________________
सप्तस्वध्यायेषु संस्कृतभाषाव्याकरणम्, अष्टमे चाऽध्याये प्राकृतभाषाव्याकरणं निबद्धमस्ति । संस्कृतव्याकरणमिव प्राकृतव्याकरणमपि सर्वाङ्गपरिपूर्णमस्ति । एतच्चाऽद्यावधि अपूर्वमेव । यतस्तेऽन्यवैयाकरणवत् पाणिनीयव्याकरणाल्लोकोपयोगिनोंऽशान् गृहीत्वैव सन्तुष्टा न जाताः किन्तु स्वकालं यावत् प्रचलिताया भाषाया अपि व्याकरणं निबद्धवन्तः ।
तेषां पूर्ववर्तिवैयाकरणैरपि वररुचि-चण्डप्रमुखैर्यद्यपि शौरसेनी-मागधी-पैशाचीभाषाणां स्वरूपं स्वस्वव्याकरणेषु किञ्चिन्निरूपितमस्ति, तथाऽपि अपभ्रंशभाषाया व्याकरणं तु हेमचन्द्राचार्याणामेवाऽपूर्वं प्रदानम् । अत्र च तैरुदाहरणरूपेण सर्वत्र पूर्णा गाथा: पूर्णानि वृत्तानि पूर्णानि चाऽवतरणानि प्रदत्तानि सन्ति, यैर्हि तेषां सङ्ग्राहकप्रतिभा लोकभाषानुरागश्च प्रतीयते । एतच्च विलोक्याऽपभ्रंशसाहित्यस्य प्राच्यसमृद्धि प्रति विद्वज्जगत् जागृतं जातं तन्मूलग्रन्थानां संशोधने च लग्नम् । एवं चाऽऽचार्यैरपभ्रंश-भाषाव्याकरणं विरचय्याऽपूर्वमैतिहासिकं च कार्यं कृतमस्ति । अद्यत्वे भाष्यमाणानां गूर्जर-मारुप्रमुखभाषाणां मूलमेषैवाऽपभ्रंशभाषाऽस्ति, तस्याश्च व्याकरणस्य तदुदाहरणानां चाऽभ्यासेनैतासां भाषाणां क्रमिको विकासः कथं जातस्तासु च के रूढप्रयोगाः के च नूतना इत्यादीनामध्ययनं बोधश्च सरलतया भवति । विद्वज्जना वदन्ति यत्- प्राचीनभाषाणामध्ययनार्थं सिद्धहेमशब्दानुशासनं विना न किमप्युपयुक्ततरम्।।
अथ च प्राकृतव्याकरणस्याऽपि प्रयोगानां सिद्ध्यर्थं तैः प्राकृतव्याश्रयमहाकाव्यं विरचितमस्ति । एवं च संस्कृत-प्राकृतव्याकरणस्य साङ्गोपाङ्गं विरचनेन तैरुभे अपि भाषे पूर्णतयाऽनुशासिते - इत्यतस्तव्याकरणस्य सिद्धहेमशब्दानुशासनमित्यभिधानं सर्वथा सार्थकमस्ति । २. नामानुशासनम् - १. अभिधानचिन्तामणिनाममाला - शब्दानां महार्णवरूपेऽस्मिन् शब्दकोशे प्रायो द्विसहस्रश्लोकेषु
विभागश एकस्मिन्नर्थे प्रयुक्ता नैके शब्दाः सङ्ग्रहीताः सन्ति । अस्य च कोशस्य विवरणं
ह्याचार्यैः स्वयमेव विरचितमस्ति । २. अनेकार्थसङ्ग्रहः - अस्मिन् शब्दकोशे एकस्य शब्दस्य नैकेऽर्थाः सङ्ग्रहीताः सन्ति । ३. निघण्टुशेषः आयुर्वेदसम्बन्धिनां वैद्यकीयानां वा शब्दानां सङ्ग्रहोऽयं तेषां सार्वत्रिकी प्रतिभा
प्रमाणीकरोति । ४. देशीनाममाला - देशीभाषासु रूढानां, व्याकरणेन साधयितुमशक्यानां, प्राकृतभाषाणामभ्यासे
चाऽत्यन्तमुपयोगिनां शब्दानामपूर्वः सङ्ग्रहोऽयं तेषां सूक्ष्मदर्शित्वं विविधभाषाज्ञानं लोकव्यवहारज्ञानं च प्रमाणीकरोति । अत्र सगृहीतेषु शब्देषु बहवो द्राविड-अरब्बीय
फारसीयभाषासम्बन्धिनः शब्दा अपि सन्ति । ३. लिङ्गानुशासनम्
लिङ्गानुशासनं विना शब्दानुशासनमपूर्णमेव । तामपूर्णतां दूरीकर्तुं तैर्विविधलिङ्गानां शब्दानां सङ्ग्रहोऽत्र कृतोऽस्ति । अत्र यावन्तः शब्दाः सन्ति तावन्तः कस्मिन्नपि लिङ्गानुशासने न सन्ति ।