SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ विचारशीलमनुष्यस्य जीवने तादृशः क्षण एकः समायात्येव यदा स क्षुद्रादपि क्षुद्रे जन्तावपि स्वस्मिन्निव चैतन्याविर्भावं लक्षयेत्, लक्षयित्वा च तं जन्तुं स्वतुल्यमेव मन्येत, तथा तस्य पीडायां स्वयमेव पीडामनुभवेत्, तन्नाशे च स्वनाशमेव भावयेत् । इदमस्ति सर्वजीवेष्वात्मौपम्यमिदमेव चाऽऽत्मौपम्यमस्ति जैनत्वम् । अस्मिन् जैनत्वे न कस्याऽपि सम्प्रदायविशेषस्याऽधिकारोऽस्ति किन्तु सर्वेषां कृतेऽस्त्येतत् । जैनत्वमेतद् यदा हृदये प्रकटति तदैव मनुष्यो जैनो भवेत्, नाऽन्यथा । कुमारपालमहाराजहृदयेऽपि जैनत्वं प्रकटीभूतमस्तीदम् । यदि वयमेतज्जैनत्वं - तात्त्विकं जैनत्वं व्यापार्य तत्प्रति किञ्चिद् भौतिकं प्राप्तमिच्छेम तदाऽस्मादृशः क्षुद्रो न कोऽपि स्यात्' । गुरोर्वाचि रामचन्द्राचार्यैरलौकिकं सत्त्वमनुभूतम् । तत्र वृथा साम्प्रदायिकोऽहङ्कारो नाऽऽसीत् प्रत्युत केवलं शुद्धतत्त्वमेव धर्मतया परिगणितमासीत् । रामचन्द्राचार्याणामितोऽप्यग्रे वक्तुं सामर्थ्यं नाऽऽसीत् तथाऽपि साहसमवलम्ब्य तैः कथितं - 'यद्येवं तहि प्रभो ! वयं जैनधर्मविस्तारस्याऽवसरं नाशयिष्यामः' । एवं श्रुत्वाऽऽचार्यैर्वेदनापूर्णस्वरेण कथितं - 'भवन्तः सर्वेऽपि राजानं जैनधर्मं प्रत्याकृष्टं दृष्ट्वा हृष्यन्ति । इदमेव मे महद् दुःखकारणम् । कश्चन दरिद्रो जैनधर्मं स्वीकुर्याद् राजा वा कश्चन जैनधर्म स्वीकुर्यादित्यत्र को वा विशेषः ? राजा कदाचित् बहूनि मन्दिराणि बध्नीयादित्येव किल ! । अपि च, यः कोऽपि कञ्चिद्धर्मं स्वीकुर्यात् - तेनाऽपि किम् ? स यदि तं धर्मं यथार्थरीत्याऽवबुध्य तदाचरणे निरतो भवेत् तदैव तेन स धर्मः स्वीकृत इति गण्येत । यदि भवादृशा अपि ईदृशमेव मतं धारयथ तदाऽहं मन्ये यद् राज्ञो व्यक्तित्वस्याऽन्यायो भवति । पूर्वस्य केनचिदलौकिकपुण्येन तस्य हृदये जगत: सर्वेषामपि जीवानां प्रति आत्मौपम्यं प्रकटितमस्ति । सर्वानपि सूक्ष्मस्थूलजीवान् स प्रेम-दया-करुणादिभावैः पश्यत्यधुना। तस्य वृत्तिरपि धर्मं प्रत्यधिकाधिकं प्रह्वीभूताऽस्ति । एतत् सर्वं दृष्ट्वाऽहं तद्भमिकोचितं धर्मं मागं च दर्शयन्नस्मि, किन्तु सहैव तं तस्य कुलधर्मपालनेऽपि प्रेरयामि राजधर्मं प्रत्यपि जागरयामि । यतः केवलमस्माकं धर्मः किञ्चिद् विस्तरेदित्यर्थं समग्रेऽपि देशे घर्षणमसामञ्जस्यं च प्रवर्तयेयमित्येतावान् क्षुद्रो नैवाऽहम् । यतो राज्ञे यदि धर्मो रुचितोऽस्ति तदाऽन्येषामपि राजपुरुषादिभ्यो धर्मो रुचित एवेत्येवं मनितुं न किमपि कारणम् । सर्वेभ्योऽपि धर्मं रोचयितुं सामर्थ्यमस्मत्समीपे तु नास्त्येव । अतोऽस्माभिः केवलं समन्वयस्य समाधानस्य च मार्गे एवाऽग्रेसर्तव्यम् । तदैवाऽस्माभिर्वीतरागजिनेश्वराणां मार्ग उपशमभावश्च सम्यगाराधितः - इति वक्तुं शक्येत' । गुरूणां हृदयगहनान्निःसृतानीमानि वचनानि श्रुत्वा रामचन्द्राचार्याः स्तब्धीभूताः । तैश्चिन्तितं - 'नूनं परमगुरूणां देवचन्द्रसूरीणां सर्वेऽपि योगाध्यात्मभाव-निःस्पृहतादिगुणाः पूज्यगुरुवर्यैर्यथार्थतया सात्मीभावमानीताः सन्ति' । ततः परं तैः कदाऽपि गुरुभ्य एतदर्थं न निवेदितम् । इतश्चैकदा कुमारपालेन गुरवो विज्ञप्ताः – 'प्रभो ! तादृशं किञ्चित् सत्कार्यं मे आदिशन्तु यत्करणेन मे पातकानि नश्येयुरात्मा पवित्रो भवेत्, मम नाम चाऽमरं भवेत्' । एवं विज्ञप्तेः श्रवणेन सर्वेऽपि सभासदश्चिन्तितवन्तः - 'नूनमेते जैनाचार्या अद्य राजानं जैनधर्मस्थानमेव निर्मातुमुपदेक्ष्यन्ति' । सर्वे तेषां ७०
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy