SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ मातुलवधप्रायश्चित्तरूपेणाऽग्निस्नानं कृत्वा देहं त्यक्तवान् । मूलराजस्य पुत्रश्चामुण्डराजः १०५२तमे वैक्रमे संवति राजाऽभवत् । सोऽपि स्वपितुरिवाऽत्यन्तं पराक्रमी आसीत् । तस्य पराक्रमेण मालवेशः सिन्धुराज: कान्दिशीकीभूय रणाङ्गणात् पलायितस्तथा लाटसेनापति बारपनामानमपि स वशीकृतवान् । स १०६६तमे संवति शुक्लतीर्थेऽनशनं प्रपद्य स्वर्गतः । तदनु तस्य पुत्रो वल्लभराजो नृपो जातः, किन्तु केनचिदज्ञातव्याधिना स षण्मास्यैव मृतः । अतस्तस्य लघुभ्राता दुर्लभराजः १०६६तमे वैक्रमाब्दे राजाऽभवत् । तेन द्वादशाब्दी यावन्याय्येन पथा राज्यं पालितं नैकानि च सत्कार्याणि विहितानि । ततः स वानप्रस्थत्वं स्वीकृत्य राज्यं च स्वीयलघुभ्रातुष्पुत्राय भीमदेवाय दत्त्वा तीर्थाटनमकरोत् । भीमदेवः १०७८तमे वैक्रमीये वर्षे गर्जरत्रादेशस्य राजा जातः । तस्य शासनस्य प्रारम्भ एव (१०८१तमे वैक्रमाब्दे, ३।११०२५ तमे ऐसवीये दिनाङ्के) गझनीवास्तव्येन मोहम्मदाख्येन भीमदेवस्य पूर्णप्रतिकारे सत्यपि सोमनाथमहादेवस्य विश्रुतो देवालयो लुण्टितो विनाशितश्च । तस्य प्रतिगमनानन्तरं भीमदेवेन स्वीयं राज्यं व्यवस्थितं कृतम् । मित्रनृपाणां साहाय्येन स सिन्धुदेशनृपं जितवान् काशीपतिकलचूरी-कर्णदेवाभ्यां च सह अवन्तीपतिं भोजराजमपि पराजितवान् । तस्य मन्त्री विमल: अर्बुद(आबु)पर्वतोपरि देवकुलपाटके( देलवाडा) विश्वविश्रुतं विमलवसतिनामकं जिनालयमारासणशिलया निर्मापितवान् । तस्य त्रयः पुत्रा आसन् । क्षेमराजः*, मूलराजः (द्वितीयः), कर्णदेवश्च । क्षेमराजो हि राज्यग्रहणं निराकृत्य संन्यस्तं गृहीतवान् । मूलराजस्तु यद्यप्यत्यन्तं तेजस्वी आसीत् किन्तु लघुवयस्येव मृतः । अतो भीमदेवः वैक्रमीये ११२० तमे वर्षे कर्णदेवं राज्येऽभिषिक्तवान् । आशापल्ल्या भिल्लान् जित्वा कर्णदेवेन कर्णावती(अहमदाबाद)नगरं वासितम् । कर्णाटकस्य राज्ञो जयकेशिनः पुत्र्या मयणल्लदेव्या तस्योद्वाहो जातः । तयोः पुत्रः सिद्धराजो जयसिंहः आसीत् । अथ क्षेमराजपुत्रो देवप्रसादो यद्यपि कर्णदेवानन्तरं राज्याधिकारी आसीत्, तथाऽपि स्वपितृव्यस्य कर्णदेवस्येच्छा सिद्धराजाय राज्यदाने आसीदतस्तत्समाधानार्थं देवप्रसादेनाऽग्निप्रवेशं कृत्वा प्राणास्त्यक्ताः । कर्णदेवेनाऽपि सिद्धराजो जयसिंहोऽष्टवर्षमिते वयस्येव राज्येऽभिषिक्तः । सिद्धराजस्य च देवप्रसादपुत्रेण त्रिभुवनपालेन सह गाढमैत्र्यमासीत् । तौ द्वावपि समानबल-शीलौ समानशौर्यवन्तौ च सहैव सर्वमपि कलाकलापं शिक्षितवन्तौ । एवं सत्यपि त्रिभुवनपालस्तं सेवकवत् सेवते स्म, तदादेशानुसारं च वर्तते स्म । अथ च सिद्धराजो जयसिंहो लघुवयस्येव बहून् पराक्रमान् कृत्वा स्वीयराज्यं निष्कण्टकं कृतवान्, बर्बरकनामानं राक्षसकल्पं महाशूरं चाऽपि जितवानासीत् । तस्य शौर्यमनितरसाधारणं, कीर्तिर्दिगन्तव्यापिनी राजनीतिश्च दिग्विजयिनी आसीत् । स विद्वान् विद्यारसिकश्चाऽऽसीत् । तथाऽपि विक्रमादित्यस्येव शुभ्रं * क्षेमराजपुत्रो देवप्रसादः, तत्पुत्रस्त्रिभुवनपालः, तत्पुत्रश्च कुमारपालः ।
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy