________________
यदुक्तं तैरेव स्वविरचित - प्रमाणमीमांसाग्रन्थस्य टीकाया आरम्भे " अनादय एवैता विद्याः सङ्क्षेपविस्तार- विवक्षया नवनवीभवन्ति, तत्तत्कर्तृकाश्चोच्यन्ते ।"
एतन्मतेन यदि हेमचन्द्राचार्यविरचितग्रन्थानामेव परीक्षणं क्रियेत तदा तेषां मौलिकत्वमपूर्वत्वं चाऽक्षुण्णमेव सर्वथा । ततश्चाऽऽचार्याणां प्रतिभा साहित्यसर्जकत्वं चाऽप्यक्षुण्णमेव ।
अस्तु, प्रकृतं प्रस्तुमः । अत्रैकैकशस्तेषां ग्रन्थानां परिचयः प्रदत्तोऽस्ति ।
१. सिद्धहेमशब्दानुशासनम् (सिद्धहेमव्याकरणम् ) हेमचन्द्राचार्येभ्यः पूर्वं वर्तमानेषु व्याकरणेषु विस्तारः, काठिन्यं, क्रमभङ्ग आनुवृत्तिबाहुल्यं चेत्यादयो दोषाः सन्ति । तन्निवारणार्थं ह्याचार्यैः स्वपूर्ववर्तिव्याकरणानां सम्यग्ध्ययनं कृतम् । ततश्चैकं सर्वाङ्गपरिपूर्णमुपयोगि निर्दोषं च व्याकरणं विरचितम् । तदभिधानं च नृपस्य सिद्धराजजयसिंहस्य स्वस्य च नाम्नोऽर्धं भागं गृहीत्वा सिद्धहेमशब्दानुशासनमिति कृतम् । अत्र व्याकरणे तैः पूर्ववर्तिव्याकरणानां बहूनि सूत्राण्युदाहरणानि च यथातथमेवाऽत्र गृहीतानि सन्ति, किन्त्वेतावताऽपि तेषां निबन्धनक्रमवैशिष्ट्यं सर्वथा मौलिकमपूर्वं च । तथा बहुत्र तैः सूत्राणां भावमवगम्य ततो नूतनान्येव सूत्राणि विरचितानि । किन्तु सर्वाण्यपि सूत्राणि सुव्यवस्थितानि सुसम्बद्धानि च । तथा सूत्राणां प्रणयनमप्यावश्यकतानुरूपं कृतमस्ति । एकमपि सूत्रं तादृशं नास्ति यस्य कार्यमन्येन सूत्रेण क्रियेत । एवं च तेषां मौलिकता प्रतिभासम्पन्नता च सर्वथाऽक्षुण्णा वर्तते ।
-
किञ्च, पाणिनीयाऽष्टाध्यायी ह्यतीव विस्तृता दुर्बोधा च । तथा सा प्रक्रियानुसारिण्यपि नास्ति । इतरपक्षे कातन्त्रं व्याकरणं यद्यपि प्रक्रियानुसारि तथाऽपि परिपूर्णं नास्ति । अतो हेमचन्द्राचार्यैः कातन्त्रस्य प्रक्रियानुसारिणी परम्परा पुनरुज्जीविता, तथा पाणिनीयव्याकरणापेक्षया लघु स्पष्टं च, कातन्त्रापेक्षया च सर्वाङ्गपरिपूर्णं व्याकरणं विरचय्य व्याकरणक्षेत्रे नूतनस्य हेमसम्प्रदायस्य निर्माणं कृतम् । व्याकरणस्य साधारणबोधवानपि विद्यार्थी तेषां व्याकरणं सरलतया हृदयङ्गमं कर्तुं शक्नोति, संस्कृतभाषायाश्चसमस्तशब्दानामनुशासने पारङ्गतो भवति ।
अनेन परवर्तिनो वैयाकरणास्तथा प्रभाविता जाता यथा पाणिनीयवैयाकरणा अपि अष्टाध्याय्या अध्ययनमध्यापनं च प्रक्रियानुसारेणैव कर्तुमारब्धाः । षोडशशताब्द्या अनन्तरं (भट्टोजीदीक्षितेन सिद्धान्तकौमुदीप्रणयनानन्तरं) तु सर्वत्राऽपि प्रक्रियानुसारेणैव पाणिनीयव्याकरणस्य पठन-पाठनं भवति । सूत्रपाठक्रमानुसार्यध्ययनादि तु प्रायश उच्छिन्नमेव ।
आचार्यैर्हि व्याकरणेन सहैव तस्य लघुवृत्तिर्बृहद्वृत्तिर्बृहन्यासश्च विरचिताः । तथा उणादिसूत्राणि तद्विवरणं, धातुपाठो, धातुपारायणं तद्विवरणं, व्याकरणगतोदाहरणानां सिद्ध्यर्थं च द्वयाश्रयं महाकाव्यं चेति सर्वाण्यपि तदङ्गानि स्वयमेव विरचय्य पाणिनेः पतञ्जलेर्भट्टोजीदीक्षितस्य भट्टेश्च कार्याणि एकलेनैव कृतानि ।
अथ च पाणिनिमनुसृत्य हेमचन्द्राचार्यैरपि स्वीयव्याकरणमष्टस्वध्यायेषु विभक्तमस्ति । तत्र
८५