SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ - ऋते रामान्नाऽन्यः किमुत परकोटौ घटयितुं रसान्नाट्यप्राणान् पटुरिति वितर्को मनसि मे ।। (नलविलासे) - प्रबन्धा इक्षुवत् प्रायो, हीयमानरसाः क्रमात् । कृतिस्तु रामचन्द्रस्य, सर्वा स्वादुः पुरः पुरः ॥ (कौमुदीमित्राणन्दे) स्वातन्त्र्यप्रियताऽपि तस्य विशिष्टमप्रतिमं च लक्षणम् । एतदर्थं तेन प्रदर्शिता उद्दामभावना अद्याऽपि प्रस्तुता एव । स्वीयकृतिष्वपि तेन यथासम्भवं स्वातन्त्र्यं मौलिकत्वं च प्रकटितमस्ति । कानिचिदुदाहरणानि पश्यामः स्वतन्त्रो देव ! भूयासं, सारमेयोऽपि वर्त्मनि । मा स्म भुवं परायत्तस्त्रिलोकस्याऽपि नायकः ॥ - सूक्तयो रामचन्द्रस्य, वसन्तः कलगीतयः ।। स्वातन्त्र्यमिष्टयोगश्च, पञ्चैते हर्षवृष्टयः ॥ (सत्यहरिश्चन्द्रनाटके) - स्वातन्त्र्यं यदि जीवितावधि, मुधा स्वर्भूर्भुवो वैभवम् ॥ (नलविलासे, २-२) - न स्वतन्त्रो व्यथां वेत्ति, परतन्त्रस्य देहिनः ॥ (नलविलासे ६-७) - अजातगणनाः समाः परमतः स्वतन्त्रो भव ॥ (नलविलासे प्रान्ते) - प्राप्य स्वातन्त्र्यलक्ष्मीमनुभवतु मुदं शाश्वती भीमसेनः ॥ (निर्भयभीमव्यायोगे) एतादृशविलक्षणप्रतिभावतोऽस्य कवेर्मरणं स्वगुरुभ्रातुर्बालचन्द्रस्येjया कुमारपालान्वये जातस्याऽजयपालनृपस्य द्वेषाद् बभूव । २. मुनिगुणचन्द्रः अनेन विदुषाऽऽचार्यरामचन्द्रसूरिणा सह नाट्यदर्पणं द्रव्यालङ्कारश्चेति ग्रन्थद्वयं सवृत्तिकं विरचितम् । तथा स्वस्याऽन्याभ्यां गुरुभ्रातृभ्यामाचार्यमहेन्द्रसरि-वर्धमानगणिभ्यां सहाऽऽचार्यसोमप्रभसूरिविरचितः कुमारपालप्रतिबोधग्रन्थः साद्यन्तः श्रुतः संशोधितश्च । ३. आचार्यमहेन्द्रसूरिः अनेन विदुषा स्वगुरुरचिताऽनेकार्थसङ्ग्रहोपरि अनेकार्थकैरवाकरकौमुदी नाम टीका वैक्रमे १२४१तमे संवति लिखिताऽस्ति । ४. वर्धमानगणिः कुमारविहारप्रशस्तेर्व्याख्यां निर्मायाऽनेन विदुषा तस्या एकस्य पद्यस्य षोडशाधिकशतमर्थान् लिखित्वा स्वीयमद्भुतं पाण्डित्यं प्रकटितमस्ति । यद् वदति स्वयमेव सः - "श्रीहेमचन्द्रसूरिशिष्येण वर्धमानगणिना कुमारविहारप्रशस्तौ काव्येऽमुष्मिन् पूर्वं षडर्थे कृतेऽपि कौतुकात् षोडशोत्तरं व्याख्यानं चक्रे ॥"
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy