________________
संशोध्य सूक्ष्मतरदृष्टिबलेन चाऽऽद्यं सत्काव्यशास्त्रनिचयं, भवता निबद्धः । काव्यानुशासनमिति प्रथितो निबन्धः सिद्धान्तशुद्धिविबुभुत्सुजनाय नूनम् ॥५॥ त्वं भ्रान्तिपर्वतगणाय वरेण्यवज्रमज्ञानराशिदलनेऽसि दिवाकरस्त्वम् । नीलाम्बुदोऽसि भवतापविपन्नराणां शान्ताय श्रीगुरुवराय नमो नमस्ते ॥६॥ त्वत्सर्जनं सुविमलं निरवद्यरूपं तापत्रयादिशमनं तव पालनं च । त्वद्धिंसनं तिमिरसङ्गविनाशरूपं त्वन्तु त्रिदेवमयतां भजसे, नमस्ते ॥७॥ श्रीहेमचन्द्रशरणं चरणौ नमामः श्रीहेमचन्द्रशरणं मनसा व्रजामः । श्रीहेमचन्द्रशरणं वचसा गृणाम: श्रीहेमसूरिमनिशं शिरसा वहामः ॥८॥
'पद्मपाणि', ७, आनन्दनगर, चक्करगढ रोड, अमरेली-३६५६०१
१६