________________
ममता सर्वम् अपि भगवतः उपरि अत्यजत् । मध्ये मध्ये सीवनकार्ये मातरं सहयोगं करोति अनामिका । अधुना ममता सीवनशिक्षाकेन्द्रं चालयति । तदर्थम् एकं गृहं निर्मितवती । अन्या कन्यकाः अपि आगच्छन्ति प्रशिक्षणार्थम् । तद्दिनमासीत्- यदा ते वारद्वयम् अपि भोजनं न अलभन्त । अधुना परिस्थितिः परिवर्त्तिता । सा पुत्रं कन्यकां च स्नेहेन पालितवती । मध्ये मध्ये अंशुमान् पृच्छति - मातः ! भवत्याः तु कोऽपि दोषः नास्ति, तथापि पिता त्यक्तवान् किमर्थम् ? ममता उदतरत् - तत्सर्वं समयः वदिष्यति । मम चिन्ता तु वर्तते, भवान् कथम् उत्तीर्णः भूत्वा नियुक्ति प्राप्स्यति । अग्रे अंशुमान् किमपि न वदति, यतो हि सः जानाति, अधिकप्रश्नेन माता दुःखं प्राप्स्यति ।
कदाचित् परिश्रान्तायाः तस्याः मनः शरीरं च विश्रामम् इच्छतः । तदा तस्याः पूर्वस्मृतयः समक्षम् आगच्छन्ति । विवाहात् परम् आद्यवर्षाणि आसन् अनन्तसम्भावनानाम् आशानां च वर्षाणि । महेशः तस्य कथां कथयति, तस्य कोम्पान्याः कथां वदति, कथयति तस्य अनुभवान् । विपणनाधिकारी इति तस्य बहुवारं बहिर्गमनम् आपतति स्म । तदा दुःखेन वदति स्म महेशः ।
- मम प्रोन्नतेः परं बर्हिगमनं न भविष्यति । तदा तव पार्वे एव भविष्यामि, कार्यालयगमनसमयं विहाय ।
___ - भवतु, भगवन्तं प्रार्थय, शीघ्रं प्रोन्नतिः भवतु । हसन्ती अवदत् ममता । क्व गताः ते दिवसा:? सहसा व्यग्रा भवति ममता, अनामिका महाविद्यालयात् आगमिष्यति, तस्याः कृते अल्पाहारः सज्जीकर्तव्यः । समेषाम् अपि भावनानाम् अन्तः भवति ।
सर्वमपि सुखेन चलति । हठात् प्रातः समागतः निरञ्जनबाबुः । स्नानं समाप्य मन्दिरगमनार्थं सज्जीभवति स्म ममता । गृहे एव अनामिका इतस्ततः भवति । एतावता निरञ्जनबाबुः तस्याः शुभचिन्तकेन परिणतः आसीत् । अतः ममतायाः गृहद्वारं तदर्थं सदा उन्मुक्तं तिष्ठति । तं दृष्ट्वा पृष्टवती ममता -
- श्रीमन्, भवान् प्रातः एव... । किञ्चित् उपविशतु श्रीमन् ! अहं तावता पूजां निर्वतयानि ?
- अद्य काचित् शुभवेला, यतो हि मम आगमनसमये भवती पूजार्थं मन्दिरं निर्गच्छन्ती अस्ति । एवम् उक्त्वा स्वकोषात् द्वित्राणि भावचित्राणि निष्कास्य प्रदर्शितवान् ।
- किमेतत् श्रीमन् ? अहं बोद्धं न प्रभवामि । - किं वयः अनामिकायाः ? निरञ्जनमहोदयः हसन् अपृच्छत् । - अधुना विंशतिः प्रचलति.... । - भवती कस्मिन् वयसि विवाहिता ? - अष्टादशे श्रीमन् ! अविचिन्त्य उक्तवती ममता ।
१२२