SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ मित्राणन्दं, यादवाभ्युदयं चेति एकादश नाटकानि विरचितानि; सुधाकलश: इतिनाम्ना च सुभाषितकोशो विरचितोऽस्ति । स्वगुरुभ्रात्रा गुणचन्द्रेण सह तेन नाट्यदर्पणं नामा नाट्यशास्त्रग्रन्थोऽपि विरचितोऽस्ति तथा द्रव्यालङ्कारनामा तर्कशास्त्रग्रन्थोऽपि रचितः । ग्रन्थद्वयमपि स्वचितवृत्त्यलङ्कृतमेव राजते । एतदतिरिच्य तेन सिद्धहेमव्याकरणस्य बृहद्वत्तेासोऽपि विरचितोऽस्ति । तथाऽन्यान्यपि कुमारविहार-शतकम्, उदयनविहारप्रशस्तिः, ऋषभद्वात्रिंशिका-प्रभृतीनि काव्यानि च विरचितानि सन्ति । तत्समकालीनानां सर्वेषामपि विदुषां साहित्यतोऽस्य साहित्यप्रवृत्तिरधिकाऽस्ति, विशाला विविधाऽपि चाऽस्ति । गूर्जरदेशस्य विद्वद्भिः प्रायो द्वाविंशतिर्नाटकानि विरचितानि, किन्तु तेषामेकादश नाटकानि श्रीरामचन्द्रसूरिणा रचितानि । गूर्जरदेशस्य भारतस्य च संस्कृतसाहित्यक्षेत्रे तस्य प्रदानं वैविध्यपूर्ण श्रेष्ठगुणवत्तायुत्तं चाऽस्ति । तद्विरचितस्य सत्यहरिश्चन्द्रनाटकस्य इटलीदेशीयभाषायां रूपान्तरमपि सञ्जातम् (ई. सं. १९१३) । एवं सत्यपि तस्य मुख्यप्रदानं तु नाट्यशास्त्रे एवाऽस्ति । यतो नाट्यशास्त्रस्य ग्रन्था एव अत्यल्पाः सन्ति । तेषां च रामचन्द्रसूरेर्नाट्यदर्पणं वैशिष्ट्ययुतमस्ति । विविधविषयकान्युदाहरणानि प्रस्तोतुं तेन चतुश्चत्वारिंशतो नाटकेभ्योऽवतरणानि सन्दृब्धानि । तदुल्लिखितनाटकानां कानिचन त्वद्याऽप्राप्याणि । यथा विशाखदत्तरचितं देवीचन्द्रगुप्तनाटकं न प्राप्यतेऽद्य । किन्तु तस्य बहून्यवतरणानि नाट्यदर्पणे विद्यन्ते । तैश्च मौर्यकालीनेतिहासस्य बहूनि तथ्यानि प्रकटीभवन्ति । किञ्च नाट्यदर्पणे तेन रसशास्त्रमभिनयकलां चाऽऽश्रित्य कानिचन महत्त्वपूर्णानि तादात्विकरूढिभञ्जकानि च विधानानि कृतानि । अथ च पश्चात्कालीनग्रन्थेषु तस्य प्रसिद्धिः प्रबन्धशतकर्तृतया कृताऽस्ति साहित्यकारैः । स स्वयमपि स्वीयग्रन्थे विशेषणमिदं स्वकृते प्रयुनक्ति, यथा"श्रीमदाचार्यहेमचन्द्रशिष्यस्य प्रबन्धशतकर्तृमहाकवे रामचन्द्रस्य भूयांस: प्रबन्धाः ॥" (निर्भयभीमव्यायोगः, प्रस्तावनायाम्) तथा "इति श्रीमदाचार्यहेमचन्द्रस्य शिष्येण प्रबन्धशतविधाननिष्णातबुद्धिना नाट्यलक्षणनिर्माणपातावगाढसाहित्याम्भोनिधिना विशीर्णकाव्यनिर्माणतन्द्रेण श्रीमता रामचन्द्रेण विरचितं..... द्वितीयं रूपकम् ॥" (कौमुदीमित्राणन्दे) किन्तु प्रबन्धशतनामा ग्रन्थो न प्राप्यते नाऽपि च शतं प्रबन्धाः प्राप्यन्तेऽद्य ।। स्वभावेन स स्वातन्त्र्यप्रियो मानी च । स्वकृते स विविधानि विशेषणानि प्रयुङ्क्ते आत्मश्लाघां चाऽपि कुरुते, यथा - कविः काव्ये रामः सरसवचसामेकवसतिः । (नलविलासे) - पञ्चप्रबन्धमिषपञ्चमुखानकेन, विद्वन्मनःसदसि नृत्यति यस्य कीर्तिः । विद्यात्रयीचणमचुम्बितकाव्यतन्द्रं कस्तं न वेद सुकृती किल रामचन्द्रम् ॥ (रघुविलासे) * ग्रन्थाग्रं - ५३०००श्लोकप्रमाणम् ।
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy