोलकातायां वसति पिता । अहमत्र छात्रावासे एकलः तिष्ठामि । सरलभावेन उदतरत् अनुभवः ।
सपद्येव हृदये मुद्गरप्रहारम् अन्वभवत् ममता । सा चीत्कृत्य संज्ञाशून्या जाता ।
गृहाभ्यन्तरात् चायचषकद्वयं धृत्वा प्रविशन्ती अनामिका मातुः अवस्थां दृष्ट्वा चीत्कृतवती । चायचषकद्वयं हस्तात् भ्रष्टं जातम् ।
बहिः आकाशे आसन्नप्रायाः वर्षाः । ताभिः सह प्रवाहिता प्रबलवेगेन वात्या । अनुमीयते स्म, क्रमशः अस्य वात्यसारस्य वेगः वर्धमानः अस्ति ।
१२६
Page #132
--------------------------------------------------------------------------
________________
| तीर्थङ्करपार्श्वनाथ-कथा
डॉ. आचार्यरामकिशोरमिश्रः
त्रयोविंशतीर्थङ्करः श्रीपार्श्वनाथः काशीनरेशस्य राज्ञोऽश्वसेनस्य पुत्र आसीत् । पित्रा श्रीअश्वसेनेन तस्मै षोडशवर्षीयाय स्वपत्राय श्रीपार्श्वनाथाय राज्यस्य शासनसत्ता समर्पिता । परं शासने तस्य मनो नाऽरमत। कतिपयैर्वषैरेव सांसारिकसुखेषु तस्य विरक्तिरुत्पन्ना । ततः स स्वपितरमेकदा जगाद - 'पितः! मया बहुकालं यावत्सांसारिकसुखसुविधानामुपभोगः कृतः, किन्तु सुखं प्रति तृष्णायाः क्षयो नाऽभवत् । यथा पृथिव्यामिन्धनोपयोगेनाऽग्निज्वालाशमनं न भवति, तथा सुखोपभोगेन तृष्णाशमनं न जायते, परमुभयत्र वृद्धिरेव भवति ।'
पिता श्रीअश्वसेनोऽकथयत - पत्र ! इन्धनोपयोगेन यथाऽग्निज्वाला वर्धते, तथैव सुखोपभोगेन तृष्णाऽपि वर्धते । एतद्राजसुखं कथ्यते । भवानस्ति राजा । सुत ! राजसुखोपभोगं कुरु । राजा तु राजसुखानि भुनक्ति । त्वमत्र चिन्तां कथं करोषि ? पुत्रः श्रीपार्श्वनाथ उत्तरमददात् - 'पितः ! राजसुखोपभोगसमये-यानि सुखानि रुचिकराणि प्रतीयन्ते, तानि सर्वाणि दुःखरूपाणि भवन्ति । अतो राजसुखेषु मे मनो न रमते । अस्मात्कारणाज्जीवनं सार्थकं कर्तुं तपस्यायै वनं गच्छामि ।'
पित्रा वनं गन्तुं निषेधितोऽपि पार्श्वनाथोऽग्रे विनम्रः सन्नवाच- 'पितः ! जीव इन्द्रियलोलुपतायाः सन्तुष्टये दुःखसागरे निमज्जति, सत्कर्माणि त्यक्त्वा दुःखकर्मसु प्रवृत्तो भवति । लिप्सालोभरागद्वेषचौर्यपरस्त्रीगमनादिपापकर्मसु तस्य तृष्णा वर्धत एव ।' अतस्तृष्णाशमनाय श्रीपार्श्वनाथो राजपदं त्यक्त्वा* वनं जगाम । स सामदपर्वते साधनारतो बभूव । ततस्तेन जनतायै सत्यसदाचाराऽहिंसापालनार्थमुपदेशो दत्तः । तेन जैनधर्मस्य त्रयोविंशतीर्थङ्कररूपेणाऽमरत्वमवाप्तम् ।।
२९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र.
* श्रीपार्श्वनाथेन त्रिंशद्वर्षवयसि गृहं त्यक्त्वा प्रव्रज्या गृहीता ।
१२७
Page #133
--------------------------------------------------------------------------
________________
कथा
| कथात्रयी
सा. ऋजुमतिश्री:
(१) यदि मस्तकं त्रोटयेत्, तर्हि इष्टधनं प्राप्नुयात् । कुशलपुरनगरस्य समीपं भादरनद्या मुखाग्रे शंकरस्य देवालयो बभूव, तस्मिन्देवालये बलीवर्दस्य पुत्तल आसीत्, तस्य पुत्तलस्य सन्मुखमेको लेखो लिखित आसीत. "यदि मस्तकं त्रोटयेत. तर्हि इष्टधनं प्राप्नुयात्", ततो जनास्तस्मिन्देवालये पशु-विहगानां शिरांसि अत्रोटयन्, वधं चाऽकुर्वन् ।
अन्यदैक आभीरस्तत्राऽऽगतः, स विचारयति - अस्य बलीवर्दस्य कारणेनाऽत्र बहवः जन्तवः नियन्ते, यावदस्य बलीवर्दपुत्तलस्य नाशो न भवेत्तावदन्धश्रद्धालुजना इदमकार्यं करिष्यन्ति, तदस्य
१२८
Page #134
--------------------------------------------------------------------------
________________
बलीवर्दस्य पुत्तलं नष्टं करोमि, इति विचार्याऽऽभीरः पुत्तलस्य ग्रीवोपरि प्राहरत्तदा तस्य पुत्तलस्य मस्तकं त्रुटितं, तस्माच्च पुत्तलान्निष्काणां राशिरधोऽपतत् । एवं च तत्र लिखितो लेखोऽवितथोऽभवत् ।
(२) मूर्योऽपि राजा भवेत् । एको मूर्खराजा बभूव, तस्य राज्यकार्यभार सचिवगण अचालयत्, तस्य राज्ञः समीपे सदैका विचक्षणा दासी वसति स्म, सा दासी यः कश्चित् प्रसङ्ग उत्तिष्ठते तं सम्भालयति ।
एकदैका नृत्यमण्डली राजसभायामागता, नर्तकी विविधानालापानलपत्, अथ नर्तकी राजानमपृच्छत् - असौ को रागोऽस्ति ? तदा राज्ञो दास्यवदत् - असौ पञ्चमो रागोऽस्ति, ततो राजा पुनरुक्तवान् - असौ पञ्चमो रागोऽस्ति ।
अथ केनचित् कारणेन दासी राजमहालयमगच्छत्, समयज्ञा नर्तक्यपृच्छत् – राजन् ! असौ को रागोऽस्ति ?
राजाह - असौ षष्ठ रागोऽस्ति । तदा दास्यागच्छदब्रवीच्चाऽसौ गोडी रागोऽस्ति । राजा उक्तवान् - न.... असौ गोडी रागोऽस्ति, राजा पुनरुक्तवान् – यदि दासी नाऽऽगमिष्यत्तहि विंशतिरागान् यावत् प्राप्स्यम् । नृत्यमण्डली राज्ञो मूर्खतामवगतवती राजसभां च त्यक्त्वोदचलत् ।
(३) कृपणस्य कृपणता एक: कृपणः प्रातिवेश्मिकाय स्वस्य कूपं व्यक्रीणत् । तत्पश्चात् कृपणो विचारयति - प्रातिवेश्मिकादहं कूपनीरस्य मूल्यं याचेय, तहि बहुकं धनं लप्स्ये ।
द्वितीये दिने प्रातर्यदा प्रातिवेश्मिकः कूपाज्जलं भर्तुमागच्छत्तदा कृपण आह - मया कूपो विक्रीतो न तु नीरम्, अतो नीरस्य मूल्यं देहि । प्रातिवेश्मिको विचारयति-असौ मां दुर्नीत्या पीडयति, तत एनं पाठं पाठयामि ।
प्रातिवेश्मिक अब्रवीत् – मम कूपे जल रक्षणस्य भाटकं (१०००) सहस्रं रूप्यकाणि देहि, कृपणो विचारयति - असौ प्रतिवेश्मिको ममाऽपि तातोऽस्ति ।
ततः स आह - गच्छ, अहं कूपेन सह नीरमपि निःशुल्कं ददामि ।
१२९
Page #135
--------------------------------------------------------------------------
________________
5 | हेतुस्त्र भविष्यति
एच्. वि. नागराजराव्
विद्यार्थीदशायां मम बहवः सती. आसन् । तन्मध्ये केचन सुहृदः, केचनाऽसूयवः, अपरे तटस्थाः । एकस्तु नारायणाख्यः अत्रोल्लेखनीयः । मया साहित्यपरीक्षायां सर्वप्राथम्यमलभ्यत । राज्ये प्रथमं स्थानं लब्धवान् इति मम गुरवः सन्तोषं प्राकटयन् । सुहृदः प्रशंसावचनान्युक्त्वाऽभ्यनन्दन् । नारायणः सभ्रूभङ्ग मां विलोक्य "एतन्न महत् । यदि अहं किञ्चिदधिकमपठिष्यं, तर्हि मयैव प्रथम स्थानमलप्स्यथ । इयं परीक्षा न मुख्येति मया उदासितम्" इत्युक्त्वा निरगच्छत् । स आढ्यस्य पितुः सुतः । सदोत्तमानि वस्त्राणि धारयति स्म । मम तादृशं किमपि नासीत् । मादृशेषु सर्वदा सोऽवज्ञामेव प्रकटयति स्म । राष्ट्रस्पर्धासु भागं वोढुं मयाऽवकाशे लब्धे तस्येा जातेति भाति । शालाध्यक्षस्य वरिवस्यां कृत्वा नागराजः सकलान् अवकाशान् प्राप्नोति इति स वक्तुम् आरभत । स्पर्धायां विजित्याऽहं सुवर्णपदकमपि प्राप्तवान् । माम् अभिनन्दयितुं शालायां सभारम्भ आयोजितः । एतत्तस्य शिरोवेदनाम अजनयत् । मयाऽपकारेऽकृतेऽपि अपकारिणमिव मां निन्दति स्म । कालो यातः । मया सामान्योद्योगो लब्धः । तेन उत्तम उद्योगो लब्धः। अहङ्कारेण द्विचक्रिकया गच्छन् नारायणो मां पथि पद्भ्यां चरन्तं वीक्ष्य
१३०
Page #136
--------------------------------------------------------------------------
________________
सोत्प्रासं हसित्वा गच्छति स्म । कदाचन मित्राणां समारम्भेषु विवाहादिषु आवयोः परस्परं दर्शनं अभवत् । नमस्कर्तुं वदितुं च मया प्रयत्ने कृतेऽपि स “पश्यन्नपि न पश्यति" इति नीतिमवालम्बत । नगरे ममोपन्यासाः भवन्ति स्म । किन्तु कदापि न तत्र स श्रोतुमागतः । एवं गच्छति स्म कालः । ततस्तस्य बङ्गलूरुनगरे उद्योगो जात इति मया श्रुतम् । बहूनि वर्षाणि गतानि । मम विवाहो जातः । पुत्र उत्पन्नः । तस्य विद्याभ्यासः कारितः । विद्याभ्यासं पूरयित्वा पुत्रोऽमेरिकदेशे उद्योग प्राप्तवान् ।
कदाचनाऽहं बङ्गलूरनगरे उपन्यासं कर्तुं प्रसिद्धया कयाचन संस्थया आहूतः । तत्र वेदिकायाम् उपविष्टोऽहं सभ्यानां मध्ये प्रथमपङ्क्तौ नारायणम् अपश्यम् । किञ्चिद् विस्मितोऽपि अहं स्वभावानुगुणतया उपन्यासम् अकरवम् । ततस्तु समाप्तौ जातायां नारायण आगत्य नमस्कृत्य “अमोघं भाषणम् । महान् प्रमोदः । मम बाल्यसुहृत् एवं भाषत इति अभिमानस्य स्थानम् । अद्य प्रातः पत्रिकायां भवत उपन्यासोऽस्तीति वार्ताम् अद्राक्षम् । अत एव पल्या साकम् आगमम्" इत्युक्तवान् । मम विस्मयोऽधिको जातः । स पत्नी पर्यचाययत् । तत उक्तवान् “इदानीमपि भवान् मैसूरनगर्यां वर्तते खलु ?" इति । आम् इति मयोक्ते, स पुनरवोचत् “कदा तत्र गमनम्" इति । इदानीमेव रेलयानेन गमिष्यामि इत्यहमवोचम् ।
"अद्य मम गृहे उषित्वा श्वो गम्यताम्" इति नारायणो वक्तुमारभत । तस्य पत्नी च 'आगम्यताम्' इत्यब्रवीत् । “क्षम्यताम् । मयाऽद्य मैसूरुनगरं प्राप्तव्यमेव ।" इत्यहम् अब्रवम् । "तहि रेलस्थानं प्रति अहमेव भवन्तं प्रापयिष्यामि" - इत्युक्त्वा नारायणो महता विनयेन स्वीयं काऱ्यानम् आनीय रेलस्थानं मां नीतवान् ।
रेलयाने उपविष्टोऽहं बहुधा अचिन्तयम् । पूर्वं कदापि अदर्शितः स्नेहः कथमस्य मनसि उत्पन्नः? किं कारणं स्यात् ? इति । मया किमपि न ज्ञातम् ।
गतं दिनद्वयम् । ततोऽन्यस्मिन्नहनि मया दूरवाणीध्वनिरश्रूयत । भाषितुमुपक्रान्तवति मयि नारायणोऽवदत् “अपि कुशलं भवतः ? भवत्पत्न्याश्च ?" इति । एवं कुशलप्रश्नानन्तरं सोऽब्रवीत् "नागराज, आवयोर्दीर्घकालिकः स्नेहो बान्धव्ये परिणतो भवतु इति ममाऽऽशा । मम पुत्री वर्तते । तव पुत्रोऽस्ति । तयोविवाह: सम्पद्यताम् इति ममाशा । भवान् अनुमन्यताम्" इति ।
सहसोत्पन्नस्य नारायणस्नेहस्य निदानं मया तदा ज्ञातम् । तादृशस्य सम्बन्धमनिच्छन्नपि सौजन्येनाऽहमवदम् "भवत आज्ञा युक्तैव । मम पुत्रेण सम्भाष्य, यदि स विवाहोत्सुकः तहि कथयिष्यामि" इति । कतिपयदिनानन्तरं तेन पुनः सम्पर्कः कृतः । तदा मयोक्तम् "क्षम्यताम् । मम पुत्र इदानीं वोढुं नेच्छति" इति ।
पुनर्नारायणं कदाऽप्यहं न दृष्टवान् ।
Page #137
--------------------------------------------------------------------------
________________
मर्म नर्म
कीर्तित्रयी
आरक्षकाधिकारी जनसम्मर्दं विरलीकर्तुं भवान् किं कुर्यात् ? पदान्वेषी धनग्रहणं खलु !!
(एकस्मिन्नापणे फलके लिखितमासीत् - किलोमिताया: शर्करायाः रू. २५/- इति) महिला (तत् पठित्वा) किलोद्वयं शर्कराया दीयताम् । अद्याऽऽपणे शर्करा नास्ति, कृपया श्व आगम्यताम् ।
१. आपणिकः
(महिला समीपस्थमापणं गता । तत्र लिखितं शर्करा रू. ३२/- इति ।) भोः ! कुत एतावान् विशेष: ? तत्र रू. २५/- अत्र तु रू. ३२/- ! यदाऽस्मदापणे र्शकरा न स्यात् तदा वयमपि रू. २५/- मूल्येनैव ददामः ।
महिला २. आपणिकः
चिकित्सकः (पत्नी) मया शीघ्रमेव चन्द्रामहोदयाया गृहं गन्तव्यं, तस्याः पुत्रो रुग्णोऽस्ति । पत्नी परिस्थितिर्गभीराऽस्ति वा ?
चिकित्सकः
आम् ।
पत्नी
किं जातं बालस्य ?
चिकित्सकः तत् त्वहं नैव जानामि । किन्तु चन्द्रामहोदयापार्श्वे 'चिकित्सकागमनात् पूर्वं किं कर्तव्य'मित्यभिधं पुस्तकमस्ति । तस्यास्तदुपयोगकरणात् पूर्वमेव तत्र प्राप्तव्यम् !!
१३२
Page #138
--------------------------------------------------------------------------
________________
महिला
(मधुमक्षिकापालक) भो ! भवदुद्यानस्यैका मक्षिका मां दष्टवती । शीघ्रं किमपि क्रियताम् । अवश्यं भगिनि ! कृपया सा मक्षिका मे दर्श्यताम् । अधुनैव तां दण्डयिष्यामि ।
पालकः
युवतिः युवकः
(नृत्यस्थाने (Ball Room)) नृत्यस्य धावनस्य च मध्ये को विशेष: ? नाऽहं जानामि । तदेव मया चिन्तितं, किमावामुपविशेव तावत् ?
युवतिः
माता
वत्स ! शालागमनस्य प्रथमदिनेऽद्य त्वया पर्याप्तं शिक्षितं वा ? नैव मातः ! मया श्वोऽपि गन्तव्यं तत्र ।
पुत्रः
कर्मकरः
स्वामिन् ! अहमापञ्चविंशतेर्वर्षेभ्यो भवतः कार्यं करोमि । तथाऽपि मया न कदाऽपि वेतनवृद्ध्यर्थं कथितम् । तत एव भवान् पञ्चविंशतिवर्षाणि कार्यं कर्तुं शक्तवान् खलु !
स्वामी
१३३
Page #139
--------------------------------------------------------------------------
________________
5 | कलिकालसर्वज्ञश्रीहेमचन्दाचार्याणामाचार्यपदस्य
नवमशताब्दी निमित्तीकृत्याऽऽयोजित: श्रीहेमचन्दाचार्यचन्दकार्पणसमारोहः
कीर्तित्रयी
अहमदाबादनगरे श्रीहठीसिंह-केसरिसिंहवाटिकामध्ये २०६६तमस्य विक्रमाब्दस्याऽऽश्विनशुक्लद्वितीयातिथौ ९-१०-२०१०तमे दिनाङ्के शासनसम्राटश्रीविजयनेमिसूरीश्वरसन्तानीयानां पूज्याचार्यश्रीविजयसूर्योदयसूरीश्वर-श्रीविजयशीलचन्द्रसूरीश्वराणां पुण्यसान्निध्ये तेषामेव प्रेरणया स्थापितायाः श्रीहेमचन्द्राचार्यस्मृतिशिक्षणनिधेरुपक्रमेण श्रीहेमचन्द्राचार्यचन्द्रकार्पणसमारोह आयोजित आसीत् ।।
इतः पूर्वं डॉ. हरिवल्लभभायाणी, डॉ. दलसुख-मालवणिया, डॉ. मधुसूदन ढांकी, डॉ.सत्यरञ्जनबॅनर्जी, प्रा.जयन्त कोठारी, प्रा. र.ना. महेता - इत्यादिभ्यो दशभ्यो विद्वद्भयोऽयं चन्द्रकोऽपितोऽस्ति । तस्यामेव शृङ्गलायां गूजरभाषासाहित्यस्य त्रिभ्यो मूर्धन्यविद्वद्भयः प्रा. श्रीकनुभाई जाना - प्रा. श्रालाभशङ्कर पुरोहित - डॉ. हसुभाई याज्ञिकाख्येभ्यः साहित्यक्षेत्रे तेषां विशिष्टं प्रदानमुपलक्ष्य श्रीहेमचन्द्राचार्यचन्द्रकार्पणं कृतम् ।
अस्मिन् समारोहे विश्वविख्यातः शिल्पकलावित् पद्मभूषणो डॉ. मधुसूदन ढांकी, अमरेलीनगरीयः संस्कृतवैयाकरण: डॉ. वसन्त परीख:, डॉ. रघुवीर चौधरी, प्रा. शिरीष पञ्चालः, कविराजेन्द्रशुक्लः इत्यादयो मूर्धन्यसाहित्यकारा उपस्थिता आसन्, अवसरोचितमुद्बोधनं च कृतवन्तः । त्रिभिः प्राप्तचन्द्रकैर्विद्वद्भिरपि स्वीयप्रतिभावः सहर्ष प्रदर्शितः ।
१३४
Page #140
--------------------------------------------------------------------------
________________
श्रीहेमचन्द्राचार्यचन्द्रकं प्राप्तास्त्रयो विद्वांसो वामतः । श्रीलाभशङ्करपुरोहितः श्रीहसुभाईयाज्ञिकः श्रीकनुभाईजानी च ।
11100104
स्वीये आशीर्वाद-प्रवचने आचार्यैः श्रीविजयशीलचन्द्रसूरिभिर्हेमचन्द्राचार्यैः कृतानां विद्याकार्याणां परिचयः प्रदत्तः, ऐतिहासिकप्रमाणैश्च तेषां समन्वयवादिता-समत्वोदारता-नृपद्वयप्रतिबोधकत्वादिगुणा वर्णिताः । ततस्त्रयाणामपि विदुषां कृते शुभाशंसा प्रकटिता ।
प्रसङ्गेऽस्मिन् हेमचन्द्राचार्यविरचितं महादेवस्तोत्रं, सिद्धहेमलघुवृत्ति-उदाहरणकोशः, धर्मतत्त्वचिन्तनं (विजयशीलचन्द्रसूरिलिखित) चेत्याख्यानां त्रयाणां पुस्तकानां लोकार्पणं जातम् ।
___ततः पूज्याचार्यश्रीविजयसूर्योदयसूरीश्वराणामाशीर्वचनैः सह प्रसङ्गोऽयं सम्पन्नो जातः । समग्रस्याऽपि समारोहस्य सञ्चालनं विदुषा डॉ. श्रीनिरञ्जनराज्यगुरुणा कृतम् ।
विश्रुतस्य कन्नडभाषीयोपन्यासकथालेखकस्य डॉ. एस्. एल्. भैरप्पवर्यस्य 'आवरण'नामकस्य कथाग्रन्थस्य संस्कृतानुवादार्थं २०१०तमवर्षीया अनुवाद-क्षेत्रीया केन्द्रसाहित्याकादमीप्रशस्तिः डॉ. विश्वासमहोदयेन प्राप्ताऽस्ति । डॉ. विश्वासमहोदयः सम्भाषणसन्देशसंस्कृतपत्रिकायाः पूर्वसम्पादकः, संस्कृतभारतीयसंस्थायाश्च पूर्णकालिकः सन्निष्ठकार्यकरश्चाऽपि । प्रशस्ति प्राप्तवन्तं डॉ. विश्वासमहोदयं सादरं सहाद चाऽभिनन्दति नन्दनवनकल्पतरुः ॥
१३५
Page #141
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरोः पञ्चविंश्या: शाखाया लोकार्पणनिमित्तमायोजिता | संस्कृत-सभा
वार्ता
कीर्तित्रयी
संस्कृत-प्राकृतभाषामयस्याऽयनपत्रस्य पञ्चविंश्याः शाखायाः प्रकाशन-लोकार्पणादि निमित्तीकृत्याऽहमदाबादनगरे श्रीहठीसिंहवाटिकामध्ये २०६६तम-विक्रमाब्दस्य आश्विनशुक्लप्रतिपदि ८।१०।२०१० तमे दिनाङ्के शासनसम्राटश्रीविजयनेमिसूरीश्वरसन्तानीयानां पूज्याचार्यश्रीविजयसूर्योदयसूरीश्वर-श्रीविजयहेमचन्द्रसूरीश्वर-श्रीविजयशीलचन्द्रसूरीश्वराणां पुण्यसान्निध्ये एका संस्कृतसभा आयोजिता ।
अस्याः सभाया अध्यक्षत्वं सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य पूर्वकुलपतिना त्रिवेणीकवि प्रा. श्रीअभिराजराजेन्द्रमिश्रमहाभागेन निर्वोढम् । पत्तनस्थश्रीहेमचन्द्राचार्यविश्वविद्यालयस्य पूर्वकुलपतिः प्रा. कुलीनचन्द्रयाज्ञिकः, संस्कृतसाहित्यक्षेत्रे मूर्धन्यविद्वान् डॉ. विजयपण्ड्या डॉ. वासुदेवपाठकश्चाऽत्र सभायां वक्तार आसन् ।
__ अथाऽध्यक्षीयं प्रवचनं ददता प्रा. श्रीअभिराजराजेन्द्रमिश्रमहोदयेन मधुरस्वरेण संस्कृतभाषाया वैशिष्ट्यं वर्णयता कथितं - "भारतदेशस्य सर्वा अपि भाषाः संस्कृतप्रभवा एव । सर्वास्वपि भाषासु संस्कृतशब्दानामेवाऽऽधिक्यं वर्तते । यद्यपि संस्कृतभाषाऽऽधुनिके जगति दैनन्दिनव्यवहारभाषा भवितुं न प्रस्तुता तथाऽपि तस्या महत्त्वं सर्वथाऽन्यूनमेव । यतो लेटिन्-प्रमुखभाषावत् सा शास्त्रीय(classical) भाषा मृतभाषा वा नास्ति यस्या अद्य व्यवहार एव न स्यात् । अद्याऽपि सा व्यवहारपथे तथैव राजते यथा द्विसहस्रवर्षपूर्वमासीत् । तथा पश्यन्तु, द्विसहस्रवर्षेभ्यः पूर्वं या संस्कृतभाषा भाष्यमाणा लिख्यमाना पठ्यमाना वाऽऽसीत् सैवाऽद्याऽपि भाष्यते लिख्यते पठ्यते च । या संस्कृतभाषा काश्मीरदेशे भाष्यते लिख्यते पठ्यते च सैव केरले गूर्जरे असमदेशे चाऽपि भाष्यते लिख्यते पठ्यते च । अद्याऽप्यस्यां भाषायां सहस्रशो ग्रन्था विरच्यन्ते । गते शतके एव समग्रे भारते संस्कृतभाषायां प्रायस्त्रिशताधिकानि महाकाव्यानि विरचितानि, एषा च सङ्ख्याऽन्यासु भाषासु विरचितानां महाकाव्यानां सङ्ख्यातोऽत्यन्तमधिका । उदाहरणतया हिन्दीभाषया गते सम्पूर्णशतके केवलं पञ्चषाणि महाकाव्यानि विरचितानि । एवमेवाऽन्यान्या नूतनाः साहित्यप्रकारा अपि तथा प्रशिष्टमुत्तमं च साहित्यं चाऽपि संस्कृतभाषायामद्य विरच्यन्ते संस्कृतसाहित्यकारैः। अतः संस्कृतभाषाऽद्याऽपि जीवत्यस्माकं संस्कृतौ । आवश्यकताऽस्ति केवलं जागृतेः । सर्वेभ्योऽपि ममैका विज्ञप्तिरस्ति यद् जनसङ्ख्यागणनपत्रे प्रादेशिकभाषाऽऽङ्ग्लभाषा च यथा निर्दिश्यतेऽस्माभिस्तथैव संस्कृतभाषाया अपि निर्देशः कर्तव्यो येन सर्वकारीया अधिकारिणो जानीयर्यथेयन्तः
१३६
Page #142
--------------------------------------------------------------------------
________________
संस्कृतज्ञा अस्माकं देशे विद्यन्ते । तथा च संस्कृतभाषायाः प्रचारः प्रसारश्चाऽपि वयेत" ।
ततो नन्दनवनकल्पतरुसामयिकप्रकाशनविषये तेन कथितं – “अद्यावधि संस्कृतपत्रकारिताक्षेत्रे त्रिशताधिकानि संस्कृतसामयिकानि प्रकाशितानि । तेषां च सार्धशतं सामयिकानि त्विदानीमपि प्रकाश्यन्ते । मयाऽपि तेषां बहूनि विलोकितानि । किन्तु ततो द्वे एव सामयिके मम चित्तं हरतः स्म । एकं दिल्लीतः प्रकाश्यमानं दूर्वानाम अपरं चेदं नन्दनवनकल्पतरुः । यत उभयत्राऽपि आन्तं भाषाशुद्धिर्व्याकरणशुद्धिश्च भवति शिष्टं सुरुचिकरं चैव साहित्यं प्रकाश्यते । (अहं द्वयोरपि साद्यन्तं वाचनं करोमि ।) तत्राऽपि नन्दनवनकल्पतरुमहत्त्वमावहति यतः स विरक्तैर्जेनसाधुभिरेव प्रकाश्यते । अस्माकं देशे लक्षशः साधवः सन्ति किन्तु यावन्मे ज्ञानमस्ति तावन्न मया ज्ञातं यत् केऽपि साधवः संस्कृतसामयिकप्रकाशनं कुर्वन्तीति । अस्य प्रकाशनं निरन्तरं प्रचलत, वयं सदाऽपि सहयोगं दास्यामः" इत्यादि ।
___डॉ. कुलीनचन्द्रयाज्ञिकमहोदयेन "संस्कृतसुभाषितानां रसदर्शनम्" इति विषये वदता कथितं - "सुभाषिता ह्यस्मान् जीवनं शोभनतयोत्तमतया च कथं जीव्येतेति सरलतया बोधयन्ति । एकैकं सुभाषितमपि बहूनि नैतिकमूल्यानि शिक्षयति । अस्माभिरद्याऽर्थमोहेनाऽऽधुनिकत्वभ्रमेण च संस्कृतभाषाशिक्षणं त्यक्तमतोऽद्य नैतिकमूल्यानां हास: पदे पदेऽनुभूयते'' इत्यादि ।
"जैनरामायणं" विषयीकृत्य वदता डॉ. विजयपण्ड्यामहोदयेन विविधकर्तृकाणां रामायणानां तुलनात्मकं विश्लेषणं कुर्वता विद्वत्तापूर्ण प्रवचनं प्रदत्तम् ।
कीर्तित्रयमुनयोऽपि विविधविषयेषु संस्कृतभाषया प्रवचनं कृतवन्न:* । ततो गुरुभगवतामाशीर्वचनोच्चारणपूर्वं सभा समाप्तिभजत् । सभायाश्च सुचारु सञ्चालनं विदुषा डॉ. वासुदेवपाठकमहोदयेन कृतम् ।
श्रीविज्यशीलचन्द्रसूरिः कीर्तित्रयी च
आ.श्रीहेमचन्द्रसूरयः आ.श्रीसूर्योदयसूरयः
F- आ. श्रीसूर्योदयसूरयः
डॉ. विजयपण्ड्या , डॉ. कुलन्चन्द्रयाज्ञिकः। डॉ. कान्तिगोरः प्रा. राजेन्द्रमिश्रश्च
* तानि प्रवचनान्यस्यामेव शाखायां यथातथं प्रकाशितानि सन्ति ।।
१३७
Page #143
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरोः पञ्चविंश्याः शाखायाः लोकार्पणं कुर्वन्तौ डॉ. वासुदेवपाठकप्रा. राजेन्द्रमिश्रौ ।
आचार्येभ्यः पुस्तकार्पणं कुर्वन्तो विद्वांसः ।
सा. श्रीचन्दनबालाश्रियै पुस्तकार्पणं कुर्वन्तो विद्वज्जनाः।
१३८
Page #144
--------------------------------------------------------------------------
________________
प्रवचनम्
हृदयसन्तर्पकं वृत्तम् मुनिरकीर्तिविजयः
नमो नमः श्रीगुरुनेमिसूरये ॥ आनन्दमयोऽयं दिवसः । सुदूरं स्थितोऽप्यहं तत्रत्यानि आनन्दपूर्णानि स्पन्दनानि अनुभवाम्येव ।
नन्दनवनकल्पतरोः पञ्चविंशतितमी शाखाऽद्य प्ररोहं प्राप्ताऽस्ति । अथ विदुषां विद्यार्थिनां च कृते छायाप्रदोऽयं कल्पतरुर्जातोऽस्ति । प्रतिशाखं तस्य छायाऽभिवर्धत एव । एतच्च हृदयसन्तर्पकं वृत्तम् । अस्मिश्च शाखाविस्तरणकार्ये लेखका वाचकाश्च सर्वेऽपि तेऽत्र विशेषेण धन्यवादार्हाः ।
१३९
Page #145
--------------------------------------------------------------------------
________________
पूज्याचार्यवर्यश्रीविजयनन्दनसूरिमहाराजानां पुण्यस्मृतौ तेभ्यश्चाऽञ्जलिरूपेण रोपितोऽयं नन्दनवनकल्पतरुः सुखं सुखेन प्रवृद्धिं गतोऽस्तीति तोषप्रदम् ।
अत्र प्रथमं तावद् मम सहवर्तिनौ मुनिप्रवरौ मुनिश्रीधर्मकीर्तिविजय-मुनिश्रीकल्याणकीर्तिविजयमहाराजौ सादरं स्मरामि यत् तयोरुत्साहबलेनैव सामयिक एष इयती भुवं प्राप्तः । यत आरम्भशूरप्रकृतिकोऽहं बहुशो मन्दोत्साहोऽपि सञ्जातोऽस्म्यस्मिन् कार्ये किन्तु साग्रहं सप्रेम च तौ मां सम्प्रेर्य योजितवन्तौ । मम योगदानं त्वत्र केवलं कस्याचिदन्यथासिद्धस्य योगदानेन तुल्यमेवाऽस्ति, अतः कार्यस्याऽस्य यशोभागिनौ वस्तुतस्तु तौ द्वावेव, अहं तु केवलमानन्दभागेव । तेन च सन्तोषोऽप्यस्ति स्म ।
अर्थतस्य समग्रस्याऽपि कार्यस्य साफल्यस्य यशसश्च ये मूलं सन्ति ते पूज्यपादगुरुवरा आचार्यश्रीविजयशीलचन्द्रसूरीश्वराः कथमत्र विस्मर्तव्याः ? वाक्यमेकं कुत्रचित् पठितमासीत् - "यो व्यक्तेऽङ्गलिनि र्देशं कुरुतेऽव्यक्ते च हस्तं गृहीत्वा चालयति स गुरुः ।" एतादृशं हि गुरुत्वं पूज्यपादानामस्माभिः सततमनुभूतम् । अस्मिन् कार्येऽपि पूज्यपादैरलिनिर्देशं हस्तग्रहणं चोभयमपि कृतमेव । तच्चाऽद्याऽप्यनुभूयत एव ।
यदा हि पूज्यपादैः कार्यमेतन्निर्दिष्टं तदा स्थूलफलाकाङ्क्षि मनो विकल्पतरङ्गैर्दोलायमानं जातम् - क एनत् सामयिकं पठिष्यति ? कीदृशः प्रतिभावः प्राप्स्यते ? को वा लाभो भविष्यति ? - इत्यादि ।
गुरुभगवतामग्रे निवेदितमपि सर्वमेतत्, किन्तु – “अलमेतादृशैविकल्पैः । नैतद् वयमन्यस्य कस्याऽपि कृते कुर्महे । केवलं स्वाध्याय एवाऽत्र लक्ष्यं लाभश्चाऽस्माकम् ।" - प्रत्युत्तरेणाऽनेन सर्वेऽपि तर्काः कुतर्का वा विलीना जाताः । कार्य प्रारब्धं प्रगतिश्च सर्वप्रत्यक्षा एव ।
अतो यत्किमपि यशः साफल्यं वाऽनेनोपलब्धं तत् सर्वमपि तेषां चरणकमलयोः अञ्जलिरूपेण सादरमद्य समर्पयामो वयम् । अभिज्ञानशाकुन्तलस्य श्लोकोऽयं मम हृदयभावं स्फुटं व्यनक्ति । तदुल्लेखं कृत्वा विरमाभि
सिद्ध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः सम्भावनागुणमवेहि तमीश्वराणाम् । किं वाऽभविष्यदरुणस्तमसां विभेत्ता तं चेत् सहस्रकिरणं धुरि नाऽकरिष्यत ? || इति ।
१४०
Page #146
--------------------------------------------------------------------------
________________
कलिकालसर्वज्ञश्रीहेमचळाचार्यस्य प्रतिभा
प्रवचनम्
मुनिधर्मकीर्तिविजयः
क्लुप्तं व्याकरणं नवं विरचितं छन्दो नवं द्वयाश्रयालङ्कारौ प्रथितौ नवौ प्रकटितं श्रीयोगशास्त्रं नवम । तर्कः संजनितो नवो जिनवरादीनां चरित्रं नवं
बद्धं येन न केन केन विधिना मोहः कृतो दूरतः ॥ कलिकालसर्वज्ञस्य श्रीहेमचन्द्राचार्यस्य समकालीनेन श्रीसोमप्रभसूरिणा श्लोकेनतेन श्रीहेमचन्द्राचार्यगुरोः साहित्यस्य समीक्षा कृता । एष एक एव: श्लोकोऽस्य गुरोः प्रतिभां विद्वत्तां च प्रमाणीकरोति । साहित्यस्य सर्वेष्वपि क्षेत्रेषु गुरोरस्य अप्रतिहता गतिरासीत् । जगति व्याकरणस्य पण्डिता बहवो, न्यायस्याऽपि बहवः पण्डिताः एवमेकैकस्य विषयस्य पण्डिता बहवः उपलब्धा भवन्ति, किन्तु येषु विद्वत्सु व्याकरणन्याय-काव्या-लङ्कारादिकं सर्वमपि साहित्यं समाविष्टं स्यात् तादृशा विद्वांसः कियन्तोऽस्मिन् जगति ? भो ! अस्माकं परमं सौभाग्यमस्ति यद्, यस्य विदुषः साहित्यस्य सर्वेष्वपि क्षेत्रेषु समानोऽधिकारः तादृशो हेमचन्द्राचार्यगुरुः अस्माकं गूर्जरदेशे जातः । एतत् सौभाग्यं न केवलं जैनानामपि तु सर्वेषामपि गूर्जरजनानामस्ति । यद्येष गुरु'रर्जरदेशे जातो न स्यात् तर्हि -
- गूर्जरभाषायाः प्रादुर्भावः स्यान्नवेत्येव प्रश्न आसीत् । - गूर्जरदेशेऽद्य संस्कारस्य समृद्धिः वैभवश्च दृग्गोचरीभवतः, तयोः कल्पनाऽप्यशक्याऽऽसीत् ।
- अन्यराज्यजनानामपेक्षया गूर्जरजनानां चित्ते या करुणादृष्टिः, परोपकारवृत्तिः, सर्वधर्मसमभावदृष्टिः विद्यारुचिश्चेत्यादिकाः गुणाः दृश्यन्ते ये ते दृश्येरन् नवेत्येव प्रश्न आसीत् ।
- विश्वस्मिन् विश्वेऽनेकविधसाहित्यं रचितं विद्वद्भिस्तत्र गौरवपूर्वकं सादरं च गूर्जरराज्यस्य नामोच्यते तस्य महत्त्वपूर्ण श्रेयो हेमचन्द्राचार्यगुरोरेव । एनं गुरुं विना गूर्जरदेशे साहित्यस्यैतादृशो विकासोऽशक्य एवाऽऽसीत् । विश्वप्रसिद्धानां साहित्यकाराणां समक्षं गुरुमेनं विना सगौरवं येषां नामोल्लेखः क्रियेत तादृशाः विद्वांसः कियन्तो गूर्जरदेशे ? अङ्गलीभिः गणयितुं शक्या एव ।
एतादृश आसीद् अस्माकं गुरुः श्रीहेमचन्द्राचार्यः ।
अस्य गुरोः कविप्रतिभा सुन्दरा मधुरा चाऽऽसीत् तथैव निर्दुष्टा गभीरा चाऽप्यासीत् । द्वौ प्रसङ्गौ कथयामि ।
एकदा गूर्जरनरेश्वरः सिद्धराजजयसिंहो गजमारुह्य नगरस्य मुख्यमार्गत आगच्छन् आसीत् । सर्वेऽपि नगरजना राजानं द्रष्टुमितस्ततो अटाट्यन्ते स्म । ततः कार्यार्थं बहिनिर्गतवान् हेमचन्द्राचार्यगुरुः एकस्मिन् कोणे स्थितवान् आसीत् । गजारूढेन राज्ञा दृष्ट एव गुरुः । गुरोस्तपसा ज्ञानेन च देदीप्यमानं
१४१
Page #147
--------------------------------------------------------------------------
________________
ललाटं तथा निर्मलचारित्रपालनेन पवित्रीभूतां देहयष्टिं निरीक्ष्य राजा चकितः स्तब्धश्च जातः । क्षणं गजं निरुध्य तं गुरुमेव मुहर्मुहुः पश्यति स्म । राज्ञः मानसिकी स्थिति ज्ञात्वाऽवसरानुरूपं गुरुणा श्लोक एक उक्तः । गुरोः काव्यप्रतिभा कीदृशी आसीत् तद् एतेन श्लोकेन ज्ञायते -
कारय प्रसरं सिद्ध ! हस्तिराजमशङ्कितम् ।
त्रस्यन्तु दिग्गजाः किं तैर्भूस्त्वयैवोद्धता यतः ॥ एतन्निशम्य राजाऽतीव सन्तुष्टो जातः । गजादवतीर्य गुरोः चरणयोः पतितवान् । गुरोः सामर्थ्य प्रतिभां विद्वत्तां च निरीक्ष्य मन्त्रमुग्धो राजा श्रीहेमचन्द्राचार्यमयो जातः । तत्क्षणमेव स उक्तवान् - "गुरुदेव ! भवता प्रतिदिनं मे राजसभायामागन्तव्यम्" इति । भो ! साहित्यरसिको राजा विद्वज्जनं स्वकीयराजसभायाम् आगन्तुमामन्त्रयेत् तत्तु स्वाभाविकमस्ति, किन्तु तत्राऽऽवश्यकोऽस्ति विशेषो लेशो वा परिचयः । अत्र तु सर्वमपि विपरीतमेव आसीत् । यतोऽद्यावधि न गुरुरेष दृष्टो राज्ञा, न च कोऽपि परिचय आसीत् । तथाऽपि केवलं द्वात्रिंशदक्षराणि श्रुत्वैव राजा गुरुवरमेनं राजसभायामागमनस्य कृते आमन्त्रयेत्, तत्र एकमेव कारणमस्ति - गुरोः काव्यप्रतिभाः ।
