________________
बुद्धिशक्त्या तैर्व्याकरणालङ्कार-च्छन्दः-कोश-काव्य-चरित-दर्शन-तर्क-योगादीनि सर्वाण्यपि क्षेत्राणि समवगाहितानि । तेषां विद्या-तपसोः प्रभावेण गूर्जरदेशोऽद्याऽपि शान्तोऽहिंसकः समन्वयवादी चाऽस्ति ।
__ (- चतुरभाई शङ्करभाई पटेलः, प्राकृतव्याकरणवित्) १७. हेमचन्द्राचार्या हि महातपस्विनो महा-राजनीतिज्ञा महान्तश्च विद्यानिधयः । चिरकालाय तैः पत्तननगरस्य संस्कारस्वामिनां चक्रवतिपदमनुभूतम् । जैनसाधुसहजं देशभ्रमणं त्यक्त्वा गूर्जरदेशमुन्नतं विकसितं च कर्तुं तैः स्वजीवनं समर्पितम । तेषां सर्जनं नतनामेव कल्पनासष्टि विरचितवत । ततश अणहिल्लपुरपत्तनं जगत्येव विश्रुतं जातम् । चौलुक्यवंशेन रघुवंशस्य यशः प्राप्तम् । ततस्तैः कुमारपालमपि प्रतिबोध्य शुद्धमार्गे च प्रेर्य मद्य-मांसौ निषेधितौ, नैतिकविशिष्टतायाश्चाऽद्भुतं वर्णलेपनं कृतम् । साहित्यशास्त्र-विद्यायाः समृद्धेः कलिकालसर्वज्ञत्वं प्राप्तम् । वादिनो जिताः । अगाधं च ज्ञाननिधि मथित्वा श्रेष्ठानि कृतिरत्नानि विरचितानि । गूर्जरजनाय संस्कृतसाहित्यजगति स्थानं प्रदत्तम् । स्वयं च ते राजपुरुषाणां मध्ये उपविष्टाः, राज्याधिकारोपरि च नैतिकसत्तायाः श्रेष्ठत्वं प्रमाणितम् । गूर्जरदेशस्य महत्त्वाय च शब्ददेहः समर्पितः । अद्य तेषां स्वर्गमनस्य शतशो वर्षाणि व्यतीतानि तथाऽपि गूर्जरभाषा-भाषकस्य लोकसमूहस्य जीवने तेऽद्याऽपि जीवन्ति ।
(- क.मा.मनशी. भारतीयविद्याभवनसंस्थापक:) १८. गूर्जरदेशे तादृशा विद्वांसोऽतीव स्तोका येषां स्थानं वैश्विकसाहित्यक्षेत्रे स्यात् । हेमचन्द्राचार्या तेषामन्यतमाः । तेषामुदारव्यक्तित्वेन गूर्जरदेशो विश्वव्यापको जातः । गूर्जरभाषा, गूर्जरसंस्काराः, गूर्जरप्रणालिकाः (रूढयः), गूर्जरव्यवहार-विवेकौ-गूर्जरसाहित्यं, गूर्जराणां समन्वयभावना, गूर्जराणां च गूर्जरत्वम् - एतेषु सर्वेष्वपि हेमचन्द्राचार्याणामस्तित्वस्याऽप्रतिमं मुद्राङ्कनं वर्तते । पूर्वं हि गूर्जराणां भाषाशुद्धिषाभिमानश्च नाऽऽस्ताम् । हेमचन्द्राचार्यैस्तेभ्यो भाषाभिमानो भाषाशुद्धिश्च प्रदत्ते । अर्थोपार्जने रता जनाः स्वपूर्वजानां पराक्रमगाथां विस्मरन्त आसन् । पराक्रम एव जीवनमिति तथ्यं तेषां मनसो विलुप्यमानमासीत् । हेमचन्द्राचार्यैः शूराणां भटानां सज्जनानां सहृदयानां च कर्तव्यानि लोकभाषाग्रथितगाथानां माध्यमेन समुपदिश्य निर्बला गौर्जरा अपि पराक्रमिणः कृताः। गूर्जराणां स्वीयामस्मितां त एवमेव सहजतया प्रकटितवन्तः ।।
सूर्योदयवेलायां, सरस्वतीनदीतटे स्थितामेकां महाशक्ति, स्वनिर्मलतेजसा समग्रमपि गूर्जरदेशं प्रकाशयन्ती कल्पयन्तु, भवतां हेमचन्द्राचार्या दृश्येरन् ।
(धूमकेतुः, गूर्जरसाहित्यकार:) १९. कलिकालसर्वज्ञरूपमप्रतिमं बिरुदं प्राप्तवतां श्रीहेमचन्द्राचार्याणां जीवनं नाम भारतीयसंस्कृतेरेका यशउज्ज्वला गौरवगाथा । प्राचीना अर्वाचीना भारतीया वैदेशिकाश्च विद्वांसो यन्मुक्तकण्ठं प्रशंसित
१००