SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ विद्वत्ता प्रतिभाचाऽनन्यसाधारणी आसीत् । सहैव स गर्वोन्नतोऽप्यासीत् । तेन हि जिनप्रतिष्ठावसरे स्तुति कुर्वता कथितम् - एको रागिषु राजते प्रियतमादेहार्धहारी हरो नीरागेषु जिनो विमुक्तललनासङ्गो न यस्मात् परः । दुर्वारस्मरघस्मरोरगविषव्यासङ्गमूढो जनः । शेषः कामविडम्बितो न विषयान् भोक्तुं न मोक्तुं क्षमः ।। स्तुतिश्लोकमेनं श्रुत्वा तत्र स्थिताः सर्वेऽपि जना विस्मयचकिता जातास्तस्य च धन्यवादान् कथितवन्तः । राज्ञाऽपि स स्वीयास्थाने समागन्तुमामन्त्रितः । राज्ञो मुख्य आस्थानकविहि श्रीपाल आसीत् । केनचित् कारणेन तस्य देवबोधकविना सह वैमनस्यं जातम् । अथैकदा देवबोधो हेमचन्द्राचार्यान् मिलितुं तदुपाश्रयं गतवान् । तदा तत्र श्रीपालः कविरप्युपविष्ट आसीत् । तेनाऽऽचार्या विज्ञप्ताः – 'एनं माऽत्राऽऽगन्तुमनुमन्यध्वम्' । तदाऽऽचार्यैः कथितं – 'एतद्धि नोचितम् । स हि सिद्धसारस्वतो महापण्डितश्च । यदि स निरभिमानीभूय स्वयमेवाऽत्राऽऽगच्छेत् तदा सोऽवश्यं सत्कर्तव्यः' । तत आगतं तं देवबोधपण्डितं हेमचन्द्राचार्याः सत्कृत्य स्वसमीप एवोपवेशितवन्तः समयोचितवचनैश्च तं प्रीणितवन्तः । एतेन तष्टः स महापण्डितः हेमचन्द्राचार्यान् स्तुवन् कथितवान् - पातु वो हेमगोपालो दण्ड-कम्बलमुद्वहन् । श्लोकार्धमेनं श्रुत्वा श्रीपालः कविरन्ये च तत्र स्थिता जनाः किञ्चिद रोषमिश्रितमाश्चर्यमनुभूतवन्तो यावत् तावत् तेनाऽन्यच्छ्लोकार्धमपि कथितं - षड्दर्शनपशुग्रामं चारयन् जैनगोचरे ॥ एतन्निशम्य सर्वेऽपि प्रसन्ना जातास्तं च महापण्डितं भूयो भूयः प्रशंसितवन्तः । तत आचार्यैरपि तेन सह सम्भाषणं कृतं श्रीपालकवेस्तस्य च वैमनस्यं निवार्य द्वयोरपि मैत्र्यं साधितम् । यतो हि साधोः प्रथमो धर्मस्तु वैरनिवारणमेव विद्यते । तथा हेमचन्द्राचार्याणामपि जीवनमन्त्रः सर्वत्र सौमनस्यं समन्वयश्चैवाऽऽसीत् ।। प्रवृत्तं सर्वं ज्ञात्वा सिद्धराजोऽपि प्रसन्नो जातस्तस्य वृत्तिश्च हेमचन्द्राचार्यान् प्रत्यधिकाधिकं प्रह्वीभूता । यद्यपि तस्य देवबोधकवेः श्रीपालकवेश्चेत्युभयोरप्याशाऽऽसीत्, किन्तु देवबोधस्य प्रतिभावत्त्वेऽपि गर्विष्ठत्वात् श्रीपालकवेश्च साधुचरितत्त्वेऽपि तादृशप्रतिभारहितत्वात् स आचार्यान् प्रत्येव समाकृष्टः । इतश्चाऽन्यान्यकार्यैः सह हेमचन्द्राचार्याणां विद्याकार्यमपि सन्ततं प्रवरीवति स्म । आदिनं विविधग्रन्थानां परिशीलनं, संशोधनं, नूतनग्रन्थसर्जनं लेखनं चेत्येव तेषां प्रवृत्तिरासीत् । तथा तेषां ५७
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy