SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ एवमेवाऽन्यदा राजसभायां समागतेभ्यः सर्वेभ्योऽपि धर्मगुरुभ्योऽन्यपण्डितेभ्यश्च राज्ञा पृष्टं - 'मान्या धर्मगुरवो विद्वांसश्च ! अहं ज्ञातुमिच्छामि यदत्र जगति पात्रं किम् ?' तदा तदुत्तररूपेणाऽन्यान्यैर्धर्मगुरुभिः पण्डितैश्च स्वस्वसम्प्रदायानुसारं ये वर्तन्ते ये वाऽमुकं दर्शनं मन्यन्ते ते पात्रमिति प्रतिपादितम् । एतेन राज्ञः सन्तोषो नैव जातः । अथैतावताऽपि हेमचन्द्राचार्या मौनमाश्रित्यैवोपविष्टा आसन् । एतदुपलक्ष्य राज्ञा सादरमाचार्याः पृष्टा इममेवाऽर्थम् । एतद्विलोक्य बहव ईर्ष्यालवो हृष्टा जाता यदधुना जैनत्वादेते जैनमुनिरेव पात्रमिति कथयिष्यन्ति, तदा च तेऽपि साम्प्रदायिका मताग्रहिणश्चैवेति सिद्धं भविष्यति । ततश्च राजा जैनेभ्यो विमुखो भविष्यतीति । किन्तु हेमचन्द्राचार्याणां पिण्डमन्ययैव मृत्तिकया निर्मितमासीत् । तैरुक्तं – 'राजन् ! श्रूयताम् । पात्रपरीक्षा तु स्वविवेकनैव जायते न तु कस्यचित् कथनेन । एतदर्थे महाभारते द्वैपायनर्षि-युधिष्ठिर-भीमानां संवादोऽस्ति, तं शृणोतु' । 'एकदा द्वैपायनर्षिर्हस्तिनापुरमागतो राजप्रासादे च युधिष्ठिरेण सह च काञ्चिद् आवश्यकी चर्चा कर्तुमुपविष्टः । तदा युधिष्ठिरेण भीममाहूय कथितं - "भोः ! भवान् द्वारि तिष्ठतु, कञ्चिदप्यन्तर्मा प्रवेशयतु" । सोऽपि तत् स्वीकृत्य द्वारि स्थितः । तावता तत्र द्वौ जनौ दानग्रहणार्थमागतौ । तत्र 'कस्मै दानं दातव्य'मिति निर्णीतुमक्षमो भीमोऽन्तर्गत्वा युधिष्ठिरं पृच्छति स्म - "मूर्खस्तपस्वी राजेन्द्र ! विद्वांश्च वृषलीपतिः । उभौ तौ द्वारि तिष्ठेते, कस्मै दानं प्रदीयते ? ||" तदा युधिष्ठिरेणोक्तं - "सुखासेव्यं तपो भीम ! विद्याकष्टदुरासदा । विद्वांसं पूजयिष्यामि, तपसा किं प्रयोजनम् ? ॥" भीमोऽपि विचारकोऽस्ति । तेनोक्तं - "बन्धो ! श्रूयतां तावत् - श्वानचर्मगता गङ्गा, क्षीरं मद्यघटस्थितम् । अपात्रे पतिता विद्या किं करोति युधिष्ठिर !? ॥" एतस्य श्रवणेन युधिष्ठिरस्याऽप्यसामञ्जस्यं जातम् । “किमधुनाकर्तव्य"मिति स चिन्ताकुलो जातः । तदा द्वैपायनषिणोक्तं - "न विद्यया केवलया, तपसा चाऽपि पात्रता । यत्र ज्ञानं क्रिया चोभे, तद्धि पात्रं प्रचक्षते ॥" ततश्च द्वयोरपि युधिष्ठिर-भीमयोः समाधानं जातम् ।' 'अतो राजन् ! एवं विवेकेन ज्ञान-क्रियोभययुक्तं पात्रं निर्णेतव्यम्' । एतच्छ्रुत्वा राजा प्रसन्नो जातस्तस्य चाऽऽचार्यान् प्रति समादरोऽधिको जातः ।
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy