________________
पद्ययुतैः पृष्टं – 'कस्त्वं भो भाग्यशालिन् ! कौ च ते पुण्यशालिनौ मातापितरौ ?' तावता तस्य कुमारस्य समीपस्थितेन नेमिनाम्ना जनेन सविनयं निवेदितं 'प्रभो! अयं चच्चश्रेष्ठिनतत्पत्न्याः शीलवत्या धर्मपरायणायाश्च चाहिणीनाम्न्या मे भगिन्याः पुत्रो निरुपमरूपवान् प्रकृष्टमतिवैभववान् जगदुद्धरणकरणमनोरथवांश्चाऽस्ति । यदाऽयं स्वमातुर्गर्भे समागतस्तदा तया स्वप्ने प्रथमं स्वीयगृहाङ्गणे विशालो रम्यश्चाऽऽम्रवृक्षः फलितो दृष्टः । तदनन्तरमेव स वृक्षस्तस्या गृहं त्यक्त्वाऽन्यत्र विशाले रमणीये चोद्याने गतः । तत्र स वृक्षः स्वच्छाया - पर्ण - पुष्प फलादिभिर्बहूनां जनानामुपकारकर आश्रयस्थानं च जात इत्यपि दृष्टम् । किञ्च, मातुः कुक्षिस्थेऽस्मिन् देशोऽयं निरुपद्रवोऽशिवादिरहितश्च जात:, सर्वत्र च सुकालः प्रवर्तितः । अस्य जन्मसमये दिङ्मुखानि विमलानि जातानि, जन्मस्थले च सगन्धोदक-कुसुमवृष्टिर्जाता, नभसि च दिव्यवादित्राणां नादः प्रसृतः । अस्य जन्मदिनोऽपि वैक्रमीय११४५तमाब्दस्य कार्तिकी पूर्णिमाऽस्ति । जन्मन आरभ्याऽयं सर्वेषां प्रियः प्रसन्नताप्रदश्चाऽस्ति । अतोऽस्य नाम चङ्गदेव इति स्थापितम् ।
-
एतच्छ्रुत्वा चङ्गदेवस्य च सामुद्रिकलक्षणानि पश्यद्भिर्गुरुभगवद्भिर्मधुरस्वरेण कथितं 'भोः ! अस्य मात्रा स्वप्ने यदुद्यानं दृष्टं तज्जिनशासनमस्ति । तत्र च व्रत - दीक्षाग्रहणपूर्वकं गतोऽयं समस्तशास्त्राणां परमार्थमवगाह्य तीर्थकरवल्लोकोपकारं करिष्यति । अतो भवान् अस्य माता- पितरौ बोधयित्वाऽस्मै दीक्षादानार्थमनुमतिं दापयतु । बहूनां लोकानामुपकारो भविष्यति' ।
-
ततश्चङ्गदेवस्य दीक्षानुज्ञार्थं तै: पित्रोर्बोधनाय बहु प्रयतितं किन्तु पितुरतीवप्रियत्वात् तेन सर्वथा निषिद्धम् । ततो गुरुभगवद्भिस्तन्माताऽऽकारिता कथितं च तत् तस्यै यत् सर्वमपि तन्मातुलस्य कथितमासीत् । तयाऽपि च कथितं - ‘प्रभो ! अहमपि जानामि यदयं मे पुत्रो जिनशासनस्यैव न्यासरूपोऽस्ति । किन्तु अस्य पितुरयमतीव प्रियोऽस्ति । अतः सोऽनुमतिं नैव दास्यत्यस्मै दीक्षाग्रहणार्थम्' । ‘अस्तु, यथाकालं सर्वमपि भविष्यती'त्युक्त्वा कतिचिद्दिनानन्तरं गुरुवस्ततो विहृत्य स्तम्भतीर्थं (खम्भातनगरं) प्रति प्रस्थिताः । चङ्गदेवोऽपि च धर्मैकचित्तो व्रतग्रहणे च तीव्रेच्छुकः पितुरनुपस्थितौ मातुलं मातरं चाऽऽपृच्छ्य गुरुभिः सहैव प्रस्थितः ।
इतश्च वाणिज्यार्थमन्यत्र गतश्चच्च श्रेष्ठी यदा गृहं प्रत्यागतस्तदा स्वपुत्रं अपश्यन् व्याकुलो जातः, स्वपत्न्याश्च पार्श्वात् तस्य गुरुभिः सहगमनं ज्ञात्वा तया वारयन्त्याऽपि तत्कालमेव स्तम्भतीर्थनगरं प्राप्तः । तत्र च तदा जैनश्रावकः उदयननामा ( गूर्जरदेशस्य महामात्यः) दण्डनायक आसीत् । तेन च चङ्गदेवस्य वृत्तं ज्ञातचरमासीत् । अतः सत्वरमेव स गुरुभगवतां पार्श्वे समागतं चच्च श्रेष्ठिनं यात्रा श्रमापनयनार्थं बोधनार्थं च स्वगृहमानीतवान् तस्य च यथोचितं सत्कारादि कृतवान् । ततश्चङ्गदेवमपि तत्राऽऽनीय तदुत्सङ्गे उपवेशितवान् ।
अथैतावताऽपि तस्य मनस्तापो व्याकुलता च नाऽपगताऽऽसीत् । स उग्रवचोभिरुक्तवान् 'मन्त्रिवर्य ! अहमेनं गृहे नेतुमेवाऽऽगतोऽस्मि । यदि भवान् मे तथाकर्तुं रोधयेत् तदा मया न्यायार्थं
५०