एतादृशोऽन्योऽपि प्रसङ्गोऽस्ति ।
तदा सिद्धराजो मालवदेशं विजित्य पत्तननगरे आगच्छन् आसीत् । सर्वैः पुरजनैरुचितरीत्या स्वागतादिकं कृतम् । विद्वद्भिः स्वस्वबुद्धिप्रागल्भ्येन राज्ञः प्रशस्तिः कृता । अन्ते श्रीहेमचन्द्राचार्येणाऽपि राज्ञः विजयप्रशस्तिः कृता । गुरुः उक्तवान् -
भूमि कामगवि ! स्वगोमयरसैरासिञ्च रत्नाकरा ! मुक्तास्वस्तिकमातनुध्वमुडुप ! त्वं पूर्णकुम्भीभव । धृत्वा कल्पतरोर्दलानि सरलैदिग्वारणास्तोरणा
न्याधत्त स्वकरैर्विजित्य जगतीं नन्वेति सिद्धाधिपः ।। काव्येऽस्मिन् गूर्जरदेशस्य भव्यतायाः ध्वनिः श्रूयते स्म । अद्यावधि बहुभिः पण्डितैः सिद्धराजस्य प्रशस्तिः कृताऽऽसीत् । तां निशम्य या प्रसन्नता जाता ततोऽप्यधिका प्रसन्नता तस्यैतेन श्लोकेन जाता, तत्तु राज्ञो मुखे दृश्यते स्म एव । ततो गुरोर्गौरवान्वितामकल्पनीयकल्पनायुतां च वाचं श्रुत्वा राजा पुलकितो जातः। मनसि निर्णीतवान् राजा - "एतादृशो विद्वान् न कोऽप्यस्ति मे सभायाम्" । ततो यदा नूतनव्याकरणस्य रचनाया अवसर आगतः तदा एष गुरुः श्रीहेमचन्द्राचार्य एव प्राथितो राज्ञा ।
पश्यन्तु, अस्य गुरोः काव्यप्रतिभायाः फलम् ।
'कारय प्रसरं सिद्ध !' इति श्लोकं श्रुत्वा राज्ञा राजसभायामागन्तुमामन्त्रणं दत्तम् । एवं 'भूमि कामगवि' इति श्लोकं निशम्य नूतनव्याकरणस्य रचनायाः प्रसङ्गे एनं गुरुमेव प्राथितवान् राजा।
एतादृशी काव्यप्रतिभा गुरोरस्य आसीत् ।
१४२
Page #148
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरो: उद्भवो विकासयात्रा च
प्रवचनम्
मुनिकल्याणकीर्तिविजयः
शासनसम्राजामिह, समुदाये मेरुपर्वतौपम्ये ।
कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥ श्लोकोऽयं नन्दनवनकल्पतरोः प्रत्येकं शाखाया मुखपृष्ठे मुद्रितोऽस्ति । किन्तु प्रश्नोऽयमुत्तिष्ठते यत् - के शासनसम्राजः ? कश्च तेषां समुदायः ? किं च तत्र नन्दनवनम् ? - इति । तदर्थं प्रथमं परिचयं दत्त्वा ततः नन्दनवनकल्पतरुविषयकं कथयिष्यामि ।
अस्माकं परमगुरवः श्रीविजयनेमिसूरीश्वराः स्वप्रतिभाबलेन ज्ञानबलेनाऽनुभवबलेन च जैनानां धर्मशासनस्य सम्राज इव सम्राज आसन्, अतस्ते समग्रे जैनसमाजे शासनसम्राडित्याख्यया प्रसिद्धा जाताः । ते हि स्वयमेव शास्त्राणां पारगामिण आसन् । ते सर्वदर्शनानि व्याकरण-साहित्य-काव्य-च्छन्दोऽलङ्कारादिशास्त्राणि सिद्धान्तागमादिधर्मशास्त्राणि च तलस्पर्शितयाऽधीतवन्तः । शास्त्रपरिकर्मितबुद्ध्या च तैः तर्क-व्याकरण-सिद्धान्तादिसम्बद्धा बहवो ग्रन्था अपि विरचिताः ।।
अथ च तेषां शतशः शिष्य-प्रशिष्या आसन् । तेष्वप्यष्टौ शिष्या दिग्गजा इव प्रतिभान्विताः सन्तो विविधासु विद्याशाखासु पारगामिण आसन् । तत्राऽपि च द्वौ मुख्यशिष्यौ तेषां प्रतिच्छायेवाऽऽस्तां याभ्यां तेषां समग्रं ज्ञानमनुभवश्चाऽऽकण्ठमात्मसात् कृत आसीत् । तौ चाऽऽस्तां विजयोदयसूरिविजयनन्दनसूरिश्च ।
१४३
Page #149
--------------------------------------------------------------------------
________________
अस्माकं पूज्यगुरुभगवद्भिस्तयोर्द्वयोरपि कृपामृतं प्राप्तमासीत् । तत्राऽपि विशेषतो विजयनन्दनसूरीणामन्तेवासितया दशवर्षाणि स्थित्वा बहु ज्ञानमनुभवश्च प्राप्तौ । ते हि नन्दनसूरीश्वरा कलिकालसर्वज्ञश्रीहेमचन्द्राचार्याणां जन्मभूमिर्यद् धन्धुकानगरं तत्समीपवर्तितगडीग्रामे द्वात्रिंशदधिके द्विसहस्रतमे वैक्रमाब्दे निजजीवन समापितवन्तः । तत्र स्थाने पूज्यगुरुवर्याणां सदुपदेशेन श्रावकजनैर्नन्दनवनं नाम तीर्थमुपस्थापितम् । तस्य तीर्थस्य प्रतिष्ठा पञ्चपञ्चाशदधिके द्विसहस्रतमे वैक्रमाब्दे उपकल्पिताऽऽसीत् । तदवसरमुपलक्ष्याऽस्माकं पज्यगुरुभगवन्तो विजयशीलचन्द्रसरिवरा अस्मान त्रीनपि प्रेरितवन्तो – 'यदेते श्रावका धनादिव्ययं कृत्वा जिनभक्तिं गुरुभक्तिं च करिष्यन्ति । अस्माकं तु धनव्ययेऽधिकारो नास्ति । किञ्चित् तु कर्तव्यमेवाऽस्माभिर्गुरुभक्तिकृते । किञ्च, जैनसमाजेऽद्य शतशः सामयिकानि प्रकाश्यन्ते विविधभाषासु । किन्तु तत्रैकमपि संस्कृतसामयिकं नास्ति । यूयं सर्वेऽपि व्याकरण-साहित्यादि अधीतवन्तः । अतो मदिच्छाऽस्ति यद्-यूयं संस्कृतभाषया विविधान् साहित्यप्रकारान् लिखन्तु । तत्सामग्र्या वयं संस्कृतसामयिकमेकं प्रकाशयिष्यामो गुरुभगवतां स्मृतौ' ।
वयं हि तदात्वे संस्कृतसाहित्यालेखने सर्वथाऽनभिज्ञा आस्म । किन्तुगुरुभगवतामूष्मपूर्णमार्गदर्शनेनाऽस्माभिः स्तुति-चरित्र-चिन्तन-कथा-हास्यकणिकादि किञ्चिल्लिखितम् । गुरुभगवद्भिः स्वयमपि मङ्गलार्थं चतुर्विंशतेजिनानां मधुर-सरसानि स्तवनानि विरचितानि । एतत् सर्वमपि संस्कृतसामयिकस्य मूलद्रव्य(Raw Material)मासीत् । तदुपयुज्याऽस्माभिनन्दनवनतीर्थस्य प्रतिष्ठावसरे गुरुभगवतां तीर्थस्य च नाम्ना पञ्चपञ्चाशदधिके वैक्रमे द्विसहस्रतमे शताब्दे उत्तरायणे नन्दनवनकल्पतरु-इत्यभिधसंस्कृतसामयिकस्य प्रथमा शाखा प्रकाशिता ।
