________________
"यदिहाऽस्ति तदन्यत्र, यन्नेहाऽस्ति न कुत्रचित् ॥"
इदं च वचनं त्रिषष्टिशलाकापुरुषचरितमहाकाव्यस्य विषयेऽपि समानमेव । यतस्त्रिषष्टिशलाकापुरुषचरितं नाम जैनसिद्धान्त-कथेतिहास-पौराणिककथा-तत्त्वज्ञानादीनां सर्वसङ्ग्रहः । षट्त्रिंशत्सहस्रश्लोकप्रमाणेऽस्मिन् ग्रन्थे हेमचन्द्राचार्याणां सुधावर्षिण्या वाण्या गौरवं माधुर्यं च पदे पदेऽनुभूयते । अत्र त्रिषष्टेरुत्तमपुरुषाणां चरितानि निबद्धानि सन्ति । ते चोत्तमपुरुषाः २४ तीर्थकराः, १२ चक्रवर्तिनः, ९ वासुदेवाः, ९ प्रतिवासुदेवा: ९ बलदेवाश्च सन्ति । सहैव बहून्यवान्तरचरितान्यपि अत्राऽऽचार्यैर्यथायथं निवेशितानि सन्ति । आचार्याणां सर्वसङ्ग्राहिण्या प्रतिभायाः प्रभावेण ग्रन्थेऽस्मिन् तादात्विकसामाजिकधार्मिक-वैचारिकरूढयो बहुत्र प्रतिबिम्बिता विलोक्यन्ते । काव्यशास्त्रीयदृष्ट्याऽपि ग्रन्थोऽयं प्रासादिकः कल्पना-माधुर्योल्लसितश्चाऽस्ति । साद्यन्तमस्य पठनेन संस्कृतभाषायाः प्रायः सर्वेऽपि शब्दा अवबुध्येरन् - इति व्यवस्थाऽऽचार्यैः सहजतया कृताऽस्ति । किं बहुना ? हेमचन्द्राचार्याणां कलिकालसर्वज्ञत्वं साधयितुमयमेक एव ग्रन्थोऽलम् ।
८. योगशास्त्रम् महाराजकुमारपालस्य योगाभ्यासकृते विनिर्मितोऽयं ग्रन्थो द्वादशप्रकाशात्मकोऽस्ति । अस्मिन् पातञ्जलयोगसूत्रशैल्या अष्टानां योगाङ्गानां जैनदृष्ट्या विस्तृता सरला विशदा च चर्चा कृताऽस्ति । विषयवर्णने चाऽऽचार्याणां मौलिकता प्रतिपदं प्रोल्लसति । तत्र प्रथमे प्रकाशे यमाः, द्वितीय-तृतीयचतुर्थेषु प्रकाशेषु नियमाः, चतुर्थे एव आसनानि, पञ्चमे प्राणायामः, षष्ठे प्रत्याहारः, सप्तमे धारणा, अष्टम-नवम-दशमेषु ध्यानम्, एकादशे समाधिः, द्वादशे च स्वानुभवसिद्धं योगतत्त्वं वर्णितानि सन्ति । सहस्राधिकमूलश्लोकमयस्याऽस्य ग्रन्थस्य वृत्तिरपि तैरेव विरचिताऽस्ति यत्र च जैनागम-सिद्धान्तयोगग्रन्थानां यथा तथैव महाभारत-मनुस्मृति-पुराणोपनिषदादीनामप्यवतरणानि प्रदत्तानि ।।
९. व्याश्रयं महाकाव्यम् शास्त्रकाव्यानां परम्परायां व्याश्रयमहाकाव्यस्य स्थानमद्वितीयमस्ति । एतन्महाकाव्यं व्याकरणस्येतिहासस्य काव्यत्वस्येति त्रयाणामपि वाहकमस्ति । अस्य द्वौ विभागौ स्तः । प्रथमे विभागे विंशतिः सर्गाः सन्ति । तेषु सिद्धहेमशब्दानुशासनस्य संस्कृतविभागस्थायाः सप्ताध्याय्याः प्रयोगानामुदाहरणानां च सिद्ध्या सह चौलुक्यवंशजातानां मूलराजाद्यानां सिद्धराज-जयसिंहपर्यन्तानां नृपाणां वर्णनं कृतमस्ति । द्वितीये च विभागे अष्टसु सर्गेषु प्राकृतव्याकरणापरनाम्नः सिद्धहेमशब्दानुशासनस्याऽष्टमाध्यायस्य प्रयोगानामुदाहरणानां च सिद्ध्या सह कुमारपालराजस्य चरितं निबद्धमस्ति । एवं चैतन्महाकाव्यं संस्कृतभाषाया प्राकतस्य च षण्णामपि महाराष्ट्री-शौरसेनी-मागधी-पैशाची-चलिकापैशाचीअपभ्रंशभाषाणां बोधार्थमत्यन्तमुपयोगि । सहैव महाकाव्यस्याऽपि सर्वेषामपि लक्षणानामस्मिन् विद्यमानत्वात् काव्यत्वदृष्ट्याऽपि सर्वथा साफल्यं वहति महाकाव्यमिदम् । तथैव चौलुक्यवंशीयनृपाणामितिहासज्ञानेऽपि सर्वथा प्रस्तुतमिदं महाकाव्यम् ।
१०. वीतरागस्तवः वीतरागभक्तिमयमिदं काव्यं काव्यत्वदृष्ट्याऽपि श्रेष्ठमस्ति । भक्तितत्त्वेन * श्रीहेमचन्द्रप्रभवाद् वीतरागस्तवादितः । कुमारपालभूपालः प्राप्नोतु फलमीप्सितम् ॥ (वीतरागस्तवस्याऽन्तिमः श्लोकः)