________________
यशः प्राप्तुं मालवदेशमिव च गूर्जरदेशमपि संस्कार-सरस्वतीभ्यां समृद्धीकर्तुं तन्मनसि महेच्छाऽऽसीत् । कस्मिन्नपि विषये गूर्जराणां लाघवं तं पीडयति स्म । गूर्जराः सुभटाः, विद्वांसः, साधवः, सुन्दर्यः समाजनेतारश्चेति सर्वेऽपि गौरवान्विता एव स्युरिति समीहा तं निद्रातुमपि न दत्ते स्म । गूर्जरदेशे इदं नास्तीति वचोऽपि तद्धृदये शल्यायते स्म । तस्याऽऽस्थानस्य वैभवं दृष्ट्वा महान्तो नरपुङ्गवाः महापण्डिताश्चाऽपि चकिता भवन्ति स्म । तत्र साधारणः पण्डितस्तु प्रवेष्टुमपि नाऽर्हति स्म । स साहित्यादारभ्य सौन्दर्यं यावत् सर्वविषयेष्वपि रसं दर्शयति स्म, दार्शनिकचर्चासु तत्त्वज्ञाने चाऽप्यानन्दं प्राप्नोति स्म । तस्य महेच्छानां पार एव नाऽऽसीत् । स इच्छति स्म यद् गूर्जरदेशे पत्तननगरे चैकः कालिदासः स्यात् यः स्वीयकाव्यैर्गुर्जरदेशस्य गौरवं समुन्नतं कुर्यात्, योः रघुवंशसदृशीं तादृशीं कृतिमेकां रचयेत् यां श्रुत्वा पठित्वा च धन्यंमन्यः सर्वोऽपि गौर्जरो जनश्चौलुक्यवंशीयानां कीर्तिमाकालं गायेत्, यश्च विद्या-संस्कारादिभिनिसर्गत एव सर्वोत्तमः प्रतिभाशाली च साहित्यकारः स्यात्, ईदृशं साहित्यस्वामिनं स शोधयन्नासीत् समग्रेऽपि देशे । स्वान्वये सर्वोत्तमा शिल्पकला, सर्वश्रेष्ठं साहित्यं, सर्वोदात्ताः प्रजाश्च वर्तेरन् इति तस्य महाकाङ्क्षाऽऽसीत् । तस्य महिमानं समग्रभारतवर्षस्याऽनेके राजानो भय-प्रशंसामैत्र्यादिभावनिरीक्षमाणा आसन् ।
यदा पत्तने राजपाटिकायां व्रजतस्तस्य हेमचन्द्राचार्यैमिलनं जातं, तैश्च तस्य प्रशस्तिरूपः श्लोकः श्रावितस्तदाऽत्यन्तं प्रसन्नेन सिद्धराजेन चिन्तितं - 'नूनमते महात्मानो मे सर्वानपि स्वप्नानभिलाषांश्च सफलीकरिष्यन्ति' । अतः स तान् स्वीयास्थाने आमन्त्रितवान् । हेमचन्द्राचार्यैरपि तस्य मनोरथाः स्वप्नाश्च लक्षिताः । अतस्तेऽपि तान् पूरयितुकामा इव प्रत्यहं सिद्धराजस्याऽऽस्थानं गन्तुमारब्धाः ।
अथ च वैक्रमीये ११८१तमे संवति सिद्धराजजयसिंहस्य राजसभायां श्वेताम्बराचार्यवादिश्रीदेवसूरि-दिगम्बराचार्यकुमुदचन्द्रयोर्मध्ये जैनसिद्धान्तानाश्रित्य वादो जातः । तत्राऽयं पण आसीद् यद् यदि श्वेताम्बराः पराजिताः स्युस्तदा तैः सर्वैरपि दिगम्बरत्वं स्वीकरणीयं, यदि च दिगम्बराः पराजिताः स्युस्तर्हि तैः सर्वैरपि देशत्यागः करणीयः* | किन्तु वादिश्रीदेवसूरिभिः प्रतिष्ठापितान् तर्कान् अन्यांश्च चतुरशीतिप्रश्नान् प्रत्युत्तरयितुमक्षमाणां दिगम्बराणां वाचो मुद्रिताः । तैः पराजयं स्वीकृत्य देशत्यागः कृतः। अस्मिश्च वादावसरे श्रीदेवसूरीणां सहायकत्वेन श्रीहेमचन्द्राचार्या अप्यासन् । समाप्ते च वादे वादिश्रीदेवसूरीन् स्तुवद्भिर्टेमचन्द्राचार्यैरुक्तम् -
यदि नाम कुमुदचन्द्रं नाऽजेष्यद् देवसूरिरहिमरुचिः ।
कटिपरिधानमधास्यत कतमः श्वेताम्बरो जगति ? || अनेन वादजयेन तुष्टो राजा जयमुपलक्ष्य राजविहारनामकं जिनप्रासादं निर्मापितवान् । तत्र च प्रतिष्ठावसरे बहवः पण्डिताः समागता आसन् । तेषु चैको महापण्डितो भागवतो देवबोधोऽप्यासीत् । तस्य * राजमाता मयणल्लदेवी स्वीयपितृपक्षे दिगम्बरमतावलम्बिनी आसीत्, आचार्यकुमुदचन्द्रश्च तत्कुलगुरुरासीत् - इत्यतोऽयं
पक्षपातः ॥
५६