SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सिद्धराजसदसि गन्तव्यं स्यात् । नाऽहं कुतोऽपि बिभेमि' । उदयनमन्त्रिणाऽपि तं भृशं सान्त्वयित्वा साञ्जलि कथितं - 'श्रेष्ठिवर्य ! भवतः पुत्रो भवदुत्सङ्ग एवोपविष्टोऽस्ति । भवान् हि तं गृहे नेतुमपि शक्तस्तथाऽत्राऽऽचार्यभगवतां चरणयोः समर्पयितुमपि शक्तः । यदि स गृहे स्थास्यति तदा भौतिकदृष्ट्या कदाचित् भवत्कुटुम्बस्य किञ्चिच्छ्रेयः साधयिष्यति । यदि धर्मशासनाय तं समर्पयिष्यति भवांस्तदा स स्वेन सह समग्रं देशमपि धर्मपरायणं कृत्वा दिगन्तव्यापिनी कीर्तिमर्जयिष्यति । किञ्च, पश्यतु भवान्, भवानस्ति वणिक् । वाणिज्यं कृत्वा धनं प्राप्नोति । भवाननुभवति यदधिकाधिकधनप्राप्त्याऽपि सन्तोषो नैव भवति । ततोऽप्यधिकं प्राप्तुं लालसा भवत्येव । नाऽयं केवलं भवदनुभवः । ममाऽपि कोटिशो धनमर्जयित्वाऽप्ययमेवाऽनुभवः । तथ्यमिदं पुत्रादिस्वजनमोहविषयेऽपि समानमेव । कियन्तमपि कालं सहाऽवस्थित्याऽपि प्रेम मोहो वा निवारयितुं न शक्यः । प्रत्युत घृतेनाऽग्निरिव वर्धत एव । प्रान्ते च काल एव वियोजनेन बलादपि तं निवारयेत् । एतच्च संसारस्य सनातनं सत्यम् । भवानपि चैतज्जानात्येव । अन्यच्च, यच्छ्रेयस्करं कार्यं कर्तुमस्मादृशां शरीराणि मनांसि च न प्रभवेयुस्तत्राऽस्य बालस्य शरीरं मनश्चाऽवश्यं प्रभवेत् । एवं स्थितेऽपि केवलं शरीरमोहेन भवांस्तं यदि रोधयिष्यति तदा सत्पथात् तं च्यावयिष्यति केवलम् । तथा कुर्वंश्च भवानस्याऽकल्याणमेव साधयिष्यति' । एतच्छ्रुत्वा किञ्चिदनिश्चितमनस्को जातश्चच्च श्रेष्ठी सहसाऽवदत् - 'भवदुक्तं सत्यं स्यात् । किन्तु धनार्थं पुत्रमपि विक्रीणीयामित्येतादृशोऽधमोऽहं नास्मि' । 'मा मैवं वदतु चिन्तयतु वा । नाऽहं मूर्योऽस्मि यद् भवन्तं तादृशं परिगणयेयम् । किन्तु भवानेव चिन्तयतु - पत्तनस्याऽग्रगण्यजनानामन्यतमत्वेन शोभिष्यमाणं रत्नमिदं धन्धुक्कनगरे धूलीधूसरं भवितुं कथं वा मंस्यते भवान् ? अपि च, देशस्य गौरवं न केवलं लक्ष्म्यां वाणिज्ये युद्धविद्यायां वा परन्तु धर्मसंस्कारप्रचार-प्रसारेणाऽपि भवति । पत्तनस्थप्रसिद्धजैनाचार्यश्रीशान्तिसूरिविषये तु भवताऽपि श्रुतं स्यादेव । एवं स्थितेऽपि केवलं लौकिककार्यार्थमेव यदि भवांस्तं गृहे नेष्यति तदाऽहं भवन्तं नैव वारयिष्ये, किन्त्वेतावत् तु भवन्तं कथयाम्येव यत् तस्य जीवनसमृद्धि प्रकटीभवन्तीं रोधयन् भवांस्तस्य स्वस्य च जीवनं महापातकयुतमेव करिष्यति । अतः परं भवदिच्छैव प्रमाणम्' - उदयन उक्तवान् । चच्चस्य चित्तं किञ्चिदिव विचारयितुं प्रवृत्तम् । शान्तिसूरेः कथास्तु तेनाऽपि श्रुता आसन् । 'मम पुत्रो महान् धर्मप्रभावको भविष्यति, कदाचित् स धन्धुक्कनगरे आगमिष्यति, तदा च तस्य चरणयोः सहस्रशो जना लोठिष्यन्ति, तस्याऽऽशिषो ग्रहीतुं नरा अहमहमिकयाऽऽगमिष्यन्ति । नरपतयश्च तस्य नामग्रहणेन धन्यतामनुभविष्यन्ति । देश-विदेशेषु तस्य यशः प्रसरिष्यति........' स्वप्नं पश्यन्निव चच्चः सहसा जागृतो जातो निर्णयं च गृह्णन् स उदयनमन्त्रिणमवदत् - 'मन्त्रीश्वर ! भवदुक्तं मम सम्मतम् । एषोऽहं भवते मत्पुत्रं समर्पयामि' । मन्त्रिणोक्तं - 'मा मैवं वदतु भवान् । भवता हि गुरुपादेभ्यः समर्पयितव्यः सः । धन्योऽस्ति भवान् । रत्नत्रय्याः पथि स्वपुत्रस्य समर्पणेन भवता महत् पुण्यमुपाजितमस्ति । नूनं धन्योऽस्ति भवान्' ।
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy