________________
श्रीहेमचन्दस्तवः प्रा. डॉ. किशोरचन्द्रपाठकः
वसन्ततिलकावृत्तम् हे हेमचन्द्र ! यतिपुङ्गव गुर्जरेशकारुण्यधाम जिनशासनमानदण्ड । आलुण्ठमानमनिशं तिमिरान्धनेत्रमुद्धाट्य नेत्रयुगलं मम, रक्ष रक्ष ॥१॥ निर्मथ्य शब्दजलधिं महतोद्यमेन यः सिद्धहेममणिदीपकमुज्जहार । वाचां मलं करुणया विमलं स कर्तुमिन्धेतराममलज्ञानमयं प्रदीपम् ॥२॥ नानापुराणनिगमागमवृत्तिजातं सूक्ष्म समीक्ष्य भवता कणादृष्ट्या । स्याद्वाद इत्यनुपमो भुवि सप्तभङ्गी सिद्धान्तितः सुनिपुणं च वरिष्ठपन्थाः ॥३॥ सद्धर्मकर्मपरिकर्मणि मर्मविज्ञं स्याद्वादवेद्यविषयं विषयानपेक्षम् । नूनं द्विजाद्विजपवित्रसुधर्मरूपं सारस्वतं किमपि धाम वयं भजामः ॥४॥
१५