यद्यपीयमस्माकं चेष्टा चलितुं शिक्षतो बालस्येवाऽऽसीत् । किन्तु गुरुभगवता पूर्णवात्सल्येन वयं सम्भालिताः, अस्माकं क्षतयश्च सम्मार्जिताः प्रोत्साहिताश्च वयमग्रेसर्तुम् । अस्माभिरेषा प्रथमा शाखा विद्वज्जनेभ्यः प्रतिभावार्थमभिप्रायार्थं च प्रेषिता । तैरपि च सरलतया सहृदयतया चाऽस्माकं बालचेष्टामेकतः कृत्वा स्वीकृता भृशं प्रोत्साहिताश्च वयम् । अस्माकमुत्साहो वृद्धिङ्गतः । शनैः शनैरस्माभिरस्य द्वितीया शाखाऽपि दक्षिणायने प्रकाशिता । यतः -
श्रीर्मङ्गलात् प्रभवति, प्रागल्भ्याच्च प्रवर्धते ।
दाक्ष्यात् तु कुरुते मूलं, संयमात् प्रतितिष्ठति ।। ततश्चाऽस्माकं सहकारार्थं बहवो मुनिभगवन्तो विद्वज्जनाश्च समागताः । तेषु मुख्या आसन् आचार्यविजयहेमचन्द्रसूरीश्वराः, उपाध्यायश्रीभुवनचन्द्रमहाराजः, मुनिश्रीधुरन्धरविजयमहाराजः, विद्वत्सु च डॉ. श्रीअभिराजराजेन्द्रमिश्रमहोदयः, श्रीवासुदेवपाठकमहोदयः, देवर्षिकलानाथशास्त्रिमहोदयः-इत्याद्या औत्तराहा विद्वांसः; एस्. जगन्नाथमहोदयः, अरैयश्रीरामशर्ममहोदयः - इत्याद्याश्च दाक्षिणात्या विद्वांसः ।
एतैहि यथासमयमत्यन्तं निरपेक्षतया, केवलं भाषा-साहित्यप्रीत्या वाग्देवतायाश्चाऽर्चारूपेणैव
१४४
Page #150
--------------------------------------------------------------------------
________________
स्वीयमुत्तमोत्तमं साहित्यं सम्प्रेष्याऽस्माकं सामयिकं समृद्धीकृतमुत्साहश्च वर्धितः ।
सुजनं व्यजनं मन्ये, चारुवंशसमुद्भवम् । आत्मानं च परिभ्राम्य, परतापनिवारणम् ॥
एतेषां गुरुजनानामाशिषा विद्वज्जनानां च सहकारेणैव वयं यथाक्रमं शाखाः प्रकाश्याऽद्येमं प्रगतिस्तम्भं प्राप्ता: । अस्माभिः कदाऽपि चिन्तितं नाऽऽसीत् यद् वयं पञ्चविंशीं शाखामपि प्राप्स्यामः । अद्य तु चिन्तयामो यदितोऽपि बहु दूरं गन्तव्यमस्ति । एकेन चिन्तकेनोक्तं यत् -
जीवनं हि शिक्षकात् सर्वथा भिन्नमस्ति । शिक्षकः किल प्रथमं पाठयति, ततः परीक्षते । एतद्वैपरीत्येन जीवनं हि प्रथमेम परीक्षते, ततश्च पाठयति ।
जीवनेन नन्दनवनकल्पतरुमिषतो वयं बहु पाठिताः । तथैव बहूनां विदुषां सज्जनानां निर्मलं निर्व्याजं च स्नेहमपि प्राप्ताः ।
मा भूत् सज्जनयोगो, यदि योगो मा पुनः स्नेहः । स्नेहो यदि विरहो मा, यदि विरहो जीविताशा का ? ॥ अतो भगवन्तं प्रार्थयामि सर्वदा सज्जनानामेतेषां स्नेहो वर्षेदस्मासु ।
-
अद्यावधि नन्दनवनकल्पतरोश्चत्वारो विशेषाङ्काः प्रकाशिताः । तत्र द्वितीया शाखा शासनसम्राजां स्वर्गारोहणार्धशताब्दीं निमित्तीकृत्य, विंशी एकविंशी च शाखा तेषामेवाऽऽचार्यपदारोहणशताब्दी निमित्तीकृत्य, एषा च पञ्चविंशी शाखा विशेषतया प्रकाशिता ।
तथैवाऽद्यावधि नन्दनवनकल्पतरौ प्रकाशितेन साहित्येन आभाणकजगन्नाथः, हास्यमेव जयते, पञ्चसूत्रकम्, आलोचनाशतकं, जिनस्तवनानीत्यादयो ग्रन्थाः प्रकाशिताः सन्ति । नन्दनवनकल्पतरुप्रकाशनरूपेण च सागरविहङ्गमः, मृगमृगेन्द्रान्योक्तिशतकम् इत्याद्या ग्रन्थाः प्रकाशिताः सन्ति ।
किञ्च, अद्यावधि नन्दनवनकल्पतरौ शताधिकाः कथाः, त्रिंशदधिका गलज्जलिकाः, बहवः शतक - काव्य-गीत-स्तवन- स्तुति - काव्यानुवाद - चिन्तन- पत्र - अनुवाद - नाटक - ग्रन्थपरिचय-ग्रन्थसमीक्षादयो लेखाः शतशो हास्यकणिकाश्च प्रकाशिताः सन्ति । प्राकृतभाषायाऽपि च प्रभूतं साहित्यं प्रकाशितमस्ति ।
-
प्रान्ते च हृदयगतं किञ्चित् कथयित्वा विरमामि । पूज्यगुरु भगवतामियं हार्दिकीच्छाऽस्ति यद्नन्दनवनकल्पतरुमाध्यमेन वयं त्रयोऽपि नित्यनूतनं साहित्यं सृजन्तः सर्जनक्षेत्रेऽग्रगण्या भवेमः । किन्तु व्यक्तिगतरूपेणाऽहं स्वीकरोमि यत् - प्रमादेन शक्त्यल्पत्वेन चाऽहं तेषामिच्छां पूरयितुं समर्थो न भवामि । इयं मे क्षतिरस्ति । एतावताऽपि ते मयि सर्वदा निर्व्याजस्नेहं कृपामृतं वर्षन्ति इत्येतन्मे सौभाग्यमस्ति । सौभाग्यमिदं मे सदाऽपि जागृयात् - इति भगवन्तं प्रार्थयित्वा विरमामि ।
O
१४५
Page #151
--------------------------------------------------------------------------
________________
संस्कृतकाव्यसाहित्ये जैनमुनीनां प्रदानम्
प्रवचनम्
मुनित्रैलोक्यमण्डनविजयः
अविदितगणाऽपि सत्कविभणितिः कर्णेषु वमति मधुधाराम् ।
अनधिगतपरिमलाऽपि हि हरति दशं मालतीमाला ।। संस्कृतकाव्यसाहित्ये जैनमुनीनां प्रदानं - विषयोऽयं यदा मया वक्तव्यार्थं चितः तदा मया सर्वथा ऊहितं नाऽऽसीद् यद् जैनमुनीनां काव्यसर्जनं तावद् विपुलतमं भविष्यति, तेषां साहित्यक्षेत्रे प्रदानं तावन्महत्त्वपूर्णं भविष्यति यत् तस्य सर्वाङ्गीणमूल्याङ्कनार्थं घण्टादशकमपि अपर्याप्तं भवेत्, किमुत निमेषदशकम् ? समस्या तु तदा महती अभासत यदा मया विषयस्य सज्जतार्थं ग्रन्थाः परिशीलिताः । तदा तत्र तावतां कवीनां नामानि अवलोकितानि, तावन्ति काव्यानि दृग्गोचरीभूतानि यत्-किं गणयेयम् ? किं विगणयेयम् ? तदेव स्पष्टं न जातम् । अन्ते अनायत्या मया विषयस्य सङ्कोच एव करणीयोऽभवत् । अत इदानीं तु अहं भवत्समक्षं केवलं जैनसाहित्यक्षेत्रस्य गौर्जरविद्याविश्वस्य च यः सुवर्णकालः परिगण्यते तस्य कालस्य तन्नाम वैक्रमीयद्वादश-त्रयोदशशताब्योः द्वित्राणां महाकवीनां काश्चन वार्ताः प्रस्तौमि ।
द्वादशशताब्द्याः कवीनां स्मरणावसरो भवति चेत् अवश्यन्तया स्मृतौ प्रथममेव समुपतिष्ठेत् कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यस्य पट्टशिष्यः आचार्यरामचन्द्रसूरिः। महाकविभवभूतिरिव स्वतन्त्रप्रतिभावान्
१४६
Page #152
--------------------------------------------------------------------------
________________
अयं कविः । परम्परायाः समुचिते समादरेऽपि सर्वत्र नूतनस्य पथोऽन्वेषणे, नूतनानां मूल्यानां प्रस्थापने महाकवेरस्याऽभिरुचि: । स्वातन्त्र्यमहिमा तु महाकविना अमुना प्रत्येकं स्वकीयसर्जने पदे पदे गीतः । एकत्र तु तावल्लिखितं
=
स्म
स्वतन्त्रो देव ! भूयासं, सारमेयोऽपि वर्त्मनि । मा स्म भूवं परायत्तः, त्रिलोकस्याऽपि नायकः ॥
यदि त्रिलोकस्य अधिपतिर्भूत्वाऽपि मया कस्यचित् पारतन्त्र्यमेव स्वीकरणीयं तर्हि तादृशं त्रैलोक्याधिपतित्वमपि अहं तिरस्करोमि । चिन्त्यतां, कियती उत्कटा स्वातन्त्र्याभीप्सा भवेत् ? अथ च तावानेव दुर्धर्ष: स्वभाव:, तावती एव प्रचण्डप्रतिभा, तावती एव प्रकाण्डविद्वत्ता | शब्दशास्त्रे न्यायशास्त्रे काव्यशास्त्रे च समान एवाऽधिकारः । सर्वतन्त्रेषु बुद्धेरस्खलितः प्रचारः । सकलशास्त्रेषु निर्बाधा गतिः । तत एव विपुलं सर्जनम् । महाकवेरस्य सर्जनस्य मूल्याङ्कनार्थमिदमेव पर्याप्तं भवेद् यद् गुर्जरभूमौ गौर्जरैरेव विरचितानि यानि द्वाविंशतिः रूपकाणि अधुना समुपलभ्यन्ते तेषामर्धं तन्नाम एकादश तु रामचन्द्रसूरेरेव । निर्भय-भीमव्यायोगः, रघुविलासः, यादवाभ्युदयः, नलविलासः - एकैकमपि रूपकं भारतीयसाहित्यक्षेत्रे प्रथमपङ्क्तौ निवेशार्हम् । तत्र दृश्यमाने कल्पनावैभवे तु विद्वांसः अपि मुग्धा: । अत एव तदात्वे उच्यते
पञ्चप्रबन्धमिषपञ्चमुखानकेन, विद्वन्मनः सदसि नृत्यति यस्य कीर्तिः । विद्यात्रयीचणचमुम्बितकाव्यतन्द्रं, को वा न वेद सुकृती किल रामचन्द्रम्
?
को वा सज्जनः को वा विद्वज्जनः महाकवि रामचन्द्रं न वेत्ति ? अयं कल्पनावैभव एव महाकविममुं कविकटारमल्ल इति बिरुदं प्रापितवान् । रोचकः प्रसङ्गः । सिद्धराजजयसिंहः परिवारेण साकं उद्याने क्रीडार्थं गतः । तत्र महाकविरामचन्द्रः मिलितः । निदाघसमयः । न जाने नृपस्य मनसि किं समागतम् ? स सहसैव पृष्टवान् केनाऽतिवृद्धं दिनम् ? निदाघे दिनानि कुतो दीर्घाणि भवन्ति इति तदाशयः । रामचन्द्रसूरिः त्वरितमेव प्रत्युत्तरितवान् । कवेर्भावः काव्यम् । काव्यं कवेः स्वभावभूतं भवति । तत् तस्य प्रतिभातः उत्थितं भवति । अत एव तत्र न विलम्बः । महाकविरामचन्द्रः शीघ्रमेव उच्चरितवान्
देव ! श्रीगिरिदुर्गमल्ल ! भवतो दिग्जैत्रयात्रोत्सवे, धावद्धीरतुरङ्गनिष्ठुरखुरक्षुण्णक्षमामण्डलात् । वातोद्धूतरजोमिलत्सुरसरित्सञ्जातपङ्कस्थलीदूर्वाचुम्बनचञ्चुरा रविहयास्तेनाऽतिवृद्धं दिनम् ॥
राजन् ! भवान् यदा दिग्विजयार्थं प्रस्थितः, तदा भवतः सङ्ख्यातीतानाम् अश्वानां पदाघातैः इयं सकलाऽपि पृथ्वी क्षुण्णा जाता । तावान् रजः समूहः तत उत्थितो यत् स ऊर्ध्वं गत्वा आकाशगङ्गायाम् अपतत् । तत आकाशगङ्गा पङ्किला जाता, तत्र दूर्वा प्ररूढा । सूर्यस्य अश्वा अस्या दूर्वाया भक्षणार्थं
१४७
-
Page #153
--------------------------------------------------------------------------
________________ विलम्बन्ते / तेनाऽतिवृद्धं दिनम् / ततो दिनानि वर्धन्ते / रमणीयामिमां कल्पनां श्रुत्वा राजा तावान् प्रमुदितः यत् तस्य मुखात् स्वयमेव निसृतं - अन्ये तु कवयः, भवांस्तु कविकटारमल्लः / तदारभ्य रामचन्द्रसूरिः कविकटारमल्लत्वेनैव प्रसिद्धिं गतः / त्रयोदशशताब्द्याः तादृश एव महाकविः अमरचन्द्रसूरिः / सूक्ष्मस्याऽपि विषयस्य रमणीयवर्णने अस्य निपुणा मतिः / वस्तुत इदमेव कविकर्म / नीलकण्ठदीक्षितस्तु उक्तवान् एव यानेव शब्दान् वयमालपामः, यानेव चाऽर्थान् वयमुल्लिखामः / तैरेव विन्यासविदग्धरीत्या, सम्मोहयन्ते कवयो जगन्ति / / विधात्रा अस्याः सृष्टेः कणे कणे सौन्दर्यं निभृतम् / वयं वस्तूनि पश्यामः, कविस्तत्र निहितं सौन्दर्य पश्यति / अत एव सूक्ष्मोऽपि विषयः तस्य कृते रमणीयतां भजते / अमरचन्द्रसूरिः तादृश एव सौन्दर्यद्रष्टा कविः / बालभारते तु तेन सौन्दर्यस्य अवधिरेव प्रदर्शितः / तत्र प्रभातवर्णनप्रसङ्गे दधि मथ्नत्या आभीर्या वर्णने तेन श्लोकोऽयं लिखितः - दधिमथनविलोलल्लोलदृग्वेणिदम्भादयमदयमनङ्गो विश्वविश्वैकजेता / भवपरिभवकोपत्यक्तबाणः कृपाण श्रममिव दिवसादौ व्यक्तशक्तिर्व्यनक्ति / / दधि मथ्यते, नेत्रमाकृष्यते, आभीरी सर्वं विस्मृत्य कार्यलीना / तस्याः देहवल्लरी नेत्रेण साकं नृत्यति / तस्याः वेणी समुद्रोमिरिव उच्चलायमाना / कविः कथयति नेयं वेणी, अयं तु भुवनमोहकस्य मारस्य कृपाणः / नेदं वेण्याः नर्तनम्, अयं तु अभ्यासार्थं कृपाणश्रमः / विद्वद्भ्यः इयं कल्पना तावद् अरोचत यद् ‘वेणीकृपाण' इत्येव महाकवेरस्य परिचयो जातः / वसन्तविलासस्य कर्ता बालचन्द्रसूरिर्मम्मटविरचिते काव्यप्रकाशे सर्वप्रथमायाष्टीकाया रचयिता माणिक्यचन्द्रसूरिः / प्रबुद्धरौहिणेयस्य कर्ता रामभद्रसूरिः / कति नामानि गणयेयम् ? वस्तुतः तत्कालीनाः सर्वेऽपि विद्वांसो महाकवयः / किमधिकेन ? न्यायशास्त्रस्य कर्कशा अपि विषयास्तैश्चेतोहरैः श्लोकैः प्रस्तुतीकृताः / इयमेव तेषां सिद्धिः / अत एव तेषां शाश्वती कीतिः / महाकविना भर्तृहरिणा अस्याः शाश्वतायाः कीर्तेर्या शाश्वती स्तुतिः कृता, तामुद्धत्य अहं मम वक्तव्यं समापयामि जयन्ति ते सुकृतिनो, रससिद्धाः कवीश्वराः / नास्ति येषां यशःकाये जरामरणजं भयम् // जयतु संस्कृतम्, जयतु संस्कृतिश्च / 148