________________
४. छन्दोऽनुशासनम्
स्वसमयात् पूर्ववतिनां समेषामपि संस्कृत-प्राकृता-ऽपभ्रंशकाव्येषूपयुक्तानां छन्दसां समावेशस्तैरत्र कृतोऽस्ति । छन्दसां महाकोशेऽस्मिस्तैः प्रत्येकं छन्दसां शास्त्रीयं लक्षणं संस्कृतभाषायां तदुदाहरणं च यथास्वं संस्कृतादिभाषायां प्रदत्तमस्ति । अत्र च सर्वाण्यपि उदाहरणानि तैः स्वयमेव विरचितानि, न पुनः कुतश्चिदवतारितानि । अस्मिन् ग्रन्थैस्तैः सादरं भरत-पिङ्गल-स्वयम्भूप्रमुखाः स्मरणविषयमानीताः सन्ति, तथा माण्डव्यः, भरतः, काश्यपः, सैतवः, जयदेवः - इत्यादयः प्राच्याश्छन्दःशास्त्रप्रणेतार उल्लिखिताः सन्ति । ५. काव्यानुशासनम्
राजशेखरस्य काव्यमीमांसा, मम्मटस्य काव्यप्रकाशः, आनन्दवर्धनस्य ध्वन्यालोकः अभिनवगुप्तस्य च लोचनः - इत्येतेभ्यो ग्रन्थेभ्यो विविधां सामग्री गृहीत्वा विरचितोऽयं ग्रन्थो विदुषां मते यद्यपि सङ्ग्रहग्रन्थस्तथाऽपि अत्राऽप्याचार्याणां मौलिकता प्रतिभा चाऽक्षुण्णैव । अस्य ग्रन्थस्य विवरणं तैरलङ्कारचूडामणिविवेकश्चेति टीकाद्वयेन स्वयमेव कृतमस्ति । ६. प्रमाणमीमांसा
हेमचन्द्राचार्याणां विशुद्धदार्शनिकप्रतिभा प्रोज्ज्वलतया प्रकटयत्ययं ग्रन्थः । भारतीयदर्शनविद्याया ब्राह्मण-जैन-बौद्धेति-तिसृणामपि शाखानां तात्त्विकपरिभाषासु लाक्षणिकव्याख्यासु यथाक्रमं यानि विकासवृद्धि-परिवर्तनानि जातानि तानि ग्रन्थस्याऽस्याऽध्ययनेनाऽवबुध्यन्ते । आचार्यैः स्वपूर्ववर्तिनामागमिकतार्किकाणां श्वेताम्बराणां दिगम्बराणां सिद्धसेनदिवाकरसूरिजिनभद्रगणि-समन्तभद्राऽकलङ्काद्यवादिदेवसूरिपर्यन्तानां सर्वेषामपि जैनाचार्याणां मन्तव्यानि सर्वग्राहिण्या बुद्धि-शक्त्या सङ्कलय्य स्वीयया विशदयाऽपुनरुक्तया च विशिष्टशैल्या सूत्रेषु स्वोपज्ञविशदतमवृत्तौ च निरूपितानि । तेषां भाषाऽत्यन्तं परिमिता शब्दाडम्बरशून्या सहजा सरला चाऽस्ति । निरूपणमपि नाऽतिसङ्क्षिप्त-विस्तृतमस्ति। अत्र ग्रन्थे तैः प्रमाणानि नयान् सोपायांश्च बन्ध-मोक्षादीन् परमपुरुषार्थोपयोगिनो विषयांश्चर्चयित्वाऽनेकान्तवादस्य नयवादस्य च शास्त्रीय निरूपणं कृतमस्ति । एतच्च तेषां भारतीयप्रमाणशास्त्रक्षेत्रे विशिष्टं प्रदानमस्ति । तुलनात्मकदृष्ट्या दर्शनानामध्ययनं कुर्वतां जिज्ञासूनां कृते ग्रन्थस्याऽस्याऽध्ययनमतीव महत्त्वमावहति । यतोऽत्राऽऽचार्यैर्दिङ्नाग-धर्मकीर्ति-प्रमुखबौद्धविदुषां, कणाद-भासर्वज्ञ-व्योमशिव-श्रीधराऽक्षपाद-वात्स्यायनोद्योतकर-जयन्त-वाचस्पतिमिश्र-शबर-प्रभाकर-कुमारिल-मुख्यवेदिकविदुषां च ग्रन्थानां चार्वाकदर्शनस्य च विदुषो जयराशिभट्टस्य तत्त्वोपप्लवसिंहग्रन्थस्य पदार्था विशदतया चचिताः सन्ति । अयं हि ग्रन्थो यद्यपि सम्पूर्णो न प्राप्यते तथाऽपि ऐतिहासिक- दृष्ट्या तस्य जैनतर्कसाहित्ये भारतीयदर्शनसाहित्ये च विशिष्टं स्थानमस्ति । ७. त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् -
महाभारतमुद्दिश्य विद्वद्भिर्घोषितं यद् -
८७