SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ पत्रमेकम् शासनसम्राजां परमगुरुभगवतां श्रीविजयनेमिसूरीश्वराणां शिष्येष्वन्यतमा आसन् आचार्यवर्याः श्रीविजयलावण्यसूरीश्वराः । ते हि तर्क-व्याकरण-साहित्यादीनां पारगामिणो बहून् ग्रन्थान् बहूंश्च टीकाग्रन्थान् विरचितवन्तः । किं बहुना ? कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितः सिद्धहेमव्याकरणस्य बहन्न्यासोऽद्यत्वेऽत्यल्पप्रमाणः प्राप्यते, तस्य च विशालस्त्रुटितो भाग एतैः श्रीविजयलावण्यसूरीश्वरैः स्वप्रज्ञया पूरितः। ते हि यदा मुन्यवस्थायामासन् तदा राजस्थानस्य सोजतनगरात् प्रायो वैक्रमे १९८४ तमे संवति तैलिखितमिदं पत्रं स्वगुरुभगवद्भयः शासनसम्राड्भ्यः । अत्र पत्रे तेषां छन्दोऽलङ्कारादीनां विशदं ज्ञानं काव्यविरचनसामर्थ्यं च विलोक्यते ।
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy