________________
सहाऽत्र सर्वत्र जैनदर्शनमपि व्याप्तमस्ति । विंशतिप्रकाशमयेऽस्मिन् भक्तिस्तवे शान्तरसो निरालम्बं प्रवहति, आनन्दः सर्वत्रोज्जागरोऽस्ति, स्वीयाराध्यतत्त्वे च लयप्राप्तेः प्रवृत्तिरपि सहजाऽस्ति । महाराजकुमारपालस्यैवकृते विनिर्मितमिदं भक्तिकाव्यं हेमचन्द्राचार्याणां श्रेष्ठसर्जकत्वं द्योतयति ।
११. अन्ययोगव्यवच्छेदद्वात्रिंशिका केवलं द्वात्रिंशवृत्तमयेऽस्मिन् वर्धमानजिनस्तुतिरूपे काव्यग्रन्थे हेमचन्द्राचार्य: सर्वेषामपि दर्शनानां सिद्धान्तान् विषयीकृत्य विशदा चर्चा कृताऽस्ति । चिन्तनस्य भक्तेश्चाऽत्यन्तं सुन्दरः समन्वयोऽत्र काव्येऽस्ति यदेष ग्रन्थो दार्शनिकदृष्ट्या काव्यकलादृष्ट्या चेत्युभयथाऽप्यत्यन्तमुत्कृष्टोऽस्ति । अस्मिन् ग्रन्थे आचार्यश्रीमल्लिषेणसूरिभिरत्यन्तं प्रासादिक-रोचक-शैल्या सरसया च भाषया स्याद्वादमञ्जरीनाम वृत्तिविरचिताऽस्ति ।
१२. अयोगव्यवच्छेदद्वात्रिंशिका वर्धमानजिनस्तुतिरूप एवाऽयमपि काव्यग्रन्थः केवलं द्वात्रिंशद्वत्तमय एवाऽस्ति । अत्र च जैनदर्शनस्य तत्सिद्धान्तानां च महत्त्वं प्रस्थापितमस्ति । अयमपि ग्रन्थो दार्शनिकदृष्ट्या काव्यत्वदृष्ट्या चोत्कृष्ट एवाऽस्ति ।
१३. महादेवस्तोत्रम् हेमचन्द्राचार्याणामुदात्तसमन्वयभावनाया उत्कृष्टं फलमस्त्येतन्महादेवस्तोत्रम् । चतुश्चत्वारिंशद्वृत्तमयेऽस्मिन् स्तोत्रेः तैर्विविधान् दृष्टिकोणानुपयुज्य महादेवस्य स्तुतिर्विहिताऽस्ति । (अस्य स्तोत्रस्य विशेषपरिचयस्त्वस्मिन्नेव ग्रन्थेऽन्यत्र प्रदत्तोऽस्ति ।)
अथाऽऽचार्याणां मुख्यसाहित्यसृष्टेः परिचयोऽत्र प्रदत्तोऽस्ति । अन्येऽपि तेषां वेदाङ्कशादयो ग्रन्थाः सन्ति, किन्तु विस्तरभयादत्र नाऽत्र परिचायिताः ।।
विद्वांसो हि महाभारतकारान् व्यासमहर्षीन् तेषां विशालग्रन्थरचनदृष्ट्या सर्वश्रेष्ठग्रन्थकारतया मन्यन्ते, तेषां च सर्वग्राहित्वं दर्शयितुं 'व्यासोच्छिष्टं जगत् सर्वम्' इति समुद्घोषयन्ति । एवमेवाऽत्राऽऽचार्याणां विशालकायं विपुलग्रन्थसमूहं दृष्ट्वा यदि “हेमोच्छिष्टं तु साहित्यम्" इति कथयेम तदा नाऽत्युक्तिः । तेषां साहित्यस्य वास्तविकं मूल्यं विविधता सर्वदेशीयता च स्तः । तैहि न काऽपि विद्याशाखोपेक्षिता प्रत्युत विशिष्टतया सेवितैव । तेषां प्रतिभा सार्वत्रिकी, अध्ययनं परिपूर्णं, विषयसंशोधनं च सर्वावयवि वर्तते । तेषां सङ्ग्राहकताऽप्यनन्यसाधारणाऽनुपमेया चाऽस्ति । तेषां साहित्ये तत्तद्विषसम्बन्धिनां तत्कालज्ञातानां च प्रायः सर्वेषामपि ग्रन्थानामुद्धरणानि सन्ति । अस्मिन् क्षेत्रे तेषां प्रतिस्पर्धी न कोऽप्यस्ति । अथैवं सत्यपि तेषां मौलिकताऽक्षुण्णैव वर्तत इति तु महाश्चर्यजनकम् । अस्तु ॥
सदा हृदि वहेम श्रीहेमसूरेः सरस्वतीम् । सुवत्या शब्दरत्नानि ताम्रपर्णी जिता यया ।।
(कीर्तिकौमुद्यां महाकविः सोमेश्वरभट्टः)