________________
विश्वामित्र - पराशरप्रभृतयो ये चाऽम्बु - पत्राशिनस्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः । आहारं सघृतं पयो- दधियुतं ये भुञ्जते मानवा स्तेषामिन्द्रियनिग्रहः कथमहो दम्भः समालोक्यताम् ॥'
एतन्निशम्य सिद्धराजजयसिंहेन सादरमाचार्याः पृष्टाः
'प्रभो ! किमत्र तत्त्वम् ?'
आचार्यैरपि स्वस्थतया कथितं - 'राजन् ! एतस्य कथनमुचितमेव, किन्तु तत् पामरानाश्रित्य । सिंहसदृशपराक्रमाणां त्वन्यदेव विलसितं यदुक्तम्
-
सिंहो बली द्विरदशूकरमांसभोजी संवत्सरेण रतिमेति किलैकवारम् । पारापतः खरशिलाकणभोजनोऽपि
कामी भवत्यनुदिनं बत कोऽत्र हेतुः ? || '
एतच्छ्रवणेन प्रसन्नो नृपस्तमीर्ष्यालुं कथितवान् 'भोः ! त्वयाऽत्र किमपि वक्तव्यं वा ?' तदा स एतत्प्रत्युत्तरं दातुमक्षमोऽधोमुख उपविष्टः । राजाऽपि च तं सभाजनांश्चोद्दिश्य कथितवान् - 'प्रत्युत्तरं दातुं यदि सामर्थ्यं न स्यात् तदा राजसभायां यथाकथञ्चित् कथनेन स्वीयलघुतैव प्रकटीभवति' । एतेन स लज्जितो जातः ।
-
अथैकदा केनचिदन्येनेर्ष्यालुना राजसभायां कथितं राज्ञे - 'स्वामिन् ! एते जैना: सर्वथा नास्तिकाः सन्ति, ते प्रत्यक्षदैवतमपि सूर्यं न मन्यन्ते, तत्पूजादिकं च नैव कुर्वते' । एतच्छ्रुत्वा राज्ञाऽऽचार्याभिमुखमवलोकितम् । तदा हेमचन्द्राचार्यैः प्रत्युत्पन्नमतितया कथितं - 'राजन् ! वयं जैना यथा सूर्यमाराधयामस्तथा तु न केऽप्याराधयन्ति । तस्मिन् नभस्तलस्थित एव वयं जलाशनादि गृह्णीमो नाऽन्यथा ।
अन्ये तु न परमार्थतः सूर्याराधकाः, यतः
अधाम धामधामेदं वयमेव हृदि स्फुटम् । यस्याऽस्तव्यसनं प्राप्ते त्यजामो भोजनोदके ॥
पयोदपटलैश्छन्ने नैव कुर्वन्ति भोजनम् । अस्तङ्गतेऽतिभुञ्जाना अहो भानोः सुसेवकाः ॥
अस्तङ्गते च सूर्ये भोजनादीनां त्यागादि महत्फलं प्राप्येत । एतदर्थे च महर्षिणा व्यासेनाऽप्युक्तम्
ये रात्रौ सर्वदाऽऽहारं वर्जयन्ति सुमेधसः ।
तेषां पक्षोपवासस्य फलं मासेन जायते ॥'
श्रुत्वैतत् प्रसन्नः सिद्धराजः सभासद उद्दिश्योक्तवान् - 'विचार्यैव वक्तव्यं सर्वथा, न पुनरविचार्ये 'ति ।
५९