SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ कलिकालसर्वज्ञ सूरीश्वराणां प्रशस्तं जीवनम् | पूज्याचार्यदेवसूरिशिष्यः विजयहेमचन्द्रसूरिः कलिकालसर्वज्ञेत्यप्रतिमबिरुदेन जगति समस्त विशेषतश्च जैनशासने प्रख्यातिमन्तः श्रीहेमचन्द्राभिधानाः सूरीश्वरा आर्हतशासनस्य बाढं प्रभावनाकारकाः सञ्जाताः । तेषां जीवनं कवनञ्च सर्वेषां कृते अत्याश्चर्यकरं विद्यते । पूर्वभवीयप्रबलसंस्कारसम्पत्तिं समादायैव ते हि पूज्या अत्रावतरितवन्तः, कथमन्यथा तादृशि लघुतमे वयसि मतिविभवविराजिताः, प्रबलवैराग्यभावनाभावितान्तःकरणा दीक्षाग्रहणाय समुत्सुकमानसाश्च स्युः ! जन्म दीक्षाग्रहणं च - धंधुकाभिधाने ग्रामे मोढवणिग्जातीयगुणगौरवशालि-चच्च(चाचिग)कुले तद्धर्मपत्नी-रत्नकुक्षिणीश्रीचा(पा)हिणीजननीकक्षौ वि.संवति ११४५ तमे कार्तिकशक्लपूर्णिमायां समासादितजन्मान एते पज्यपुरुषा धृतचांगदेवपुण्याभिधाना बाल्यकालादेव विशिष्टक्षयोपशमशालिनो निजापूर्वबुद्धिचातुर्यचमत्कृतविचक्षणचेतस आसन् । समवयस्कसहाध्यायिबालकेषु सर्वथाऽनन्यसदृशा ह्येते दर्शनमात्रादेव सर्वेषां परमप्रीतिकरा भृशमाह्लादजनकाश्चाऽभूवन् । पूर्णतल्लगच्छीयश्रीदत्तसूरीश्वरपरम्परायाम् आचार्यश्रीगुणसेनसूरीश्वरपट्टाम्बरदिवाकराः श्रीदेवचन्द्रसूरीश्वराः समभूवन् । प्राकृतभाषायां गद्यपद्यमयश्रीशान्तिनाथचरित्ररचनाकारकास्ते हि पूज्या ग्रामानुग्राम विहरन्तो धर्मोपदेशदानेन भव्यजनान् प्रतिबोधयन्तश्च धंधुकाग्रामे पादौ अवधारितवन्तः । ____ पूज्याचार्यभगवतां दर्शनमात्रेणैव सञ्जातापूर्वस्नेहसद्भावश्चांगदेवः शनैः शनैः परिचयं कुर्वन् गाढप्रेमास्पदं जातः । सूरीश्वरा यदा ततो विहारं कृतवन्तस्तदा बालश्चांगदेवो निज-जनकजनन्योरनुमतिं गृहीत्वा तैः सहैव विहारमकरोत् ।
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy