________________
वात्यासारः
कथा
ओडिआमूलम् - श्रीचन्द्रशेखरदासवर्मा अनुवादकः - डॉ. नारायणदाशः
बहुवारं स्मृतेर्वातायनानि उन्मोचितानि भवन्ति । वृष्टिसिक्ते गभीरनिशीथे, शिशिरार्दै प्रातःकाले, रौद्रातपाञ्चिते सुमध्याह्ने ममताया मनोभूमि सहसा प्रविशति महेशः । मुहूर्तं यावत् चञ्चला भवति ममता । तत: संज्ञां प्राप्नोति सा । महेशस्य गमनात् परं बहूनि वर्षाणि अतीतानि । पुरातन-स्मृतिततिस्तां विचालयति, पीडयति । शिशूनां कोमलमुखानि दृष्ट्वा सर्वं विस्मर्तुम् इच्छति सा । त एव तस्या विश्वासास्पदानि । तथापि रात्रावेकलशयनसमये मनसि आगच्छति तस्याः कालरात्रेः कथा । ।
तदा विवाहात् परं पञ्च वर्षाणि एवाऽतीतानि । वैवाहिकजीवने महेशस्तस्यै प्राददात् अशेषतृप्ति विशेषानन्दं च । पुरस्काररूपेण अयच्छत् अमूल्यरत्नद्वयम् - अंशुमन्तम् अनामिकां च । शिशुद्वयं पितेव सौम्यदर्शनम् । सुखेनाऽऽनन्देन च परिपूर्णे तस्याः परिवारे हठात् आविर्भूता श्यामली । श्यामली कार्यालये महेशस्य सहकर्मिणी । वर्षद्वयात् सम्पर्कः । तेन सम्पर्केण महेशो विस्मरति आत्मानं, स्वपरिवेशं, स्वीयां रूपवती पत्नीं ममताम् । अस्मिन् विषये इतस्ततो बहुवारं श्रुत्वा एकदा रात्रावन्ततः पृष्टवती महेशम्......।
- यदहं शृणोमि, तत्सत्यं वा... ? - अपि त्वं श्यामलीविषये वदसि ? आम्, तया सह मम अतिनिविडसम्पर्कः वर्तते । - किं दम्पत्योः पवित्रसम्बन्धात् अपि ? पृष्टवती ममता ।
- आम्, तस्यै प्रतिश्रुतवान्, आवां विवाहपञ्जीकरणं करिष्यावः इति । परन्तु विवाहविच्छेदपत्रके भवत्या हस्ताक्षरात् परम् ।
सहसा गृहमध्ये अप्रत्याशितभावेन विस्फोरणम् अभवत् । एवं श्रोष्यति इति कदापि न कल्पितवती ममता ।
- त्वं निस्सर इतः, अस्मात् गृहात्, अस्मिन् मुहूर्ते । – तथा दोषम् अपि न करिष्यामि, यतो हि अत्र यथा तव अधिकारः तथा मम अपि ।
- तर्हि म्रियस्व अत्र एव, अहं निर्गच्छामि । तदा मध्येरात्रम् एव महेशः स्वीयद्रव्याणि धृत्वा निर्गतः, न कदापि प्रत्यागतः ।
१२०