SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्षं स्वर्णपुरुषोऽयं शुद्धचारित्रनिष्ठश्च' । स गुरुभगवद्भयो विज्ञप्तवानपि यद् - 'गुरवः ! कृपया गुणगणनिधयेऽस्मै मुनये आचार्यपदप्रदानं कुर्वन्तु । तदर्थं च जायमानं सर्वमपि व्ययभारमहमेव निर्वक्ष्ये । तत्र च महोत्सवकरणस्य लाभमपि मह्यमेव ददतु' । इतश्च, यदा मुनिः सोमचन्द्रः प्रवचनं दत्ते स्म तदा जनास्तस्य वाण्यां सारल्यं, सरसत्वं, भाषाशुद्धिं, तार्किकतां, दृष्टान्तकथनं, गभीरतां, काव्यशक्तिं च विलोक्य मन्त्रमुग्धा इव विशुद्धानन्दमनुभवन्ति स्म, महामात्य उदयनस्तु तां श्रुत्वा गर्वमनुभवति स्म, किंबहुना ? गुरुभगवन्तोऽपि तदाकर्ण्य प्रसन्नतामनुभवन्ति स्म । अतस्तैरपि मुनेः सोमचन्द्रस्य सर्वतोग्राहि-विद्वत्तां विलक्षणप्रतिभां विशुद्धचारित्रनिष्ठां योग्यतां च निरीक्ष्य तस्यैकविंशे एव वयसि वैक्रमीये ११६६तमे वत्सरे वैशाखशुक्लतृतीया(अक्षयतृतीया)दिने आचार्यपदप्रदानं निर्णीतं, महामहोत्सवपुरस्सरं च नागपुर(नागौर)नगरे चन्दनादिभिर्दक्षिणकर्णं चर्चयित्वा सूरिमन्त्रं च श्रावयित्वा मुनये सोमचन्द्रायाऽऽचार्यपदं प्रदत्तम् । पदप्रदानावसरे च तस्य नामाऽपि परावर्त्य नूतनं नाम 'आचार्यहेमचन्द्रसूरि रिति स्थापितम् । इतः परं ते आचार्यहेमचन्द्रसूरय इति विश्रुता जाता जगति । तस्मिंश्चाऽऽचार्यपदप्रदानमहोत्सवे आचार्यश्रीहेमचन्द्रसूरीणां माता – चाहिणी अपि उपस्थिताऽऽसीत् । तया च तदवसरे दीक्षाग्रहणार्थं स्वभावना प्रदर्शिता । तदा गुरुभिरपि तद्भावनामङ्गीकृत्य सा दीक्षिता साध्वीसङ्घ च प्रवेशिता । तदानीमेव च नूतनाचार्यैः स्वमातुरुपकाराणां वात्सल्यभावस्य च स्मृत्या तस्यै प्रवर्तिनी पैदमपि प्रदत्तम् । ___ तदनन्तरं प्रायो वर्षाभ्यन्तर एवाऽर्थात् वैक्रमीये ११६७ तमे संवत्सरे गुरुभगवन्तः श्रीदेवचन्द्रसूरय इहलोकं त्यक्त्वा समाधिपूर्णमृत्युना स्वर्लोकमलञ्चक्रुः । आचार्याः श्रीहेमचन्द्रसूरयस्तु ततो विहृत्याऽणहिल्लपुरपत्तनं प्राप्ताः । तदात्वे तत्र सिद्धराजो जयसिंहः शास्ति स्म । स ह्येकदा गजारूढः सन् राजमार्गेण सपरिवारो गच्छन्नासीत् । तावता तेन पुरतः समागच्छन्त आचार्याः श्रीहेमचन्द्रसूरयो दृष्टाः । अतः स तेषां सम्मुखं गत्वा सप्रणाममुक्तवान् – 'आचार्यवर्याः ! किं भवद्भिः किञ्चिद् वक्तव्यं वा?' तदा प्रत्युत्पन्नमतिभिस्तैः सस्मितं कथितं - "कारय प्रसरं सिद्ध ! हस्तिराजमशङ्कितम् । त्रस्यन्तु दिग्गजाः किं तैर्भूस्त्वयैवोद्धृता यतः ॥" एतच्छ्रुत्वा सिद्धराजोऽतीव प्रसन्नो जातः । स तान् स्वीयमास्थानमलङ्कर्तुमामन्त्रितवान् । सिद्धराजो जयसिंहो हि चौलुक्यवंशीयो नृप आसीत् । अत: प्रथमं चौलुक्यवंशस्य परिचयं प्राप्नुयाम । वैक्रमीये ८०२तमे संवति वनराजचापोत्कटेनाऽऽनर्तप्रदेशे स्वीयराज्यस्य चापोत्कटवंशस्य च * जैनसाध्वीनां सर्वोच्चं पदम् ।
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy