________________
रामचन्द्राचार्या अपि -
अपुत्राणां धनं गृह्णन् पुत्रो भवति पार्थिवः ।
त्वं तु सन्तोषतो मुञ्चन् सत्यं राजपितामहः ॥ इति तं स्तुवन्ति स्म । प्रजाकल्याणार्थं तेन विहितानामीदृशानां कार्याणां सर्वेऽपि जना हार्दा प्रशंसां कृतवन्तः । किन्तु बहवः सामन्ता राजपुरुषाश्च तं निर्बलहृदयं भीरुवृत्तिकं च मन्यन्ते स्म । एतच्च कुमारपालस्य ज्ञातमासीत् । अत एकदा राजपाट्यां व्रजन् स एकस्मिन् शस्त्राभ्यासक्षेत्रे सप्त कटाहान् क्रमशः उल्लम्बितान् दृष्ट्वा सहैव समागतान् सामन्तादीन् उद्दिश्य कथितवान् – 'किं कोऽप्यस्त्यत्र य एतान् सप्ताऽपि कटाहान् एकेनैवेषुणा समकमेव विध्यात् ?' तदा तैरुक्तं - 'प्रभो ! पूर्वं भवतः प्रपितामहो भीमदेवस्तन्महामात्यश्च विमलनामेति द्वावेवाऽऽस्तां यौ एतान् सप्ताऽपि कटाहान् स्वाप्रतिमबलेन विध्यतः स्मैकेनैवेषुणा । ततः परं न कोऽपि सञ्जातस्तादृशो बलवान् य एतत् कर्तुं समर्थो भवेत् । तदा कुमारपालेन समीपस्थसैनिकहस्तात् शर-धनुषी गृहीत्वा कथितं - ‘एवं वा? तहि पश्याम्यहं तावत्' । ततो वीरासनेनोपविश्य शरसन्धान कृत्वा विस्फारितनेत्राभ्यां सर्वेषु पश्यत्सु तेन तथा शरो मुक्तो यथा समकमेव सप्ताऽपि कटाहान् विद्ध्वा बहिनिर्गतः । एतद् दृष्ट्वा तं निर्बलं भीरुकं वा मन्यमानानां सर्वेषामपि मतं परावृतम् ।
एवंस्थिते कुमारपालं दयावत्त्वात् अहिंसापालकत्वात् व्यसनत्याजकत्वाच्च प्रायः सर्वे जना जैनाश्चाऽपि मन्यन्ते स्म सगौरवं यद् राजा जैनधर्मी जातोऽस्ति । किन्तु हेमचन्द्राचार्या ह्यत्र सर्वथा तटस्था आसन् । तेषां दृढं मतमासीद् यद् - यदि कश्चिदपि धर्मो राज्याश्रितो भवेत् तथा राजाऽपि तद्धर्मरक्तो भूत्वाऽन्यधर्माणामुपेक्षां कुर्यात् तदा यद्यपि प्रथमं स धर्मः सुतरां विस्तरेत् । परन्तु गच्छता कालेन सर्वनाशस्य पथ्येव तस्य गतिः । वस्तुतो धर्मस्याऽऽधारो जनताहृदयमस्ति न तु राजसिंहासनम् । एतत् तथ्यं यदि न स्वीक्रियेत तदा केवलं घर्षणमेवाऽवशिष्यते । राजभिराश्रयणीयो हि एक एव मूलधर्मः । स चाऽयं -
अहिंसालक्षणो धर्मो, मान्या देवी सरस्वती ।
ध्यानेन मुक्तिमाप्नोति, सर्वदर्शनसम्मतम् ।। यो राजेमं धर्मं सम्यक्तयाऽऽचरेत् तस्य न कस्याऽपि विरोधः सम्मुखीकर्तव्यो भवेत् कदाऽपि, प्रत्युत सर्वा एव प्रजास्तत्साह्यमेवाऽऽचरेत् ।
यथा हेमचन्द्राचार्याणां चिन्तनमासीत् तथैव तेषां वाण्यपि अद्भुताऽऽसीत् । ते यदा वदेयुस्तदा कोऽपि विरोधं कर्तं समर्थो नाऽऽसीत । तेषां कथने कदापि क्षद्रवस्तनां महत्त्वमेव न क्रियेत स्म ।
अथैकदा तेषां मुख्यशिष्यै रामचन्द्राचार्याभिधैस्तेभ्यः सूचितं – 'प्रभो ! महाराजः कुमारपालोऽधुना किञ्चिदिव जैनधर्मं प्रत्याकृष्टोऽस्ति । यद्येतस्याः परिस्थितेलाभं वयं गृह्णीयामस्तदा जैनानां तद्धर्मस्थानादीनां च प्रभूतानि कार्याण्युत्तमतया भविष्यन्ति' । एतन्निशम्य हेमचन्द्राचार्यैः कथितं - 'भोः ! मनुष्यस्य -