SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ जीवनमत्यन्तं विशुद्धमासीत्, तेषां व्यवहारो मनो-वाणी-कर्मणामद्वैतपूर्वक: संयमयुतश्चाऽऽसीत्, एतेन सहोच्चाध्यात्मिकी भूमिकां, सर्वजीवैः सहाऽऽत्मौपम्यं, शत्रूनपि जयतो विनय-नम्रता-मृदुतार्जवादिगुणांश्च दृष्ट्वा सनृपाः सर्वेऽपि जना अमन्त्रमाकर्षणमनुभवन्त इव तेषां समीपमागच्छन्ति स्म सर्वत्र च तान् स्तुवन्ति - आचार्या बहवोऽपि सन्ति भवने भिक्षोपभोगक्षमा नित्यं पामरदृष्टिताडनविधावत्युग्रजाग्रत्कराः । चौलुक्यक्षितिपालभालदृषदा स्तुत्यः स एकः पुन नित्योत्तेजितपादपङ्कजनख: श्रीहेमचन्द्रो गुरुः ॥ श्रीहेमचन्द्राचार्याणां हार्दिकी भावना तु समग्रेऽपि भारतवर्षे विहृत्य लोकानुग्रहकरणस्याऽऽसीत्, किन्तु राज्ञः सिद्धराजजयसिंहस्याऽन्येषां चोपरोधात तथागर्जरदेशे विशेषतश्चाऽणहिल्लपुरपत्तने वासेऽधि परोपकारादिलाभं दृष्ट्वा ते तत्रैव स्थिताः । तत्र च प्रत्यहं राजास्थाने गच्छतां तेषां समुदारदृष्टि-सर्वग्राहिविद्वत्ता-तीव्रमेधाऽनन्यसदृशकाव्यप्रतिभा-समन्वयवादिताप्रमुखगुणानामधिकाधिकपरिचयेन राजा तान् प्रति विशेषसमादरवान जातो, जातश्चाऽयं मणि-काञ्चनसंयोग उभयोः, यतः एक आसीत् युगनिर्माताऽन्यश्च संस्कारनिर्माता, एकः समरविजयी अन्यः स्वविजयी, एकः काव्य-कलाप्रियोऽन्यः काव्य-कलासर्जकः, एक: प्रचण्डशक्तिमान् अन्यस्तु असाधारणपाण्डित्यवान् । राज्ञो हि स्वस्वप्ना आचार्यै रेव फलिष्यन्तीति श्रद्धा दृढा जाता । अथ च राज्ञो वृत्तिं तान् प्रत्येव प्रह्वीभूतां, तेषां च सर्वत्राऽधिकं महत्त्वं दृष्ट्वा बहूनां हृदयेषु ईर्ष्याग्निः प्रज्वलितः । चिन्तितं च तैर्यद् 'यद्येवमेव राजा एतादृशान् महत्त्वयुतान् करिष्यति तदाऽस्माकं काऽपि गणना नैव भविष्यति' । अतस्ते 'कथमपि हेमचन्द्राचार्याणां छिद्रान्वेषणं कृत्वा राज्ञे तन्निवेदनीयं राज्ञा च तिरस्कारणीयास्ते' इत्याशया छिद्रान्वेषणे प्रवृत्ताः । इतश्च चैत्यपरिसरे प्रत्यहं हेमचन्द्राचार्याणां धर्मोपदेशरूपाणि प्रवचनानि प्रवर्तन्ते स्म । बहवः श्रावकजना अन्येऽपि चाऽऽचार्यगुण-वाण्यादिभिः समाकृष्टाः प्रधानपूरुषास्तानि श्रोतुं समागच्छन्ति स्म । तदैकदाऽऽचार्यैः स्थूलभद्रमुनेः कथा श्राविता यथा - कथं स्थूलभद्रेण संसारत्यागः कृत, कथं चाऽऽत्मसाधन कृत्वा कामविजयो जितेन्द्रियत्वं च साधितं, ततश्च कथं पूर्वपरिचितवेश्यागृहे चातुर्मास्यं कृत्वा षड्रसयुतं भोजनं गृह्णताऽपि मनसि स्मरस्याऽवकाशो न दत्तः प्रत्युत सा वेश्या धर्ममार्गे प्रतिबोध्य व्रत-नियमादि ग्राहितेति । धर्मकथां श्रुत्वेमां जनाः प्रसन्ना जाताः स्थूलभद्रमुनेश्च वैराग्यं प्रशंसितवन्तः । किन्तु तत्राऽवसरे कश्चनेालुरपि तत्रोपस्थित आसीत् । तेन च 'लब्धं मयेदं छिद्र'मिति हृष्यता द्वितीयदिने राजपर्षदि सर्वेषां पुरतः कथितं 'यदेते जैनाचार्याः कीदृगसमञ्जसं कथयन्ति ननु? किं कश्चन वेश्यागृहेऽप्युषित्वा षड्रसमयं भोजनमपि च कृत्वा विरागी स्थातुं शक्तः खलु ? श्रूयताम् -
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy