________________
कलिकालसर्वज्ञानां श्रीहेमचन्द्राचार्याणां प्रमुखसाहित्यसृष्टिः
मुनिकल्याणकीर्तिविजयः
स्वीयं कलिकालसर्वज्ञत्वं प्रमाणीकर्तुं हेमचन्द्राचार्यैर्या साहित्यसृष्टिर्विद्वज्जगते उपायनीकृताऽस्ति तस्याः परिचयोऽत्र प्रस्तुतोऽस्ति । तेषां कुशाग्रप्रज्ञया सार्वत्रिकप्रतिभया च प्रायः सर्वेऽपि विषयाः ससाफल्यमवगाहिताः सन्ति । तेषां समकालीना महाविद्वांस आचार्या श्रीसोमप्रभसूरयस्तेषां ग्रन्थसृष्टेर्नामानि लिखन्ति यथा -
व्याकरणं पञ्चाङ्ग, प्रमाणशास्त्रं प्रमाणमीमांसा । छन्दोऽलङ्कृति-चूडामणि च शास्त्रेविभुर्व्यधित ॥१॥ एकार्थाऽनेकार्था, देश्या निघण्टुरिति च चत्वारः । विहिताश्च नामकोशाः, शुचिकवितानद्युपाध्यायाः ॥२॥
त्र्युत्तरषष्टिशलाकानरेतिवृत्तं गृहिव्रतविचारे । अध्यात्मयोगशास्त्रं विदधे जगदुपकृतिविधित्सुः ॥३॥ लक्षण - साहित्यगुणं, विदधे च द्वयाश्रयं महाकाव्यम् । चक्रे विंशतिमुच्चैः, स वीतरागस्तवानां च ||४||
इति तद्विहितग्रन्थसङ्ख्यैव नहि विद्यते ।
नामाऽपि न विदन्त्येषां मादृशा मन्दमेधसः ||५||
एतेन तेषां विशिष्टाप्रतिभायाः सूक्ष्मदर्शित्वस्य सर्वदिग्गामिपाण्डित्यस्य बहुश्रुतत्वस्य च परिचयः
प्राप्यते ।
यद्यपि, केचन विद्वांसो मन्यन्ते - यो हि मौलिकमपूर्वं च विरचयति स एव प्रतिभासम्पन्न इति कथ्येत साहित्यसर्जकत्वं च तस्यैव परिगणनार्हम् । हेमचन्द्राचार्यैर्हि पूर्वसाहित्यस्रष्टृणां ग्रन्थानुपयुज्यैव प्रायश: स्वग्रन्था विनिर्मिता । अतस्तेषामपूर्वत्वं मौलिकत्वं च नास्ति ।
तथाऽपि, मौलिकतामपूर्वतां चाऽधिकृत्य हेमचन्द्राचार्याणां मतं किञ्चिदपूर्वमेव । ते कथयन्ति यत् 'कोऽपि साहित्यस्रष्टा सर्वथा नूतनं वस्तु विरचयितुं न कदाऽपि समर्थः, पूर्वसूरीणां साहित्यं तेनाऽवलम्बनीयमेव । केवलं तस्य विकासो विकासस्य च शैली सर्वेषां भिन्ना
नूतना वा भवति' ।
८४
-