SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ वैश्विकसंस्कृत-साहित्यक्षेत्रेऽपि वैयाकरणतया कोशकारतया काव्यशास्त्रप्रणेतृतया छन्दःशास्त्रकारतया च तेषां विशिष्टं स्थानमस्ति । (-एम्. विन्टरनित्झ्, जर्मनविद्वान्) १४. शब्दविज्ञानक्षेत्रे हेमचन्द्राचार्याणां प्रदानमतिविशालं विस्मयप्रेरकं च । तेषां पाण्डित्यं ह्यगाधमप्रतिरूपं चाऽस्ति, तथा विद्वज्जनानां कृतेऽद्यावधि ते कलिकालसर्वज्ञाः - कलियुगे सर्वस्याऽपि ज्ञेयस्य ज्ञातारः - सन्ति, यच्च विशेषणं ते सर्वथाऽर्हन्ति । मध्यकालीनभारते तेषां परिमाणं धारयन्तो विद्वांसो प्रायो न सन्ति । (-एस्. सेनगुप्ता, महावैयाकरणः) १५. नमोऽस्तु हेमचन्द्राय, विशदा यस्य धीप्रभा । विकासयति सर्वाणि, शास्त्राणि कुमुदानीव ॥ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यान् पाश्चात्या विद्वांसो ज्ञानमहार्णवः (Ocean of knowledge) इति सादरं वर्णयन्ति, तथैव तेषां कृते अतिशायिप्रज्ञः (Intellectual Giant) इति विशेषणं प्रयुञ्जन्ति । तेषां प्रतिभायाः प्रभा न केवलं धर्माध्यात्मक्षेत्रेषु अपि तु साहित्य-भाषा-तर्कादिक्षेत्रेष्वपि समानतया विस्तीर्णाऽस्ति । तेषां व्यक्तित्वे समकालमेव वैयाकरणस्य, आलङ्कारिकस्य, साहित्यकारस्य, दार्शनिकस्येतिहासकारस्य, पुराणकारस्य, कोशकारस्य, छन्दोनुशासकस्य, धर्मोपदेशकस्य, महतो युगकवेश्च समन्वयो दृश्यते । तेषां व्यक्तित्वं सार्वकालिकं सर्वदेशिकं विश्वजनीनं चाऽस्ति सहैव तेषां कार्याणि सम्प्रदायातीतानि सार्वजनीनानि च । अत एव तेऽन्येभ्य आचार्येभ्यो विद्वद्भयः कविभ्यश्चाऽत्यधिकं श्रद्धा-सम्मानाधिकारिणः । तेषां जीवने प्रतिपदं विविधता, सर्वदेशीयता, पूर्णता, सत्यं, समन्वयिता च दृश्यते । ते हि निर्भया, राजनीति-विचक्षणा, गुरुसेविनो, वादिमानमर्दकाः, सत्योपासकाः, संस्कृतिपोषका, देशोद्धारकाश्चाऽऽसन् । एवं सत्यपि कस्मिंश्चिदपि जागतिकपदार्थे तेषां मोहो ममत्वं वा नाऽऽसीत् । समग्रेऽपि भारतवर्षस्येतिहासे यदि परं सर्वथाऽपि मद्य-मांसयोनिषेधो हि राज्ञः कुमारपालस्य काले एव जातः । तस्य च सम्पूर्ण श्रेयो निःसन्देहतया हेमचन्द्राचार्याणामेव । सिद्धराजजयसिंहकुमारपालश्चेत्युभयोर्नुपयोः सत्ताकाले विराजमानानां तेषां युगो हैमयुगः इति नाम्नेतिहासस्य सुवर्णपृष्ठेष्वङ्कितोऽस्ति । (-वि.भा.मुसलगांवकरः, दार्शनिको महाविद्वान्) १६. हेमचन्द्राचार्या नामाऽद्वितीयाः साहित्यस्रष्टारोऽनुपमयुगद्रष्टारः, समर्थाश्च धर्माचार्याः, हेमचन्द्राचार्या नाम सर्वतोमुखपरिणतप्रज्ञा, साङ्गोपाङ्गं सम्पूर्णमध्ययनं, स-रसा सर्वोत्कृष्टसर्जकता, तथा हेमचन्द्राचार्या नाम ज्ञानमहार्णवः, जङ्गमो ज्ञानकोशः, विद्याम्भोधिमन्थनमन्दरगिरिः । कियद् वा कथयामः ? तत्सदृशस्य महोर्जस्विनः सुपुत्रस्य कृते गूर्जरदेशो देशवासिनश्च यावन्तं गर्वं गौरवं च वहेयुस्तावन्तमल्पमेव । कलिकालसर्वज्ञानां तेषां कुशाग्रप्रज्ञाया अगोचरा न काऽपि विद्याशाखा । सर्वग्राहिण्या ९९
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy