________________
श्रीहेमचन्दाचार्याणां काव्यसृष्टिः मुनिकल्याणकीर्तिविजयः
अत्र श्रीहेमचन्द्राचार्यविरचितेभ्यो ग्रन्थेभ्यः कानिचन काव्यानि तेषां सुधावर्षिण्या वाण्याः प्रासादिकत्वं, माधुर्य, गौरवं, सामग्रयेण च प्रतिभामास्वादयितुं प्रस्तुतानि ।
मात्रयाऽप्यधिकं किञ्चिन्न सहन्ते जिगीषवः । इतीव त्वं धरानाथ ! धारानाथमपाकृथाः ॥१॥ क्षुण्णाः क्षोणिभृतामनेककटका भग्नाऽथ धारा ततः कुण्ठः सिद्धपतेः कृपाण इति रे मा मंसत क्षत्रियाः !। आरूढप्रबलप्रतापदहनः सम्प्राप्तधारश्चिरात् । पीत्वा मालवयोषिदश्रुसलिलं हन्ताऽयमेधिष्यते ॥२॥ (सिद्धहेमशब्दानुशासनप्रशस्तौ) अकृत्रिमस्वादुपदां परमार्थाभिधायिनीम् । सर्वभाषापरिणतां जैनी वाचमुपास्महे || (काव्यानुशासनमङ्गलश्लोकः) न धर्महेतुर्विहिताऽपि हिंसा, नोत्सृष्टमन्यार्थमपोद्यते च । स्वपुत्रघातान्नृपतित्वलिप्सासब्रह्मचारि स्फुरितं परेषाम् ॥१॥ प्रतिक्षणोत्पाद-विनाशयोगि-स्थिरैकमध्यक्षमपीक्षमाणः । जिन ! त्वदाज्ञामवमन्यते यः, स वातकी नाथ ! पिशाचकी वा ॥२॥
(अन्ययोगव्यवच्छेदद्वात्रिंशिकायाम्) (भगवद्भक्तिः-वीतरागस्तवे)
अनाहूतसहायस्त्वं त्वमकारणवत्सलः । अनभ्यथितसाधुस्त्वं त्वमसम्बन्धबान्धवः ॥१॥ अनक्तस्निग्धमनसममजोज्ज्वलवाक्पथम् । अधौतामलशीलं त्वां शरण्यं शरणं श्रये ॥२।। अभवाय महेशायाऽगदाय नरकच्छिदे । अराजसाय ब्रह्मणे कस्मैचिद् भवते नमः ॥३॥