SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ततश्च चङ्गदेवं गृहीत्वा द्वावपि गुरुभगवतां वसतौ गतौ । तेषां च हस्तयो: समर्पितः स चच्च श्रेष्ठिना सानन्दम् । गुरुभगवद्भिरपि स्तम्भतीर्थनगर एव आलिगवसतौ श्रीपार्श्वनाथजिनचैत्ये वैक्रमीये ११५४तमाब्दे माघशुक्लचतुर्दशीदिने शनिवासरे उदयनमन्त्रिकारितमहोत्सवपूर्वकं चतुर्विधश्रीसङ्घस्योपस्थितौ माता - पित्रोराशीः पुरस्सरं च दीक्षितश्चङ्गदेवः । तस्य च नाम मुनिसोमचन्द्र इति स्थापितम् । अथ च मुनिः सोमचन्द्रः कुशाग्रबुद्धिरत्यन्तं तेजस्वी चाऽऽसीत् । गुरवोऽपि श्रीदेवचन्द्रसूरयो महाविद्वांसो ज्ञानिनश्चाऽऽसन् । ततश्च जातो मणिकाञ्चनसंयोगः । तस्मिन् युगे लक्षण - तर्क - साहित्यानि महाविद्यात्वेन परिगण्यन्ते स्म । सोमचन्द्रेण मुनिना स्वल्पेनैव कालेन तासु तिसृष्वपि विद्यासु तथाऽन्येष्वपि योग-तत्त्वज्ञान-पुराणेतिहास - दर्शनादिविषयेषु आगमेषु च पारगामित्वमधिकारश्च प्राप्तौ । ज्ञानाभ्यासेन सहैव च तेन निर्मलीमसं चारित्रमिन्द्रियजयोऽन्तर्मुखता, शुद्धवैराग्यमुपशमभाव - इत्यादिका गुणा अपि स्वीयजीवने साधिताः । किञ्च, सोमचन्द्रो मुनिर्यद्यपि शास्त्रेषु पारङ्गतो जातस्तथाऽपि तस्य हार्दोऽभिलाषस्तु वाग्देव्याः साधनां कृत्वा सिद्धसारस्वतीभवनस्याऽऽसीत् । तदर्थं हि काश्मीरदेशं गत्वा काश्मीरवासिनी सरस्वती देवी आराधनीयेति निश्चित्य तेन स्वभावना गुरुभगवद्भ्यो निवेदिता । तैरपि प्रसन्नतया स्वीकृत्य काश्मीरदेशं प्रति विहर्तुमारब्धम् । अथ च पादचारेण गच्छतां तेषां कतिचिद्दिनानन्तरमेवैकदा स्वयं काश्मीरवासिनी वाग्देवी प्रत्यक्षीभूता कथितवती च - 'वत्स ! तव भक्त्या साधनया च प्रसन्नाऽहं तेऽभिलाषं पूरयामीहैव । अतो न त्वया काश्मीरदेशं यावदागन्तव्यम्' । एवं च देव्या प्रदत्तेन वरदानेन मुनिः सिद्धसारस्वतो जात: ।* अथाऽन्यदा मुनिः सोमचन्द्रः स्वीयगुरुभिः सह कस्यचिच्छ्रावकस्य गृहे तत्प्रार्थनया भिक्षार्थं गतवान् । स हि श्रावकः पूर्वमतीव धनवानासीत्, किन्तु कर्मोदयात् स निर्धनो जात: । तेन स्वकृते प्रगुणितं काञ्जिकं गुरुभगवद्भ्य: प्रदत्तम् । एतद् दृष्ट्वा परितः पश्यता मुनिना मन्दस्वरेण गुरुभगवद्भ्यः कथितं 'प्रभो ! कियान् कृपणोऽयं श्रावको यः स्वगृहे कनकभरै: पूर्णे सत्यपि काञ्जिकं प्रदत्ते ?' । एतत् कथनं स श्रावकः श्रुतवान् । तेनाऽपि परितो दृष्टम् । तस्य गृहेऽङ्गाराणां राशिरेव सर्वत्र विकीर्ण आसीत् । किन्तु चतुरः स मुनेः सोमचन्द्रस्य कथनस्याऽऽशयमगवतवान्, यावच्च गुरवः किञ्चिद् विचारयेयुस्तावत् तेन स्वहस्ताभ्यां मुनिरुत्पाट्याऽङ्कारराशावेवोपवेशितः । पुण्यवतो मुनेः स्पर्शनेनैव स राशि: सुवर्णत्वेन परावृत्तो जात: । एतेन हृष्टः स श्रावक उच्चैरुक्तवान् - 'प्रभो ! नाऽयं मुनिः सोमचन्द्रोऽपि तु हेमचन्द्रः, यतः * एवमेव अम्बिकादेव्यपि तस्योपरि प्रसन्नीभूता तस्मै वरं दत्तवतीत्यपि प्रबन्धैर्ज्ञायते । तथाहि - आचार्यदेवेन्द्रसूरिः, मुनिः सोमचन्द्रः, मुनिर्मलयगिरिश्चेत्येभिस्त्रिभिरपि कठोरसाधनयाऽम्बिका देवी प्रसन्नीकृता त्रिभ्योऽपि यथेप्सितं वरं प्रददौ । तत्र देवेन्द्रसूरिणा तीर्थोद्धारस्य, सोमचन्द्रेण राजप्रतिबोधस्य, मलयगिरिणा च सिद्धान्तग्रन्थानां विवरणलेखनस्य वरं याचितम् । + अद्यत्वेऽपि प्राचीननगरेषु (निधानतया निखातं धनं खननकालेऽङ्गारराशित्वेन बहुधा प्रकटीभवति, किन्तु कस्यचिद् भाग्यवतः पुण्यैस्तदेव सुवर्णतयाऽपि प्रकटीभवति । ५२
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy