SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ एवंरीत्यैवाऽन्यदा राज्ञा 'को धर्मो मया समाचरितव्यः ?' इति राजसभायां पृष्टे पूर्वोक्तनीत्यैव हेमचन्द्राचार्यैश्चारिसञ्जीवनीचारन्यायदृष्टान्तं श्रावयित्वा धर्मपरीक्षा कथं कर्तव्येति ज्ञापितं सर्वदर्शनसम्मानेनैव सत्यधर्मो मार्गश्चाऽऽराध्यते इति कथितम् । एतेन राज्ञः समभाव इतोऽपि वृद्धिङ्गतः । अथ चैकदा हेमचन्द्राचार्याश्चैत्यपरिसरे श्रीनेमिनाथचरितं वर्णयन्तोऽवसरप्राप्तं पाण्डवचरितं वर्णितवन्तः । तत्र च ‘पाण्डवा जैनदीक्षां गृहीतवन्तः सिद्धाचले चाऽनशनं गृहीत्वा निर्वाणं प्राप्तवन्तः' इत्यपि सविस्तरं वर्णितवन्तः । एतच्छ्रुत्वा केचनेालवः सिद्धराजस्याऽग्रे - 'जैना एते स्मृतेविद्रोह कुर्वन्ति, तत्रोक्ताद् विपरीतं भणन्ति । एतेनाऽस्मत्पुरेऽरिष्टमपि कदाचिदुत्पद्येते'त्यादिकमधिक्षेपं कृतवन्तः । तदा सिद्धराजोऽपि तेषां समक्षमेवाऽऽचार्यान् एतद्विषयं स्पष्टीकर्तुं विज्ञपयामास । आचार्या अपि तदा महाभारत-वर्णितपाण्डवेभ्यो जैनशास्त्रवर्णितपाण्डवानामन्यत्वं महाभारतस्य सन्दर्भेणैव प्रतिपाद्य सर्वमपि स्पष्टीकृत-वन्तः । एतेन तुष्टो राजा तान् सादरं प्रशंसितवान् ।। ___ एवं चैतादृशैर्बहुभ्यः प्रसङ्गेभ्यो ज्ञातैः श्रीहेमचन्द्राचार्याणां समन्वयकारिता-समुदारदृष्टि-क्लेशाकरणबहुशास्त्रज्ञता-प्रत्युत्पन्नमतिता-निराग्रहिता-सर्वग्राहिपाण्डित्यादिभिर्गुणैनितरामभिभूतो राजा तान् प्रत्यधिकाधिकमादरवान् जातः । प्रायः सर्वकार्येषु च तेषामभिप्रायं पृच्छति स्म । किञ्च, सिद्धराजजयसिंहस्य पुत्रो नाऽऽसीत् । अतो वैक्रमे ११८५तमेऽब्दे तेन पुत्रकामनया पादचारेण तीर्थयात्रा कृता । तस्य नम्रविज्ञप्त्या च हेमचन्द्राचार्या अपि सहैव ययुः । तदवसरे तेनाऽतिनिकटतयाऽऽचार्याणां जीवनं विलोकितं, तेषां च त्याग-तपः-शुद्धिः-नि:स्पृहता-स्वस्थतादयो गुणा अप्यनुभूताः। ततस्तेनाऽऽचार्यैः सहैव शत्रुञ्जयतीर्थ-गिरिनारतीर्थ-सोमनाथतीर्थादीनां यात्रा कृता । यात्रान्ते च तेनाऽऽचार्येभ्यो विज्ञप्तं - 'प्रभो ! भवतां योग-ज्ञानबलेन कृपया विलोक्यतां यन्मे पुत्रो भविष्यति न वा?' तदाऽऽचार्यैरपि सोमनाथसमीपस्थे कोटिनगरे (कोडीनार) गत्वा दिनत्रयोपवासैश्चाऽम्बिकादेवीमाराध्य प्रसन्नीकृत्य च 'सिद्धराजस्य पुत्रो भविष्यति न वे'ति पृष्टम् । देव्या कथितं - 'सिद्धराजस्य भाग्ये सन्तानसुखं नास्ति । सोऽपुत्र एव मरिष्यति । तस्याऽन्वये तु तद्भातुस्त्रिभुवनपालस्य पुत्रः कुमारपालो राजा भविष्यति । एतदर्थसंवादिनी चेयं गाथा पुरा विक्रमादित्याय राज्ञे सिद्धसेनदिवाकरसूरिभिः कथिताऽऽसीत् पुन्ने वाससहस्से सयंमि वरिसाण नवनवइअहिए (१९९९) । होही कुमरनरिंदो तुह विक्कमराय ! सारिच्छो ॥' इति । ततो देव्यन्तर्हिता । आचार्यैरपि यथातथं सर्वमप्येतत् सिद्धराजस्य कथितं, 'भाग्यादधिकं न कदाऽपि * चारिसञ्जीवनीचारन्यायदृष्टान्तं परिशिष्टे विलोक्यताम् । + अयं प्रसङ्गो यथा प्रभावकचरिते वर्णितः स सर्वोऽपि परिशिष्टे विस्तरेण प्रदत्तोऽस्ति । कृपया तत्रैव विलोक्यताम् । ★ पृष्ठ - ५४स्था टिप्पनी विलोक्यताम् ।
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy