SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ जनः अयं तया नागकन्यया निगडितः तस्याः पाशेन । तस्य गमनात् परं तया निःसङ्गता अनुभूता । गृहस्य अन्तरतमः जनः गृहात् बहिः निर्गतः । कः वा अपराधः तस्या: ? दिनं दिनं तं प्रतीक्षते स्म सः अपराधः वा तस्या: ? शरीरम् अस्वस्थं चेत् आरात्रि जागरणेन सेवा कृता, सः अपराधो वा ? शिशूनां कृते किमपि क्रेतुं भोजयितुं वदति स्म सः अपराधो वा ? कः तस्याः अपराधः ? ममता स्वयं न जानाति स्म । परिस्थिति सम्भालयितुं बहूनि दिनानि अतीतानि । तथा वयः अपि न जातम् । त्रिंशद्वर्षीया युवति: । द्वौ लघुशिशू । विशालः संसारः । कियन्तः लोकाः कियन्तः, सम्मर्दाः, कियत्यः समस्याः। अस्याम् अवस्थायां तया हताशा एव सम्मुखीकृता । I अरक्षितं तिष्ठति दैवरक्षितम् इति न्यायेन एकदा निरञ्जनबाबुः आगतवान् ममताया: समीपम् । सः महेशस्य उपरितन: अधिकारी घटनां श्रुत्वा सः दुःखं विज्ञाप्य सहयोगार्थं प्रतिश्रुतिबद्धः जातः । अवदत् च जीवने जीवितुं जीवयितुं च संग्रामस्य आवश्यकता वर्तते । असीमं धैर्य साहसं च धारयतु । बालद्वयस्य प्रगत्या एव भवत्याः दुःखं गमिष्यति । एतदर्थम् अस्माकं कार्यालयपक्षतः कस्य अपि साधारणसहयोगस्य आवश्यकता भविष्यति चेत् अवश्यं साधयिष्यामि । गभीरे सागरे निमज्जन्ती ममता कूलं प्राप्तवती । पूर्वम् एव मातृप्रदत्तं सीवनयन्त्रम् एकम् आसीत् । मात्रा शिक्षितम् आसीत् एव सीवनादिकम् । तयापि तदा वयनादिकम् अपि शिक्षितम् आसीत् । ताम् अभिज्ञताम् अधुना सा कार्ये प्रयुक्तवती गृहे सा सीवनयन्त्रं संस्थाप्य प्रतिवेशिनां कार्याणि स्वीकृतवती । गृहे शिशुद्वयम् । अत: गृहात् बहिः अगत्वा गृहे एव सीवनापणं प्रारब्धवती । प्रथमतः कानिचित् दिनानि कार्यं कृत्वा एका सहकर्मिणी नियोजिता । क्रमशः कार्यं वर्धितम् । तेन सह दायित्वम् अपि । बालौ विद्यालयं गतौ । ममताया: व्यवसाय: वर्द्धितः । निरञ्जनबाबो: सहयोगेन जिल्लाशिल्पकेन्द्रात् ऋणं स्वीकृत्य सीवनयन्त्रचतुष्टयं स्वीकृत्य जनान् नियोजितवती । अधुना तस्या: सीवनापण: सम्यक् प्रचलति । यदा कदा आगच्छति निरञ्जनबाबुः । साहाय्यं करोति, सहानुभूतिं प्रदर्शयति । उपदिशति - चरैवेति चरैवेति । पृष्ठतः मा पश्यतु । कष्टं प्राप्स्यति । भवतः उपकारः अविस्मरणीयः । कथं निर्यातनं भविष्यति अस्य स्नेह ऋणस्य । ममता वदति । - वयं सर्वे मायाबन्धनेन बद्धाः परस्परं भावयन्तः भवामः । नो चेत् कथं सरिष्यति संसारः । आम्, कथनीयम् आसीत् यत् महेशः अत्र नास्ति । तां कन्यकां नीत्वा कोलकातां पलायितः । सर्व श्रुत्वा अपि ममता किमपि नोक्तवती । समय: स्वीयगत्या गच्छति । वयसः वृद्धया सह ममताया: दायित्वबोधः अपि वर्द्धितः । पुत्रः अंशुमान् अधुना छात्रवृत्ति स्वीकृत्य यन्त्रविद्यां पठति । कन्या पठति महाविद्यालये विज्ञानम् अधिकृत्य । १२१ — -
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy