SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ५. देवचन्द्रगणिः अनेन विदुषा नाटकद्वयं लिखितमस्ति । तत्र चन्द्रलेखाविजयप्रकरणनाटके कुमारपालस्य शाकम्भरीजयो वर्णितोऽस्ति । द्वितीये च मानमुद्राभञ्जकनाटके सनत्कुमार-विलासवत्यो-श्चित्रणमस्ति । ६. उदयचन्द्रगणिः अस्य विदुषो न कोऽपि ग्रन्थः प्राप्यते, किन्त्वस्य व्याकरणविषयको बोधोऽतीव स्पष्टः सूक्ष्मदर्शी चाऽऽसीत् । तस्य प्रेरणयाऽऽचार्यदेवेन्द्रसूरिणा सिद्धहेमबृहद्वृत्तेः कतिचिदुर्ग-पदव्याख्या नाम टीका, उपमितिभवप्रपञ्चाकथासारोद्धारः इत्याख्यो ग्रन्थश्च विरचितौ । तथा, आचार्यदेवेन्द्रसूरिशिष्येण कनकप्रभेण हैमन्याससारसमद्धारो विरचितोऽस्ति । ७. यशश्चन्द्रगणिः अस्याऽपि विदुषो न कोऽपि ग्रन्थः प्राप्यते । किन्तु ज्योतिर्विद्याया अङ्गविद्यायाश्चाऽध्येताऽयं मन्त्रवाद्यप्यासीदिति प्रबन्धग्रन्थेभ्यो ज्ञायते । अन्यान्येषु प्रधानकार्येषु हेमचन्द्राचार्याणां सहकारित्वमस्यैवाऽऽसीत् । ८. मुनिबालचन्द्रः ___ महत्त्वाकाङ्क्षी मुनिरयं यद्यपि विद्वानासीत् तथाऽपि गुरुद्रोहं गुरुभ्रातृद्रोहं च कृत्वा सर्वत्र लघुतां च प्राप्य मालवदेशं गतवान् तत्रैव च मरणं प्राप्तवान् । जैनसङ्केतीव प्रचलिता स्नातस्या-इत्याद्यपदप्रसिद्धा वर्धमानस्वामिस्तुतिरनेनैव विरचितेति सम्भाव्यते । अन्यदा श्रीकुमारपालनृपपुरतः श्रीयोगशास्त्रव्याख्याने सञ्जायमाने पञ्चदशकर्मादानेषु वाच्यमानेषु ‘दन्त-केश-नखास्थि-त्वग्-रोम्णां ग्रहणमाकरे' इति सूरिकृते पाठे पं. उदयचन्द्रगणिनं 'रोम्णो ग्रहण'मिति भूयो भूयो वाचयन्तं प्रभुभिलिपिभेदं पृष्टे स 'प्राणि-तूर्याङ्गाणाम्' इति व्याकरणसूत्रेण प्राण्यङ्गानां सिद्धमेकत्वमिति लक्षणविशेषं विज्ञपयन् प्रभुभिः श्लाघितो राज्ञा न्युञ्छनेन सम्भावितः । (प्रबन्धचिन्तामणिः) ८३
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy