SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ ॥११॥ ફરો રૂ ते भव्यानां भववनमहोदन्वतस्तारयन्ति स्वं शान्ताद्यैः सकलसुरसैर्भाषितं धारयन्ति ॥ विद्राव्यान्तर्भवकुविषयान् सर्वदोत्सारयन्ति ये त्वत्स्तुत्या स्वहृदमनिशं भक्तितः पारयन्ति तेऽद्रिप्रायानपि रिपुगणान् स्थानतश्चालयन्ति स्फीतं गीतं त्वतिशययशःपूरमास्फालयन्ति ॥ अंहःपडूं सततमिलितं स्वात्मनः क्षालयन्ति त्वद्भक्तौ ये सततमलसं चित्तमुत्तालयन्ति ते रागादीनतिरयरिपून सर्वतो ध्वंसयन्ति स्वान्तं शान्तं दमयमगुणैः सर्वदोत्तंसयन्ति ॥ कर्मवाताँश्चिरतरचितानाशु विसंसयन्ति ये त्वत्पादानभिनवनवैः सर्वदा शंसयन्ति ते सद्युक्तिप्रवरवचनैर्वादिनस्त्रासयन्ति वादित्रस्तान् सदसि विमुखान् सर्वदाऽऽश्वासयन्ति साधुस्स्वान्ताब्जवनमनिशं सर्वथोल्लासयन्ति ॥ ये त्वत्कीर्तीः कलुषहरणीः सर्वत: कासयन्ति ते भव्यानां भवभयवतां सव्रतं ग्राहयन्ति शोकाकीर्णानतिभयभरान्नित्यमुत्साहयन्ति ॥ दोषारण्यं तृणमिव तपस्तेजसा दाहयन्ति ये त्वद्भक्ति प्रगुणहृदयं कर्म निर्वाहयन्ति ते पापौघं तरुमिव परध्यानतस्तक्षयन्ति शास्त्रव्रातान्विततगहनान् बुद्धितो लक्षयन्ति ॥ सत्तूप्त्यर्थं शुभफलभरं निर्भरं भक्षयन्ति ये त्वद्भक्तौ भविकमनुजान् सर्वदा दक्षयन्ति ॥१६॥ इति श्रीविविधभयविभञ्जनसज्जनमनोऽनुरञ्जनकुजननिर्बीजगञ्जनसमस्तसहृदयशिरःश्लाघ्यसुशीलशीलितशरीरशोभस्वसौभाग्यसन्दोहसुभूषितभूतलविततगहनगम्भीरस्वपरसमयारण्यविविधविलासपञ्चाननायमानश्रीमद्विजयनेमिसूरीश्वराणां पादपद्मेन्दिन्दिरायमाणविनेययशोविरचितं श्रीपार्श्वस्य स्तुतिफलपशंसा स्तोत्रं समाप्तम् ॥
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy